प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३५ ब्रह्मवैवर्तपुराणम्
अध्यायः ३६
वेदव्यासः
अध्यायः ३७ →

नारद उवाच ।।
नारायणप्रिया सा च वरा वैकुण्ठवासिनी ।।
वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी ।। १ ।।
कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका ।।
किं तद्ध्यानं च कवचं सर्वं पूजाविधिक्रमम् ।। २ ।।
पुरा केन स्तुताऽऽदौ सा तन्मे व्याख्यातुमर्हसि ।। ३ ।।
नारायण उवाच ।।
पुरा दुर्वाससः शापाद्भ्रष्टश्रीकः पुरन्दरः।।
बभूव देवसंघश्च मर्त्यलोकश्च नारद ।।४।।
लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता।।
गत्वा लीना च वैकुण्ठे महालक्ष्म्यां च नारद।।५।।
तदा शोकाद्ययुर्देवा दुःखिता ब्रह्मणः सभाम् ।।
ब्रह्माणं च पुरस्कृत्य ययुर्वैकुण्ठमेव च।।६।।
वैकुण्ठे शरणा पन्ना देवा नारायणे परे ।।
अतीव दैन्ययुक्ताश्च शुष्ककण्ठौष्ठतालुकाः ।। ७ ।।
तदा लक्ष्मीश्च कलया पुरा नारायणाज्ञया ।।
बभूव सिन्धुकन्या सा शक्रसम्पत्स्वरूपिणी ।। ८ ।।
तदा मथित्वा क्षीरोदं देवा दैत्यगणैः सह ।।
संप्रापुश्च वरं लक्ष्म्या ददृशुस्तां च तत्र हि ।। ९।।
सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे ।।
ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने ।। 2.36.१० ।।
देवाश्चाप्यसुराक्रान्तं राज्यं प्रापुश्च तद्वरात् ।।
तां संपूज्य च संस्तूय सर्वत्र च निरापदः ।।१ १ ।।
नारद उवाच ।।
कथं शशाप दुर्वासा मुनिश्रेष्ठः पुरन्दरम्।।
केन दोषेण वा ब्रह्मन्ब्रह्मिष्ठं ब्रह्मवित्पुरा।। १२।।
ममन्थे केन रूपेण जलधिस्तैः सुरादिभिः।।
केन स्तोत्रेण सा देवी शक्रे साक्षाद्बभूव ह।।१ ३।।
को वा तयोश्च संवादो ह्यभवत्तद्वद प्रभो ।। १४ ।।
नारायण उवाच ।।
मधुपानप्रमत्तश्च त्रैलोक्याधिपतिः पुरा ।।
क्रीडां चकार रहसि रम्भया सह कामुकः ।। १५ ।।
कृत्वा क्रीडां तया सार्द्धं कामुक्या हृतचेतनः ।।
तस्थौ तत्र महारण्ये कामोन्मथित चेतनः ।। १६ ।।
कैलासशिखरं यान्तं वैकुण्ठादृषिपुङ्गवम् ।।
दुर्वाससं ददर्शेन्द्रो ज्वलन्तं ब्रह्मतेजसा ।। १७ ।।
ग्रीष्ममध्याह्नमार्त्तण्डसहस्रप्रभमीश्वरम् ।।
प्रतप्तकाञ्चनाभासं जटाभारमहोज्ज्वलम् ।। १८ ।।
शुक्लयज्ञोपवीतं च चीरं दण्डं कमण्डलुम् ।।
महोज्ज्वलं च तिलकं बिभ्रतं चन्द्रसन्निभम् ।। १९ ।।
समन्वितं शिष्यवर्गैर्वेदवेदाङ्गपारगैः ।।
दृष्ट्वा ननाम शिरसा सम्भ्रमात्तं पुरन्दरः ।।2.36.२० ।।
शिष्यवर्गं स भक्त्या वै तुष्टाव च मुदान्वितः ।।
मुनिना च सशिष्येण तस्मै दत्ताश्शुभाशिषः ।। २१ ।।
विष्णुदत्तं पारिजातपुष्पं च सुमनोहरम् ।।
मृत्युरोगजराशोकहरं मोक्षकरं ददौ ।। २२ ।।
