एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
मुद्राराक्षसे


 (आकाशमवलोकयन् सास्रम् ।) [१]भगवति कमलालये, भृशमगुणज्ञासि । कुतः ।

आनन्दहेतुमपि देवमपास्य [२]नन्दं
 [३]क्तासि किं कथय वैरिणि मौर्यपुत्रे ।
दानाम्बुराजिरिव गन्धगजस्य नाशे
 तत्रैव किं न चपले प्रलयं गतासि ॥ ६ ॥

 अपि च अ[४]नभिजाते,

पृथिव्यां किं दग्धाः प्रथितकुलजा भूमिपतयः
 पतिं पा[५]पे मौर्य यदसि कुलहीनं वृतवती ।
प्रकृत्या[६] वा काशप्रभवकुसुमप्रान्तचपला
 पुरर्न्धीणां प्रज्ञा पुरुषगुणविज्ञानविमुखी ॥ ७ ॥

 अपि च अविनीते, तदह[७]माश्रयोन्मूलनेनैव त्वामकामां क[८]रोमि । (विचिन्त्य ।) मया तावत्सुहृत्तमस्य चन्दनदासस्य गृ[९]हे गृहजनं


 आनन्दहेतुमिति । स्पष्टम् ॥ ६ ॥

 दुःखावेशेन अनभिजाते इत्यादिगालनम् । अभिजाताः कुलीनाः ।

 पृथिव्यामिति । पुरन्ध्रीणामित्यर्थान्तरन्यासोऽलंकारः ———‘उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः' इति । भगवति कमलालय इत्यादि राक्षसस्य वितर्कप्रतिपादनं वाक्यं रूपं नामाङ्गम् ॥ ७ ॥

 विचिन्त्येति। आश्रयोन्मूलनहेतुमुपायं विचिन्त्य तमेव प्रपञ्चयति--- मया तावदित्यादिना ।


  1. R. adds हा before this.
  2. नन्दमपास्य देवं R.
  3. रक्ता B. N. G. H.; दुःकुल for वैरिणि E; धिक्कृत H.; दत्तक the MS. M. in H.
  4. हे before this G.
  5. पापं E.; कृत° for वृत° B. E.
  6. प्रकृत्यैवाका°. R. M.
  7. G. adds अयम् after अहम्.
  8. °मीति G.
  9. om. G. which also has निःक्षि° in the next word but one; निःक्षमता for निर्गच्छता E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/११५&oldid=321139" इत्यस्माद् प्रतिप्राप्तम्