एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
मुद्राराक्षसे

 मलयकेतुः-आर्य, क[१] थमिव प्रधानतमम् । किमिदानीं चन्द्रगुप्त: स्व [२]कार्यधुरामन्यत्र मन्त्रिनण्यात्मनि वा समासज्य खयं प्रतिवि धातुमस[३]मर्थः ।

 राक्षसः बाढमसमर्थः। कु[४]तः स्वायत्तसिद्धिषु तत्संभवति । चन्द्रगुप्तस्तु दुरात्मा नित्यं सचिवायत्तसिद्धावेव[५] स्थितश्चक्षुर्विकल इवाप्रत्यक्षलो[६]कव्यवहारः कथमिव खयं प्रतिविधातुं समर्थः स्यात् ।

 अत्युच्छूिते मन्त्रिणि पार्थिवे च[७] विष्टभ्य पादावुपतिष्ठते श्रीः ।

 सा [८]स्त्रीखभावादसहा भरस्य तयोर्दूयोरेकतरं जहाति ॥ १३ ॥


 प्रतिविधातुमिति । प्रतिविधातुमस्मदभियोगं प्रतिकर्तुमित्यर्थः ।

 तत्संभवतीति । संभवतीत्यनेन सामर्थ्र्यस्य कादाचित्कत्वमुक्तम् । उभयायत्तसिद्धेरेवोत्तरश्लोके प्राशस्त्यकथनात् ।

 यत्पृष्टं स्वकार्यधुरामन्यत्र मन्त्रिणीति तत्परिहरति--अत्युच्छूित इति । श्रीः राज्यश्रीः अत्युच्छूितयोः समस्कन्धतयात्युन्नतिं प्राप्तयोः । ऐकमत्येनान्यूनाधिकभावेन वैकीभावमिवोपगतयोरिति यावत् । मन्त्रिपार्थिवयोः पादौ मन्त्रशक्तिप्रभुशक्तिरूपैौ विष्टभ्य समवस्थाप्योपतिष्ठते


  1. अमायत्य for आर्य before this. B. E. N; R. M. Om. प्रधा°.For'मिव-मं B.E. N. G. read प्रधानतमं नाम.
  2. स्वराज्यकार्य B. E. N.; स्वकार्यराज्य G; G. B. read धुरमन्य'; समासाद्य G.
  3. स्यात् after this B. N.
  4. For कुतः B.reads एव; after this B. E. H. Have मल° । किं कारणम् and then राक्ष° ।स्वायत्त &c. G. and N. read किं कारणमिति for कुतःP.,writes रा° before कुतः. B. N. read °षु उभयायत्तसिद्धिषु वा भूमिपालेषु कदाचिदेतत्; G. °षु उभयायत्तसिद्धिषु भूपलेषु तत् E. H. °षु उभयायत्तसिद्धिषु वा भूमिपालेषु तत् After संभवति B. N. add न तु चन्द्रगुप्ते, G. न चन्द्रगुप्तेः
  5. B. N. H. read अवस्थितः for स्थितः, G. सिद्धावस्थितः, IE. has ‘व्यवस्थितचक्षुर्विकल & .
  6. सर्वलोक for लोक B. N.; संव्यच° for व्यव° G; for कथमिव after this G. has कथमपि; "विधान for विधातुम् G; B. E. N. G. add कुतः after स्यात्।
  7. For' च विष्टभ्य G. has वावष्टभ्य
  8. श्री G. This whole stanza om. in M. After it B. E. N. G. have अपि च.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१९७&oldid=324780" इत्यस्माद् प्रतिप्राप्तम्