← अध्यायः ४ प्रश्नसंहिता
अध्यायः ५
[[लेखकः :|]]
अध्यायः ६ →
प्रश्नसंहितायाः अध्यायाः

।। पञ्चमोऽध्यायः ।।

श्रीरुवाच-
क्ष्मापरिग्रहकार्येषु यजमानः स्वयं गुरुम्।
वरयेत् पाञ्चरात्रज्ञमित्यवोचद् भवान् किल।। 5.1 ।।
ब्रह्मादिदेवलोकेषु बिम्बरूपिणमादरात्।
प्रार्थये त्वां तत्र शिल्पी गुरुः को वा भवेद्धरे।। 5.2 ।।
निर्माणे चालये देव वस्तु किं भवति प्रभो।
भगवान्-
देवा महर्षयः सिद्धाः मनुष्याश्चार्चितुं रमे।। 5.3 ।।
प्रार्थयिष्यन्ति मां देवि बिम्बरूपिणमद्भुतम्।
मदर्थमालयं चापि तस्य तस्यानुरूपतः।। 5.4 ।।
देवाः सात्त्विकदेशेषु सिद्धाः पर्वतमूर्धनि।
देवानां देवलोकेषु मन्दिरं कनकादिभिः।। 5.5 ।।
विश्वकर्मा कल्पयति सिद्धानामपि चालयम्।
महर्षयस्त्वरण्येषु तपसा च शिलामयैः।। 5.6 ।।
कल्पयन्त्यालयं देवि मनुजा ग्रामपत्तने।
पक्वेष्टकाशिलाभिश्च रचयन्ति च शिल्पिभिः।। 5.7 ।।
तत्प्रकारं प्रवक्ष्यामि शृणुष्व कमलोद्भवे।
ततोऽपरस्मिन् दिवसे सुमुहूर्ते गुरूत्तमः।। 5.8 ।।
अनड़्वाहौ स्नापयित्वा माल्यादिभिरलंकृतौ।
(1)वृषभौ तौ पुरस्कृत्य यजमानेन संमितः।। 5.9 ।।
(1.ग्र. अनड्वाहौ)
सर्वावादित्रसंघैश्च ब्राह्मणैर्वेद(2)पारगैः।
पूर्वोक्तां भुवमासाद्य ब्रह्मस्थाने यथाविधि।। 5.10 ।।
(2.ग्र. पाठकैः)
भूमिं संपूजयेद् विद्वान् वराहेण समं गुरुः।
उद्धृतासीति भूदेवीं पुंसूक्तेन हरिं यजेत्।। 5.11 ।।
पुंसूक्तेन वराहं च (3)भूसूक्तेन च वै भुवम्।
तिलाज्य(4)समिधान्नेन हुत्वा पूर्णाहुतिं हुनेत्।। 5.12 ।।
(3.ग्र. भूमिमंत्रेण)
(4.समिधो)
भूमिं (5)प्रदक्षिणीकृत्य मन्त्रमेतमुदीरयेत्।
(6)नागाः पिशाचा यक्षाश्च भूमावत्र वसन्ति ये।। 5.13 ।।
(5.पा. भूमिं प्रदक्षिणं कृत्वा)
(6.पा. यक्षाः पिशाचाः नागाश्च येऽत्र तिष्ठन्ति सर्वदा।)
(7)सर्वे प्रयान्तु रक्षोभिर्हरेः सौधं करोम्यहम्।
ततोऽस्त्रमन्त्रसंसिद्धान् सिद्धार्थान् सर्वतः क्षिपेत्।। 5.14 ।।
(7.पा. सर्वे ते यान्त्वतोऽन्यत्र विष्णोः स्थानं करोम्यहम्।)
पूर्ववद्वास्तुहोमं च तथा वास्तुबलिं क्षिपेत्।
ततो भागवताचार्यो हलेन विलिखेद्भुवम्।। 5.15 ।।
हलं युगं च पालाशं ब्राह्मणस्य विधीयते।
न्यग्रोधं क्षत्रियस्य स्यात् प्लाक्षं विट्‌शूद्रयोरपि।। 5.16 ।।
न्यग्रोधपिप्पलौ स्यातां सर्वेषां युगलाङ्गलौ।
सर्वेषामेव वर्णानां सौवर्णः कुशिको भवेत्।। 5.17 ।।
राजतं ताम्रमथवा योक्त्रं तेषां यथाक्रमम्।
कुशाधनुर्ज्यावीरिण्यः काशरज्जुश्च तन्मयी।। 5.18 ।।
हलभूतं च मेधिं च कारयेदेकयोनिकम्।
