प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २९ ब्रह्मवैवर्तपुराणम्
अध्यायः ३०
वेदव्यासः
अध्यायः ३१ →

2.30
यम उवाच ।।
हरिसेवारतः शुद्धो योगी सिद्धो व्रतो सति ।।
तपस्वी ब्रह्मचारी च न याति नरकं यतिः ।। १ ।।
कटुवाचा बान्धवांश्च खलत्वेन च यो नरः ।।
दग्धान्करोति बलवान्वह्निकुण्डं प्रयाति सः ।। २ ।।
गात्रलोमप्रमाणाब्दं तत्र स्थित्वा हुताशने ।।
पशुयोनिमवाप्नोति रौद्रे दग्धस्त्रिजन्मनि ।। ३ ।।
ब्राह्मणं तृषितं क्षुब्धं प्रतप्तं गृहमागतम् ।।
न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः ।। ४ ।।
तत्र लोमप्रमाणाब्दं स्थित्वा तत्र च दुःखितः ।।
तप्तस्थले वह्निकुण्डे पक्षी च सप्तजन्मसु ।। ५ ।।
रविवारार्कसंक्रान्त्याममायां श्राद्धवासरे ।।
वस्त्राणां क्षारसंयोगं करोति यो हि मानवः ।। ६ ।।
स याति क्षारकुण्डं च सूत्रमानाब्दमेव च ।।
स व्रजेद्राजकीं योनिं सप्तजन्मसु भारते ।। ७ ।।
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।।
षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः ।। ८ ।।
षष्टिवर्षसहस्राणि विड्भोजी तत्र तिष्ठति ।।
षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि ।।९।।
परकीयतडागे च तडागं यः करोति च ।।
उत्सृजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः ।। 2.30.१० ।।
तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति ।।
भारते गोधिका चैव स भवेत्सप्तजन्मसु ।। ११ ।।
एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति सः ।।
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।। १२ ।।
पूर्णमब्दशतं चैव स प्रेतो भारते भवेत् ।।
श्लेष्ममूत्रगरं चैव पूयं भुङ्क्ते ततः शुचिः ।। १३ ।।
पितरं मातरं चैव गुरुं भार्य्यां सुतं सुताम् ।।
यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः ।। १४ ।।
पूर्णमब्दसहस्रं च तद्भोजी तत्र तिष्ठति ।।
ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ।। १५ ।।
दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः ।।
पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः ।। १६ ।।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।।
इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत्।। १७ ।।
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।।
ततो नरो भवेद्भूमौ दरिद्रः सप्तजन्मसु ।। १८ ।।
दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि।।
स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम्।।१९।।
ततो भवेत्स चण्डालस्त्रिजन्मनि ततः शुचिः ।।
कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु ।।
ततो भवेन्मानवश्च दरिद्रोऽल्पायुरेव च ।।2.30.२०।।
पुमांसं कामिनी वाऽपि कामिनीं वा पुमानथ ।।
यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः ।। २१ ।।
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।।
योनिकृमिः शताब्दं च भवेद्भुवि ततः शुचिः ।। २२ ।।
सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् ।।
स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम्।।२३।।
ततो भवेद्व्याधजन्म सप्तजन्मसु भारते ।।
ततः शुद्धिमवाप्नोति मानवश्च क्रमेण च ।। २४ ।।
अश्रु स्रवन्तं गायन्तं भक्तं दृष्ट्वा च गद्गदम् ।।
श्रीकृष्णगुणसंगीते हसत्येव हि यो नरः ।। २५ ।।
