ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः २३

← अध्यायः २२ ब्रह्मवैवर्तपुराणम्
अध्यायः २३
वेदव्यासः
अध्यायः २४ →

नारद उवाच ।।
तुलस्युपाख्यानमिदं श्रुतमीश सुधोपमम् ।।
यत्तु सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ।। १ ।।
पुरा येन समुद्भूता सा श्रुता च श्रुतिप्रसूः ।।
केन वा पूजिता देवी प्रथमे कैश्च वा परे ।। २ ।।
नारायण उवाच ।।
ब्रह्मणा वेदजननी पूजिता प्रथमे मुने ।।
द्वितीये च देवगणैस्तत्पश्चाद्विदुषां गणैः ।। ३ ।।
तथा चाश्वपतिः पूर्वं पूजयामास भारते ।।
तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च ।। ४ ।।
नारद उवाच ।।
को वा सोऽश्वपतिर्ब्रह्मन्केन वा तेन पूजिता ।।
सर्वपूज्या च सावित्री तन्मे व्याख्यातुमर्हसि ।। ५ ।।
नारायण उवाच ।।
मद्रदेशे महाराजो बभूवाश्वपतिर्मुने ।।
वैरिणां बलहर्त्ता च मित्राणां दुःखनाशनः ।। ६ ।।
आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी ।।
मालतीति च सा ख्याता यथा लक्ष्मीर्गदाभृतः ।। ७ ।।
सा च राज्ञी महासाध्वी वसिष्ठस्योपदेशतः ।।
चकाराराधनं भक्त्या सावित्र्याश्चैव नारद ।। ८ ।।
प्रत्यादेशं न सा प्राप महिषी न ददर्श ताम् ।।
गृहं जगाम सा दुःखाद्धृदयेन विदूयता ।। ९ ।।
राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै ।।
सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा ।। 2.23.१० ।।
तपश्चचार तत्रैव संयतः शतवत्सरम् ।।
न ददर्श च सावित्रीं प्रत्यादेशो बभूव ह ।। ११ ।।
शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् ।।
गायत्रीदशलक्षं च जपं कुर्विति नारद ।। १२ ।।
एतस्मिन्नन्तरे तत्र प्रजगाम पराशरः ।।
प्रणनाम नृपस्तं च मुनिर्नृपमुवाच ह ।। १३ ।।
पराशर उवाच ।।
सकृज्जपश्च गायत्र्याः पापं दिनकृतं हरेत् ।।
दशधा प्रजपान्नॄणां दिवारात्र्यघमेव च ।। १४ ।।
शतधा च जपाच्चैवं पापं मासार्जितं परम् ।।
सहस्रधा जपाच्चैव कल्मषं वत्सरार्जितम् ।। १५ ।।
लक्षं जन्मकृतं पापं दशलक्षं त्रिजन्मनः ।।
सर्वजन्मकृतं पापं शतलक्षो विनश्यति ।। १५ ।।
करोति मुक्तिं विप्राणां जपो दशगुणस्ततः ।।
करं सर्पफणाकारं कृत्वा तु ऊर्ध्वमुद्रितम् ।। १७ ।।
आनम्रमूर्द्धमचलं प्रजपेत्प्राङ्मुखो द्विजः ।।
अनामिकामध्यदेशादथो वामक्रमेण च ।। १८ ।।
तर्जनीमूलपर्य्यन्तं जपस्यैष क्रमः करे ।।
श्वेतपङ्कज बीजानां स्फाटिकानां च संस्कृताम् ।। १९ ।।
कृत्वा वा मालिकां राजञ्जपेत्तीर्थे सुरालये ।।
संस्थाप्य मालामश्वत्थपत्रसप्तसु संयतः ।। 2.23.२० ।।
कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः ।।
गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम् ।। २१ ।।
अथवा पञ्चगव्येन स्नाता माला च संस्कृता ।।
अथ गङ्गोदकेनैव स्नाता वाऽतिसुसंस्कृता ।।२२।।
एवं क्रमेण राजर्षे दशलक्षं जपं कुरु ।।
साक्षाद् द्रक्ष्यसि सावित्रीं त्रिजन्ममपातकक्षयात् ।। २३ ।।
नित्यं नित्यं त्रिसन्ध्यं च करिष्यसि दिने दिने ।।
मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा ।। २४ ।।
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ।। २५ ।।
नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।।
स शूद्रवद्बहिष्कार्य्यः सर्वस्माद् द्विजकर्मणः ।।२६।।
यावज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यां करोति च ।।
स च सूर्य्यसमो विप्रस्तेजसा तपसा सदा ।।२७।।
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा ।।
जीवन्मुक्तः स तेजस्वी सन्ध्या पूतो हि यो द्विजः ।। २८ ।।
तीर्थानि च पवित्राणि तस्य स्पर्शनमात्रतः ।।
ततः पापानि यान्त्येव वैनतेयादिवोरगाः ।। २९ ।।
