पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/9

एतत् पृष्ठम् परिष्कृतम् अस्ति
कुमारसम्भवे

कपोल(६)[१]कण्डूः करिभिर्विनेतुं
विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्नुतक्षीरतया (७)[२]प्रसूतः
सानुनि (८)[३]गन्धः सुरभीकरोति ॥ ९ ॥
वनेचराणां वनितासखानां
दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्या-
मतैलपूराः सुरतप्रदीपाः ॥ १० ॥

     कपोलेति ।। यत्र हिमाद्रौ करिभिर्गजैः । कपोलकण्डूर्गण्डस्थलकण्डूर्विनेतुमपनेतुं विघट्टितानां घर्षितानां सरलद्रुमाणां संबन्धिस्नुतानि करिकपोलघर्षणात्क्षरितानि क्षीराणि येषां तेषां भावस्तत्ता तया हेतुना प्रसूत उत्पन्नो गन्धः सानूनि सुरभीकरोति । एतेनास्य गजाकरत्वं गम्यते, तथा च गजायुर्वेदे - हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः । इति ॥ ९ ॥
     वनेचराणामिति ।। यत्र हिमाद्रौ रजन्यां दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषक्ताः संक्रान्ता भासो यासां ता ओषधयस्तृणज्योतींषि । `अग्नावोषधीषु च तेजो निधाय रविरस्तं याति' इत्यागमः । वनितानां सखायो वनितासखाः । `राजाहःसखिभ्यष्टच्' । तेषाम् । रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः । `चरेष्टः' इति टप्रत्ययः । `तत्पुरुषे कृति बहुलम्' इत्यलुक् । तेषां वनेचराणाम् । अतैलपूरः । अनपेक्षिततैलसेका


  1. कण्डुम् ।
  2. समीर: ।
  3. गन्धै: ।