एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
तृतीयोऽङ्कः ।


 प्रतीहारी—देव[१] , एदं सिंहासणम् । ( क )

 राजा–( ना[२]ट्येनोपविश्य ।) आर्य वैहीनरे, आर्यचाणक्यं द्रष्टुमिच्छामि ।

 कञ्चुकी-यदज्ञापयति देवः। ( इ[३]ति निष्क्रान्तः )।

( ततः प्रविशति आसनस्थः स्व[४]भवनगतः कोपाविद्धां चिन्तां नाटयंश्चाणक्यः ।)

चाणक्यः -क[५]थं स्पर्ध्दते मया सह दुरात्मा राक्षसः ।

कृतागाः कौटिल्यो भुजग इव निर्याय [६] [७] नगरा-
 द्यथा न[८]न्दान्हत्वा नृपतिमकरोन्मौर्यवृषलम् ।
तथाहं मौर्येन्दोः श्रि[९]यमपहरामीति कृतधीः
 प्रक[१०]र्ष मद्धुद्वेरतिशयितुमेष व्यवसितः ॥ ११ ॥


 (क) देव, इदं सिंहासनम् ।


 महात्मत्वात्संग्राह्यः स्वशत्रुमक्षमाश्रित इति रोषावेशादुरात्मेति गालनम् ।

 कृतागा इति । नन्दैः कृतमागोग्रासनाकर्षणरूपं यस्य सः । अत्र दृष्टान्तानुरोधेन तथाहं मौर्यं हत्वा मलयकेतुं राज्ये स्थापयिष्यामीत्येतावति वक्तव्ये श्रियमपहरामीत्येतावन्मात्रं राक्षससाहसं अनुवतश्चाणक्यस्यायं भावः । ममेव नास्य बुद्धिबलं परंतु मत्सरमात्रेण ‘अशक्तोऽहं गृहारम्भे शक्तोऽहं गृहभञ्जने’ इति न्यायेन मौर्यापकारमात्राय प्रयतमानः सन्केवलं


  1. Om. M; देव R; देव scored through in G; G. has इअं सीहासनं उपविसढु देवो; E. दैवस्य इमं सिंहासणं उपविशदु देवो; B. N. agree with text adding उपविसदु देवो
  2. सत्र्कोधम् before this E; G om. आर्य; A. M. read आर्येच°; A. P.have अकृतकृत्यान्तरम् before that; N.(s)has प्रष्टुम् for द्रष्टुम्
  3. E. om. इति.
  4. G, E. om. आसनस्थः and after °गतः add कृतासनपरिग्रहः।
  5. आत्मगतम् before this B. G. N; E. has स्पर्धते after सह and reads स्पर्धति; B. N. read राक्षसहतकः for राक्षसः; G. E. B. N. add कुतः after this.
  6. निर्गत्य M. R.
  7. निर्गत्य M. R.
  8. नन्दं हत्वा B. N. G
  9. °मुप° G; G.reads हतधीः for कृतधीः.
  10. अभाव B. E. N. H. प्रसादम् G; A. has यडु°
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५४&oldid=321647" इत्यस्माद् प्रतिप्राप्तम्