पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
कुमारसंभवे


(३)[१]पार्णिमुक्तवसुधास्तपस्विनः
(४)[२]पावनाबुरचिताञ्जलिक्रियाः ।
ब्रह्म (५)[३]गूढ़मभिसन्ध्यमादृताः
(६)[४]शड्ये विधिविदो गृणन्यमौ ॥ ४७ ॥
तन्मुहूर्तमनुमन्तुमर्हसि।
प्रस्तुताय नियमाय मामपि।
त्वां विनोदविपुणः सखीजनः
वल्गुवादिनि विनोदयिष्यति ॥ ४८॥

शब्देन समूहो लक्ष्यतेऽन्यथा पौनरुक्तयात् । पल्लवप्रसवि ! पक्षवमत्सु द्रुमेषु च तथा धातुशिखरेषु च भूभृता अस्ताद्रिण आसना खयमव संविभक्तमिव स्थितं सन्ध्यायां भवं सन्ध्या आतपं यस्य तथा पश्य। आरुण्यभरुणद्रव्य षु भूयिष्ठमुपल भ्यते इति भावः ॥ ४६ ॥

 पाणीति ॥ पार्थेयः गुल्फाधोभागाः तैः सुक्तवसुधा त्यभूतलाः। पादाग्रस्थिता इत्यर्थः । `गोशृङ्गमात्रमुद्युत सुप्तपाणिः क्षिपेज्जलम्” इति स्मरणात् ॥ पावनैः अम्बुभि रचिताञ्जलिक्रियाः। विहिता।” प्रदीपा इत्यर्थः । विधिविदः। शास्त्रज्ञ इत्यर्थः अमी तपस्विनः आदृता: आदरवन्तः । अदधाना इत्यर्थः । कर्तरि क्रः । अभिसन्ध्यं सध्यामभि। “लक्षणेनाभिग्रत आभिमुख्य ” इत्यव्ययीभावः॥ शुङ्ववे शङ्कर्ये ब्रश गायत्रीं गूढम् उपांश गुणति जपन्ति। ‘प्रत्यय तारकोदयात्” इति स्मरशत् ॥ ४७ ॥

 तदिति । तत्तस्मात्कारणात् मामपि प्रस्तुताय नियम


  1. अद्भिराजतनये तपद्मिनः।
  2. मावलम्बुविहिताञ्जलिक्रियाः ।
  3. गूढमभिसाध्यम्।
  4. सिद्धये।