स वसेदश्रुकुण्डे च तद्भोजी शतवत्सरम् ।।
ततो भवेत्स चण्डालस्त्रिजन्मनि ततः शुचिः ।। २६ ।।
करोति खलतां शश्वदशुद्धहृदयो नरः ।।
कुण्डं गात्रमलानां च स च याति दशाब्दकम् ।। २७ ।।
ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि ।।
त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद्ध्रुवम् ।। २८ ।।
बधिरं यो हसत्येव निन्दत्येव हि मानवः ।।
स वसेत्कर्णविट्कुण्डे तद्भोजी शतवत्सरम् ।। २९ ।।
ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु ।।
सप्तजन्मस्वङ्गहीनस्ततः शुद्धिं लभेद्ध्रुवम् ।। ।। 2.30.३० ।।
लोभात्स्वपालनार्थाय जीविनं हन्ति यो नरः ।।
मज्जाकुण्डे वसेत्सोऽपि तद्भोजी लक्षवर्षकम् ।। ३१ ।।
ततो भवेत्स शशको मीनश्च सप्तजन्मसु ।।
एणादयश्च कर्म्मभ्यस्ततः शुद्धिं लभेद्ध्रुवम् ।।३२।।
स्वकन्यापालनं कृत्वा विक्रीणाति हि यो नरः ।।
अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः ।। ३३ ।।
कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति ।।
तं च कुण्डे प्रहारं च करोति यमकिङ्करः ।। ३४ ।।
मांसभारं मूर्ध्नि कृत्वा रक्तधारां लिहेत्क्षुधा ।।
ततो हि भारते पापी कन्याविट्सु कृमिर्भवेत् ।। ३५ ।।
षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु ।।
त्रिजन्मनि वराहश्च कुक्कुरस्सप्तजन्मसु ।। ३६ ।।
सप्तजन्मसु मण्डूको जलौकाः सप्तजन्मसु ।।
सप्तजन्मसु काकश्च ततः शुद्धिं लभेद्ध्रुवम् ।। ३७ ।।
व्रतानामुपवासानां श्राद्धादीनां च संयमे ।।
न करोति क्षौरकर्म सोऽशुचिः सर्वकर्मसु ।। ३८ ।।
स च तिष्ठति कुण्डेषु नखादीनां च सुन्दरि ।।
तदेव दिनमानाब्दं तद्भोजी दण्डताडितः ।। ३९ ।।
सकेशं पार्थिवं लिङ्गं यो वाऽर्चयति भारते ।।
स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम् ।। 2.30.४० ।।
तदन्ते यावनीं योनिं प्रयाति हरकोपतः ।।
शताब्दाच्छुद्धिमाप्नोति स्वकुलं लभते ध्रुवम् ।। ४१ ।।
पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च ।।
स तिष्ठत्यस्थिकुण्डे च स्वलोमाब्दं महोल्बणे ।। ४२ ।।
ततः स्वयोनिं संप्राप्य खञ्जः सप्तसु जन्मसु ।।
भवेन्महादरिद्रश्च ततः शुद्धो हि दण्डतः ।। ४३ ।।
यः सेवते महामूढो गुर्विणीं च स्वकामिनीम् ।।
प्रतप्तताम्रकुण्डे च शतवर्षं स तिष्ठति।। ।। ४४ ।।
अवीरान्नं च यो भुङ्क्ते ऋतुस्नातान्नमेव च ।।
लौहकुण्डे शताब्दं च स च तिष्ठति तप्तके ।। ४९ ।।
स व्रजेद्राजकीं योनिं कर्मकारीं च सप्तसु ।।
महाव्रणी दरिद्रश्च ततः शुद्धो भवेन्नरः ।। ।। ४६ ।।
यो हि घर्माक्तहस्तेन देवद्रव्यमुपस्पृशेत् ।।
शतवर्षप्रमाणं च घर्मकुण्डे स तिष्ठति ।। ४७ ।।
यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च ।।
स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः ।। ४८।।
ततो भवेच्छ्रद्रयाजी ब्राह्मणः सप्तजन्मसु ।।
शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद् ध्रुवम् ।। ।। ४९ ।।
वाग्दुष्टा कटुवाचा या ताडयेत्स्वामिनं सदा ।।
तीक्ष्णकण्टककुण्डे सा तद्भोजी तत्र तिष्ठति ।। 2.30.५० ।।
ताडिता यमदूतेन दण्डेन च चतुर्युगम् ।।
तत उच्चैःश्रवाः सप्तजन्मस्वेव ततः शुचिः ।।५१।।
विषेण जीविनं हन्ति निर्दयो यो हि पामरः ।।
विषकुंडे च तद्भोजी सहस्राब्दं च तिष्ठति।। ।।५२।।
ततो भवेन्नृघाती च व्रणी स्यात्सप्तजन्मसु ।।
सप्तजन्मसु कुष्ठी च ततः शुद्धो भवेद्ध्रुवम् ।।५३।।
दण्डेन ताडयेद्यो हि वृषं च वृषवाहकः ।।
भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते ।। ५४ ।।
प्रतप्ततैलकुण्डे च स तिष्ठति चतुर्युगम् ।।
गवां लोमप्रमाणाब्दं वृषो भवति तत्परम् ।। ५५ ।।
दन्तेन हन्ति जीवं यो लौहेन बडिशेन वा ।।
दन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं सति ।। ५६ ।।
ततः स्वयोनिं संप्राप्य चोदरव्याधिसंयुतः।।
क्लिष्टेन जन्मनैकेन ततः शुद्धो भवेन्नरः।।५७।।
यो भुंक्ते च वृथा मांसं मत्स्यभोजी च ब्राह्मणः ।।
हरेरनैवेद्यभोजी कृमिकुण्डं प्रयाति सः ।। ५८ ।।
स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति ।।
ततो भवेन्म्लेच्छजातिस्त्रिजन्मनि ततो द्विजः ।।५९।।
ब्राह्मणः शूद्रयाजी यः शूद्रश्राद्धान्नभोजकः ।।
शूद्राणां शवदाही च पूयकुण्डं व्रजेद्ध्रुवम् ।।2.30.६०।।
यावल्लोमप्रमाणाब्दं यजमानस्य सुव्रते ।।
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।। ६१ ।।
ततो भारतमागत्य स शूद्रः सप्तजन्मसु ।।
महाशूली दरिद्रश्च ततः शुद्धः पुनर्द्विजः ।। ६२ ।।
लघुं कूरं महान्तं वा सर्पं हन्ति च यो नरः ।।
स्वात्मलोमप्रमाणाब्दं सर्पकुण्डं प्रयाति सः ।। ६३ ।।
सर्पेण भक्षितः सोऽपि यमदूतेन ताडितः ।।
वसेच्च सर्पविट्जीवी ततः सर्पो भवेद्ध्रुवम् ।। ६४ ।।
ततो भवेन्मानवश्चाप्यल्पायुर्दद्रुसंयुतः ।।
महाक्लेशेन तन्मृत्युः सर्पेण भक्षणं ध्रुवम् ।। ६५ ।।
विधिं प्रकल्प्य जीवांश्च क्षुद्रजन्तूंश्च हन्ति यः ।।
सदंशमशके कुण्डे जन्ममानदिनाब्दकम् ।। ६६ ।।
दिवानिशं भक्षितस्तैरनाहारश्च शब्दकृत् ।।
बद्धहस्तपदादिश्च यमदूतेन ताडितः।। ६७ ।।
ततो भवेत्क्षुद्रजन्तुर्जातिर्वै यावती स्मृता ।।
ततो भवेन्मानवश्च सोऽङ्गहीनस्ततः शुचिः ।। ६८ ।।
यो मूढो मधु गृह्णाति हत्वा च मधुमक्षिकाः ।।
स एव गरले कुंडे जीवमानदिनाब्दकम् ।। ६९ ।।
भक्षितो गरलैर्दग्धो यमदूतेन ताडितः ।।
ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः ।। 2.30.७० ।।
दण्डं करोत्यदंड्ये च विप्रे दण्डं करोति च ।।
स कुण्डं वज्रदंष्ट्राणां कीटानां वै प्रयाति च ।। ७१ ।।
तल्लोममानवर्षं च तत्र तिष्ठत्यहर्निशम् ।।
शब्दकृद्भक्षितस्तैश्च ततः शुद्धो भवेन्नरः ।। ७२ ।।
अर्थलोभेन यो भूपः प्रजादण्डं करोति च ।।
वृश्चिकानां च कुण्डेषु तल्लोमाब्दं वसेद्ध्रुवम् ।। ७३ ।।
ततो वृश्चिकजातिश्च सप्तजन्मसु जायते ।।
ततो नरश्चाङ्गहीनो व्याधियुक्तो भवेद्ध्रुवम् ।। ७४ ।।
ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् ।।
सन्ध्याहीनश्च मूढश्च हरिभक्तिविहीनकः ।। ७५ ।।
स तिष्ठति स्वलोमाब्दं कुण्डादिषु शरादिषु ।।
विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः ।। ७६ ।।
कारागारे सान्धकारे निबध्नाति प्रजाश्च यः ।।
प्रमत्तः स्वल्पदोषेण गोलकुण्डं प्रयाति सः ।। ।। ७७ ।।
तत्कुण्डं तप्ततोयाक्तं सान्धकारं भयङ्करम् ।।
तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम् ।। १७८।।
कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च ।।
ततो भवेन्नीचभृत्यस्ततः शुद्धो नरो भुवि ।। ७९ ।।
सरोवरादुत्थितांश्च नक्रादीन्हन्ति यः सति ।।
नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः १।। 2.30.८० ।।
ततो नक्रादिजातिश्च भवेन्नद्यादिषु ध्रुवम् ।।
ततः सद्यो विशुद्धो हि दण्डेनैव नरः पुनः ।। ८१ ।।
वक्षः श्रोणीस्तनास्यं च यः पश्यति परस्त्रियाः ।।
