एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
प्रथमोऽङ्कः ।


 चणक्यः —अन्य[१]च्च नन्दमिव विष्णुगुप्त-(इत्यर्धोक्ते लज्जां नाटयित्वा[२]।) चन्द्रगुप्तममात्यराक्षसः समुच्छेत्स्यतीति मामैवं मंस्थाः। पश्य ।

 विक्रान्तैर्नयशालिभिः सुसचिवैः श्रीर्व[३]क्रनासादिभि -
  र्नन्दे जीवति या तदा[४] न गमिता स्थैर्यं चलन्ती मुहुः।
 तामेकत्वमुपागतां द्युतिमिव प्रह्लादयन्तीं जगत्
  कश्चन्द्रादिव चन्द्रगुप्तनृपतेः कर्तुं व्यवस्येत्पृथक् ॥ २३ ॥

 अपि च । (‘आ[५]स्वादितद्विरदशोणितशोणशोभाम्-' इति पूर्वोंक्तं पठति ।)

चन्दनदासः–(स्वगत[६] ।)फलेण संवादिदं से विकत्थिदम्।(क)

(नेप[७]थ्ये कलकलः ।)


 ( क ) फलेन संवादितमस्य विकस्थितम् ।


 नन्द इति जातावेकवचनम् । नवसु नन्देषु जीवत्सु व्यासज्यस्थितापि या मया चलिता सती स्थैर्यं न गमिता तां चन्द्रगुप्ते एकत्वमुपागत्य दृढ- तया स्थितामविद्यमानेषु नन्देषु कश्चालयेदिति भावः ॥ २३ ॥

 आस्वादितेति । एतत्स्वाम्यनुरागप्रकाशविशिष्टवचनं पुष्पम् ।


  1. E.om.च; G.om. विष्णु;K.P. and N.om. गुप्त and P.N.have रि for the इ following; G.has मि for that इ;E.om. इति; for °क्ते B. has °क्तौ; E.°क्तेन
  2. °यति N.A. After that E.has ननु; छेत्स्य° A.P; B.E. G.om, the first मा; P.has एव for एवम् and G, adds अव after it,
  3. श्रीव° G.A.P.
  4. तथा G.
  5. B.has आस्वादितेत्यादि प्रागुक्तं पठति; G.E. and H. quote the whole stanza here omitting इति पूर्वोक्तं पठति.
  6. Om in A;E has आत्मगतम्म् ; G.E. read next word as फ़लेन. For संवदिदं B.E.R.M. have संपादिदं G. पादिअं before से B.N.G. have सोहदि;E, has शोहदि. For से B. and N. have दे; G ते E.किण; for विकत्थिदम् A. has "त्यनम् , K. थिदम्, K. थिदम्.
  7. G.E.N. have ततो before this; G.E.N.B. and H. have उत्सारणा क्रियते instead of कलकलः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१००&oldid=320964" इत्यस्माद् प्रतिप्राप्तम्