पुटमेतत् सुपुष्टितम्

श्रीजानकीवल्लभो विजयते ।

अथ

सुधाकरभाष्यसाहितम्-


आर्चज्यौतिषम्।


श्रीरामं सीतया सार्धं रत्नसिंहासनस्थितम् ।
नत्वा कुरु मनः कार्यं सफलं सकलं किल ॥


निर्विघ्नार्थमादौ मङ्गलमाचरति ।

पञ्चसंवत्सरमय-युगाध्यक्षं प्रजापतिम् ।
दिनर्त्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ १ ॥
अस्य भाष्यं याजुषज्यौतिषप्रथमश्लोकवदिति स्फुटम् ॥ १ ॥
प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् ।
कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥ २ ॥

 शिरसा कालं कालपुरुषं रविं प्रणम्य सरस्वतीमभिवाद्य अभिवन्द्य लगधस्य महात्मनो महर्षेः कालज्ञानमहं शुचिः प्रवक्ष्यामि वच्मीति । लगधः कश्चित् प्राचीनो महर्षिस्तेन पञ्चवर्षात्मके युगे यथा कालानां रविचन्द्रसावनदिनादीनां ज्ञानं कृतं तथा तदानयनमहं शुचिर्वच्मीत्यर्थः ॥ २ ॥

इदानीं किं ब्रवीमीत्याह ।

ज्योतिषामयनं कृत्स्नं प्रवक्ष्याम्यनुपूर्वशः ।
विप्राणां सम्मतं लोके यज्ञकालार्थसिद्धये ॥ ३ ॥

 ज्योतिषां सूर्यचन्द्रनक्षत्राणामयनं चलनं कृत्स्नं सकलं विप्राणां ज्योतिर्विदां सम्मतं स्वीकृतमनुपूर्वशो यथाक्रमं लोके संसारे यज्ञकालार्थसिद्धये वक्ष्यामीति स्फुटम् । याजुषात् किञ्चित् पाठभेदः ॥ ३ ॥

इदानीं पर्वगणानयनमाह ।

निरेकं द्वादशाभ्यस्तं द्विगुणं गतसंयुतम् ।
षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥ ४ ॥
याजुषत्रयोदशश्लोकोऽयमतस्तदेव भाष्यादिकं स्फुटम् ॥ ४ ॥
 
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/50&oldid=204662" इत्यस्माद् प्रतिप्राप्तम्