पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०७
चतुर्यः सर्ग: ॥


तमिमं कुरु दक्षिणेतरं
चरणं निर्मितरागमेहि मे॥ १९ ॥
अहमेत्य पतङ्गवत्मना
पुनरङ्काश्रयणी भवामि ते।
चतुरैः सुरकामिनौजनै:
प्रिय यावन्न विलोभ्यसे दिवि ॥ २० ॥
मदनेन विनाकृता रतिः
क्षणमात्र’ किल जीवितेति मे।
वचनीयमिदं व्यवस्थितं
रमण त्वामनुयामि यद्यपि ॥ २१ ॥

 विबुधैरिति । दारुणैः तैः । प्राणान्तिके कर्मणि नियोगादिति भावः । विबुधैर्देवैः। अनभिज्ञत्व' च ध्वन्यते । यस्य मच्चरणस्य परिकर्मणि प्रसाधने॥ “परिकर्म प्रसाधनम्’ इत्यप्रर: ॥ असमाप्त सति स्मृतोऽसि तम् इमं दक्षिणतरं वामं में चरणं निर्मितरागं कुविंगच्छ ॥ १९ ॥

 अश्वमिति । अहं पतङ्गवर्मना शलभमार्गेण । अग्निप्रवेयेनेत्यर्थः । `पतङ्गः शलमे चाग्नौ मार्जारकं शरे खगे’ इति वैजयन्त । एत्यागत्य पुनस्तेऽश्रयणे उसङ्गवर्तिनी भवामि संप्रत्येव भविष्यामि । `वर्तमानसामीप्ये वर्तमानवद्वा" इति खट । हे प्रिय। दिवि स्त्रणं चतुरैः सुरकामिनजनै: अप्सरोगवैद्युवन विलोभ्यसे विलोभयिष्यसे ॥ 'ययत् पुरानिपातयोडेंट' इति लट् ॥ २० ॥

 मदनेनति । हे रमण । त्वामनुयामि यद्यप्यनुगमियाम्येव । `वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । “यद्यपैत्यवधारणे' इति केशवः। किन्तु रतिर्मदनेन विनाजता।