स्नातो नवाम्बरधरः (8)सोष्णीकः शुचिरात्मवान्।। 5.19 ।।
(8.ग्र. सोष्णीष)
माल्यानुलेपनायुक्तः सोत्तरीयपरिच्छदः।
पञ्चाङ्गभूषणैर्युक्तः पादौ प्रक्षालयेत्ततः।। 5.20 ।।
आचम्यायम्य च प्राणान् न्यासं कृत्वा यथाविधि।
ब्राह्मणैरभ्यनुज्ञातो वैष्णवैर्मन्त्रवित्तमैः।। 5.21 ।।
पुण्याहं वाचयेत् पूर्वं तेन संप्रोक्षयेद् भुवम्।
सुमुहूर्ते सुलग्ने च स्कन्धे वृषभयोस्ततः।। 5.22 ।।
उच्चरन् मूलविद्यां च युगं देशिकसत्तमः।
लाङ्गलं च युगेनैव योजयेद् विद्यया तया।। 5.23 ।।
भेरीपटहशङ्खादीन् (9)नादयेत् सर्वतो दिशि।
सूक्तं शाकुनिकं विप्राः पठेयुः सर्वशान्तिदम्।। 5.24 ।।
(9.पा. घोषयेत् सर्वदिक्षु च)
हृत्सरोजे च मां ध्यायन् विद्यारूपेण चक्षुषा।
दण्डं प्रवहणं कुर्यात् पलाशादिमहीरुहान्।। 5.25 ।।
(10)प्रथमं प्राङ्मुखेनैव कर्षयेन्मूलविद्यया।
सूक्तेन पौरुषेणैव द्वितीयं (11)भुवि कर्षणम्।। 5.26 ।।
(10.पा प्राङ्मुखः प्रथमं ब्रह्मन्)
(11.पा. भूमिकर्षणम्)
तृतीयं विष्णुसूक्तेन तद्गायत्र्या (12)चतुर्थकम्।
नारायणानुवाकेन (13)पञ्चमं कर्षणं भवेत्।। 5.27 ।।
(12.पा. तुरीयकम्)
(13.पा. कर्षणं पञ्चमं स्मृतम्)
(14)पञ्चोप(15)निषदा मन्त्रैः षष्ठं स्यात् (16)कर्षणं (17)भुवः।
सप्तमं भूमिसूक्तेन कर्षयेत् (18)कमलासने।। 5.28 ।।
(14.पा. पञ्चोपनिषदैः)
(15.ग्र. निषद)
(16.पा. भूमिकर्षणम्)
(17.ग्र. भुवम्)
(18.पा. देशिकोत्तमः)
प्रदक्षिणक्रमेणैव भुवि कर्षणमाचरेत्।
एवं दक्षिणमारभ्य (19)कर्षयेदुत्तरावधि।। 5.29 ।।
(19.ग्र. कारयेद्)
अनड्वच्छयने चैव (20)युगादीनां च भेदने।
व्यत्यासभ्रमणे चैव दुर्निमित्तोदये तथा।। 5.30 ।।
(20.पा. योक्त्रादीनां)
छेदे च सूत्रशङ्कूनां यजमानमृतिर्ध्रुवा।
शाम्यन्ति दोषास्ते सर्वे नार्तिमृच्छेत् प्रयोजकः।। 5.31 ।।
पञ्चोपनिषदा कुर्यात् शतं वारान् घृताहुतीः।
आचार्यो यजमानश्च ब्राह्मणांस्तोषयेद्धनैः।। 5.32 ।।
भोजयेच्च भुवं कृष्टां समीकुर्यात् ततः परम्।
आलवालान्(21)प्रकुर्वीत (22)बहुकुल्यासमन्वितान्।। 5.33 ।।
(21.पा. पृथक्‌कृत्वा)
(22.पा. जलकुल्या)
शालिमुद्गयवादीनि तत्र बीजानि वापयेत्।
सिक्तं प्रतिदिनं क्षेत्रं तोयेन महता भवेत्।। 5.34 ।।
रक्षां च कुर्याद्यत्नेन परिपाकावसानिकम्।
पक्वं लुनीया(23)च्छाल्यादि तत्क्षेत्रं गोकुलं नयेत्।। 5.35 ।।
(23.पा. तत्क्षेत्रमानयेत् गोकुलानि तत्।)
फले महति तद्धाम दीर्घकालं भविष्यति।
ब्राह्मणान् भोजयेत् तत्र सहस्रं शतमेव वा।। 5.36 ।।
