पुटमेतत् सुपुष्टितम्



३०
याजुषज्यौतिषं

इदानीमृतुशेषानयनमाह ।
यदर्धं दिनभागानां सदा पर्वणि पर्वणि ।
ऋतुशेषं तु तद्विद्यात् संख्यया सह पर्वणाम् ॥ ३७ ॥

 पर्वणि पर्वणि सदा दिनभागानां चान्द्रदिनभागानामर्धं यच्छेषं तच्चान्द्रसौरपर्वान्तरं पर्वणां संख्यया पर्वगणेन सह यदागच्छेत् तदिष्टपर्वसमये रविचन्द्रपर्वान्तरसममृतुशेषं विद्याज्जानीयाद्गणक इति शेषः । पर्वगण एकपर्वभवेन रविचन्द्रपर्वान्तरेण दिनार्धतुल्येन गुण्यः फलमभिष्टसमये ऋतुशेषं भवतीत्यर्थः । यदि ऋतुशेषस्थाने “अधिशेष" -इति पाठो भवेत् तर्हि भवेदिहातिसमीचीनः । ऋतुशेषमिति नामकरणे फले विशेषाभावात् ऋतुशेषपाठोऽपि न काचिद्धानिरिति ।

 अत्रोपपत्तिः । त्रयोदशश्लोकेन रूपतुल्ये पर्वणि पर्वात्मकमधिशेषमानम् = । इदं पञ्चदशगुणं जातं चान्द्रदिनात्मकमधिशेषम् = = इदं पर्वगणगुणमभीष्टचान्द्रसौरपर्वान्तररूपमधिशेषं भवतीति । सौरपर्वान्ते ऋतुसमाप्तिः । चन्द्रपर्वतोऽग्रेऽधिशेषान्तरे रविपर्वसमाप्तिरतः पूर्वागतमधिशेषं चान्द्रदिनात्मकमृतुशेषं भवितुं योग्यमिति । अत्र बार्हस्पत्यव्याख्यानं प्रायः समीचीनमेव ॥ ३७ ॥

इदानीं यज्ञेऽर्चनाय नक्षत्रदेवता आह ।
अग्नि: प्रजापतिः सोमो रुद्रोऽदितिबृहस्पती ।
सर्पाश्च पितरश्चैव भगश्चैवार्यमाऽपि च ॥ ३८ ॥
सविता त्वष्टाऽथ वायुश्चेन्द्राग्नी मित्र एव च ।
इन्द्रो निर्ऋतिरापो वै विश्वेदेवास्तथैव च ॥ ३९ ॥
विष्णुर्वसवो वरुणोऽज एकपात् तथैव च ।
अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥ ४० ॥
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/47&oldid=204642" इत्यस्माद् प्रतिप्राप्तम्