पुटमेतत् सुपुष्टितम्



३८
आर्चज्यौतिषं

इदानीमृतुशेषमधिशेषं चाह ।

यदर्धं दिनभागानां सदा पर्वणि पर्वणि ।
ऋतुशेषं तु तद्विद्यात् संख्यया सह पर्वणाम् ॥ २३ ॥
याजुषसप्तत्रिंशश्लोकभाष्यादिना सर्वं स्फुटम् ॥ २३ ।

इदानीं वेधोपायमाह ।

इत्युपायसमुद्देशो भूयोऽप्येवं प्रकल्पयेत् ।
ज्ञेयराशिं गताभ्यस्तं विभजेञ्ज्ञानराशिना ॥ २४ ॥
याजुषत्रिचत्वारिंशश्लोकभाष्यादिना सर्वं स्फुटम् ॥ २४ ॥

इदानीं नक्षत्रदेवता आह ।

अग्निः प्रजापतिः सोमो रुद्रोऽदितिबृहस्पती ।
सर्पाश्च पितरश्चैव भगश्चैवार्यमाऽपि च ॥ २५ ॥
सविता त्वष्टाऽथ वायुश्चेन्द्राग्नी मित्र एव च ।
इन्द्रो निर्ऋतिरापो वै विश्वेदेवास्तथैव च ॥ २६ ॥
विष्णुर्वसवो वरुणोऽज एकपात् तथैव च ।
अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥ २७ ॥
नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि ।
यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥ २८ ॥
याजुषस्य ३८-४१ श्लोकभाष्येण सर्वं स्फुटम् ॥ २५-२८ ॥

इदानीमुपसंहारमाह ।

इत्येतन्मासवर्षाणां मुहूर्त्तोदयपर्वणाम् ।
दिनर्त्त्वयनमासानां व्याख्यानं लगधोऽब्रवीत् ॥ २९ ॥
याजुषचतुश्चत्वारिंशश्लोकभाष्येण स्फुटम् ॥ २९ ॥

इदानीं फलस्तुतिमाह ।

सोमसूर्यस्तृचरितं लोकं लोके च सन्ततिम् ।
सोमसूर्यस्तृचरितं विद्वान् वेद विदश्नुते ॥ ३० ॥

 याजुषपञ्चचत्वारिंशश्लोकभाष्येणे स्फुटम् । अत्र पूर्वोत्तरार्धयोर्वैपरीत्यं लेखकदोषत इति स्पष्टम् ॥ ३० ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/55&oldid=204691" इत्यस्माद् प्रतिप्राप्तम्