पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/३७

(पृष्ठम्:TSS-001 The Daiva Of Deva - TG Sastri 1905.pdf/३७ इत्यस्मात् पुनर्निर्दिष्टम्)
पुटमेतत् सुपुष्टितम्
१२
दैवं

[१]दयुक्तम् । यदि खल्वाकुस्मीये काण्डे 'भू प्राप्तौ वा' इत्युच्येत, तदा 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति न्यायेनानन्तरप्रकृतस्यात्मनेपदित्वस्यैव विकल्पः प्रतीयेत, न पुनर्महाप्रकृतस्य चुरादिणिचः । तेनैतदात्मनेपदिग्रहणं न सन्नियोगशिष्टन्यायापनयनाय प्रभवतीत्याणिच्पक्षे परस्मैपदमेव युक्तमुत्पश्यामः । तथा च मनोरमा भा भवते इति प्रयोगं प्रकृत्य भूवादिसूत्रे सुधाकरः--"भू प्राप्तावात्मनेपदी आधृषाद्वेति विकल्पितणिच्क इति कैश्चित् समर्थितम् । तण्णिचसन्नियोगेनात्मनेपदित्वादसाधीयः । अत एव 'स[२] राष्ट्रमभवद्' इत्यादि प्रयुयुजे" इति । धनपालशाकटायनौ चाणिच्पक्षे परम्मैपदमेव प्रतिषेदाते । एवं च 'शपि तत्रैव भवति' इति पठितुं यु[३]क्तम् ।

अन्यत्राप्येवमुन्नेतुमुचितं पाठपाटवम् ।
बली पुरुषकारो हि दैवमप्यतिवर्तते ॥

'भुवोऽवकल्कने कृपेश्च' एतदर्थाद् भुवः कृपेश्च स्वार्थे णिच् स्यादित्यर्थः । अत्र क्षीरस्वामी--'अवकल्कनं मिश्रीकरणं भावयति क्षीरेण घृतम्' इति । 'भुवोऽवकल्कने' इत्यपरे प[४]ठन्ति । तथा च धनपालः--'कृपेस्तादर्थ्य' इति पठित्वा अवकल्पयतीत्युदाजहार । तादर्थ्य इति हि भुव इति पूर्वधातोर्योऽर्थ[५]स्तदर्थत्वे सतीत्यर्थः । क्षीरस्वामी तु कृपेर्यो[६]ऽर्थस्त[७]दर्थभाव इति व्याख्यायावक


  1. तद् मैत्रेयानुसारेण केवलादात्मनेपदवचनम्.
  2. पृथुर्वैन्यो राज्यं प्राप्तवान् इत्यर्थो वाक्यस्य । इदं च तैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमप्रश्नेऽस्ति.
  3. 'भवते शपि तत्रैव' इत्येतत्स्थान इति शेषः.
  4. कृपिधातुपृथक्कारणेति शेषः.
  5. अवकल्कनरूपः.
  6. स च सामर्थ्यलक्षणः 'कृपू सामर्थ्ये' इति भ्वादावुक्तः.
  7. तदर्थकत्वे.