पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३६
कुमारस्भवे


ततो (१)[१]महेन्द्र चराश्चमूचरा
रणान्तलौलारभसेन भूयसा ।
पुरः प्रचेलुर्मनसोऽतिवेगिनो
युयुत्सुभि: किं समरे विलम्बते ॥ ४७ ॥
(२)[२]पुरःस्थितं देवरिपोश्चमूचरा
(३)[३] बलद्विषः सैन्यसमुद्(४)[४]मध्ययुः।
भुजं समुक्षिप्य (५)[५]परेभ्य आत्मनो
ऽभिधानमुच्चैरभितो न्यवेदयन् ॥ ४८॥

 तप्त इति । ततअगन्तरं महेन्द्रस्य देवेन्द्रस्य सम्बन्धिनीषु चमूषु सेनासु चरन्ति वर्तन्ते ये तथोक्ता: । तथा मनसः चित्तादपि अतिवेगः अतिजवोऽस्ति येषां तथाभूताः। शत्रकर्तारः 'अपसर्पश्च गामिन इत्यर्थः। चराः अपसर्पाः । कर्तारः । "अपसर्ग्रक्ष्चरः अश्वः” इत्यमरः । भूथचा अधिकेन, रणस्य संग्रामत्र अन्तेषु सीमासु या लीला विलासतस्य रभसेन इषेप हेतुना ।‘रभवो वेगहर्षय: इत्यमरः । पुरः संमुखतः प्रचेलु बगः। तथाहि समरे संग्रामे युयुत्सुभिः योऽमिच्छति वीरिति शेषः । कर्तभिः । किं कथं विलम्बतेन विलम्बः क्रियते इत्यर्थः । अत्र सामान्येन विशेषसमर्थनरुपोऽर्थान यालङ्करः ॥ ४७ ॥

 पुर इति । देवानां सुराणां सम्बन्धिनः रिपोः शव सरकासुरस्य सम्बन्धिनः चमूषु सेनासु चरन्ति ये तथोनी सैनिकपुरुषा इत्यर्थः। कर्तार। पुरः अग्रे स्थितं संमुखमा मित्यर्थः। बलस्य बलासुरस्य कर्मभूतस्य विधः हन्तुः इन्द्र इति सबन्धिनं सैन्यं बलमेव समुद्रम् । कर्मभूतम् । अभ्ययुः क्ष्चमिः


  1. असुरेन्द्रानुचरा, सुरेन्द्रस्य वराः।
  2. पुरःसराः।
  3. सुरद्विषः ।
  4. अभ्ययुः।
  5. सहेलमात्मनः ।