ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ६४

← अध्यायः ६३ ब्रह्मवैवर्तपुराणम्
अध्यायः ६४
वेदव्यासः
अध्यायः ६५ →

नारायण उवाच ।।
राजा येन क्रमेणैव भेजे तां प्रकृतिं पराम् ।।
तच्छ्रूयतां महाभाग वेदोक्तं क्रममेव च ।। १ ।।
स्नात्वाऽऽचम्य महाराजः कृत्वा न्यासत्रयं तदा ।।
स्वकराङ्गाङ्गमन्त्राणां भूतशुद्धिं चकार सः ।। २ ।।
प्राणायामं ततः कृत्वा कृत्वा च शङ्खशोधनम् ।।
ध्यात्वा देवीं च मृन्मय्यां चकारावाहनं तदा ।। ३ ।।
पुनर्ध्यात्वा च भक्त्या च पूजयामास भक्तितः ।।
+देव्याश्च दक्षिणे भागे संस्थाप्य कमलालयाम् ।।४ ।।
संपूज्य भक्तिभावेन भक्त्या परमधार्मिकः ।।
देवषट्कं समावाह्य देव्याश्च पुरतो घटे।। ५ ।।
भक्त्या च पूजयामास विधिपूर्वं च नारद ।।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।। ६ ।।
देवषट्कं च संपूज्य नमस्कृत्य विचक्षणः ।।
तदा ध्यायेन्महादेवीं ध्यानेनानेन भक्तितः ।। ७ ।।
ध्यानं च सामवेदोक्तं परं कल्पतरुं मुने ।।
ध्यायेन्नित्यं महादेवीं मूलप्रकृतिमीश्वरीम्।। ।। ८ ।।
ब्रह्मविष्णुशिवादीनां पूज्यां वन्द्यां सनातनीम् ।।
नारायणीं विष्णुमायां वैष्णवीं विष्णुभक्तिदाम् ।। ९ ।।
सर्वस्वरूपां सर्वेषां सर्वाधारां परात्पराम् ।।
सर्वविद्यासर्वमन्त्रसर्वशक्तिस्वरूपिणीम्।।2.64.१०।।
सगुणां निर्गुणां सत्त्वां वरां स्वेच्छामयीं सतीम् ।।
महाविष्णोश्च जननीं कृष्णस्यार्द्धाङ्गसम्भवाम्।।११।।
कृष्णप्रियां कृष्णशक्तिं कृष्णबुद्ध्यधिदेवताम् ।।
कृष्णस्तुतां कृष्णपूज्यां कृष्णवन्द्यां कृपामयीम् ।। १२ ।।
तप्तकाञ्चनवर्णाभां कोटिसूर्य्यसमप्रभाम् ।।
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ।। १३ ।।
दुर्गां शतभुजां देवीं महद्दुर्गतिनाशिनीम् ।।
त्रिलोचनप्रियां साध्वीं त्रिगुणां च त्रिलोचनाम् ।। १४ ।।
त्रिलोचनप्राणरूपां शुद्धार्द्धचन्द्रशेखराम् ।।
बिभ्रतीं कबरीभारं मालतीमाल्यमण्डितम् ।। १५ ।।
वर्तुलं वामवक्त्रं च शम्भोर्मानसमोहिनीम् ।।
रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम् ।। १६ ।।
नासादक्षिणभागेन बिभ्रतीं गजमौक्तिकम् ।।
अमूल्यरत्नं बहुलं बिभ्रतीं श्रवणोपरि ।। १७ ।।
मुक्तापंक्तिविनिन्द्यैकदन्तपंक्तिसुशोभिताम् ।।
पक्वबिम्बाधरोष्ठीं च सुप्रसन्नां सुमंगलाम् ।। १८ ।।
चित्रपत्रावलीरम्यकपोलयुगलोज्ज्वलाम् ।।
रत्नकेयूरवलयरत्नमञ्जीररञ्जिताम् ।। १९ ।।
रत्नकङ्कणभूषाढ्यां रत्नपाशंकशोभिताम् ।।
रत्नांगुलीयनिकरैः करांगुलिचयोज्ज्वलाम् ।। ।। 2.64.२० ।।