भुक्तवद्भ्यो धनं दद्याद् ब्राह्मणेभ्यो गवादिकम्।
प्रोक्षयेत् पञ्चगव्येन पञ्चोपनिषदा भुवम्।। 5.37 ।।
कुद्दालैक्वा खनित्रैर्वा यावदम्भः खनेन्महीम्।
प्रथमावरणं यावत् तावद्धिस्तार इष्यते।। 5.38 ।।
भूतले खन्यमाने तु भस्माङ्गारतुषादिकम्।
सर्पवृश्चिकजन्तून् वा पश्येद्यदि गुरूत्तमः।। 5.39 ।।
जुहुयाच्छान्तये तेषां (24)तिलाज्यसमिदाहुतीः।
पञ्चोपनिषदा देवि सूक्तेन पुरुषेण च।। 5.40 ।।
(24.पा. आचार्यः सर्पिरादिना।)
ब्राह्मणेभ्यो यथाशक्ति दद्याद्धेमादिकं (25)वसु।
रत्नादिदर्शने धाम समृद्धं सर्वदा भवेत्।। 5.41 ।।
(25.पा. धनम्।)
ततः खातस्थलं कुम्भजलेनापूरयेद् गुरुः।
तस्मिन् पुष्पाणि सलिले निक्षिपेच्छुभसूचने।। 5.42 ।।
शुभं प्रदक्षिणावर्तं प्रभोर्देवालयस्य च।
वृद्धिदं त्वन्यथा स्याच्चेच्छान्तिहोमं समाचरेत्।। 5.43 ।।
खातहोमं बहिः खातात् स्थण्डिले चतुरश्रके।
स्थापयित्वाग्निमादीप्य (26)मूलमन्त्रेण देशिकः।। 5.44 ।।
(26.पा. कुर्याद् आज्येन देशिकः)
(27)कुर्यादाज्येन सूक्तेन पौरुषेण च वै चरुम्।
गुल्ग्गुलं तिलनीवारं जुहुयान्मूलविद्यया।। 5.45 ।।
(27.पा. मूलमन्त्रेण।)
[पुण्याहं वाचयित्वाथ शालिं खाते विनिक्षिपेत्।
कुम्भानुपरि शालीनां सूत्रवस्त्रैः सुवेष्टितान्।। 5.46 ।।
कुम्भा लोहमयाः प्रोक्तास्तदभावे तु मृन्मयाः।
आधारशक्तिं सौवर्णीं (28)मध्यकुम्भे विनिक्षिपेत्।। 5.47 ।।
(28.पा. मध्ये कृत्वा)
तस्य कुम्भस्य वै प्राचीकुम्भे बीजानि पूरयेत्।
(29)आग्नेय्यां सर्वलोहानि सर्वधातूनि दक्षिणे।। 5.48 ।।
(29.पा. चतुर्थं)
पुण्यतीर्थमृदं कुम्भे नैर्ऋते वारुणे पुनः।
मधुना पूरयेत् कुम्भं वायवीयं तु सर्पिषा।। 5.49 ।।
(30)रत्नानि कुम्भे कौबेरे ऐशान्ये शैलमृत्तिकाम्।
निक्षिपेन्मध्यकुम्भे तु शालिक्षेत्रमृदं तथा।। 5.50 ।।]
(30.पा. रत्नैः धनेश्वरे कुम्भे)
[अशोष्यह्रदसंभूतां वल्मीकभवमृत्तिकाम्।
कन्दानि चोत्पलादीनां प्रक्षिपेत्प्राङ्मुखः स्थितः।। 5.51 ।।
लोहरत्नानि च तथा निदध्याद् दर्भकूर्चकम्।
संपूर्य चैतैर्मृद्भिश्च शरावेण पिधापयेत्।। 5.52 ।।
मध्यकुम्भोपरिन्यस्तकुम्भे स्वर्णादिलोहजम्।
निक्षिप्य कूर्चं कालाग्निं तृतीयेऽनन्तरूपिणम्।। 5.53 ।।
(31)घटे तु वसुधाधारमुपरिष्टाद् विनिक्षिपेत्।
गन्धोदकेन तत्कुम्भान् (32)पूरयेत् पूजयेत्ततः।। 5.54 ।।
(31.पा. चतुर्थं वसुधाधारमुपरिष्टात् घटं क्षिपेत्।)
(32.पा. पूरयित्वा समर्चयेत्।)
मृत्तिकावालुकाभिश्च जलैस्तु समतां नयेत्।
ततो बालालयं कुर्यात् सर्वदोषोपशान्तये।। 5.55 ।।
