प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २१ ब्रह्मवैवर्तपुराणम्
अध्यायः २२
वेदव्यासः
अध्यायः २३ →

नारद उवाच ।।
तुलसी च जगत्पूज्या पूता नारायणप्रिया ।।
तस्याः पूजाविधानं च स्तोत्रं किं न श्रुतं मया।। ।। १ ।।
केन पूज्या स्तुता केन पुरा प्रथमतो मुने ।।
तव पूज्या सा बभूव केन वा वद मामहो ।। २ ।।
सूत उवाच ।।
नारदस्य वचः श्रुत्वा प्रहस्य गरुडध्वजः ।।
कथां कथितुमारेभे पुण्यरूपां पुरातनीम् ।।३।।
नारायण उवाच ।।
हरिः संप्राप्य तुलसीं रेमे च रमया सह ।।
रमासमां तां सौभाग्यां चकार गौरवेण च ।। ४ ।।
सेहे लक्ष्मीश्च गंगा च तस्याश्च नवसंगमम् ।।
सौभाग्यं गौरवं कोपान्न सेहे च सरस्वती ।।५।।
सा तां जघान कलहे मानिनी हरिसन्निधौ ।।
व्रीडया स्वापमानाच्च साऽन्तर्द्धानं चकार ह।।६।।
सर्वसिद्धेश्वरी देवी ज्ञानिनी सिद्धयोगिनी ।।
बभूवादर्शनं कोपात्सर्वत्र च हरेरहो।।७।।
हरिर्न दृष्ट्वा तुलसीं बोधयित्वा सरस्वतीम्।।
तदनुज्ञां गृहीत्वा च जगाम तुलसीवनम्।।८।।
तत्र गत्वा च स्नात्वा च तुलस्या तुलसीं सतीम्।।
पूजयामास ध्यात्वा तां स्तोत्रं भक्त्या चकार ह।।९।।
लक्ष्मीमायाकामवाणीबीजपूर्वं दशाक्षरम्।।
वृन्दावनीति ङेन्तं च वह्निजायान्तमेव च।।2.22.१०।।
श्रीं ह्रीं क्लीं ऐं वृन्दावन्यै स्वाहा ।।
अनेन कल्पतरुणा मन्त्रराजेन नारद ।।
पूजयेच्च विधानेन सर्वसिद्धिं लभेन्नरः ।। ११ ।।
घृतदीपेन धूपेन सिन्दुरचन्दनेन च ।।
नैवेद्येन च पुष्पेण चोपहारेण नारद।।१२।।
हरिस्तोत्रेण तुष्टा सा चाविर्भूय महीरुहात्।।
प्रपन्ना चरणाम्भोजे जगाम शरणं शुभम्।।१३।।
वरं तस्यै ददौ विष्णुर्जगत्पूज्या भवेति च ।।
अहं त्वां च धरिष्यामि स्वमूर्ध्नि वक्षसीति च ।। १४ ।।
सर्वे त्वां धारयिष्यन्ति स्वयं मूर्ध्नि सुरादयः ।।
इत्युक्त्वा तां गृहीत्वा च प्रययौ स्वालयं विभुः।।१५।।
नारद उवाच ।।
किं ध्यानं स्तवनं किं वा किं वा पूजाविधिक्रमम् ।।
तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि।।१६।।
नारायण उवाच।।
अन्तर्हितायां तस्यां च गत्वा च तुलसीवनम्।।
हरिः संपूज्य तुष्टाव तुलसीं विरहातुरः ।। १७ ।।
श्रीभगवानुवाच ।।
वृन्दारूपाश्च वृक्षाश्च यदैकत्र भवन्ति च ।।
विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजा म्यहम्।।१८।।
पुरा बभूव या देवी ह्यादौ वृन्दावने वने ।।
तेन वृन्दावनी ख्याता तां सौभाग्यां भजाम्यहम्।।१९।।
असंख्येषु च विश्वेषु पूजिता या निरन्तरम् ।।
तेन विश्वपूजिताख्यां जगत्पूज्यां भजाम्यहम् ।।2.22.२०।।
असंख्यानि च विश्वानि पवित्राणि यया सदा ।।
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ।।२१।।
देवा न तुष्टाः पुष्पाणां समूहेन यया विना ।।