पादाङ्गुलिनखासक्तालक्तरेखासुशोभनाम् ।।
वह्निशुद्धांशुकाधानां गन्धचन्दनचर्चिताम् ।। २१ ।।
बिभ्रतीं स्तनयुग्मं च कस्तूरीबिन्दुशोभितम् ।।
सर्वरूपगुणवतीं गजेन्द्रमन्दगामिनीम् ।। २२ ।।
अतीव कान्तां शान्तां च नितान्तां योगसिद्धिषु ।।
विधातुश्च विधात्रीं च सर्वधात्रीं च शंकरीम् ।। २३ ।।
शरत्पार्वणचन्द्रास्यामतीव सुमनोहराम् ।।
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ।। २४ ।।
सिन्दूरबिन्दुना शश्वद्भालमध्यस्थलोज्ज्वलाम् ।।
शरन्मध्याह्नकमलप्रभामोचनलोचनाम् ।। २५ ।।
चारुकज्जलरेखाभ्यां सर्वतश्च समुज्ज्वलाम् ।।
कोटिकन्दर्पलावण्यलीलानिन्दितविग्रहाम् ।। २६ ।।
रत्नसिंहासनस्थां च सद्रत्नमुकुटोज्ज्वलाम् ।।
सृष्टौ स्रष्टुः शिल्परूपां दयां पातुश्च पालने ।। २७ ।।
संहारकाले संहर्त्तुः परां संहाररूपिणीम् ।।
निशुम्भशुम्भमथिनीं महिषासुरमर्दिनीम् ।। २८ ।।
पुरा त्रिपुरयुद्धे च संस्तुता त्रिपुरारिणा ।।
मधुकैटभयोर्युद्धे विष्णुशक्तिस्वरूपिणीम् ।। २९ ।।
सर्वदैत्यनिहन्त्रीं च रक्तबीजविनाशिनीम् ।।
नृसिंहशक्तिरूपां च हिरण्यकशिपोर्वधे ।।2.64.३०।।
वराहशक्तिं वाराहे हिरण्याक्षवधे तथा।।
परब्रह्मस्वरूपां च सर्वशक्तिं सदा भजे ।। ३१ ।।
इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः ।।
पुनर्ध्यात्वा चैव भक्त्या कुर्य्यादावाहनं ततः ।। ३२ ।।
प्रकृतेः प्रतिमां धृत्वा मन्त्रमेवं पठेन्नरः ।।
जीवन्यासं ततः कुर्य्यान्मनुनाऽनेन यत्नतः ।। ३३ ।।
एह्येहि भगवत्यम्ब शिवलोकात्सनातनि ।।
गृहाण मम पूजां च शारदीयां सुरेश्वरि ।। ३४ ।।
इहागच्छ जगत्पूज्ये तिष्ठ तिष्ठ महेश्वरि ।।
हे मातरस्यामर्चायां सन्निरुद्धा भवाम्बिके ।। ३५ ।।
इहागच्छन्तु त्वत्प्राणाश्चाधिप्राणैः सहाच्युते ।।
इहागच्छन्तु त्वरितं तवैव सर्व शक्तयः ।। ३६ ।।
ॐ ह्रीं श्रीं क्लीं च दुर्गायै वह्निजायान्तमेव च ।।
समुच्चार्य्योरसि प्राणाः सन्तिष्ठन्तु सदाशिवे ।। ३७ ।।
सर्वेन्द्रियाधिदेवास्ते इहागच्छन्तु चण्डिके।।
ते शक्तयोऽत्रागच्छन्तु इहागच्छन्तु ईश्वराः ।। ३८ ।।
स इहागच्छेत्यावाह्य परिहारं करोति च ।।
मन्त्रेणानेन विप्रेन्द्र तच्छृणुष्व समाहितः ।। ३९ ।।
स्वागतं भगवत्यम्ब शिवलोकाच्छिवप्रिये ।।
प्रसादं कुरु मां भद्रे भद्रकालि नमोऽस्तु ते ।। 2.64.४० ।।
धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम ।।
आगताऽसि यतो दुर्गे माहेश्वरि मदालयम् ।। ४१ ।।
अद्य मे सफलं जन्म सार्थकं जीवनं मम ।।
