एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
तृतीयोऽङ्कः।


 चाणक्यः—( सक्रोधम्।) चैहीनरे, ति[१]ष्ठ न गन्तव्यम् । वृषल, किमयम[२]स्थाने महानर्थोत्सर्गः ।

 राजा-( [३]सकोपम् । ) आर्येणैवं सर्वत्र निरुद्धचेष्टाप्रसरस्य मे चन्धनमिव राज्यं न रा[४]ज्यमिव ।

 चाणक्यः-वृषल, खयमनभियुक्तानां राज्ञामेते दोषाः संभ[५]वन्ति । तद्यदि न सहसे ततः खयमभियुज्यख ।

 राजा-ए[६]ते स्खकर्मण्यभियुज्यामहे ।

 चाणक्यः --प्रि[७]यं नः । वयमपि स्खकर्मण्यभियुज्यामहे ।

 राजा-यद्येवं [८]तर्हि कौमुदीमहोत्सवप्रतिषेधस्य तावत्प्रयोजनं श्रोतुमिच्छामि ।


 सक्रोधमित्यादि । एतदादि राजचणक्ययो रोषसंभाषणं संफेटः । वृषलेत्यादि । स्वयमनभियुक्तानां स्वातत्रयमलभमानानामेते दोषा गुरुजनगौरवासहनरूपाः संभवन्ति । स्वस्वातन्त्र्यलिप्सया गुरुजनस्वतत्रयं न सहन्त इति भावः । स्वयमभियुज्यस्व स्वातत्रयमवलम्बस्व ।

 एते स्वकर्मणीति । इदं गुरोरवसाननं छलम् ।

 वयमपि स्वकर्मण्यभियुज्यामह इति । स्वकर्मण्यग्निहोत्रादाविति बहिरर्थः । अनेन कपटकलहेन राक्षसवशीकरणकर्मणि व्याप्रियामह इति गूढम् ।


  1. तिष्ठ twice in B. E. N. G, E, has न गन्तव्यम् also twice; G. E. have also वृषल twice.
  2. एव after this B. N; M. has महाथौत्सर्गः, G. महानर्थ व्ययःB. B.E. N. G. add क्रियते at the end.
  3. Om. in B. N. E.; सरोपमू G.;सर्वतो for सर्वत्र B. N; M . reads निरुद्धस्य; B. N. read मम for मे.
  4. A,P.R. substitute इदम् for इव; M. adds it after इव.
  5. B. E. N. G. om.सम्; Om. ततः in E; तदा B. N. which add एव after स्वयम्.
  6. B. N. add वयम् after this
  7. कल्याणम् A. M. R; P. ombhis speech; M. on. all after नः.
  8. तेन हि चाणक्य G.; तेनाहम् JE;‘त्सवानुष्ठानम्नति° for °त्सवप्रति G. B. N. om. तावत्; E, has एव तावत् and G. has it after प्रयोजनम्
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१६६&oldid=321814" इत्यस्माद् प्रतिप्राप्तम्