कामेन कामुको यो हि पुण्यक्षेत्रे च भारते ।।८२।।
स वसेत्काककुण्डं च काकैश्च क्षुण्णलोचनः ।।
ततः स्वलोममानाब्दं ततश्चान्धस्त्रिजन्मनि।।८३।।
सप्तजन्मदरिद्रश्च महाक्रूरश्च पातकी ।।
भारते स्वर्णकारश्च स च स्वर्णवणिक्ततः ।। ८४ ।।
यो भारते ताम्रचौरो लौहचौरश्च सुन्दरि ।।
स स्वलोमप्रमाणाब्दं वज्रकुण्डं प्रयाति वै ।। ८९ ।।
तत्रैव वज्रविड्भोजी वज्रैश्च क्षुण्णलोचनः ।।
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ।। ८६ ।।
भारते देवचौरश्च देवद्रव्यादिहारकः ।।
सुदुष्करे वज्रकुण्डे स्वलोमाब्दं वसेद्ध्रुवम् ।। ८७ ।।
देहदग्धो हि तद्वज्रैरनाहारश्च शब्दकृत् ।।
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ।। ।। ८८ ।।
रौप्यगव्यां शुकानां च यश्चौरः सुरविप्रयोः ।।
तप्तपाषाणकुण्डे च स्वलोमाब्दं वसेद्ध्रुवम् ।। ८९ ।।
त्रिजन्मनि बकः सोऽपि श्वेतहंसस्त्रिजन्मनि ।।
जन्मैकं शङ्खचिल्लश्च ततोऽन्ये श्वेतपक्षिणः ।। 2.30.९० ।।
ततो रक्तविकारी च शूली वै मानवो भवेत् ।।
सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः ।। ९१ ।।
रैत्यकांस्यादिपात्रं च यो हरेत्सुरविप्रयोः ।।
तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेद्ध्रुवम् ।। ९२ ।।
स भवेदश्वजातिश्च भारते सप्तजन्मसु ।।
ततोऽ धिकाङ्गयुक्तश्च पादरोगी ततः शुचिः ।। ९३ ।।
पुंश्चल्यन्नं च यो भुंक्ते पुंश्चलीजीव्यजीवनः ।।
स्वलोममानवर्षं च लालाकुण्डे वसेद्ध्रुवम् ।। ९४ ।।
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।।
ततश्चक्षुश्शूलरोगी ततः शुद्धः क्रमेण सः ।। ९५ ।। ।
म्लेच्छसेवी मषीजीवी यो विप्रो भारते भुवि ।।
स च तप्तमषीकुण्डे स्वलोमाब्दं वसेद्ध्रुवम् ।। ९६ ।।
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।।
ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति ।। ९७ ।।
त्रिजन्मनि भवेच्छागः कृष्णसर्पस्त्रिजन्मनि ।।
ततश्च तालवृक्षश्च ततः शुद्धो भवेन्नरः ।। ९८ ।।
धान्यादि सस्यं ताम्बूलं यो हरेत्सुरविप्रयोः ।।
आसनं च तथा तल्पं चूर्णकुण्डं प्रयाति सः ।। ९९ ।।
शताब्दं तत्र निवसेद्यमदूतेन ताडितः ।।
ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि ।। 2.30.१०० ।।
ततो भवेन्मानवश्च कासव्याधियुतो भुवि ।।
वंशहीनो दरिद्रश्चाप्यल्पायुश्च ततः शुचिः ।। १०१ ।।
चक्रं करोति विप्राणां हृत्वा द्रव्यं च यो नरः ।।
स वसेच्चक्रकुण्डे च शताब्दं दंडताडितः ।। १०२ ।।
ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि ।।
व्याधियुक्तो भवेद्रोगी वंशहीनस्ततः शुचिः ।। १०३ ।।
बान्धवेषु च विप्रेषु कुरुते वक्रतां नरः।।
प्रयाति वज्रकुण्डं च वसेत्तत्र युगं सति ।। १०४ ।।
ततो भवेत्स वक्रांगो हीनाङ्गः सप्तजन्मसु ।।
दरिद्रो वंशहीनश्च भार्य्याहीनस्ततः शुचिः ।। १०५ ।।
शयने कूर्ममांसं च ब्राह्मणो यो हि भक्षति ।।
कूर्म्मकुण्डे वसेत्सोऽपि शताब्दं कूर्म्मभक्षितः।।१०६।।
ततो भवेत्कूर्म्मजन्म त्रिजन्मनि च सूकरः।।
त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि ।। १०७ ।।
घृततैलादिकं चैव यो हरेत्सुरविप्रयोः ।।
ज्वालकुण्डं स वै याति भस्मकुण्डं च पातकी ।। १०८।।
तत्र स्थित्वा शताब्दं च स भवेत्तैलपायिकः ।।
सप्तजन्मसु मत्स्यः स्यान्मूषकश्च ततः शुचिः ।। १०९ ।।
सुगन्धितैलं धात्रीं च गन्धद्रव्यं तथैव वा ।।
भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः ।। 2.30.११० ।।