पूजयामि यतो दुर्गां पुण्यक्षेत्रे च भारते ।। ४२ ।।
भारते भवतीं पूज्यां दुर्गां यः पूजयेद् बुधः ।।
सोऽन्ते याति च गोलोकं परमैश्वर्य्यवानिह ।।४३।।
कृत्वा च वैष्णवीपूजां विष्णुलोकं व्रजेत्सुधीः ।।
माहेश्वरीं च संपूज्य शिवलोकं च गच्छति ।। ४४ ।।
सात्त्विकी राजसी चैव त्रिधा पूजा च तामसी ।।
भगवत्याश्च वेदोक्ता चोत्तमा मध्यमा ऽधमा ।। ४५ ।।
सात्त्विकी वैष्णवानां च शाक्तादीनां च राजसी ।।
अदीक्षितानामसतामन्येषां तामसी स्मृता ।। ४६ ।।
जीवहत्या विहीना या वरा पूजा तु वैष्णवी ।।
वैष्णवा यान्ति गोलोकं वैष्णवीबलिदानतः ।। ४७ ।।
माहेश्वरी राजसी च बलिदानसमन्विता ।।
शाक्तादयो राजसाश्च कैलासं यान्ति ते तथा ।। ४८ ।।
किरातास्त्रिदिवं यान्ति तामस्या पूजया तया ।।
त्वमेव जगतां मातश्चतुर्वर्गफलप्रदा ।। ४९ ।।
सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः ।।
जन्ममृत्युजराव्याधिहरा त्वं च परात्परा ।। 2.64.५० ।।
सुखदा मोक्षदा भद्रा कृष्णभक्तिप्रदा सदा ।।
नारायणि महामाये दुर्गे दुर्गतिनाशिनि ।। ५१ ।।
दुर्गेति स्मृतिमात्रेण याति दुर्गं नृणामिह ।।
इति कृत्वा परीहारं देव्या वामे च साधकः ।। ५२ ।।
त्रिपद्या उपरिष्टात्तु शंखं संस्थापयेत्तु सः ।।
तत्र दत्त्वा जलं पूर्णं दूर्वां पुष्पं च चन्दनम् ।। ५३ ।।
धृत्वा दक्षिणहस्तेन मन्त्रमेवं पठेन्नरः ।।
पुण्यस्त्वं शंख पुण्यानां मङ्गलानां च मङ्गलम् ।।
प्रभूतः शंखचूडात्त्वं पुरा कल्पे पवित्रकः ।। ५४ ।।
ततोऽर्घ्यपात्रं संस्थाप्य विधिनाऽनेन पण्डितः ।।
दत्त्वा संपूजयेद्देवीमुपचारांश्च षोडश ।।५५।।
त्रिकोणमण्डलं कृत्वा सजलेन कुशेन च ।।
कूर्मं शेषं धरित्रीं च पूजयेत्तत्र धार्मिकः ।। ५६ ।।
त्रिपदीं स्थापयेत्तत्र त्रिपद्यां शंखमेव च ।।
शंखे त्रिभागतोयं च दत्त्वा संपूजयेत्ततः ।। ५७ ।।
गङ्गे च यमुने चैव गोदावरि सरस्वति ।।
नर्म्मदे सिन्धुकावेरि चन्द्रभागे च कौशिकि ।।९८।।
स्वर्णरेखे कनखले पारिभद्रे च गण्डकि ।।
श्वेतगङ्गे रुद्ररेखे पम्पे चम्पे च गोमति ।। ।।५९।।
पद्मावति त्रिपर्णाशे विपाशे विरजे प्रभे ।।
शतह्रदे चेलगंगे जलेऽस्मिन्सन्निधिं कुरु ।।2.64.६०।।
वह्निं सूर्य्यं च चन्द्रं च विष्णुं च वरुणं शिवम् ।।
पूजयेत्तत्र तोये च तुलस्या चन्दनेन च ।।
नैवेद्यानि च सर्वाणि प्रोक्षयेत्तज्जलेन च।।६१।।
प्रत्येकं वै ततो दद्यादुपचारांश्च षोडश ।।
आसनं वसनं पाद्यं स्नानीयमनुलेपनम् ।। ६२ ।।
मधुपर्कं गन्धमर्घ्यं पुष्पं नैवेद्यमीप्सितम् ।।