शक्रः पुष्पं गृहीत्वा च प्रमत्तो राजसम्पदा ।।
भ्रमेण स्थापयामास तत्र वै हस्तिमस्तके ।। २३ ।।
हस्ती तत्स्पर्शमात्रेण रूपेण च गुणेन च ।।
तेजसा वयसा कान्त्या विष्णुतुल्यो बभूव सः ।। २४ ।।
त्यक्त्वा शक्रं गजेन्द्रश्चाप्यगच्छद्घोरकाननम् ।।
न शशाक महेन्द्रस्तं रक्षितुं तेजसा मुने ।। २५ ।।
तत्पुष्पं त्यक्तवन्तं च दृष्ट्वा शक्रं मुनीश्वरः ।।
तं शशाप महातेजाः क्रोधसंरक्तलोचनः ।। २६ ।।
दुर्वासा उवाच ।।
अरे श्रिया प्रमत्तस्त्वं कथं मामवमन्यसे ।।
मद्दत्तपुष्पं गर्वेण त्यक्तवान्हस्तिमस्तके ।। २७ ।।
विष्णोर्निवेदितं पुष्पं नैवेद्यं वा फलं जलम् ।।
प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा जनः।।२८।।
भ्रष्टश्रीर्भ्रष्टबुद्धिश्च भ्रष्टज्ञानो भवेन्नरः।।
यस्त्यजेद्विष्णुनेवेद्यं भाग्येनोपस्थितं शुभम्।।२९।।
प्राप्तिमात्रेण यो भुङ्क्ते भक्त्या विष्णुनिवेदितम्।।
पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत्।।2.36.३०।।
विष्णुनैवेद्यभोजी यो नित्यं तु प्रणमेद्धरिम्।।
पूजयेत्स्तौति वा भक्त्या स विष्णुसदृशो भवेत् ।। ३१ ।।
तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति ।।
तत्पादरजसा मूढ सद्यः पूता वसुन्धरा ।।३२।।
पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्नमेव च ।।
यद्धरेरनिवेद्यं च वृथामांसमभक्षकम् ।।३३।।
शिवलिङ्गप्रदत्तान्नं यदन्नं शूद्रयाजिनाम् ।।
चिकित्सकद्विजानां च देवलान्नं तथैव च ।। ३४ ।।
कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम् ।।
अनुष्णान्नं पर्युषितं सर्वभक्ष्यावशेषि तम् ।। ३५ ।।
शूद्रापतिद्विजान्नं च वृषवाहद्विजान्नकम् ।।
अदीक्षितद्विजान्नं च यदन्नं शवदाहिनाम् ।। ३६ ।।
अगम्यगामिनां चैव द्विजानामन्नमेव च।।
मित्रद्रुहां कृतघ्नानामन्नं विश्वासघातिनाम् ।। ३७।।
मिथ्यासाक्ष्यप्रदानां च ब्राह्मणानां तथैव च ।।
एतत्सर्वं वि शुध्येत विष्पुनैवेद्यभक्षणात्।।३८।।
श्वपचो विष्णुसेवी च वंशानां कोटिमुद्धरेत् ।।
हरेरभक्तो विप्रश्च स्वं च रक्षितुमक्षमः ।। ३९ ।।
अज्ञानाद्यदि गृह्णाति विष्णोर्निर्माल्यमेव च ।।
सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।।2.36.४०।।
ज्ञात्वा भक्त्या च गृह्णाति विष्णोर्नैवेद्यमेव च ।।
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।। ४१ ।।
यस्मात्संस्थापितं पुष्पं गर्वाद्वै हस्तिमस्तके ।।
तस्माद्युष्मान्परित्यज्य यातु लक्ष्मीर्हरेः पदम् ।। ४२ ।।
नारायणस्य भक्तोऽहं न बिभेमीश्वरं विधिम् ।।
कालं मृत्युं जरां चैव कानन्यान्गणयामि च ।। ४३ ।।
किं करिष्यति ते तातः कश्यपश्च प्रजापतिः ।।