वसेद्दुर्गन्धकुंडे च दुर्गन्धं च लभेत्सदा ।।
स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत् ।। १११ ।।
दुर्गंधिकः सप्तजनौ मृगनाभिस्त्रिजन्मनि ।।
सप्तजन्म सुगंधिश्च ततो वै मानवो भवेत् ।। ११२ ।।
बलेनैव खलत्वेन हिंसारूपेण वा सति ।।
बली च यो हरेद्भूमिं भारते परपैतृकीम् ।। ११३ ।।
स वसेत्तप्तशूले च भवेत्ततो दिवानिशम् ।।
तप्ततैले यथा जीवो दग्धो भ्रमति सन्ततम् ।। ११४ ।।
भस्मसान्न भवत्येव भोगदेहो न नश्यति ।।
सप्तमन्वन्तरं पापी सन्तप्तस्तत्र तिष्ठति ।। ११५ ।।
शब्दं करोत्यनाहारो यमदूतेन ताडितः ।।
षष्टिवर्षसहस्राणि विट्कृमिर्भारते ततः ।। ११६ ।।
ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः ।।
ततः स्वयोनिं संप्राप्य शुभकर्मा भवेत्पुनः ।। ११७ ।।
छिनत्ति जीविनः खङ्गैर्दयाहीनः सुदारुणः ।।
नरघाती हन्ति नरमर्थलोभेन भारते ।। ११८ ।।
असिपत्रे च स वसेद्यावदिन्द्राश्चतुर्दश ।।
तेषु चेद्ब्राह्मणान्हन्ति शतमन्वन्तरं तदा ।।११९ ।।
छिन्नाङ्गश्च भवेत्पापी खङ्गधारेण सन्ततम् ।।
अनाहारः शब्दकृच्च यमदूतेन ताडितः ।। 2.30.१२० ।।
चण्डालः शतजन्मानि भारते सूकरो भवेत् ।।
कुक्कुरः शतजन्मानि सृगालः सप्तजन्मसु ।। १२१ ।।
व्याघ्रश्च सप्तजन्मानि वृकश्चैव त्रिजन्मनि ।।
जन्मसप्तसु गंडो स्यान्महिषश्च त्रिजन्मनि ।। १२२ ।।
ग्रामं वा नगरं वाऽपि दाहनं यः करोति च ।।
क्षुरधारे वसेत्सोऽपि च्छिन्नाङ्गस्त्रियुगं सति ।। ।। १२३ ।।
ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमेन्महीम् ।।
सप्तजन्मामेध्यभोजी खद्योतः सप्तजन्मसु ।। १२४ ।।
ततो भवेन्महाशूली मानवः सप्तजन्मसु ।।
सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः ।। १२५ ।।
परकर्णोपजापेन परनिन्दां करोति यः ।।
परदोषे महातोषी देवब्राह्मणनिन्दकः ।।१२६।।
सूचीमुखे स च वसेत्सूचीविद्धो युगत्रयम् ।।
ततो भवेद्वृश्चिकश्च सर्पः स्यात्सप्तजन्मसु ।। १२७ ।।
वज्रकीटः सप्तजनौ भस्मकीटस्ततः परम् ।।
ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः ।। १२८ ।।
गृहिणां च गृहं भित्त्वा वस्तुतेयं करोति यः ।।
गाश्च च्छागांश्च मेषांश्च याति गोधामुखं च सः ।। १२९ ।।
ततो भवेत्सप्तजनौ गोजातिर्व्याधिसंयुतः ।।
त्रिजन्ममेषजातिश्च च्छागजातिस्त्रिजन्मनि ।। 2.30.१३० ।।
ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः ।।
भार्य्याहीनो बन्धुहीनः सन्तापी च ततः शुचिः ।। १३१ ।।
सामान्यद्रव्यचौरश्च याति नक्रमुखं युगम् ।।
ततो भवेन्मानवश्च महारोगी ततः शुचिः ।। ।। १३२ ।।
हन्ति गाश्च गजांश्चैव तुरगांश्च नरांस्तथा ।।
स याति गजदंशं च महापापी युगत्रयम् ।। १३३ ।।
ताडितो यमदूतेन गजदन्तेन सन्ततम् ।।
स भवेद्गजजातिश्च तुरगश्च त्रिजन्मनि ।।
गोजातिम्लेच्छजातिश्च ततः शुद्धो भवेन्नरः ।। १३४ ।।
जलं पिबन्तीं तृषितां गां वारयति यो नरः ।।
तच्छुश्रूशाविहीनश्च गोमुखं याति मानवः ।। १३५ ।।
नरकं गोमुखाकारं कृमितप्तोदकान्वितम् ।।
तत्र तिष्ठति सन्तप्तो यावन्मन्वन्तरावधि ।। १३६ ।।
ततो नरोऽपि गोहीनो महारोगी दरिद्रकः ।।
सप्त जन्मन्यन्त्यजातिः ततः शुद्धो भवेन्नरः ।। १३७ ।।
गोहत्यां ब्रह्महत्यां च यः करोत्यतिदेशिकीम् ।।
यो हि गच्छेदगम्यां च सन्ध्याहीनोऽप्यदीक्षितः ।। १३८ ।।
प्रतिग्राही च तीर्थेषु ग्रामयाजी च देवलः ।।
शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः ।। १३९ ।।
