पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५१
द्वादशः सर्गः ।


बहो । अहो देवगणाः (६)[१]सुरेन्द्र
मुख्याः शृणुध्वं वचनं (७)[२]ममैते।
विचेष्टते शङ्कर (८)[३]एष देवः
कार्याय सजो (९)[४]भवतां सुतावैः ॥५४॥
पुरा मयाकारि (१)[५]गिरीन्द्रपुच्छः
प्रतिग्रहोऽयं नियतात्मनापि ।

त्रिदशेषु देवेषु छता विहिता अनुकम्या दया येन तथोक्तः सन् भूवGTण पुनराग बभाप उवाच ॥ ५३ ॥

 अहो इति । अहो अहे हे हैं सुरेन्द्रमुख्याः इन्द्रप्रभृत्य देवगण: । अहो इति सम्बोधनश्चकाव्ययपदस्य संभ्रम द्विरुक्तिः । एते संमुखस्था इत्यर्थः। यूयमिति कर्तृपदमूवम् । मम सम्बन्धि वचनं वक्ष्यमाणवाक्यं श्रुणुध्वम् आकणेयत । किं तदित्याह-एषः अयम् । अनेन विशेषणपदेनात्मनिर्देशः । शङ्करः देवः। कर्ता। सुताः पुशः प्राद्याः प्रमुखाः येषां तैः : पुत्रपौत्रः सर्वमित्यर्थः । भवतां युष्माकं सम्बन्धिने कार्याय । कार्य सधयिनमत्यर्थः । क्रियायोगे चतुर्थी सङ्गः अस्त्रादिमृतः सन् प्रवर्तते। भवत्कार्यसाधनमेव मम मुख्यविचेष्टते कार्यमिति भावः ॥ ५४ ॥

 पुरेति । पुरा पूर्व नियतात्ममा जितेन्द्रियेणापि । योगिनां दारपरिग्रहस्य निषिदत्वे सत्यपीत्यर्थः । मया । गिरीन्द्रस्य हिमालयस्य पुत्राः पार्वत्य: एष प्रतिग्रहः


  1. सुरद्वसुखा: ।
  2. ममैतत्।
  3. एव।
  4. सकलं शभयसकलैः शुभावैः।
  5. गिरौशपुत्रश्रः ।