बृहस्पतिर्गुरुश्चैव निश्शङ्कस्य च मे हरेः ।। ४४ ।।
इदं पुष्पं यस्य मूर्ध्नि तस्य वै पूजनं पुरः।।
मूर्ध्नि च्छिन्ने शिवशिशोश्छित्त्वेदं योजयिष्यति।।४२।।
इति श्रुत्वा महेन्द्रश्च धृत्वा तच्चरणद्वयम्।।
उच्चै रुरोद शोकार्त्तस्तमुवाच भयाकुलः ।। ४६ ।।
इन्द्र उवाच ।।
दत्तः समुचितः शापो मह्यं मत्ताय हे प्रभो ।।
हृता त्वया चेत्सम्पत्तिः कियज्ज्ञानं च देहि मे ।। ४७ ।।
ऐश्वर्य्यं विपदां बीजं प्रच्छन्नज्ञानकारणम् ।।
मुक्तिमार्गार्गलं दार्ढ्याद्धरिभक्तिव्यपायकम् ।। ४८ ।।
जन्ममृत्युजरारोगशोकदुःखांकुरं परम् ।।
सम्पत्तितिमिरान्धश्च मुक्तिमार्गं न पश्यति ।। ४९ ।।
सम्पन्मत्तः समूढश्च सुरामत्तः सचेतनः ।।
बान्धवैर्वेष्टितः सोऽपि बन्धुद्वेषकरो मुने ।। 2.36.५० ।।
सम्पन्मदे प्रमत्तश्च विषयान्धश्च विह्वलः ।।
महाकामी साहसिकः सत्त्वमार्गे न पश्यति ।।५१।।
द्विविधो विषयान्धश्च राजसस्तामसः स्मृतः ।।
अशास्त्रज्ञस्तामसश्च शास्त्रज्ञो राजसः स्मृतः ।। ५२ ।।
शास्त्रे च द्विविधं मार्गं निर्दिष्टं मुनिपुङ्गव ।।
प्रवृत्तिबीजमेकं च निवृत्तेः कारणं परम् ।। ५३ ।।
चरन्ति जीविनश्चादौ प्रवृत्तौ दुःखवर्त्मनि ।।
स्वच्छन्दे चाप्रसन्ने च निर्निरोधे च सन्ततम् ।। ५४ ।।
आपातमधुरे लोभात्क्लेशे च सुखमानिनः ।।
परिणामोत्पत्तिबीजे जन्ममृत्युजराकरे ।। ५५ ।।
अनेकजन्मपर्य्यन्तं कृत्वा च भ्रमणं मुदा ।।
स्वकर्मविहितायां च नानायोन्यां क्रमेण च ।।५६।।
ततः कृष्णानुग्रहाच्च सत्सङ्गं लभते जनः ।।
सहस्रेषु शतेष्वेको भवाब्धेः पारकारणम् ।। ५७ ।।
साधुः सत्त्वप्रदीपेन मुक्तिमार्गं प्रदर्शयेत् ।।
तदा करोति यत्नं च जीवी बन्धनखण्डने ।। ५८ ।।
अनेकजन्मयोगेन तपसाऽनशनेन च ।।
तदा लभेन्मुक्तिमार्गं निर्विघ्नं सुखदं परम् ।। ५९ ।।
इदं श्रुतं गुरोर्वक्त्रात्प्रसङ्गावसरेण च ।।
नहि पृष्टमतोऽन्यच्च भवदुःखौघवेष्टिताः ।। 2.36.६० ।।
अधुना विधिना दत्तो विपत्तौ ज्ञानसागरः।।
सम्पद्रूपा विपदियं मम निस्तारकारिणी।।६१।।
ज्ञानसिन्धो दीनबन्धो मह्यं दीनाय साम्प्रतम् ।।
देहि किञ्चिज्ज्ञानसारं भवपारं दयानिधे ।। ६२ ।।
इन्द्रस्य वचनं श्रुत्वा प्रहस्य ज्ञानिनां गुरुः ।।
ज्ञानं कथितुमारेभे ह्यतितुष्टः सनातनः ।। ६३ ।।
दुर्वासा उवाच ।।
अहो महेन्द्र माङ्गल्यमात्मानं द्रष्टुमिच्छसि ।।
आपाततो दुःखबीजं परिणामसुखावहम् ।। ६४ ।।
स्वगर्भयातनानाशपीडाखण्डनकारणम् ।।
दुष्पारासारदुर्वारसंसारार्णवतारकम् ।। ६५ ।।
कर्मवृक्षाङ्कुरच्छेदकारणं सर्वतारकम् ।।
सन्तोषसन्ततिकरं प्रवरं सर्ववर्त्मनाम् ।। ६६ ।।
दानेन तपसा वाऽपि व्रतेनानशनादिना ।।
