पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/६७

(पृष्ठम्:TSS-001 The Daiva Of Deva - TG Sastri 1905.pdf/६७ इत्यस्मात् पुनर्निर्दिष्टम्)
पुटमेतत् सुपुष्टितम्
४२
दैवं

  वॄञो ञित्त्वाद्वृणाति वृणीते इति सिद्धे वॄ इत्यञित्पाठः कर्त्रभिप्राये क्रियाफले परस्मैपदार्थः ॥

 {{bold|जृणाति जीर्यति जरत्येकार्थे जारयत्यपि ।

  ‘जॄ वयोहानौ । सा च यौवनादेस्त्यागः। प्वादियुजादि श्चायम् । तत्राद्ये 'धॄ इत्येक' इति मैत्रेयरक्षितः । अन्त्ये तु क्षीर स्वामी-जारयति जरति । दिवादौ जीर्यति । क्र्यादौ जृणाति । ज्रीति च नन्दी । ज्राययति ज्रयति । क्र्यादौ जृणाति' इति । 'जॄ झॄष् वयोहानौ' । दिवादिः । अस्य तु हेतुमण्णिचि । 'जनीजॄ- ष्क्नसुरञ्जोऽमन्ताश्च' इति मित्त्वाज्जरयतीति द्रष्टव्यम् । 'जनी प्रादुर्भावे' 'क्नसु ह्वरणदीप्त्योः' 'रञ्ज रागे' इत्येते जीर्यतिश्चाम्रूपा न्ताश्च धातवो मितो भवन्तीत्यर्थः ॥

 कृणन् कृणीते हिंसायां विक्षेपे किरतीति शे ॥ ३९ ॥

  'कॄञ् हिंसायाम् । प्वादिः । 'कृञित्येके' इति क्षीरस्वा मी । तिङ्प्रकरणेऽपि शत्रन्तोदाहरणं वृत्तानुरोधात् । 'कृणाति च कृणीते च हिंसायां किरतीति शे' इत्यनुक्तिः परस्मैपदाद्येवात्र विवक्षितमिति प्रागुक्तमर्थं बालानां व्यङ्क्तुमिति गमयितव्यम् । एवं 'बध्नन् बीभत्सते बन्ध' इत्यत्रापि बन्धे बीभत्सनेऽबध्नादित्य- नुक्तिर्नेतव्या । 'तॄ कॄ हिंसायाम्' इत्यपि प्वादावेव क्षीरस्वामि- मैत्रेयरक्षितौ । तत्फलं तु वॄवद् द्रष्टव्यम् । 'कॄ विक्षेपे' । किरतीति ॥

 तृप्तौ चकेत् प्रतीघाते तृप्तौ च चकते शपि ।


१. भूधातुव्याख्यानावसरोक्तम् . २. इदं १२० तमश्लोके. ३. कर्त्रभिप्राये

क्रियाफले परस्मैपदसिद्धिरूपं फलं वृधातोरुक्तम् अष्टात्रिंशे पद्ये.