एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
तृतीयोऽङ्कः ।


 (परिक्रम्याकाशे ।) भो भोः सुगाङ्गप्रासादाधिकृताः पुरुषाः सुगृहीत[१]नामा देवश्चन्द्रगुप्तो वः समाज्ञापयति—‘प्रवृत्तकौमुदीमहोत्सवरम [२]णीयं कुसुमपुरमवलोकयितुमिच्छामि । तत्संस्क्रियन्तामस्मद्दर्शनयोग्याः सुगाङ्गप्रासा[३]दोपरिभूमयः' इति । (पुनराकाशे ।) किं ब्रूथं ‘आर्य,किमविदित एवायं देवस्य[४] कौमुदीमहोत्सवप्रतिषेधः' इति। आ[५] दैवोपहताः, किमनेन वः सद्य:प्राणहरेण कथोपोद्धातेनं । शीघ्र्मिदानीम्

आलिङ्गन्तु गृहीत[६]धूपसुरभीन्स्तम्भान्पिनद्धस्रजः
 संपूर्णेन्दुमयूखसंहतिरुचां सच्चामराणां श्रियः।
सिंहाङ्कासनधारणाच्च सुचिरं संजातमूर्च्चामीव
 क्षिप्रं चन्दनवारिणा स[७]कुसुमः सेकोऽनुगृह्वातु गाम् ॥ २ ॥

यौवने तृष्णावशात् हस्तपादादीन्यङ्गानि स्वक्रियायां व्यापृतान्यासन् तान्यपि संप्रति जरया पदुतां स्वकार्यक्षमतां त्यजन्तीति जरया क्रियसाणं स्वाङ्गवैकल्यं तृष्णायामुपचर्यते न्यस्तं मूर्त्ति पदं तवेति । अथापि तृष्णया मुधा ताम्यामीति भावः । कश्चुकीनिर्वेदो नाटके वर्णनीय इति संप्रदायविद: ॥ १ ॥

 अविदित एवायमिति । अयं चाणक्येन क्रियमाण इत्यर्थः । अयं बीजस्य चाणक्यनीतेरवमर्शनम् ।

 आलिङ्गन्त्विति । अत्र चामराणां श्रियः स्तम्भानालिङ्गतु इत्युक्त्या


  1. नामधेयःR; A.P. have एष before सु°;B. N. read यथा before प्रवृत्त ; °त्सवम् M.
  2. °मणीयतरम् B.E.A.G.; तत्कि B.E.N.G;R.M. om. अस्म ग्याः.
  3. °दस्यो' for दो°B,E.N.; G,has°दस्योपरितन; तत्कि चिरयन्ति भवन्तः before पुन° B.N G.B.E.N.G. om. पुनःB.N.G, add आकण्” after आकाशे; E.has आर्याः before किम्; and G.and E. for बूथ read कथयन्ति भवन्तः; G. inserts इदम् after किम्.
  4. B.E.N,G. add चन्द्रगुप्तस्य after देवस्य
  5. E. has कस्तुकी before this; A.P. have हतकाः for हताः in next word, सद्यः om. in B.E.N.G;M.R. om. वः and G. has एव for it; E. has सद्यः before किम् ; R.M. read प्राणापहारेण; B.E.N.(r) R. Om. पो'; E. has कथाघातेन. H. has कथोद्धातेन.
  6. R. has अनवद्य for गृहीत; M. किमद्य; M, has also धूम for धूप; P. has सुरभि for सुरभीन्नः
  7. °सु. P.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१४८&oldid=321577" इत्यस्माद् प्रतिप्राप्तम्