कर्मणा स्वर्गभोगादि सुखं भवति जीविनाम् ।। ६७ ।।
काम्यानां कर्मणां चैव मूलं संछिद्य यत्नतः ।।
अधुनेदं मोक्षबीजं संकल्पाभाव एव च ।। ६८ ।।
यत्कर्म सात्त्विकं कुर्य्यादसंकल्पितमेव च ।।
सर्वं कृष्णार्पणं कृत्वा परे ब्रह्मणि लीयते ।। ६९ ।।
सांसारिकाणामेतत्तु निर्वाणं मोचकं विदुः ।।
नेच्छन्ति वैष्णवास्तत्तु सेवाविरहकातराः ।। 2.36.७० ।।
सेवां कुर्वन्ति ते नित्यं विधायोत्तमदेहकम् ।।
गोलोके वाऽपि वैकुण्ठे तस्यैव परमात्मनः ।। ७१ ।।
हरिसेवादिरूपां च मुक्तिमिच्छन्ति वैष्णवाः ।।
जीवन्मुक्ताश्च ते शक्र स्वकुलोद्धारकारिणः ।। ७२ ।।
स्मरणं कीर्त्तनं विष्णोरर्चनं पादसेवनम् ।।
वन्दनं स्तवनं नित्यं भक्त्या नैवेद्यभक्षणम् ।। ७३ ।।
चरणोदकपानं च तन्मंत्रजपनं परम् ।।
इदं निस्तारबीजं च सर्वेषामीप्सितं भवेत् ।। ७४ ।।
इदं मृत्युञ्जयज्ञानं दत्तं मृत्युञ्जयेन मे ।।
तच्छिष्योऽहं च निश्शङ्कस्तत्प्रसादाच्च सर्वतः ।। ७५ ।।
स जन्मदाता स गुरुः स च बन्धुः सतां परः ।।
यो ददाति हरेर्भक्तिं त्रैलोक्ये च सुदुर्लभम् ।। ७६ ।।
दर्शयेदन्यमार्गं च विना श्रीकृष्णसेवनम् ।।
स च तं नाशयत्येव ध्रुवं तद्वधभाग्भवेत् ।। ७७ ।।
सन्ततं जगतां कृष्णनाम मङ्गलकारणम् ।।
मङ्गलं वर्द्धते नित्यं न भवेदायुषो व्ययः ।। ७८ ।।
तेभ्योऽप्यपैति कालश्च मृत्युस्स्याद्रोग एव च ।।
सन्तापश्चैव शोकश्च वैनतेयादिवोरगाः ।। ७९ ।।
कृष्णमन्त्रोपासकश्च ब्राह्मणः श्वपचोऽपि वा ।।
ब्रह्मलोकं समुल्लंघ्य याति गोलोकमुत्तमम् ।। 2.36.८० ।।
ब्रह्मणा पूजितः सोऽपि मधुपर्कादिना च यः ।।
स्तुतः सुरैश्च सिद्धश्च परमानन्दभावनः ।। ८१ ।।
ज्ञानसारं तपःसारं ब्रह्मसारं परं शिवम् ।।
शिवेनोक्तं योगसारं श्रीकृष्णपदसेवनम् ।। ८२ ।।
ब्रह्मादिस्तम्बपर्य्यन्तं सर्वं मिथ्यैव केवलम् ।।
भज सत्यं परं ब्रह्म राधेशं प्रकृतेः परम् ।। ८३ ।।
अतीव सुखदं सारं भुक्तिदं मुक्तिदं परम् ।।
सिद्धियोगप्रदं चैव दातारं सर्वसम्पदाम्।। ८४ ।।
योगिनामपि सिद्धानां यतीनां च तपस्विनाम् ।।
सर्वेषां कर्मभोगोऽस्ति न नारायणसेविनाम् ।। ८५ ।।
भस्मसाच्च भवेत्पापं यदुपस्पर्शमात्रतः ।।
ज्वलदग्नौ पातितं च यथा शुष्केन्धनं तथा ।। ८६ ।।
ततो रोगा हि वेपन्ते पापानि च भयानि च ।।
दूरतश्च पलायन्ते यमदूतास्ततो भयात् ।। ८७ ।।
तावन्निबद्धः संसारे कारागारे विधेर्जनः ।।
न यावत्कृष्ण मन्त्रं च प्राप्नोति गुरुवक्त्रतः ।। ८८ ।।
कृतकर्मौघभोगाख्यनिगडच्छेदकारणम् ।।
मायाजालोच्छेदकरं मायापाशनिकृन्तनम् ।।८९।।
गोलोकमार्गसोपानं निस्तारे बीजकारणम् ।।
भक्त्यंकुरस्वरूपं च नित्यं वृद्धमनश्वरम् ।। 2.36.९० ।।
सारं च सर्वतपसां योवानां साधनं तथा ।।