पुनराचमनीयं च ताम्बूलं रत्नभूषणम् ।। ६३ ।।
धूपं प्रदीपं तल्पं चेत्युपचारास्तु षोडश ।। ६४ ।।
अमूल्यरत्नसंक्लृप्तं नानाचित्र विराजितम् ।।
वरं सिंहासनं श्रेष्ठं गृह्यतां शङ्करप्रिये ।। ६५ ।।
अनन्तसूत्रप्रभवमीश्वरेच्छाविनिर्मितम् ।।
ज्वलदग्निविशुद्धं च वसनं गृह्यतां शिवे ।। ६६ ।।
अमूल्यरत्नपात्रस्थं निर्मलं जाह्नवीजलम् ।।
पादप्रक्षालनार्थाय दुर्गे देवि प्रगृह्यताम् ।। ।। ६७ ।।
सुगन्धामलकीस्निग्धद्रवमेतत्सुदुर्लभम् ।।
सुपक्वं विष्णुतैलं च गृह्यतां परमेश्वरि ।। ६८ ।।
कस्तूरीकुंकुमाक्तं च सुगन्धि द्रुतचन्दनम् ।।
सुवासितं जगन्मातर्गृह्यतामनुलेपनम् ।। ६९ ।।
माध्वीकं रत्नपात्रस्थं सुपवित्रं सुमङ्गलम् ।।
मधुपर्कं महादेवि गृह्यतां प्रीतिपूर्वकम् ।। 2.64.७० ।।
सुगन्धमूलचूर्णं च सुगन्धद्रव्यसंयुतम् ।।
सुपवित्रं मङ्गलार्हं देवि गन्धं गृहाण मे ।। ७१ ।।
पवित्रं शंखपात्रस्थं दूर्वापुष्पाक्षतान्वितम् ।।
स्वर्गमन्दाकिनीतोयमर्घ्यं चण्डि गृहाण मे ।। ७२ ।।
सुगन्धि पुष्पश्रेष्ठं च पारिजाततरूद्भवम् ।।
नानापुष्पादिमाल्यानि गृह्यन्तां जगदम्बिके ।।७३।।
दिव्यं सिद्धान्नमामान्नं पिष्टकं पायसादिकम् ।।
मिष्टान्नं लड्डुकफलं नैवेद्यं गृह्यतां शिवे ।। ७४ ।।
सुवासितं शीततोयं कर्पूरादिसुसंस्कृतम्।।
मया निवेदितं भक्त्या गृह्यतां शैलकन्यके ।। ७५ ।।
गुवाकपर्णचूर्णं च कर्पूरादिसुवासितम् ।।
सर्वभोगकरं रम्यं ताम्बूलं देवि गृह्यताम् ।। ७६ ।।
अमूल्यरत्नसारैश्च खचितं चेश्वरेच्छया ।।
सर्वाङ्गशोभनकरं भूषणं देवि गृह्यताम् ।। ७७ ।।
तरुनिर्य्यासचूर्णं च गन्धवस्तुसमन्वितम् ।।
हुताशमशिखाशुद्धं धूपं देवि च गृह्यताम् ।। ७८ ।।
दिव्यरत्नविशेषं च सान्द्रध्वान्तनिवारकम् ।।
सुपवित्रं प्रदीपं च गृह्यतां परमेश्वरि ।। ७९ ।।
रत्नसारगणाकीर्णं दिव्यं पर्य्यङ्कमुत्तमम् ।।
सूक्ष्मवस्त्रैश्च संस्यूतं देवि तल्पं प्रगृह्यताम् ।। 2.64.८० ।।
एवं संपूज्य तां दुर्गां दद्यात्पुष्पाञ्जलिं मुने ।।
ततोऽष्टनायका देवीर्यत्नतः परिपूजयेत् ।। ८१ ।।
उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डनायिकाम् ।।
अतिचण्डां च चण्डां च चण्डां चण्डवतीं तथा ।।८२।।
पद्मे चाष्टदले चैताः प्रागादिक्रमतस्तथा।।
पञ्चोपचारैः संपूज्य भैरवान्मध्यदेशतः।।८३।।
आदौ महाभैरवं च तथा संहारभैरवम् ।।
असितांगभैरवं च रुरुभैरवमेव च ।। ८४ ।।
कालभैरवमप्येवं क्रोधभैरवमेव च ।।
ताम्रचूडं चन्द्रचूडमन्ते वै भैरवद्वयम् ।। ८५ ।।
एतान्संपूज्य मध्ये वै नव शक्तींश्च पूजयेत् ।।