न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् ।।
स्वेच्छया च द्विजातेश्च त्रिसन्ध्यरहितस्य च ।। 2.23.३० ।।
विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः ।।
एकादशीविहीनश्च विषहीनो यथोरगः ।। ३१ ।।
हरेरनैवेद्यभोजी धावको वृषवाहकः ।।
शूद्रान्नभोजी विप्रश्च विषहीनो यथोरगः ।। ३२ ।।
शवदाही च शूद्राणां यो विप्रो वृषलीपतिः ।।
शूद्राणां सूपकारश्च विषहीनो यथोरगः ।। ३३ ।।
शूद्राणां च प्रतिग्राही शूद्रयाजी च यो द्विजः ।।
असिजीवी मषीजीवी विषहीनो यथोरगः ।।३४।।
यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ।।
भगजीवी वार्धुषिको विषहीनो यथोरगः ।। ३५ ।।
यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी ।।
यो विद्याविक्रयी भूप विषहीनो यथोरगः ।। ३६ ।।
सूर्य्योदये च द्विर्भोजी मत्स्यभोजी च यो द्विजः ।।
शिलापूजादिरहितो विषहीनो यथोरगः ।। ३७ ।।
इत्युक्त्वा च मुनिश्रेष्ठः सर्व पूजाविधिक्रमम् ।।
तमुवाच च सावित्र्या ध्यानादिकमभीप्सितम् ।। ३८ ।।
दत्त्वा सर्वं नृपेन्द्राय प्रययौ स्वालयं मुनिः ।।
राजा संपूज्य सावित्रीं ददर्श वरमाप च।।३९।।
नारद उवाच।।
किं वा ध्यानं च सावित्र्याः किं वा पूजाविधानकम्।।
स्तोत्रं मन्त्रं च किं दत्त्वा प्रययौ स पराशरः ।।2.23.४०।।
नृपः केन विधानेन संपूज्य श्रुतिमातरम्।।
वरं च किं वा संप्राप वद सोऽश्वपतिर्नृपः।।४१।।
नारायण उवाच।।
ज्येष्ठे कृष्णत्रयोदश्यां शुद्धे काले च संयतः।।
व्रतमेव चतुर्दश्यां व्रती भक्त्या समाचरेत्।।४२।।
व्रतं चतुर्दशाब्दं च द्विसप्तफलसंयुतम्।।
दत्त्वा द्विसप्तनैवेद्यं पुष्पधूपादिकं तथा ।।४३।।
वस्त्रं यज्ञोपवीतं च भोज्यं च विधिपूर्वकम्।।
संस्थाप्य मङ्गलघटं फलशाखासमन्वितम।।४४।।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्।।
संपूज्य पूजयेदिष्टं घटे आवाहिते मुने।।४५।।
शृणु ध्यानं च सावित्र्याश्चोक्तं माध्यन्दिने च यत्।।
स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम् ।। ४६ ।।
तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा ।।
ग्रीष्ममध्याह्नमार्त्तण्डसहस्रसमसुप्रभाम् ।। ४७ ।।
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्।।
वह्निशुद्धांशुकाधानां भक्तानुग्रहकातराम् ।।४८।।
सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः।।
सर्वसम्पत्स्वरूपां च प्रदात्रीं सर्वसम्पदाम् ।। ४९ ।।
वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् ।।
वेदे बीजस्वरूपां च भजे त्वां वेदमातरम् ।। 2.23.५० ।।
ध्यात्वा ध्यानेन चानेन दत्त्वा पुष्पं स्वमूर्द्धनि ।।
पुनर्ध्यात्वा घटे भक्त्या देवीमावाहयेद्व्रती ।। ५१ ।।
दत्त्वा षोडशोपचारं वेदोक्तमन्त्रपूर्वकम् ।।
सम्पूज्य स्तुत्वा प्रणमेदेवं देवीं विधानतः ।। ५२ ।।
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् ।।
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम्।।५३।।
वसनं भूषणं माल्यं गन्धमाचमनीयकम्।।
मनोहरं सुतल्पं च देयान्येतानि षोडश।।५४।।
दारुसारविकारं च हेमादिनिर्मितं च वा ।।
देवाधारं पुण्यदं च मया नित्यं निवेदितम् ।। ५५ ।।
तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत् ।।
पूजाङ्गभूतं शुद्धं च मया भक्त्या निवेदितम्।। ५६ ।।
पवित्ररूपमर्घ्यं च दूर्वापुष्पाक्षतान्वितम् ।।
पुण्यदं शंखतोयाक्तं मया तुभ्यं निवेदितम् ।। ५७।।
सुगन्धि धात्रीतैलं च देहसौन्दर्य्यकारणम् ।।
मया निवेदितं भक्त्या स्नानीयं प्रतिगृह्यताम् ।। ५८ ।।
मलयाचलसम्भूतं देहशोभाविवर्द्धनम् ।।
सुगन्धियुक्तं सुखदं मया तुभ्यं निवेदितम् ।। ५९ ।।