सिद्धीनां वेदपाठानां व्रतादीनां च निश्चितम् ।। ९१ ।।
दानानां तीर्थशौचानां यज्ञादीनां पुरन्दर ।।
पूजानामुपवासानामित्याह कमलोद्भवः ।। ९२ ।।
पुंसां लक्षं पितॄणां च शतं मातामहस्य च ।।
पूर्वं परं च तत्संख्यं पितरं मातरं गुरुम् ।। ९३ ।।
सहोदरं कलत्रं च वक्तुं शिष्यं च किङ्करम् ।।
समुद्धरेच्च श्वशुरं श्वश्रूं कन्यां च तत्सुतम् ।। ९४ ।।
स्वात्मानं च सतीर्थ्यं च गुरुपत्नीं गुरोः सुतम् ।।
उद्धरेद्बलवान्भक्तो मन्त्रग्रहणमात्रतः ।। ९५ ।।
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ।।
तत्स्पर्शपूतस्तीर्थौघः सद्यः पूता वसुन्धरा ।। ९६ ।।
अनेकजन्मपर्य्यन्तं दीक्षाहीनो भवेन्नरः ।।
तदन्यदेवमन्त्रं च लभते पुण्यलेशतः ।। ९७ ।।
सप्तजन्मसु देवानां कृत्वा सेवां स्वकर्मतः ।।
लभते च रवेर्मन्त्रं साक्षिणः सर्वकर्मणाम् ।। ९८ ।।
जन्मत्रयं भास्करं च सेवित्वा मानवः शुचिः ।।
लभेद्गणेशमन्त्रं च सर्वविघ्नहरं परम् ।। ९९ ।।
जन्मत्रयं तं निषेव्य निर्विघ्नश्च भवेन्नरः ।।
विघ्नेशस्य प्रसादेन दिव्यज्ञानं लभेन्नरः ।। 2.36.१०० ।।
तदा ज्ञानप्रदीपेन समालोच्य महामतिः ।।
अज्ञानान्धतमश्छित्त्वा महामायां भजेन्नरः ।। १०१ ।।
प्रकृतिं विष्णुमायां च दुर्गां दुर्गतिनाशिनीम् ।।
सिद्धिदां सिद्धिरूपां च परमां सिद्धियोगिनीम् ।। १०२ ।।
वाणीरूपां च पद्मां च भद्रां कृष्णप्रियात्मिकाम् ।।
नानारूपां तां निषेव्य जन्मनां शतकं नरः ।। १०३ ।।
तत्प्रसादाद्भवेज्ज्ञानी ज्ञानानन्दं तदा भजेत् ।।
कृष्णं ज्ञानाधिदेवं च महादेवं सनातनम् ।। १०४ ।।
शिवं शिवस्वरूपं च शिवदं शिवकारणम् ।।
परमानन्दरूपं च परमानन्ददायिनम् ।। १०५ ।।
सुखदं मोक्षदं चैव दातारं सर्वसम्पदाम् ।।
अमरत्वप्रदं चैव दीर्घमायुष्यदं परम् ।। १०६ ।।
इन्द्रत्वं च मनुत्वं च दातुं शक्तं च लीलया ।।
राजेन्द्रत्वप्रदं चैव ज्ञानदं हरिभक्तिदम् ।। १०७ ।।
जन्मत्रयं तमाराध्य चाशुतोषप्रसादतः ।।
सर्वदस्य प्रसादेन शङ्करस्य महात्मनः ।। १०८ ।।
वरदस्य वरेणैव हरिभक्तिं लभेद्ध्रुवम् ।।
तदा तद्भक्तसंसर्गात्कृष्णमन्त्रं लभेद्ध्रुवम् ।। १०९ ।।
निर्म्मलज्ञानदीपेन प्रदीप्तेन च तत्त्ववित् ।।
ब्रह्मादिस्तम्बपर्य्यन्तं सर्वं मिथ्यैव पश्यति ।। 2.36.११० ।।
दयानिधेः प्रसादेन निर्मलज्ञानमालभेत् ।।
वरदस्य वरेणैव हरिभक्तिं लभेद्ध्रुवम् ।। ११! ।।
तदा निर्वृतिमाप्नोति सारात्सारां परात्पराम् ।।
यत्र देहे लभेन्मन्त्रं तद्देहावधि भारते ।। ११२ ।।
तत्पाञ्चभौतिकं त्यक्त्वा बिभृयाद्दिव्यरूपकम् ।।
करोति दास्यं गोलोके वैकुण्ठे वा हरेः पदे ।। ११३ ।।
परमानन्दसंयुक्तो मोहादिषु विवर्जितः ।।
