ज्ञानराशिना विभजेत् फलं ज्ञेयराशिसम्बधि तत्पदार्थमानं भवति । एवं ज्ञानराशिना भूयः पुनः पुनः सर्वान् सावनदिवसादीन् प्रकल्पयेदिति ।
अत्रोपपत्तिः । ज्ञेयराशिरिच्छाराशिस्ततस्त्रैराशिकेन वासना स्फुटा ॥ ४३ ॥
इदानीमुपसंहरति ।
- इत्येतन्मासवर्षाणां मुहूर्त्तोदयपर्वणाम् ।
- दिनर्त्त्वयनमासानां व्याख्यानं लगधोऽब्रवीत् ॥ ४४ ॥
इति एवमेतत् पूर्वोक्तं मासवर्षाणां मुहूर्त्तानामुदयपर्वणां चन्द्रादीनामुदयानां सावनदिनानां पर्वणां दिन-ऋतु-अयनानां मासानां चान्द्रार्क्षाणां च व्याख्यानं लगधोऽब्रवीत् । तदेवाहं चोक्तवानिति ज्यौतिषवेदाङ्गरचयितुरुक्तिरिति ॥ ४४ ॥
इदानीं ज्यौतिषवेदाङ्गविदं स्तौति ।
- सोमसूर्यस्तृचरितं विद्वान् वेद विदश्नुते ।
- सोमसूर्यस्तृचरितं लोकं लोके च सन्ततिम् ॥ ४५ ॥
सोमसूर्यस्तृचरितं चन्द्रसूर्यनक्षत्रचरितं यो विद्वान् वेद जानाति स विद् विद्वान् सोमसूर्यस्तृचरितं चन्द्रसूर्यनक्षत्रैश्चरितं प्रचरितं प्रसिद्धं लोकं सूर्यलोकं चन्द्रलोकं नक्षत्रलोकं चाश्नुते तत्र गत्वा तत्सुखं भुङ्क्ते लोके इह संसारे च सन्ततिमश्नुते पुत्त्रपौत्त्रादिकं च लभते-इति ॥ ४५ ॥
- श्रीरामं जनकामनाकरमरं सीतासमेतं वरं
- श्रीमल्लक्ष्मणलाललालितपदं कन्दर्पमायाहरम् ।
- नत्वा कोशलपालमेव विमलं दृग्ज्यौतिषस्य श्रुते-
- र्बार्हस्पत्यमतं विचिन्त्य सकलं भाष्यं मयैतत् कृतम् ॥ १ ॥
इति सुधाकरभाष्यसहितं याजुषज्यौतिषं समाप्तम् ।