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः।।२२।।
विश्वे यत्प्राप्तिमात्रेण भक्त्याऽऽनन्दो भवेद्ध्रुवम्।।
नन्दिनी तेन विख्याता सा प्रीता भविता हि मे।।२३।।
यस्या देव्या स्तुला नास्ति विश्वेषु निखिलेषु च ।।
तुलसी तेन विख्याता तां यामि शरणं प्रिये ।। २४ ।।
कृष्णजीवनरूपा या शश्वत्प्रियतमा सती ।।
तेन कृष्णजीवनीति मम रक्षतु जीवनम् ।। २५ ।।
इत्येवं स्तवनं कृत्वा तत्र तस्थौ रमापतिः ।।
ददर्श तुलसीं साक्षात्पाद पद्मे नतां सतीम् ।। २६ ।।
रुदतीमभिमानेन मानिनीं मानपूजिताम् ।।
प्रियां दृष्ट्वा प्रियः शीघ्रं वासयामास वक्षसि ।। २७ ।।
भारत्याज्ञां गृहीत्वा च स्वालयं च ययौ हरिः ।।
भारत्या सह तत्प्रीतिं कारयामास सत्वरम् ।। २८ ।।
वरं विष्णुर्ददौ तस्यै विश्वपूज्या भवेति च ।।
शिरोधार्य्या च सर्वेषां वन्द्या मान्या ममेति च ।। २९ ।।
विष्णोर्वरेण सा देवी परितुष्टा बभूव ह ।।
सरस्वती तामाश्लिष्य वासयामास सन्निधौ ।। 2.22.३० ।।
लक्ष्मीर्गङ्गा सस्मिता तां समाश्लिष्य च नारद ।।
गृहं प्रवेशयामास विनयेन सतीं तदा।।३१।।
वृन्दां वृन्दावनीं विश्वपावनींविश्वपूजिताम् ।।
पुष्पसारां नन्दिनीं च तुलसीं कृष्णजीवनीम्।।३२।।
एतन्नामाष्टकं चैत त्स्तोत्रं नामार्थसंयुतम् ।।
यः पठेत्तां च संपूज्य सोऽश्वमेधफलं लभेत् ।। ३३ ।।
कार्तिकीपूर्णिमायां च तुलस्या जन्म मङ्गलम् ।।
तत्र तस्याश्च पूजा च विहिता हरिणा पुरा ।। ३४ ।।
तस्यां यः पूजयेत्तां च भक्त्या च विश्वपावनीम् ।।
सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ।। ३५ ।।
कार्त्तिके तुलसीपत्रं विष्णवे यो ददाति च ।।
गवामयुतदानस्य फलमाप्नोति निश्चितम् ।।३६।।
अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् ।।
बन्धुहीनो लभेद्बन्धुं स्तोत्रस्मरणमात्रतः ।। ३७ ।।
रोगी प्रमुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।।
भयान्मुच्येत भीतस्तु पापान्मुच्येत पातकी ।। ३८ ।।
इप्येवं कथितं स्तोत्रं ध्यानपूजाविधिं शृणु।।
त्वमेव वेद जानासि काण्वशाखोक्तमेव च ।। ३९ ।।
यद्वक्ष्ये पूजयेत्तां च भक्त्या चावाहनं विना ।।
उपचारैः षोडशभिर्ध्यानं पातकनाशनम् ।। 2.22.४० ।।
तुलसीं पुष्पसारां च सतीं पूज्यां मनोहराम् ।।
कृत्स्नपापेध्मदाहाय ज्वलदग्निशिखोपमाम् ।।४१।।
पुष्पेषु तुलनाप्यस्या नासीद्देवीषु वा मुने ।।
पवित्ररूपा सर्वासु तुलसी सा च कीर्त्तिता ।। ४२ ।।
शिरोधार्य्या च सर्वेषामीप्सितां विश्वपावनीम् ।।
जीवन्मुक्तां मुक्तिदां च भज तां हरिभक्तिदाम्।।४३।।
इति ध्यात्वा च संपूज्य स्तुत्वा च प्रणमेद्बुधः ।।
उक्तं तुलस्युपाख्यानं किं भूयःश्रोतुमि च्छसि ।। ४४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्यानं नाम द्वाविंशतितमोऽध्यायः।।२२।।