न विद्यते पुनर्जन्म पुनरागमनं हरे ।। ११४ ।।
पुनश्च न पिबेत्क्षीरं धृत्वा मातृस्तनं परम् ।।
विष्णुमन्त्रोपासकानां गङ्गादेस्तीर्थसेविनाम् ।। ११५ ।।
स्वधर्मिणां च भिक्षूणां पुनर्जन्म न विद्यते ।।
तीर्थे परित्यजेत्पापं क्रियां कृत्वा हरिं भजेत् ।। ११६ ।।
अयं निरूपितो धात्रा स्वधर्मस्तीर्थसेविनाम् ।।
तन्नाममन्त्रं प्रजपेत्तत्सेवादिषु तत्परः ।। ११७ ।।
व्रतोपवासरत इत्युक्तो वै विष्णुसेविनाम् ।।
सदन्ने वा कदन्ने वा लोष्टे वा काञ्चने तथा ।। ११८ ।।
समा बुद्धिर्यस्य शश्वत्स संन्यासीति कीर्तितः ।।
दण्डं कमण्डलुं रक्तवस्त्रमात्रं च धारयेत् ।। ११९ ।।
नित्यं प्रवासी नैकत्र स्यात्संन्यासीति कीर्त्तितः ।।
शुद्धाचारद्विजान्नं च भुङ्क्ते लोभादिवर्जितः ।। 2.36.१२० ।।
किन्तु किंचिन्न याचेत स संन्यासीति कीर्त्तितः ।।
न व्यापारी नाश्रमी च सर्वकर्मविवर्जितः ।। १२१ ।।
ध्यायेन्नारायणं शश्वत्स संन्यासीति कीर्त्तितः ।।
शश्वन्मौनी ब्रह्मचारी संभाषा परिवर्जितः ।। १२२ ।।
सर्वं ब्रह्ममयं पश्येत्स संन्यासीति कीर्त्तितः ।।
सर्वत्र समबुद्धिश्च हिंसामायाविवर्जितः ।। १२३ ।।
क्रोधाहङ्काररहितः स संन्यासीति कीर्त्तितः ।।
अयाचितोपस्थितं च मिष्टामिष्टं च भुक्तवान् ।। १२४ ।।
न याचते भक्षणार्थी स संन्यासीति कीर्त्तितः ।।
न च पश्येन्मुखं स्त्रीणां न तिष्ठेत्तत्समीपत।।१२५।।
दारवीमपि योषां च न स्पृशेद्यः स भिक्षुकः ।।
अयं संन्यासिनां धर्म इत्याह कमलोद्भवः ।। १२६।।
विपर्य्यये विनाशश्च जन्मयाम्यं भयं भवेत् ।।
जन्मदुःखं याम्यदुःखं जीविनामतिदारुणम् ।।१२७।।
सुरसूकरयोनौ वा गर्भे दुःखं समं सुर ।।
योनौ वा क्षुद्रजन्तूनां पश्वादीनां तथैव च ।। १२८ ।।
गर्भे स्मरन्ति सर्वे ते कर्म्म जन्म शतोद्भवम्।।
विस्मरेन्निर्गतो जीवो गर्भाद्वै विष्णुमायया।।
स्वदेहं पाति यत्नेन सुरो वा कीट एव वा।।१२९।।
योनेरभ्यन्तरे शुक्रे पतिते पुरुषस्य च।।
शुक्रं शोणितयुक्तं च सहसा तत्क्षणं भवेत्।।2.36.१३०।।
रक्ताधिके मातृसमश्चेतरे पितुराकृतिः।।
युग्माहे च भवेत्पुत्रः कन्यका तद्विपर्य्यये ।।१३१।।
रविभौमगुरूणां च वारे चेत्तद्भवेत्सुतः ।।
अयुग्माहे तदितरे वारे वै कन्यका भवेत् ।। १३२।।
प्रथमप्रहरे जन्म यस्य सोऽल्पायुरेव च ।।
द्वितीये मध्यमश्चैव तृतीये तत्परो भवेत् ।। १३३ ।।
चतुर्थे चिरजीवी स्यात्क्षणानामनुरूपकः ।।
दुःखी वाऽथ सुखी वाऽपि पूर्वकर्मानुरूपतः ।। १३४ ।।
यादृशे च क्षणे जन्म प्रसवस्तादृशे भवेत् ।।
प्रसूतिक्षणचर्चा च कुर्वन्त्येवं विचक्षणाः ।। १३५ ।।
कललं त्वेकरात्रेण प्रवृद्धः स्याद्दिने दिने ।।
सप्तमे बदराकारो मासे गण्डुसमो भवेत् ।। १३६ ।।
