प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १३ ब्रह्मवैवर्तपुराणम्
अध्यायः १४
वेदव्यासः
अध्यायः १५ →

नारायण उवाच ।।
देवास्तस्यां सभायां च सर्वे संहृष्टमानसाः ।।
गन्धर्वा मुनयः शैलाः पश्यन्तः सुमहोत्सवम्।। ।। १ ।।
एतस्मिन्नन्तरे दुर्गा स्मेराननसरोरुहा ।।
उवाच विष्णुं प्रणता देवेशं तत्र संसदि ।।२।।
पार्वत्युवाच ।।
त्वं पाता सर्वजगतां नाथ नाहं जगद्बहिः ।।
कथं मत्स्वामिनो वीर्य्यममोघं रक्षितं प्रभो ।। ३ ।।
रतिभङ्गे कृते देवैर्ब्रह्मणा प्रेरितैस्त्वया ।।
भूमौ निपतितं वीर्यं केन देवेन वै हृतम् ।। ४ ।।
सर्वे देवास्त्वत्पुरतस्तदन्विष्यन्तु सादरम् ।।
अराजकं कथमिदं तिष्ठति त्वयि राजनि ।। ५ ।।
पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः ।।
उवाच देववर्गे च मुनिवर्गे च तिष्ठति ।। ६ ।।
श्रीविष्णुरुवाच ।।
देवाः शृणुत मद्वाक्यं पार्वतीवचनं श्रुतम् ।।
शिवस्यामोघवीर्य्यं यत्तत्पुरा केन निर्हृतम् ।। ७ ।।
सभामानयत क्षिप्रं न चेद्दण्डमिहार्हथ ।।
स को राजा न शास्ता यः प्रजाबाध्यश्च पाक्षिकः ।। ८ ।।
विष्णोस्तद्वचनं श्रुत्वा समालोच्य परस्परम् ।।
ऊचुः सर्वे शिवावाक्यैस्त्रासिताः पुरतो हरेः ।। ९ ।।
ब्रह्मोवाच ।।
तद्वीर्यं निर्हृतं येन पुण्यभूमौ च भारते ।।
स वञ्चितो भवत्वत्र पुण्याहे पुण्यकर्मणि ।। १० ।।
श्रीमहादेव उवाच ।।
मद्वीर्य्यं निर्हृतं येन पुण्यभूमौ च भारते ।।
स वञ्चितो भवत्वत्र सेवने पूजने तव ।। ११ ।।
यम उवाच ।।
स वञ्चितो भवत्वत्र शरणागतरक्षणे ।।
एकादशीव्रते चैव तद्वीर्य्यं येन निर्हृतम् ।।१२।।
इन्द्र उवाच ।।
तद्वीर्यं निर्हृतं येन पापिनां पापमोचने ।।
भवत्वत्र यशो लुप्तं तत्पुण्यं कर्म सन्ततम् ।। १३ ।।
वरुण उवाच ।।
भवत्वत्र कलौ जन्म वर्षे स्याद्भारते हरे ।।
शूद्रयाजकपत्न्याश्च गर्भे तद्येन निर्हृतम् ।। १४ ।।
कुबेर उवाच ।।
न्यासहारी स भवतु विश्वासघ्नश्च मित्रहा ।।
सत्यघ्नश्च कृतघ्नश्च तद्वीर्यं येन निर्हृतम्।।१५।।
ईशान उवाच ।।
परद्रव्यापहारी च स भवत्वत्र भारते ।।
नरघाती गुरुद्रोही तद्वीर्यं येन निर्हृतम्।।१६।।
रुद्रा ऊचुः।।
ते मिथ्यावादिनः सन्तु भारते पारदारिकाः ।।
गुरुनिन्दारताः शश्वत्तद्वीर्य्यं यैश्च निर्हृतम् ।। १७ ।।
कामदेव उवाच ।।
कृत्वा प्रतिज्ञां यो मूढो न सम्पालयते भ्रमात् ।।
भाजनं तस्य पापस्य स भवेद्येन तद्धृतम् ।। १८ ।।
स्वर्वैद्यावूचतुः ।।
मातुः पितुर्गुरोश्चैव स्त्रीपुत्राणां च पोषणे ।।
भवेतां वञ्चितौ तौ च याभ्यां वीर्य्यं च तद्धृतम् ।। १९ ।।
सर्वे देवा ऊचुः ।।
मिथ्यासाक्ष्यप्रदातारो भवन्त्वत्र च भारते ।।
अपुत्रिणो दरिद्राश्च यैश्च वीर्य्यं हि तद्धृतम् ।। २० ।।