गोहत्यां ब्रह्महत्यां च स्त्रीहत्यां च करोति यः ।।
मित्रहत्यां भ्रूणहत्यां महापापी च भारते ।। 2.30.१४० ।।
कुम्भीपाके स च वसेद्यावदिन्द्राश्चतुर्दश ।।
ताडितो यमदूतेन चूर्ण्यमानश्च सन्ततम् ।। १४१ ।।
क्षणं पतति वह्नौ च क्षणं पतति कण्टके ।।
क्षणं च तप्ततैलेषु तप्ततोयेषु च क्षणम् ।। १४२ ।।
क्षणं च तप्तपाषाणे तप्तलोहे क्षणं ततः ।।
गृध्रकोटिस्रहस्राणि शतजन्मानि सूकरः ।। १४३ ।।
काकश्च सप्तजन्मानि सर्पस्स्यात्सप्तजन्मसु ।।
षष्टिवर्षसहस्राणि ततो वै विट्कृमिर्भवेत् ।। १४४ ।।
ततो भवेत्स वृषणो गलत्कुष्ठी दरिद्रकः ।।
यक्ष्मग्रस्तो वंशहीनो भार्य्याहीनस्ततः शुचिः ।। १४५ ।।
सावित्र्युवाच ।।
ब्रह्महत्या च गोहत्या किंविधा वाऽऽतिदेशिकी ।।
का वा नृणामगम्या वा को वा सन्ध्याविहीनकः ।। १४६ ।।
अदीक्षितः पुमान्को वा को वा तीर्थे प्रतिग्रही ।।
द्विजः को वा ग्रामयाजी को वा विप्रश्च देवलः ।। १४७ ।।
शूद्राणां सूपकारः कः प्रमत्तो वृषलीपतिः ।।
एतेषां लक्षणं सर्वं वद वेदविदां वर ।। १४८ ।।
यम उवाच ।।
श्रीकृष्णे च तदर्च्चायां मृन्मय्यां प्रकृतौ तथा ।।
शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यमणौ तथा ।। १४९ ।।
गणेशे वा तदर्च्चायामेवं सर्वत्र सुन्दरि ।।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः।।2.30.१५०।।
स्वगुरौ स्वेष्टदेवे वा जन्मदातरि मातरि।।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः।।१५१।।
वैष्णवेष्वन्यभक्तेषु ब्राह्मणेष्वितरेषु च ।।
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ।। १५२ ।।
यो मूढो विष्णुनैवेद्ये चान्यनैवेद्यके तथा ।।
हरेः पादोदकेष्वन्यदेवपादोदके तथा ।।
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ।। १५३ ।।
सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे ।।
सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि ।। १५४ ।।
माययाऽनेकरूपे वाऽप्येक एव हि निर्गुणे ।।
करोत्यन्येन समतां ब्रह्महत्यां लभेत्तु सः ।। १५५ ।।
पितृदेवार्चनां पौर्वापरां वेदविनिर्मिताम् ।।
यः करोति निषेधं च ब्रह्महत्यां लभेत्तु सः ।। १५६ ।।
ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा ।।
पवित्राणां पवित्रं च ब्रह्महत्यां लभन्ति ते ।। १५७ ।।
शिवं शिवस्वरूपं च कृष्णप्राणाधिकं प्रियम् ।।
पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम् ।। १५८।।
प्रधानं वैष्णवानां च देवानां सव्यमीश्वरम्।।
ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभंति ते ।। १५९ ।।
ये विष्णुमायां निन्दन्ति विष्णुभक्तिप्रदां सतीम् ।।
सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम् ।। 2.30.१६० ।।
सर्वदेवीस्वरूपां च सर्वाद्यां सर्ववन्दिताम् ।।
सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते ।। १६१ ।।
कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् ।।
शिवरात्रिं तथा चैकादशीं वारं रवेस्तथा ।। १६२ ।।
पञ्चपर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः ।।
लभन्ते ब्रह्महत्यां ते चाण्डालाधिकपापिनः ।। १६३ ।।
अम्बुवीच्यांबुखनने जले शौचादिकं च ये ।।
कुर्वन्ति भारते वत्से ब्रह्महत्यां लभन्ति ते ।। १६४ ।।
गुरुं च मातरं तातं साध्वीं भार्य्यां सुतं सुताम् ।।
अनाथान्यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः ।। १६५ ।।
