पुटमेतत् सुपुष्टितम्
३५
सुधाकरभाष्यसहितम् ।
ऊनस्थाने द्विसप्ततिमावहेदिनसंयुताम् ॥ ११ ॥
- याजुषैकोनविंशतिश्लोकभाष्यादिना सर्वं स्फुटम् ॥ ११ ॥
इदानीं नक्षत्रसम्बन्धिभूदिनान्याह ।
- त्र्यंशो भशेषो दिवसस्य भाग-
- श्चतुर्दशस्याप्यपनीय भिन्नम् ।
- भार्धेऽधिके वाऽल्पगते परोऽंशो
- द्यावुक्तमेतन्नवकैर्भवेद्यः ॥ १२ ॥
- त्र्यंशो भशेषो दिवसस्य भाग-
याजुषसप्तविंशतिश्लोकभाष्यादिना सर्वं स्फुटम् ॥ १२ ॥
इदानीं तिथिनक्षत्रे संस्कारविशेषमाह ।
- पक्षात् पञ्चदशाच्चोर्ध्वं तद्भुक्तमिति निर्दिशेत् ।
- नवभिस्तूद्गतोऽंशः स्याद्युक्तांशो द्व्यद्रिकेन तु ॥ १३ ॥
पक्षात् पञ्चदशात् पञ्चदशतिथ्यात्मकादूर्ध्वं शुक्लपक्षावसान इत्यर्थः । पूर्वप्रकारेण योऽंशस्तिथिभांशः समागतः स नवभिरंशैरुद्गतो वर्धनीयस्तदा युक्तांशो वास्तवभांशः स्यात् तद्भांशमानं च भुक्तमिति निर्दिशेत् कथयेद्गणक इति शेषः । यदि नक्षत्रवशेन सावनदिनमपेक्षितं तदा तु द्यद्रिकेन द्युना एकेन कुदिनेन तथाऽद्रिकेन सप्तकलामितेन प्रतिनक्षत्रसम्बन्धि कुदिनं ज्ञेयमिति ।
अत्रोपपत्तिः । ससप्तैकमिति याजुषत्रयस्त्रिंशश्लोकोपपत्त्या तथा “नवकैरुद्गतोऽंशः स्याद्युक्तः सप्तगुणो भवेत्” -इति याजुषद्वाविंशश्लोकभाष्यादिना स्फुटेति ॥ १३ ॥
- इदानीं भांशज्ञानतश्चन्द्रपर्वणि नक्षत्राण्याह ।
- जौ द्रा गः खे श्वे ही रो षा-
- श्चिन्मू ष ण्यः सू मा धा णः ।
- रो मृ (म्रे) घाः स्वाऽऽपो जः कृ ष्यो
- ह ज्ये ष्ठा इत्यृक्षा लिङ्गैः ॥ १४ ॥
- याजुषषोडशश्लोकभाष्यादिना सर्वं स्फुटम् ॥ १४ ॥
- इदानीं पूर्वोदितनक्षत्रानयनं पर्वणि विशेषं चाह ।
- जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्व तूत्तरे ।