एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
मुद्राराक्षसे



किं ब्रूथ-'आर्य' इदमनुष्ठीयते देवस्य शासन[१]म्’ इति । भद्राः, त्वरध्वम्[२] । अयमागत एव देवश्चन्द्रगुप्तः। य एषः

सुविश्रब्धैरङ्गैः पथिषु विषमेष्वष्यचलता
 चिरं धुर्येणोढा गुरुरपि भु[३]वो यास्य गुरुणा ।
धुरं तामेवोच्चैनववयसि वोढुं व्यवसितो
 मनस्वी दम्यत्वात्स्खलति च न[४] दुःखं वहति च ॥ ३ ॥

( नेप[५]थ्ये )

इत इतो देवः ।

(ततः प्रविशति राजा प्रतीहारी च ।)

 राजा–( स्व[६]गतम् ।) राज्यं हि नाम राजधर्मानुवृत्तिपरस्य नृपतेर्महदन्नीतिस्थानम् । क्रु[७]तः।


कामिनामुपभोगः परिस्फुरतीति समासोत्त्किरलंकारः । अतिगौरवशालि राजसिंहासनं सुगाङ्गभूमौ तिष्ठतीति तद्धारणात्संजातमूर्च्छामिवेति वस्तूत्प्रेक्षा ॥ २ ॥

 सुविश्रब्धैरिति । सुविश्रब्धैर्ध्ढैः सुप्रयुक्ततया कार्यक्षमैश्चाङ्गैरवयवैः स्वाम्यमात्यादिभिश्च विषमेषु गहनेषु पथिषु मार्गेषु राजतन्त्रेषु चाचलता अस्खलता धुर्येण राज्यभारनिर्वहणक्षमेणास्य गुरुणा तातेन या भुवो धूश्चिरमूढेत्यन्वयः । दम्यत्वादनतिप्रौढत्वात्स्खलति किंचित्खिद्यते मनस्वित्वादुत्साहवत्त्वाहुःखं च न वहति ॥ ३ ॥

 इत इत इति । इयं चूलिका । अन्तर्जवनिकान्तस्थैश्र्वूलिकार्थस्य सूचनेति लक्षणात् ।

 अप्रीतिस्थानं क्लेशावहमित्यर्थः ।


  1. B. has आकाशे । किं कथयन्ति भवन्तः एते त्वरामह इति; N. agrees; G adds श्रुत्व before आकाशे; E. substitutes श्रुत्वा for आकाशे and adds कञ्चुकी 'after ' इति.
  2. त्वर° twice in G. E; B. N. G. om. देवःR. M. read सः for यः•
  3. E, has वधुः for भुवःA, . भुवः.
  4. नच B. N. G. P.; for
    चहति च G. has न सहते. H. has स्खलति न न दुःखं वहति च.
  5. G, has कच्छुकी for this; N. (s) इद इदो देवः for what follows and M. ततस्ततः
  6. आत्मग° G. E.राज्य for राज in राजध° G; M. has वृत्तस्य for वृ–स्य; B. N. H. have तन्त्र after परः; Om नृपते° R; E. has नरप°; B. N have भूप°.
  7. यतः for कुतः B. N.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१४९&oldid=321602" इत्यस्माद् प्रतिप्राप्तम्