विवाहो यस्य न भवेन्न पश्यति सुतं च यः ।।
हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ।। १६६ ।।
हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् ।।
पुण्यं पार्थिवलिंगं वा ब्रह्महत्यां लभेत्तु सः ।। १६७ ।।
आहारं कुर्वतीं गां च पिबन्तीं यो निवारयेत् ।।
याति गोविप्रयोर्म्मध्ये गोहत्यां च लभेत्तु सः ।। १६८ ।।
दण्डैर्गास्ताडयेन्मूढो यो विप्रो वृषवाहकः ।।
दिने दिने गवां हत्यां लभते नात्र संशयः ।। १६९ ।।
ददाति गोभ्य उच्छिष्टं योजयेद्वृषवाहकम् ।।
भोजयेद्वृषवाहान्नं स गोहत्यां लभेद्ध्रुवम्।। ।। 2.30.१७०।।
वृषलीपतिं याजयेद्यो भुंक्तेऽन्नं तस्य यो नरः ।।
गोहत्याशतकं सोऽपि लभते नात्र संशयः ।। १७१ ।।
पादं ददाति वह्नौ च गाश्च पादेन ताडयेत् ।।
गृहं विशेदधौतांघ्रिः स्नात्वा गोवधमाप्नुयात् ।। १७२ ।।
यो भुंक्ते स्निग्धपादेन शेते स्निग्धांघ्रिरेव च ।।
सूर्य्योदये च द्विर्भोजी स गोहत्यां लभेद्ध्रुवम् ।। १७३ ।।
अवीरान्नं च यो भुंक्ते योनिजीवी च वै द्विजः ।।
यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद् ध्रुवम् ।।१७४।।
पितॄंश्च पर्वकाले च तिथिकाले च देवताम् ।।
न सेवतेऽतिथिं यो हि गोहत्यां स लभेद्ध्रुवम् ।। १७५ ।।
स्वभर्तरि च कृष्णे च भेदबुद्धिं करोति या ।।
कटूक्त्या ताडयेत्कान्तं सा गोहत्यां लभेद्ध्रुवम् ।।१७६।।
गोमार्गखननं कृत्वा वपते सस्यमेव च ।।
तडागे वा तदूर्ध्वं वा स गोहत्यां लभेद्ध्रुवम् ।। १७७ ।।
प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् ।।
अर्थलोभादथाज्ञानात्स गोहत्यां लभेद्ध्रुवम् ।। १७८ ।।
राजके दैवके यत्नाद्गोस्वामी गां न पातयेत् ।।
दुःखं ददाति यो मूढो गोहत्यां स लभेद्ध्रुवम् ।।१७९।।
प्राणिनं लंघयेद्यो हि देवार्चायां रतं जलम् ।।
नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद्ध्रुवम् ।। ।।2.30.१८०।।
शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः ।।
देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम् ।। १८१ ।।
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ।।
सम्भ्रमान्न नमेद्यो हि स गोहत्यां लभेद्ध्रुवम् ।।१८२।।
न ददात्याशिषं कोपात्प्रणताय च यो द्विजः ।।
विद्यार्थिने च विद्यां वै स गोहत्यां लभेद्ध्रुवम् ।।१८३।।
गोहत्या ब्रह्महत्या च कथिता चातिदेशिकी ।।
यथा श्रुतं सूर्य्यवक्त्रात्किं भूयः श्रोतुमिच्छसि ।। १८४ ।।
सावित्र्युवाच ।।
वास्तवे चातिदेशे च सम्बन्धे पापपुण्ययोः ।।
न्यूनाधिके च को भेदस्तन्मां व्याख्यातुमर्हसि ।। १८५ ।।
यम उवाच ।।
कुत्रापि वास्तवः श्रेष्ठो न्यूनोऽतिदेशिकस्सदा ।।
कुत्रातिदेशिकः श्रेष्ठो वास्तवो न्यून एव च ।। १८६ ।।
कुत्र वा समता साध्वि तयोर्वेदप्रमाणतः ।।
करोति तत्र नास्थां यो गुरुहत्यां लभेत्तु सः ।। १८७ ।।
पुरा परिचिते विप्रे विद्यामन्त्रप्रदातरि ।।
गुरौ पितृत्वमारोपाद्वस्तुतश्श्रेष्ठ उच्यते।।१८८।।
पितुः शतगुणा माता मातुः शतगुणस्तथा।।
विद्या मन्त्रप्रदाता च गुरुः पूज्यः श्रुतेर्मतः ।। १८९ ।।
गुरुतो गुरुपत्नी च गौरवे च गरीयसी ।।
यथेष्टं देवपत्नी च पूज्या चाभीष्टदेवता।। ।। 2.30.१९० ।।
विप्रः शिवसमो यश्च विष्णुतुल्यपराक्रमः ।।
राजाऽऽतिदेशिकाच्छ्रेष्ठो वास्तवो गुणलक्षतः ।। १९१ ।।
सर्वं गङ्गासमं तोयं सर्वे व्याससमा द्विजाः ।।
ग्रहणे सृर्य्यशशिनोश्चात्रैव समता तयोः ।। १९२ ।।
आतिदेशिकहत्याया वास्तवश्च चतुर्गुणः ।।