मासत्रये मांसपिण्डो हस्तपादादिवर्जितः ।।
सर्वावयवसम्पन्नो देही मासे च पञ्चमे ।। १३७ ।।
भवेत्तु जीवसंचारः षण्मासे सर्वतत्त्ववित् ।।
दुःखी स्वल्पस्थलस्थायी शकुन्त इव पञ्जरे ।। १३८ ।।
मातृजग्धान्नपानं च भुङ्क्तेऽमेध्यस्थले स्थितः ।।
हाहेति शब्दं कृत्वा च चिन्तयेदीश्वरं परम् ।। १३९ ।।
एवं च चतुरो मासान्भुक्त्वा परमयातनाम् ।।
प्रेरितो वायुना काले गर्भाद्वै निर्गतो भवेत् ।। 2.36.१४० ।।
दिग्देशकालाव्युत्पन्नो विस्मृतो विष्णुमायया ।।
शश्वद्विण्मूत्रसंयुक्तः शिशुः स्याच्छैशवावधि ।। १४१ ।।
परायत्तोऽप्यक्षमश्च मशकादिनि वारणे ।।
कीटादिभुक्तो दुःखी च रौति तत्र पुनः पुनः ।। १४२ ।।
स्तनान्धोऽप्यसमर्थश्च याञ्चां कर्तुमभीप्सिताम् ।।
न वाणी निस्सरेत्तस्य पौगण्डावधि सुस्फुटा।।१४३।।
पौगण्डे यातनां भुक्त्वा प्राप्नुते यौवनं पुनः ।।
न स्मरेन्मायया देही गर्भादेर्यातनां पुनः।। ।। १४४ ।।
आहारमैथुनार्त्तश्च नानामोहादिवेष्टितः ।।
पुत्रं कलत्रमनुगं यत्नेन परिपालयेत् ।। १४५।।
एवं यावत्समर्थश्च तावदेव हि पूजितः ।।
असमर्थं च मन्यन्ते बांधवा गोजरं यथा ।। १४६ ।।
यदाऽतीव जरायुक्तो जडोऽतिबधिरो भवेत्।।
कासश्वासादियुक्तश्च परायत्तोऽतिमूढवत् ।। १४७ ।।
तदन्तरेऽनुतापं च कुरुते सन्ततं पुनः ।।
न सेवितं हरेस्तीर्थं सत्संगश्चापि कामतः ।। १४८ ।।
पुनश्च मानवीं योनिं लभामि भारते यदि ।।
तदा तीर्थं गमिष्यामि भजे वै कृष्णमित्यहो ।। १४९ ।।
इत्येवमादि मनसि कुर्वन्तं तं जडं सुर ।।
गृह्णाति यमदूतश्च काले प्राप्तेऽतिदारुणः ।। 2.36.१५० ।।
स पश्येद्यमदूतं च पाशहस्तं च दण्डिनम् ।।
अतीव कोपरक्ताक्षं विकृताकारमुल्बणम् ।। १५१ ।।
दुर्निवार्य्यमुपायैश्च बलिष्ठं च भयङ्करम् ।।
दुर्दृश्यं सर्वसिद्धिज्ञं सर्वादृष्टं पुरः स्थितम्।। १५२ ।।
दृष्टमात्रान्महाभीतो विण्मूत्रं च समुत्सृजेत् ।।
तदा प्राणांस्त्यजेत्सद्यो देहं वै पाञ्चभौतिकम् ।।१५३।।
अंगुष्ठमात्रं पुरुषं गृहीत्वा यमकिङ्करः।।
विन्यस्य भोगदेहे च स्वस्थानं प्रापयेद् द्रुतम् ।। १५४ ।।
जीवो गत्वा यमं पश्येत्सर्वधर्मज्ञमेव च ।।
रत्नसिंहासनस्थे च सस्मितं सुस्थिरं परम् ।।१५५।।
धर्माधर्मविचारज्ञं सर्वज्ञं सर्वतोमुखम् ।।
विश्वेष्वेकाधिकारं च विधात्रा निर्मितं पुरा ।।१५६।।
वह्निशुद्धांशुकाधानं रत्नभूषणभूषितम् ।।
वेष्टितं पार्षदगणैर्दूतैश्चापि त्रिकोटिभिः ।।१५७।।
जपन्तं श्रीकृष्णनाम शुद्धस्फाटिकमालया।।
ध्यायमानं तत्पदाब्जं पुलकाङ्कितविग्रहम् ।। १५८ ।।
सगद्गदं साश्रुनेत्रं सर्वत्र समदर्शिनम्।।
अतीव कमनीयं च शश्वत्सुस्थिरयौवनम् ।।१५९।।
स्वतेजसा प्रज्वलन्तं सुखदृश्यं विचक्षणम् ।।
