एतत् पृष्ठम् परिष्कृतम् अस्ति
मुद्राराक्षसम् ।


पञ्चमोऽङ्कः ।


( ततः प्रवशति लेखमलंकरणस्थगि[१]कां मुद्रितामादाय सिद्धार्थकः ।

 सिद्धार्थकः- [२]ही हीमाणहे हीमाणहे । ( क)


 ( क ) आश्चर्यमाश्चर्यम् ।


 अथ फलागमकार्ययोः संबन्धो निर्वहणसंधिस्त्रिभिरकैरारभ्यते । तल्ल ऋणमुक्तम्

बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।
ऐकार्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥

 बीजवन्तोऽनुस्यूतबीजा: मुखसंध्यादीनामर्था: आरम्भबीजसंबन्धादय: यथायथं तत्तत्प्रसङ्गानुसारेण विप्रकीर्णा विशकलिततया यर्थमारब्धः सन्तः ऐकाथ्र्यमुपनीयन्ते तस्य फलागमशालिनः कार्यस्य यत्र निर्वाहः सिद्धिर्भवति स निर्वहणसंधिः । कथंफलागमौ वक्ष्येते । अस्याङ्गानि फलागमकार्यानुगुण्येन प्रयोक्तव्यानि । यथा

‘संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ।
प्रसादानन्दसमयाः कृत्याभाषोपगूह्नम् ।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥

स्थगिकामिति । राक्षसमुद्रमुद्रितां स्थगिकां पेटिकाम् ।
ही हीमाणहे इति । आश्चर्यद्योतको निपातसमुदायः ।


  1. °स्थलिकाम्. B.; रसिकाम् N; B. E.N. G. have च after this; B.E. read समुद्रम् for मुद्र; G. P. read मुद्रिका
  2. Om B. E. N; M. R. G.E. om. first हीमणहे.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२०८&oldid=325206" इत्यस्माद् प्रतिप्राप्तम्