पुटमेतत् सुपुष्टितम्



३१
सुधाकरभाष्यसहितम् ।

नक्षत्रदेवता ह्येता एताभिर्यज्ञकर्मणि ।
यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥ ४१ ॥

 कृत्तिकादेरेता नक्षत्रदेवताः संहिताग्रन्थेषु सर्वत्र प्रसिद्धाः । अत्र पूर्वभद्रपदाया अजो वैकपादिति देवताद्वयं वा एकदेवताया नामद्वयम् । एताभिर्देवताभिः शास्त्रज्ञैर्दैवविद्भिर्यज्ञकर्मणि यजमानस्य नक्षत्रजं नाम स्मृतं कथितम् । यस्मिन् नक्षत्रे यजमानस्य जन्म तद्देवताबोधकं यजमानस्य यन्नाम तन्नक्षत्रजं नामेति । संप्रति दैवज्ञैर्नक्षत्राणां चत्वारः पादाः क्रियन्ते । यस्मिन् पादे जातस्य जन्म भवति तत्पादबोधकाक्षरादिकं नाम जन्मनाम च कथ्यते ॥ ३८-४१ ॥

इदानीं शुभकर्मणि वर्ज्यानि उग्राणि क्रूराणि च नक्षत्राण्याह ।
उग्राण्यार्द्रा च चित्रा च विशाखा श्रवणोऽश्वयुक् ।
क्रूराणि तु मघा स्वाती ज्येष्ठा मूलं यमस्य यत् ॥४२॥

 आर्द्रा । चित्रा । विशाखा । श्रवणः । अश्वयुक् अश्विनी । एतानि षट् नक्षत्राणि उग्राणि सन्ति । मघा । स्वाती । ज्येष्ठा । मूलम् । यमस्य नक्षत्रं भरणी । एतानि कूराणि नक्षत्राणि सन्ति ।

 मुहूर्त्तचिन्तामणौ रामेण च “पूर्वात्रयं याम्यमघे उग्रं क्रूरं कुजस्तथा"-इत्यनेन उग्रमेव क्रूरं कथ्यते । तथैतद्गणे ज्योतिषवेदाङ्गोक्तेभ्यो बहूनि भिन्नानि पठितानीति ॥ ४२ ॥

इदानीं वेधोपायमाह ।

इत्युपायसमुद्देशो भूयोऽप्येवं प्रकल्पयेत् ।
ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना ॥ ४३ ॥

 इत्येव पूर्वोदितविधिना उपायसमुद्देशो वेधोपायोपदेश एव बोध्यः । वेधेन ज्ञातराशौ गतं प्राप्तं कमपि पदार्थं विज्ञाय ततो ज्ञेयराशौ तत्पदार्थानयनार्थं गणको ज्ञानराशिसम्बन्धिगतेन पदार्थेनाभ्यस्तं गुणितं ज्ञेयराशिं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/48&oldid=204644" इत्यस्माद् प्रतिप्राप्तम्