पुटमेतत् सुपुष्टितम्



२९
सुधाकरभाष्यसहितम् ।

किं लब्धमन्तरम् = (६ x अंदि)/१८३ = (२ अंदि)/६१ इदं द्वादशयुक्तं जातं दिवसमानम् । इत्युपपन्नम् । इदं सर्वं पञ्चसिद्धान्तिकाप्रकाशिकायां पैतामहसिद्धान्तप्रकरणेऽस्माभिः प्रदर्शितमेवेति ॥ ३४ ॥

इदानीं चन्द्रपर्वगणात् सूर्यपर्वगणसाधनमाह ।
द्व्यूनं द्विषष्टिभागेन ज्ञेयं सौरं सपार्वणम् ।
यत्कृतावुपजायेते मध्येऽन्ते चाधिमासकौ ॥ ३५ ॥

 सपार्वणं युगादेर्वर्त्तमानपर्वपर्यन्तं पर्वगणमानं तच्च द्विषष्टिभागेन व्द्यूनं कार्यमर्थात् तद्द्विगुणं द्विषष्ट्या भक्तं फलेन तदेवोनं कर्त्तव्यम् । एवं यच्छेषं तत् सौरं पर्वगणमानं स्यात् । इयं सा कृतिः प्रकारो यत्कृतौ च युगपर्वणां मध्ये त्रिंशत्सौरपर्वान्ते ह्येकस्तथाऽन्ते षष्टितमसौरपर्वान्ते चान्य इत्यधिमासौ द्वावुपजायेते उत्पद्येते इत्यर्थः ।

 अत्रोपपत्तिः । त्रयोदशश्लोकभाष्ये प्रदर्शितं यदेकस्मिन् युगे सूर्यपर्वाणि = १२० । चन्द्रपर्वाणि = १२४ । अधिपर्वाणि = ४ । अतो द्विषष्टिपर्वसु अधिपर्वद्वयम् । ततोऽनुपातो यदि ६२ चन्द्रपर्वभिरधिपर्वद्वयं तदेष्टचन्द्रपर्वभिः किमिति लब्धं सौरचान्द्रपर्वान्तररूपमधिपर्वमानम् = (२चंप)/६२ । इदं चन्द्रपर्वगणे विहीनं शेषं सूर्यपर्वगणमानं स्यात् । अत्रापि अधिशेषं त्याज्यम् । त्यागकारणं च तत्रैव त्रयोदशश्लोकभाष्येऽभिहितम् । चन्द्रपर्वगणात् सौरपर्वगणानयनार्थं वा सौरपर्वगणाच्चन्द्रपर्वगणानयनार्थं याऽधिपर्वसंख्या सोभयत्र समानैव तथाऽधिशेषं च यत् तदप्युभयत्र सममेव किन्तु एकत्र द्विषष्टिर्हरोऽन्यत्र षष्टिर्हर इति सर्वं भास्करेण निजे गोलाध्याये "सौरेभ्यः साधितास्ते चेदधिमासास्तदैन्दवाः" इत्यादौ स्फुटं प्रदर्शितमतो लेखप्रयासेन किम् ॥ अत्र बार्हस्पत्यादिव्याख्यानं मन्मते न समीचीनमिति ॥ ३६ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/46&oldid=204641" इत्यस्माद् प्रतिप्राप्तम्