एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
मुद्राराक्षसे


देवे[१] सर्वार्थसिद्धौ खामिविरहात्प्रशिथिलीकृतप्रयत्नेषु युष्मद्वलेषु जय[२]घोषणाव्याघातादिसाहसानुमितेष्वन्तर्नगरवासिषु पुनरपि नन्दराज्यश्रत्यानयनाय सुरङ्गया बहिरपगतेषु[३] युष्मासु चन्द्रगुप्तनिधनाय युष्मत्प्रयुत्कया विषकन्यया घातिते तपस्विनि पर्वतेश्वरे ।

 राक्षसः-सखे, पश्याश्चर्यम् ।

कर्णेनेव विषाङ्गनैकपुरुषव्यापादिनी रक्षिंता
 हन्तुं शक्तिरिवा[४]र्जुनं बलवती या चन्द्रगुप्तं मया ।
सा विष्णोरिव विष्णु[५]गुप्तहतकस्यात्यन्तिकश्रेयसे
 हैडि[६]म्बेयमिवेत्य पर्वतनृपं तद्वध्यमेवावधीत् ॥ १५ ॥


 जयघोषणेति । पौरजनापेक्षा अनुमतिः । जयस्याघोषणा डिण्डिमाघातरूपा कर्त्तव्येत्याज्ञापिते तदकरणं जयघोषणाव्याघातः तदादिसाहसै राजाज्ञाभङ्गादिरूपैरनिष्टाचरणैरनुमितेषु शत्रूपजापदूषिता इत्येवमुन्नीतेषु अन्तर्नगरवासिषु युष्मद्वयेषु सत्सु इत्यन्वयः । अतः परमत्रावस्थानमनुचितमिति बहिर्गत्वा सुह्रद्बलोत्थापनादिना नन्दराज्यप्रत्यानयनाय युष्मासु बहिरपगतेष्वित्यन्वयः ॥

 तपस्विनीति । दीने इत्यर्थः ।

 कर्णेनेति । कर्णेनार्जुनं हन्तुं बलवती एकपुरुषव्यापादिनी शक्तिरिव चन्द्रगुप्तं हन्तुं या विषाङ्गना मया रक्षितेति व्यवहितान्वयः। श्रीकृष्णवध्यं हैडिम्बेयं घटोत्कचमिव पर्वतकमेत्य प्राप्य तद्वध्यं तेन विष्णुगुप्तेन परिपणितेराज्यार्द्धलूब्धेन वध्यमेवावधीत् ॥ १५ ॥


  1. R. and M. read देवे before तपो°; त्सुशिथिली° for त्प्रशि° B.
  2. G. and E. om. जय; A. P. have जया° and M. has घोषण; E. adds ना between °दि'and साहसा°; °नुमितान्तर्न°. G.B.N;G. and E. also add नि before चासिपु; M. om. अपि.
  3. सुरङ्गमधिगतेषु B. G. E.; सुरङ्गाभिगतेषु N; A. Om. युष्मास which follows
  4. R. reads इह for इव.
  5. चन्द्रगुप्त.° N; प्रीतये for श्रेयसे E.
  6. हैडम्वे° G.; °मिवैत्य A. M. P. N; यद्वध्य° G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१२७&oldid=321309" इत्यस्माद् प्रतिप्राप्तम्