तत्र पद्मे चाष्टदले मध्ये वै भक्तिपूर्वकम् ।। ८६ ।।
ब्रह्माणीं वैष्णवीं चैव रौद्रीं माहेश्वरीं तथा ।।
नारसिंही च वाराहीमिन्द्राणीं कार्त्तिकीं तथा ।। ८७ ।।
सर्वशक्तिस्वरूपां च प्रधानां सर्वमङ्गलाम् ।।
नव शक्तीश्च संपूज्य घटे देवांश्च पूजयेत् ।। ८८ ।।
शङ्करं कार्त्तिकेयं च सूर्य्यं सोमं हुताशनम् ।।
वायुं च वरुणं चैव देव्याश्चेटीं बटुं तथा ।। ८९ ।।
चतुष्षष्टिं योगिनीनां संपूज्य विधिपूर्वकम् ।।
यथाशक्ति बलिं दत्त्वा करोति स्तवनं बुधः ।। 2.64.९० ।।
कवचं च गले बद्ध्वा पठित्वा भक्तिपूर्वकम् ।।
ततः कृत्वा परीहारं नमस्कुर्य्याद्विचक्षणः ।। ९१ ।।
बलिदानविधानं च श्रूयतां मुनिसत्तम ।।
मायार्तिं महिषं छागं दद्यान्मेषादिकं शुभम् ।। ९२ ।।
सहस्रवर्षं सुप्रीता दुर्गा मायातिदानतः ।।
महिषाच्छतवर्षं च दशवर्षं च छागलात् ।। ९३ ।।
वर्षं मेषेण कूष्माण्डैः पक्षिभिर्हरिणैस्तथा ।।
दशवर्षं कृष्णसारैः सहस्राब्दं च गण्डकैः ।।९४।।
कृत्रिमैः पिष्टकलितैः षण्मासं पशुभिस्तथा ।।
मासं सुपक्वादिफलैरक्षतैरिति नारद ।। ९५ ।।
युवकं व्याधिहीनं च सशृंगं लक्षणान्वितम् ।।
विशुद्धमविकारांगं सुवर्णं पुष्टमेव च ।। ९६ ।।
शिशुना बलिना दातुर्हन्ति पुत्रं च चण्डिका ।।
वृद्धेन वै गुरुजनं कृशेनापीष्टबान्धवान् ।। ९७ ।।
धनं चैवाधिकांगेन हीनांगेन प्रजास्तथा ।।
कामिनीं शृंगभंगेन काणेन भ्रातरं तथा ।। ९८ ।।
घुटिकेन भवेन्मृत्युर्विघ्नं स्याच्चित्रमस्तकैः ।।
हन्ति मित्रं ताम्रपृष्ठैर्भ्रष्टश्रीः पुच्छहीनतः ।। ९९ ।।
मायातीनां स्वरूपं च श्रूयतां मुनिसत्तम ।।
वक्ष्याम्यथर्ववेदोक्तं फलहानिर्व्यतिक्रमे ।। 2.64.१०० ।।
पितृमातृविहीनं च युवकं व्याधिवर्जितम् ।।
विवाहितं दीक्षितं च परदारविहीनकम् ।। १०१ ।।
अजारजं विशुद्धं च सच्छूद्रपरिपोषितम् ।।
तद्बन्धुभ्यो धनं दत्त्वा क्रीतमूल्यातिरेकतः ।। १०२ ।।
स्नापयित्वा च तं कर्त्ता पूजयेद्वस्त्रचन्दनैः ।।
माल्यैर्धूपैश्च सिन्दूरैर्दधिगोरोचनादिभिः ।। १०३ ।।
तं च वर्षं भ्रामयित्वा भृत्यद्वारेण यत्नतः ।।
वर्षान्ते च समुत्सृज्य दुर्गायै तं निवेदयेत् ।। १०४ ।।
अष्टमीनवमीसन्धौ दद्यान्मायातिमेव च ।।
इत्येवं कथितं सर्वं बलिदानं प्रसङ्गतः ।। १०५ ।।
बलिं स्तुत्वा च दत्त्वा च धृत्वा च कवचं बुधः ।।
प्रणम्य दण्डवद्भूमौ दद्याद्विप्राय दक्षिणाम् ।। १०६ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने पूजाविधिबलिपशुलक्षणविशेषो नाम चतुष्षष्टितमोऽध्यायः ।।६४।।