- भादानं स्याच्चतुर्दश्यां द्विभागेभ्योऽधिके यदि ॥ १५ ॥
- याजुषसप्तदशश्लोकभाष्यादिना स्फुटम् ॥ १५ ॥
- इदानीं नाडिकादिपरिभाषा आह ।
- कला दश च विंशा स्याद् द्वे मुहूर्त्तस्य नाडिके ।
- तत्त्रिंशद् द्यु कलानां तु षट्शती त्र्यधिका भवेत् ॥ १६ ॥
दश कला विंशा च एककलाविंशतिभागाधिका इत्यर्थः । शेषं याजुषद्वात्रिंशश्लोकभाष्येण स्फुटम् ॥ १६ ॥
- पुनः परिभाषान्तरमाह ।
- नाडिके द्वे मुहूर्त्तस्तु पञ्चाशत्पलमाढकम् ।
- आढकात् कुम्भिका द्रोणः कुडवैर्वर्धते त्रिभिः ॥ १७ ॥
द्वे नाडिके एको मुहूर्त्तो भवति । आढकं तु पञ्चाशत्पलं भवति । आढकात् प्रसिद्धप्राचीनपरिभाषया कुम्भिका घटिका ज्ञेया । द्रोणश्च कुम्भिकातस्त्रिभिः कुडवैर्वर्धतेऽर्थात् कुम्भिकाप्रमाणत् त्रिभिः कुडवैरधिकं द्रोणप्रमाणं भवति । अतो द्रोणस्त्रिभिः कुडवैर्हीनो घटिका वा नाडिका भवतीति याजुषचतुर्विंशतिश्लोकभाष्येण सर्वं स्फुटम् ॥ १७ ॥
- इदानीं चन्द्रसूर्यैकनक्षत्रे भूदिनान्याह ।
- ससप्तैकं भयुक् सोमः सूर्यो द्यूनि त्रयोदश ।
- नवमानि च पञ्चाह्नः काष्ठा पञ्चाक्षरा स्मृता ॥ १८ ॥
- याजुषत्रयस्त्रिंशश्लोकभाष्यादिना स्फुटम् ॥ १८ ॥
- इदानीं लग्नानयनं चन्द्रर्त्तुसाधनं चाह ।
श्रविष्ठाभ्यो गणाभ्यस्तान् प्राग्विलग्नान् विनिर्दिशेत् ।
स्वार्क्षान्मासान् षडभ्यस्तान् विद्याच्चान्द्रमसानृतून् ॥ १९ ॥
गणो भगणः सप्तविंशतिस्तेन श्रविष्ठोदयतो ये इष्टकालभागास्ते गुणनीयास्तान् भांशान् श्रविष्ठाभ्यो धनिष्ठाभ्यो गणयित्वा प्राक् प्राग्दिशि विलग्नान् विनिर्दिशेत् कथयेद्गणक इति शेषः । स्वार्क्षान् षडभ्यस्तान् षड्गुणितान् नाक्षत्रान् मासानेव चान्द्रमसान् चन्द्रसम्बन्धिनो गणक ऋतून् विद्याज्जानीयादिति ।