(33)आरभ्यमाणे प्रासादे बहवो विघ्नकारिणः।
बालालये कृते देवि नश्यन्ति स्वयमेव ते।। 5.56 ।।
(33.आरभ्यमाणे प्रासादे ये वै प्रत्यूहकारिणः।
  [ई.15] बालालये देवदेवं प्रतिष्ठाप्य यथाविधि।)
अथवा बालबिम्बं तमनुविश्य वरानने।
सर्वदोषान् हनिष्यामि तस्मात् तं स्थापयेत् पुरा।। 5.57 ।।
यथाभिमतदेशे तु प्रारब्धस्यालयस्य च।
बालालयस्य स्थानं स्यात् पञ्चहस्तायतं शुभे।। 5.58 ।।
यत्र स्थानं मूलधाम्नो द्वारं तत्रैव वल्लभे।
बालालयस्य कल्प्यं स्याद् बिम्बं लोहेन वा पुनः।। 5.59 ।।
अश्मना वा दारुणा वा शंखचक्रगदाधरम्।
चतुर्भुजं चतुर्हस्तं सर्वलक्षणसंयुतम्।। 5.60 ।।]
[उत्सेधस्तस्य बिम्बस्य (34)चतुर्विंशतिरङ्गुलाः।
(35)ह्रासे पञ्चाङ्गुलः कार्यो न्यूनं तस्य न विद्यते।। 5.61 ।।
(34.पा. ह्रासे पञ्चाङ्गुलौ भवेत्।)
(35.पा. त्रयश्च विंशतिश्चैव वृद्धौ अङ्गुलयः स्मृताः।)
कल्प्यमानस्यालयस्य मूलबिम्बं यथा भवेत्।
कारयीत तथा बिम्बं बालं लोहादिवस्तुभिः।। 5.62 ।।
जलेऽधिवास्य तद्बिम्बं मण्डपे वाधिवासयेत्।
बालालयस्य वै मध्ये मेखलात्रयसंयुतम्।। 5.63 ।।]
हस्तोच्छ्रिते वेदिमध्ये प्रभाते सन्मुहूर्तके।
बालबिम्बं प्रतिष्ठाप्य मन्त्रन्यासादिकं चरेत्।। 5.64 ।।
(36)प्रार्थयीत हरिं तत्र संनिधिं बालविग्रहे।
आ मूलधामप्रारम्भादा समाप्तेर्हरे विभो।। 5.65 ।।
(36.पा. प्रार्थयेत हरेस्तत्र संनिधिं बालमन्दिरे)
पूजां गृह्णीष्व भगवन्नस्मिंस्त्वं बालसद्मनि।
शमयन् मूलधिष्ण्यस्य विघ्नकृद्दैत्यसंहतिम्।। 5.66 ।।
इति (37)संप्रार्थ्य नत्वा तं परिवारान् प्रकल्पयेत्।
द्वारे चण्डप्रचण्डं च क्षेत्रपालं खगेश्वरम्।। 5.67 ।।
(37.पा. विज्ञाप्य)
इन्द्रादिलोकपालांश्च स्वासु दिक्षु प्रकल्पयेत्।
(38)विघ्नेशमीशकोणे तु गणेशं नैर्ऋते यजेत्।। 5.68 ।।
(38.पा. सेनेशं)
अशरीरगतान् देवान् स्थण्डिले पूजयेद् (39)गुरुः।
कुमुदादिगणान् (40)(41)सर्वांस्तस्य पीठे तु पूजयेत्।। 5.69 ।।
(39.पा. बुधः)
(40.पा. सर्वान् महापीठे समर्चयेत्।)
(41.ग्र. सर्व(स्वस्व))
एवं कृत्वा च मेधावी उत्सवं वापि कारयेत्।
देवालये तु संवृत्ते मूलबेरस्य वै रमे।। 5.70 ।।
प्रतिष्ठान्ते बालबिम्बगतां शक्तिं घटे तदा।
नियोज्य (42)मूले बेरे तु तां शक्तिं परिचिन्तयेत्।। 5.71 ।।
(42.ग्र. श्वाप)
एवं बालगृहे विष्णो पूजिते कमलेक्षणे।
प्रत्यूहकारिणः सर्वे प्रणश्यन्ति न संशयः।। 5.72 ।।

    ।। इति श्रीश्रीप्रश्नसंहितायां (43)बालबिम्बप्रतिष्ठा नाम पञ्चमोऽध्यायः ।।
 (43.इदं ग्र. पुस्तके नास्ति।)