गन्धद्रव्योद्भवः पुण्यः प्रीतिदो दिव्यगन्धदः ।।
मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् ।। 2.23.६० ।।
जगतां दर्शनीयं च दर्शनं दीप्तिकारणम् ।।
अन्धकारध्वंसबीजं मया तुभ्यं निवेदितम् ।। ६१ ।।
तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम् ।।
पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम् ।। ६२ ।।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।।
तुष्टिदं पुष्टिदं चैव मया भक्त्या निवेदितम् ।। ६३ ।।
सुशीतलं वासितं च पिपासानाशकारणम् ।।
जगतां जीवरूपं च जीवनं प्रतिगृह्यताम् ।।६४।।
देहशोभास्वरूपं च सभाशोभाविवर्द्धनम् ।।
कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् ।।६५।।
काञ्चनादिभिराबद्धं श्रीयुक्तं श्रीकरं सदा।।
सुखदं पुण्यदं चैव भूषणं प्रतिगृह्यताम् ।। ६६ ।।
नानापुष्पलताकीर्णं बहुभासा समन्वितम् ।।
प्रीतिदं पुण्यदं चैव माल्यं वै प्रतिगृह्यताम् ।। ६७ ।।
सर्वमङ्गलरूपश्च सर्व मङ्गलदो वरः ।।
पुण्यप्रदश्च गन्धाढ्यो गन्धश्च प्रतिगृह्यताम् ।।६८।।
शुद्धं शुद्धिप्रदं चैव शुद्धानां प्रीतिदं महत् ।।
रम्यमाचमनीयं च मया दत्तं प्रगृह्यताम् ।। ६९ ।।
रत्नसारादिनिर्माणं पुष्पचन्दनसंयुतम् ।।
सुखदं पुण्यदं चैव सुतल्पं प्रतिगृह्यताम ।। 2.23.७० ।।
नानावृक्षसमुद्भूतं नानारूपसमन्वितम् ।।
फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् ।। ७१ ।।
सिन्दूरं च वरं रम्यं भालशोभाविवर्द्धनम् ।।
भूषणं भूषणानां च सिन्दूरं प्रतिगृह्यताम् ।। ७२ ।।
विशुद्धग्रंथिसंयुक्तं पुण्यसूत्रविनिर्मितम् ।।
पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् ।। ७३ ।।
द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः ।।
ततः प्रणम्य विप्राय व्रती दद्याच्च दक्षिणाम् ।। ७४ ।।
सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च ।।
लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः ।। ७९ ।।
श्रीं ह्रीं क्लीं सावित्र्यै स्वाहा ।।
मध्यन्दिनोक्तं स्तोत्रं च सर्ववाञ्छाफलप्रदम् ।।
विप्रजीवनरूपं च निबोध कथयामि ते ।।७६।।
कृष्णेन दत्ता सावित्री गोलोके ब्रह्मणे पुरा ।।।
न याति सा तेन सार्द्धं ब्रह्मलोकं तु नारद ।। ७७ ।।
ब्रह्मा कृष्णाज्ञया भक्त्या पर्यष्टौद्वेदमातरम् ।।
तदा सा परितुष्टा च ब्रह्माणं चकमे सती ।। ७८ ।।
ब्रह्मोवाच ।।
नारायणस्वरूपे च नारायणि सनातनि ।।
नारायणात्समुद्भूते प्रसन्ना भव सुन्दरि ।। ७९ ।।।।
तेजस्स्वरूपे परमे परमानन्दरूपिणि ।।
द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि।।2.23.८०।।
नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि।।
सर्वमंगलरूपेण प्रसन्ना भव सुन्दरि ।।८१।।
सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे ।।
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि।।८२।।
विप्रपापेन्धदाहाय ज्वलदग्निशिखोपमे ।।
ब्रह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि ।। ८३ ।।
कायेन मनसा वाचा यत्पापं कुरुते द्विजः ।।
तत्ते स्मरणमात्रेण भस्मीभूतं भविष्यति।।८४।।
इत्युक्त्वा जगतां धाता तत्र तस्थौ च संसदि ।।
सावित्री ब्रह्मणा सार्द्धं ब्रह्मलोकं जगाम सा ।।८९ ।।
अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः ।।
ददर्श तां च सावित्रीं वरं प्राप मनोगतम् ।।८६।।
स्तवराजमिदं पुण्यं त्रिसन्ध्यायां च यः पठेत् ।।
पाठे चतुर्णां वेदानां यत्फलं तल्लभेद् ध्रुवम् ।। ८७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने सावित्रीस्तोत्रकथनं नाम त्रयोविंशतितमोध्यायः ।। २३ ।।