शरत्पार्वणचन्द्राभं चित्रगुप्तपुरःस्थितम् ।। 2.36.१६० ।।
पुण्यात्मनां शान्तरूपं पापिनां च भयङ्करम् ।।
तं दृष्ट्वा प्रणमेद्देही महाभीतश्च तिष्ठति ।। १६१ ।।
चित्रगुप्तविचारेण येषां यदुचितं फलम् ।।
शुभाशुभं च कुरुते तदेव रविनन्दनः ।। १६२ ।।
एवं तेषां गतायाते निवृत्तिर्नास्ति जीविनाम् ।।
निवृत्तिहेतुरूपं च श्रीकृष्णपदसेवनम् ।। ।। १६३ ।।
इत्येवं कथितं सर्वं वरं प्रार्थय वाञ्छितम् ।।
सर्वं दास्यामि ते वत्स न मेऽसाध्यं च किंचन ।। १६४ ।।
महेन्द्र उवाच ।।
इन्द्रत्वं च गतं भद्रं किमैश्वर्य्ये प्रयोजनम् ।।
कल्पवृक्ष मुनिश्रेष्ठ देहि मे परमं पदम् ।। १६५ ।।
महेन्द्रस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।।
तमुवाच वचः सत्यं वेदोक्तं सारमेव च ।।१६६।।
दुर्वासा उवाच ।।
परं पदं विषयिणां महेन्द्रातिसुदुर्लभम् ।।
मुक्तिर्युष्मद्विधानां च न लये प्राकृतेऽपि च ।। १६७ ।।
आविर्भावः सृष्टिविधौ तिरोभावो लयेऽपि च ।।
यथा जागरणं सुप्तिर्भवत्येव क्रमेण च ।। १६८ ।।
यथा भ्रमति कालश्च तथा विषयिणो धुवम् ।।
चक्रनेमिक्रमेणैव नित्यमेवेश्वरेच्छया ।।१६९।।
पलमेकं भवेदेव यथा विपलषष्टिभिः ।।
षष्टिभिश्च पलैर्दण्डो मुहूर्त्तो द्विगुणात्ततः।।2.36.१७०।।
त्रिंशद्भिश्च मुहूर्त्तैश्च भवेदेव दिवानिशम्।।
दशपञ्च दिवारात्रिः पक्षमेकं विदुर्बुधाः ।। १७१ ।।
पक्षाभ्यां शुक्लकृष्णाभ्यां मास एव विधीयते ।।
ऋतुर्द्वाभ्यां च मासाभ्यां संख्याविद्भि प्रकीर्त्तितः ।। १७२ ।।
ऋतुत्रयेणायनं च ताभ्यां द्वाभ्यां च वत्सरः ।।
त्रिंशत्सहस्राधिकैश्च त्रिचत्वारिंशलक्षकैः ।। १७३ ।।
वत्सरैर्नरमानैश्च युगानां च चतुष्टयम् ।।
षष्ट्याऽधिके पञ्चशते सहस्रे पञ्चविंशतौ ।।१७४।।
युगे नराणां शक्रायुर्मनोरायुः प्रकीर्त्तितम् ।।
दिग्लक्षेन्द्रनिपातेऽष्टसहस्राधिक एव च।।१७५।।
निपातो ब्रह्मणस्तत्र भवेत्प्राकृतिको लयः ।।
लये प्राकृतिके वत्स कृष्णस्य परमात्मनः ।। १७६ ।।
चक्षुर्निमेषः सृष्टिश्च पुनरुन्मीलने तथा ।।
ब्रह्मसृष्टिलयानां च संख्या नास्ति श्रुतौ श्रुतम् ।।१७७।।
यथा पृथिव्या रेणूनामित्यूचे चन्द्रशेखरः ।।
एतेषां मोक्षणं नास्ति कथितानि च यानि तु ।। १७८।।
सृष्टिसूत्रस्वरूपं हि चान्यद्वृणु वरं सुर ।।
मुनीन्द्रस्य वचः श्रुत्वा देवेन्द्रो विस्मितो मुने ।। १७९ ।।
आत्मनः पूर्वमैश्वर्य्यं वरयामास तत्र वै ।।
तत्प्राप्स्यस्यचिरेणैवेत्युक्त्वा स प्रययौ गृहम् ।। 2.36.१८० ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्वासोमुनिसुरेन्द्रसंवादे इन्द्रं प्रति दुर्वासःशापादिकथनं नाम षट्त्रिंशोऽध्यायः ।। ३६ ।।