देवपत्न्य ऊचुः ।।
ता निन्दंतु स्वभर्त्तारो गच्छन्तु परपूरुषम् ।।
सन्तु बुद्धिविहीनाश्च याभिर्वीर्य्यं हि तद्धृतम् ।। २१ ।।
देवानां वचनं श्रुत्वा देवीनां च हरिस्स्वयम् ।।
कर्मणां साक्षिणं धर्मं सूर्य्यं चन्द्रं हुताशनम् ।। २२ ।।
पवनं पृथिवीं तोयं सन्ध्ये रात्रिं दिवं मुने ।।
उवाच जगतां कर्त्ता पाता शास्ता जगत्त्रये ।। २३ ।।
श्रीविष्णुरुवाच ।।
देवैर्न निर्हृतं वीर्य्यं तदेतत्केन निर्हृतम् ।।
तदमोघं भगवतो महेशस्य जगद्गुरोः ।। २४ ।।
यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम् ।।
युष्माभिर्निर्हृत किं वा किम्भूतं वक्तुमर्हथ ।। २५ ।।
ईश्वरस्य वचः श्रुत्वा सभायां कम्पिताश्च ते ।।
परस्परं समालोच्य क्रमेणोचुः पुरो हरेः ।। २६ ।।
श्रीधर्म उवाच ।।
रतेरुत्तिष्ठतो वीर्य्यं पपात वसुधातले ।।
मया ज्ञातममोघं तच्छङ्करस्य प्रकोपतः ।। २७ ।।
क्षितिरुवाच ।।
वीर्य्यं वोढुमशक्ताऽहं तद्वह्नौ न्यक्षिपं पुरा ।।
अतीव दुर्वहं ब्रह्मन्नबलां क्षन्तुमर्हसि ।। २८ ।।
अग्निरुवाच ।।
वीर्य्यं वोढुमशक्ताऽहं न्यक्षिपं शरकानने ।।
दुर्बलस्य जगन्नाथ किं यशः किं च पौरुषम् ।। २९ ।।
वायुरुवाच ।। शरेषु पतितं वीर्य्यं सद्यो बालो बभूव ह ।।
अतीव सुन्दरो विष्णो स्वर्णरेखानदीतटे ।। ३० ।।
श्रीसूर्य्य उवाच ।।
रुदन्तं बालकं दृष्ट्वाऽगममस्ताचलं प्रति ।।
प्रेरितः कालचक्रेण निशि संस्थातुमक्षमः ।। ३१ ।।
चन्द्र उवाच ।। रुदन्तं बालकं प्राप्य गृहीत्वा कृत्तिकागणः ।।
जगाम स्वालयं विष्णो गच्छन्बदरिकाश्रमात् ।। ।। ३२ ।।
जलमुवाच ।।
अमुं रुदन्तमानीय स्तनं दत्त्वा स्तनार्थिने ।।
वर्द्धयामासुरीशस्य तं ताः सूर्य्याधिकप्रभम् ।। ३३ ।।
सन्ध्ये ऊचतुः ।। अधुना कृत्तिकानां च षण्णां तत्पोष्यपुत्रकः ।।
तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकेय इति स्वयम् ।। ३४ ।।
रात्रिरुवाच ।।
न चक्रुर्बालकं ताश्च लोचनानामगोचरम् ।।
प्राणेभ्योऽपि प्रेमपात्रं यः पोष्टा तस्य पुत्रकः ।। ३५ ।।
दिनमुवाच ।।
यानि यानि च वस्तूनि त्रैलोक्ये दुर्लभानि च ।।
प्रशंसितानि स्वादूनि भोजयामासुरेव तम् ।। ३६ ।।
तेषां तद्वचनं श्रुत्वा सन्तुष्टो मधुसूदनः ।।
ते सर्वे हरिमित्यूचुः सभायां हृष्टमानसाः ।। ३७ ।।
पुत्रस्य वार्त्तां सम्प्राप्य पार्वती हृष्टमानसा ।।
कोटिरत्नानि विप्रेभ्यो ददौ बहुधनानि च ।।
ददौ सर्वाणि विप्रेभ्यो वासांसि विविधानि च।।३८।।
लक्ष्मीः सरस्वती मेना सावित्री सर्वयोषितः ।।
विष्णुश्च सर्वदेवाश्च ब्राह्मणेभ्यो ददुर्धनम् ।। ३९ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे कार्त्तिकेयजन्मकथनं नाम चतुर्दशोऽध्यायः ।। १४ ।।