एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३
द्धितीयोऽङ्कः ।


 राक्षसः--युज्यते ।

 सिद्धार्थकः-अमच्च, एत्थ किं[१] जुज्जइ। (क)

 राक्षसः-भद्र, य[२]न्महाधनानां गृहे पतितस्यैवंविधस्योपलब्धिरेिति ।

 शकटदासः स[३]खे सिद्धार्थक, अमात्यनामाङ्कितेयं मुद्रा । तदितो बहुतरेणार्थेन भवन्तममात्यस्तोष[४]यिष्यति । दीयतामेषा ।

 सिद्धार्थकः--अज्ज णं पसादो ए[५]सो जं इमाए मुहाए अमच्चो प[६]रिग्गहं करेदि । (इति मुद्रामर्पयति ।) (ख)

 राक्षसः-स[७]खे शकटदास, अनयैव मुद्रया स्वाधिकारे व्यवहर्तव्यं [८]भवता ।


 ( क ) अमात्य, अत्र किं युज्यते ।

 (ख) आर्य, ननु प्रसाद एषः यदस्या मुद्राया अमात्यः परिग्रहं करोतीति ।


 किमत्र युज्यत इति मुद्रायाः स्वकीयत्वनिन्हवोऽनेन क्रियत इति जानन्नप्यजानन्निव पृच्छति । भद्र, यदिति । अस्मद्रुहजनस्तत्र वर्तत इत्यस्यार्थस्य गोपनार्थमियमुक्तिः ।

 तदितो बहुतरेणेति । इतो मुद्रामूल्यादप्यधिकतरेणेत्यर्थः।

 परिग्रहमित्यादि । यदर्थमियमानीता तत्सिद्धमित्यथ गूढः ।


  1. before एत्थ B. E. N; G. om एत्थ; B. N. G. read जुज्जदि.
  2. B. N. read यतो for यत् ; G. om. it; for गृहे G. E. read गृहद्वारि; B. N. द्वारि.
  3. भद्र R. M. E; अदि for तदितो G.
  4. B. N. have तत् after this and B.G. E, N.मुद्रा at the end of the speech.
  5. एसो मे परितोपो B. N. E.; G.agrees adding णम् before एसो and reading°तोसो, and जे for जम् after this; before इमाए B. E. N; P. reads पडि° in next word.
  6. B. E. N. read परिग्गहप्पसादं करोदिति and om इति; B. E. N. G. read मुद्रां समर्प यति
  7. om. M. G. E.
  8. त्वया G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१४२&oldid=321492" इत्यस्माद् प्रतिप्राप्तम्