एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
द्वितीयोऽङ्कः ।


निक्षिप्य नगरान्निर्गच्छता न्याय्यमनुष्ठितम् । कुत[१]: । कुसुमपुराभियोगं प्रति अनुदासीनो राक्षस इति तत्रस्थानामस्माभिः सहैककार्याणां देवपादोपजीविनां नोद्यमः शिथिलीभविष्य[२]ति । चन्द्रगुप्तशरीरमभिद्रोग्धुमस्सत्प्रयुक्तानां तीक्ष्णरसदायिनाम्रुपसंग्रहार्थं परकृत्योपजापार्थं[३] च महता को[४]शसंचयेन स्थापितः शकटदासः । प्रतिक्षणमरातिवृत्ता[५]न्तोपलब्धये तत्संहतिभेदनाय च व्यापारिताः सुहृदो जीवसिद्धिप्रभृतयः । तत्किम[६]त्र बहुना ।

इष्टात्मजः सपदि सान्वय एव[७] देवः
 शार्दूलपोतमिव यं परिपोष्य[८] नष्टः।
तस्यैव बुद्धिविशिखेन भिनद्मि मर्म
 [९]वर्मीभवेद्यदि न दैवमदृश्यमानम् ॥ ८ ॥


 चन्द्रगुप्तेत्यादि । तत्संहतयो भद्रभटादय: जीवसिद्धिना भेदिता इत्यस्य भ्रमः। इदं प्रकृतोत्कर्षाभिधानमुदाहरणं राक्षसेन प्रकृतकार्यस्योत्कर्षाभिधानात् ।

 इष्टात्मज इति । इष्टा आत्मजा यस्येति हेतुगर्भविशेषणम् । निकृष्टक्षेत्रजातमपि यं मौर्यं इष्टात्मजत्वात्प्रियापत्यत्वादुत्तमक्षेत्रजापत्यवत् परिपोष्य नष्टः । स्वपोषकघातकत्वेन शार्दूलपोतदृष्टान्तः । तस्यैव मौर्यस्य सर्म बुद्धिविशिखेन भिनद्मि भेत्स्यामि यदि दैवं न वर्मीभवेत् । वर्मरूपकं रक्षकं न भवेद्यदि तदा भिनद्मीत्यन्वयः। अदृश्येति । दैवं दृश्यं चेत्तदपि प्रतिकर्त्तुं शक्नुयामिति भावः । अत्र मया तावदित्यारभ्यादृश्यरूपमित्यन्तेन राक्षसस्योपायापायशङ्के ॥ ८ ॥


  1. किं कारणमिति instead of this in B. E. N. G; G. has नु after प्रति. A. has उदा° for अनुदा° In next word.
  2. R. B. add इति after this; N.om. अभि in अभिद्रो° and adds यातानाम् before अस्म° and च after it.
  3. G. and E. have कृत्योपक्षेपसंग्रहार्थं च. H. has प्रकृत्युपजापार्थम्
  4. कोप B. R. M.
  5. P. om, अन्त; B. E. N. read भेदाथ; E. has मया for the च following.
  6. P. om. अन्न.
  7. एष P. E.
  8. °पुष्य. B. G. N.
  9. मर्मी° P.; भवेन्नजदि for भवेद्यदि न G.; °मदृष्टरूपम् M. R.; °मदृश्यरूपम् A. P; B. has अमृश्यमानम्.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/११६&oldid=321140" इत्यस्माद् प्रतिप्राप्तम्