रस्यानुपधात्वेन 'अत उपधाया' (७-२-११६) इति वृद्धेरभावाद्ध्रस्वविधैयर्थ्यात् । न च 'चिण्णमुलोर्दीर्घोऽन्यतरस्याम्' (६-४-९३) इति दीर्घार्थः, 'ऊदुपधाया गोहः' (६-४-८९) इत्यत उपधाया इत्यत्रानुवृत्तेरुपधाया एव मितां ह्रस्वदीर्घयोर्विधानाद्, अत्र चानुपधात्वात् । न च घटादिपाठबलादनुपधात्वेऽपि दीर्घः सिध्यति । पित्त्वार्थतयापि पाठोपपत्तेरित्यत आह---
मित्त्वार्थपाठसामर्थ्यात् तयोर्दीर्घविकल्पनम् ।
भवेच्चिण्णमुलोस्तस्मादक्रान्द्यक्रन्दि सिध्यतः ॥
पित्त्वं खल्बङि कन्दा क्रन्देति रूपार्थम् । तयोश्च 'गुरोश्च हलः' (३-३-१०३) इत्यप्रत्ययेनैव सिद्धर्मित्त्वार्थ एवायं पाठ इति तद्बलादनुपधात्वेऽपि अक्रान्दि अक्रन्दि कान्दं क्रन्दम् । अकान्दि अकन्दि कान्दं कन्दमिति वैकल्पिको दीर्घः सिध्यतीत्यर्थः । एवं क्लन्देरप्यूह्यम् ॥
गात्रप्रक्षरणे खिद्येत् स्वेदते स्नेहमोकयोः ।
'प्विदा गात्रप्रक्षरणे' । दिवादिः । तथा च 'निष्ठाशीङ्स्विदिमिदिक्ष्विदिधृपः' (१-२-१९) इत्यत्र हरदत्तः---ञिष्विदा स्नेहनमोचनयोरित्यस्य भौवादिकस्य ञीतो ग्रहणं । न तु ष्विदा गात्रप्रक्षरण इत्यस्य दैवादिकस्य, ञीद्भिः साहचर्यात् । अस्य चाञीत्त्वाद्' इति । 'ञिष्विदा स्नेहनमोचनयोः' । अनुदात्तेत् । क्षीरस्वामी तु 'ञिष्विदा' इति क्षकारादिं पठित्वाह---'ञिाष्विदेति नन्दी' इति ॥
क्ष्वेदत्यव्यक्तशब्दार्थे क्ष्विद्यति स्नेहमोक्षयोः ॥ १०७॥
"मोक्षयोः' इति गपुस्तके पाठः.