सम्मतः सर्ववेदानामित्याह कमलोद्भवः ।। १९३ ।।
आतिदेशिकहत्याया भेदश्च कथितः सति ।।
या याऽगम्या नृणामेव निबोध कथयामि ते ।। १९४ ।।
स्वस्त्री गम्या च सर्वेषामिति वेदे निरूपिता ।।
अगम्या च तदन्या या चेति वेदवेदो विदुः ।। १९५ ।।
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ।।
अत्यगम्याश्च या या वै निबोध कथयामि ते ।। १९६ ।।
शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ।।
अत्यगम्याऽतिनिन्द्या च लोके वेदे पतिव्रते ।। १९७ ।।
शूद्रश्चेद्ब्राह्मणीं गच्छेद्ब्रह्महत्याशतं लभेत् ।।
तत्समं ब्राह्मणी चापि कुम्भीपाकं व्रजेद्ध्रुवम् ।। १९८ ।।
यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः ।।
स भ्रष्टो विप्रजातेश्च चण्डालात्सो ऽधमः स्मृतः ।। १९९ ।।
विष्ठासमश्च तत्पिंडो मूत्रतुल्यं च तर्पणम् ।।
तत्पितॄणां सुराणां च पूजने तत्समं सति ।। 2.30.२०० ।।
कोटिजन्मार्जितं पुण्यं सन्ध्यार्चातपसाऽर्जितम् ।।
द्विजस्य वृषलीभोगान्नश्यत्येव न संशयः ।। २०१ ।।
ब्राह्मणश्च सुरापीती विड्भोजी वृषलीपतिः ।।
हरिवासरभोजी च कुम्भीपाकं व्रजेद्ध्रुवम् ।। २०२ ।।
गुरुपत्नीं राजपत्नीं सपत्नीमातरं प्रसूम् ।।
सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सति ।। २०३ ।।
सोदरभ्रातृजायां च मातुलानीं पितृप्रसूम् ।।
मातुः प्रसूं तत्त्वसारं भगिनीं भ्रातृकन्यकाम् ।। ।। २०४ ।।
शिष्यां च शिष्यपत्नीं च भगिनेयस्य कामिनीम् ।।
भ्रातुः पुत्रप्रियां चैवाप्यगम्यामाह पद्मजः ।। २०५ ।।
एतास्वेकामनेकां वा यो व्रजेन्मानवोऽधमः ।।
स्वमातृगामी वेदेषु ब्रह्महत्याशतं लभेत् ।। २०६ ।।
अकर्म्मार्होऽपि सोऽस्पृश्यो लोके वेदेऽति निन्दितः ।।
स याति कुम्भीपाकं च महापापी सुदुस्तरम्।।२०७।।
करोत्यशुद्धां सन्ध्यां च सन्ध्यां वा न करोति यः।।
त्रिसन्ध्यां वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः ।।२०८।।
वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् ।।
योऽहङ्कारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः ।।२०९।।
प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ।।
तत्र नारायणः स्वामी गङ्गागर्भान्तरे वरे ।। 2.30.२१० ।।
तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे।।
वाराणस्यां बदर्य्यां च गङ्गासागरसंगमे ।। २११ ।।
पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले ।।
हरिद्वारे च केदारे सोमे बदरपावने ।। २१२ ।।
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ।।
गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमालये ।। २१३ ।।
एष्वन्यत्र च यो दानं प्रतिगृह्णाति कामतः ।।
स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च ।। २१४ ।।
शूद्रातिरिक्तयाजी यो ग्रामयाजी च कीर्त्तितः ।।
तथा देवोपजीवी यो देवलः परिकीर्त्तितः ।। २१५ ।।
शूद्रपाकोपजीवी यः सूपकार इति स्मृतः ।।
सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ।। २१६ ।।
उक्तं पूर्वप्रकरणे लक्षणं वृषलीपतेः ।।
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ।। २१७ ।।
कुंडान्यन्यानि ते यान्ति निबोध कथयामि ते ।। २१८ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने यमसावित्रीसंवादे कर्मविपाके पापिनरकनिरूपणं शिवप्राशस्त्यं ब्रह्महत्यादिपदार्थपरिभाषानिरूपणं नाम त्रिंशत्तमोऽध्यायः ।। ३० ।।