पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०५
सप्तमः सर्गः ।

आत्मानमालोक्य च शोभमान
मादर्शविम्बे स्तिमितायता।
हरोपयाने त्वरिता बभूव
स्वौणां प्रियालोकफलो हि वेषः ॥ २२॥
(१)[१]अथाङ्गुलियां हरितालमात्रै
(२)[२]माङ्गल्यमादाय मनःशिलां च ।
कणवसतमलदन्तपत्रं
माता तदाय मुखमुन्नमय्य ॥ २३ ॥
उमास्तनोद्भद्मनु प्रहृङ्गो
मनोरथो यः प्रथमं बभूव।

 आत्मानमिति ॥ किष्ठेति चाथः । गौरी शोभमानमात्मानं निजशरीरमादर्शविल्बे दऍणमण्डले ॥ “दर्पणे मुकुशदशं” इत्यमरः । स्तिमितायताच्यादरान्निश्चलायतलोचना सत्या लोक्य हरोपयाने हरप्राप्तौ त्वरिता व्यग्रा बभूव। स्त्रीणां वेषो नेपथ्य प्रियस्य भर्तुरालोको दर्शनं फलं प्रयोजनं यस्य म तथोक्तो हि । अन्यथारण्यचन्द्रिका स्यादिति भावः अनेन कालाक्षमत्वलक्षणमौत्सुक्यमुक्तमित्यनुसन्धेयम् ॥ २२ ॥

 अथेति । अथ प्रसाधनानन्तरं माता मेनका माङ्गस्य मङ्गलार्थमार्धे द्रवं इतािलं वर्णद्रव्यविशेषं मनःशिलां धातुवि शेषं चाङ्गुलिभ्यां तर्जनीमध्यमाभ्यामादाय कर्णयोरवसते लग्ने (मले दन्तपत्र यस्य तत्तथोक्तं तस्याः पार्वत्या इदं तदीयं मुखमुन्नमय । ‘विवाहदीक्षातिलकं चका' (७। २४ ) fत्युत्तरश्लोकेनान्वयः ॥ २२ ॥

 उमेति । डमाय: स्तनब्बेदमनु । स्तनोदयमारभ्येत्यर्थः ।


  1. अथाङ्लम्याम् ।
  2. मद्भयम्।