प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २३ ब्रह्मवैवर्तपुराणम्
अध्यायः २४
वेदव्यासः
अध्यायः २५ →

नारायण उवाच ।।
स्तुत्वा सोऽश्वपतिस्तेन संपूज्य विधिपूर्वकम् ।।
ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम् ।। १ ।।
उवाच सा तं राजानं प्रसन्ना सस्मिता सती ।।
यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा ।।२।।
सावित्र्युवाच ।।
जानामि ते महाराज यत्ते मनसि वर्त्तते ।।
वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम् ।।३ ।।
साध्वी कन्याभिलाषं च करोति तव कामिनी ।।
त्वं प्रार्थयसि पुत्रं च भविष्यति च ते क्रमात् ।। ४ ।।
इत्युक्त्वा सा महादेवी ब्रह्मलोकं जगाम ह ।।
राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह ।। ५ ।।
राज्ञो धनाच्च सावित्र्या बभूव कमला कला ।।
सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः ।। ६ ।।
कालेन सा वर्द्धमाना बभूव च दिने दिने ।।
रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा ।। ७ ।।
सा वरं वरयामास द्युमत्सेनात्मजं तदा।।
सावित्री सत्यवन्तं च नानागुणसमन्वितम् ।। ।।८।।
राजा तस्मै ददौ तां च रत्नभूषणभूषिताम् ।।
स च सार्धं कौतुकेन तां गृहीत्वा गृहं ययौ।।९।।
स च संवत्सरेऽतीते सत्यवान्सत्यविक्रमः ।।
जगाम फलकाष्ठार्थं प्रहर्षं पितुराज्ञया ।।2.24.१०।।
जगाम तत्र सावित्री तत्पश्चाद्दैवयोगतः ।।
निपत्य वृक्षाद्दैवेन प्राणांस्तत्याज सत्यवान् ।। ११ ।।
यमस्तज्जीवपुरुषं बद्ध्वाङ्गुष्ठसमं मुने ।।
गृहीत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती ।। १२ ।।
पश्चात्तां सुन्दरीं दृष्ट्वा यमः संयमिनीपतिः ।।
उवाच मधुरं साध्वीं साधूनां प्रवरो महान् ।। १३ ।।
यम उवाच ।।
अहो क्व यासि सावित्रि गृहीत्वा मानुषीं तनुम् ।।
यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज ।। १४ ।।
गन्तुं मर्त्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम्।।
देहं च यमलोकं च नश्वरं नश्वरः सदाः ।। १५ ।।
पूर्णश्च भर्त्तुस्ते कालः ह्यभवद्भारते सति ।।
स कर्मफलभोगार्थं सत्यवान्याति मद्गृहम् ।। १६ ।।
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।।
सुखं दुःखं भयं शोकं कर्मणैव प्रपद्यते ।। १७ ।।
कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मणा ।।
स्वकर्मणा हरेर्दासो जन्मादिरहितो भवेत् ।। १६ ।।
स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम् ।।
लभेत्स्वकर्मणा विष्णोः सालोक्यादिचतुष्टयम् ।। १९ ।।
कर्मणा ब्राह्मणत्वं च मुक्तत्वं च स्वकर्मणा ।।
सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः ।। 2.24.२० ।।
कर्मणा च मुनीन्द्रत्वं तपस्वित्वं च कर्मणा ।।
कर्मणा क्षत्रियत्वं च वैश्यत्वं च स्वकर्मणा ।। २१ ।।
कर्मणा चैव शूद्रत्वमन्त्यजत्वं स्वकर्मणा ।। २२ ।।
स्वकर्मणा च म्लेच्छत्वं लभते नात्र संशयः ।।
स्वकर्मणा जङ्गमत्वं स्थावरत्वं स्वकर्मणा ।। २३ ।।
स्वकर्मणा च शैलत्वं वृक्षत्वं च स्वकर्मणा ।।
स्वकर्मणा पशुत्वं च पक्षित्वं च स्वकर्मणा ।। २४ ।।
स्वकर्मणा क्षुद्रजन्तुः कृमित्वं च स्वकर्मणा ।।
स्वकर्मणा च सर्पत्वं गन्धर्वत्वं स्वकर्मणा ।। २५ ।।
स्वकर्मणा राक्षसत्वं किन्नरत्वं स्वकर्मणा ।।
स्वकर्मणा च यक्षत्वं कूष्माण्डत्वं स्वकर्मणा ।। २६ ।।
स्वकर्मणा च प्रेतत्वं वेतालत्वं स्वकर्मणा।।
भूतत्वं च पिशाचत्वं डाकिनीत्वं स्वकर्मणा ।। २७ ।।
दैत्यत्वं दानवत्वं चाप्यसुरत्वं स्वकर्मणा ।।
कर्मणा पुण्यवाञ्जीवो महापापी स्वकर्मणा ।। २८ ।।
कर्मणा सुन्दरोऽरोगी महारोगी च कर्मणा ।।
कर्मणा चान्धः काणश्च कुत्सितश्च स्वकर्मणा ।। २९ ।।
कर्मणा नरकं यान्ति जीवाः स्वर्गं स्वकर्मणा ।।
कर्मणा शक्रलोकं च सूर्य्यलोकं स्वकर्मणा ।। 2.24.३० ।।
कर्मणा चन्द्रलोकं च वह्निलोकं स्वकर्मणा ।।
कर्मणा वायुलोकं च कर्मणा वरुणालयम् ।। ३१ ।।
तथा कुबेरलोकं च नरो याति स्वकर्मणा ।।
कर्मणा ध्रुवलोकं च शिवलोकं स्वकर्मणा ।। ३२ ।।
याति नक्षत्रलोकं च सत्यलोकं स्वकर्मणा ।।
जनोलोकं तपोलोकं महर्लोकं स्वकर्मणा ।। ३३ ।।
स्वकर्मणा च पातालं ब्रह्मलोकं स्वकर्मणा ।।
कर्मणा भारतं पुण्यं सर्वेप्सितवरप्रदम् ।। ३४ ।।
कर्मणा याति वैकुण्ठं गोलोकं च निरामयम् ।।
कर्मणा चिरजीवी च क्षणायुश्च स्वकर्मणा ।। ३५ ।।
कर्मणा कोटिकल्पायुः क्षीणायुश्च स्वकर्मणा ।।
जीवसंचारमात्रायुर्गर्भे मृत्युः स्वकर्मणा ।। ३६ ।।
इत्येवं कथितं सर्वं मया तत्त्वं च सुन्दरि ।।
कर्मणा ते मृतो भर्त्ता गच्छ वत्से यथासुखम् ।। ३७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे कर्मविपाके कर्मणः सर्वहेतुत्वप्रदर्शनं नाम चतुर्विंशतितमोऽध्यायः ।। २४ ।।