ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०३८

← अध्यायः ०३७ श्रीकृष्णजन्मखण्डः
अध्यायः ०३८
वेदव्यासः
अध्यायः ०३९ →

श्रीकृष्ण उवाच ।।
दर्पभङ्गः श्रुतो देवि शङ्करस्य जगद्गुरोः ।।
अधुना श्रूयतां मत्तो दुर्गादर्पविमोचनम् ।। १ ।।
तेजसा सर्वदेवानामाविर्भूय जगत्प्रसूः ।।
दधार कामिनीरूपं कमनीयं मनोहरम् ।।२ ।।
निहत्य दानवेन्द्रांश्च ररक्ष देवताकुलम् ।।
लेभे जन्म ततो देवी जठरे दक्षयोषितः ।। ३ ।।
पिनाकपाणिं जग्राह सा देवी सुरसाधनम् ।।
शश्वत्परमभक्त्या च सिषेवे स्वामिनं सती ।। ४ ।।
दक्षेण सार्द्धं देवेन बभूव शिवशत्रुता ।।
निरर्थकं दैवयोगात्पुरा वै सुरसंसदि ।। ५ ।।
दक्षश्चकार यज्ञं च तत आगत्य कोपतः ।।
सर्वान्विज्ञापयामास तत्रैव शंकरं विना ।। ६ ।।
सस्त्रीका देवताः सर्वा आजग्मुर्दक्षमन्दिरम् ।।
सगणः शङ्करः कोपान्नाजगामाभिमानतः ।। ७ ।।
सती पतिं च मोहेन बोधयामास यत्नतः ।।
न तं चालयितुं शक्ता बभूव चञ्चला स्वयम् ।। ८ ।।
आजगाम पितुर्गेहं दर्पात्तस्य विनाऽऽज्ञया ।।
तस्य शापेन तस्याश्च दर्पभङ्गो बभूव ह ।।९।।
न हि संभाषणं चक्रे वाङ्मात्रेण पिता च ताम् ।।
श्रुत्वा च निन्दां भर्तुश्च देहं तत्याज मानतः ।। 4.38.१० ।।
एवं प्रिये निगदितं सतीदर्पविमोचनम् ।।
तस्या जन्मान्तरं नित्यं दर्पभङ्गश्च श्रूयताम् ।। ११ ।।
लेभे जन्म सती शीघ्रं जठरे शैलयोषितः ।।
शिवस्तस्याश्चिताभस्म चास्थि जग्राह भक्तितः ।। १२ ।।
चकार मालामस्थ्नां च भस्मना तनुलेपनम् ।।
स्मारंस्मारं सतीं प्रेम्णा भ्रामंभ्रामं पुनःपुनः ।। १३ ।।
सुषाव मेना तां देवीमतीव सुमनोहराम् ।।
सृष्टौ विधातुस्तस्याश्च ह्युपमा नास्ति कुत्र च ।। १४ ।।
गुणप्रसूर्गुणान्सर्वान्सर्वरूपान्बिभर्त्ति सा ।।
सर्वाश्च देवपत्न्यस्तत्कलां नार्हन्ति षोडशीम् ।। १५ ।।
बभूव वर्द्धमाना सा शुक्ले चन्द्रकला यथा ।।
अतीव यौवनस्था च शैलगेहे दिनेदिने ।। १६ ।।
बभूवाकाशवाणी च तां संबोध्य जगत्प्रसूम् ।।
शिवे शिवं च तपसा कठोरेण लभेति च ।।१७।।
विनेश्वरं न तपसा प्राप्ता हि गर्भसम्भवम् ।।
प्रहस्य तस्थौ श्रुत्वेति सा च यौवनगर्विता ।।१८।।
मम जन्मान्तरीयं च भस्मास्थि च बिभर्ति यः ।।
स मां प्रौढां कथं दृष्ट्वा न गृह्णात्यत्र जन्मनि ।।१९।।
यो विदग्धश्च ब्रह्माण्डं बभ्राम मम शोकतः ।।
स कथं मां न गृह्णाति दृष्ट्वा परमसुन्दरीम् ।। 4.38.२० ।।
दक्षयज्ञं यो बभञ्ज मम हेतोः कृपानिधिः ।।
स कथं मां न गृह्णाति पत्नीं जन्मनिजन्मनि ।। २१ ।।
या यस्य पत्नी यो यस्या भर्ता प्राक्तनतः पुरा ।।
कुतो विश्वे तयोर्भेदो निषेको नान्यथा भवेत् ।। २२ ।।
सर्वरूपगुणाधारं मत्वा स्वमतिमानतः ।।
न चकार तपः साध्वी न विज्ञाय तमीश्वरम् ।। २३ ।।
सुन्दरीषु च सर्वासु मत्तो नास्त्येव सुन्दरी ।।
हृदीति मत्वा गर्वेण न चकार तपः शिवा ।। २४ ।।
रूपयौवनवेषाणां पुमान्ग्राही स्वयोषिताम् ।।
शिवो मच्छ्रुतिमात्रेण मां गृह्णाति विना तपः ।। २९ ।।
हृदीति मत्वा गिरिजा तस्थौ हिमगिरेर्गृहे ।।
शश्वत्सहचरीमध्ये क्रीडोन्मत्ता दिवानिशम् ।। २६ ।।
एतस्मिन्नन्तरे तूर्णं दूतः शैलेन्द्रसंसदि ।।
उवाचागत्य मधुरं तत्पुरः संपुटाञ्जलिः ।। २७ ।।
दूत उवाच ।।
उत्तिष्ठोत्तिष्ठ शैलेन्द्र गच्छाक्षयवटान्तिकम् ।।
आजगाम महादेवः सगणो वृषवाहनः ।। २८ ।।
मधुपर्कादिकं दत्त्वा भक्तिनम्रात्मकन्धरः ।।
पूजनं कुरु शैलेन्द्रं देवेन्द्रं तमतीन्द्रियम् ।। २९ ।।
सिद्धिस्वरूपं सिद्धेशं योगीन्द्राणां गुरोर्गुरुम् ।।
मृत्युञ्जयं कालकालं ब्रह्मज्योतिः सनातनम् ।। 4.38.३० ।।
परमात्मस्वरूपं च सगुणं निर्गुणं विभुम् ।।
भक्तध्यानार्थममलं दधानं देहमीश्वरम् ।। ।।३१।।
शैलो दूतवचः श्रुत्वा समुत्तस्थौ मुदाऽन्वितः ।।
मधुपर्कादिकं नीत्वा जगाम शङ्करान्तिकम् ।। ३२ ।।
देवी दूतवचः श्रुत्वा प्रसन्नवदनेक्षणा ।।
हृदीति मेने मद्धेतोराजगाम महेश्वरः ।। ३३ ।।
चकार वेषमतुलं दधार वस्त्रमुत्तमम्।।
रत्नेन्द्रसारालंकारान्रत्नमालां मनोहराम् ।। ३४ ।।
पारिजातप्रसूनानां मालां चन्दनसंयुताम् ।।
चकार शङ्करार्थं च मत्वा मालां मनोहराम्।।३५।।
रत्नसिंहासनस्था सा ददर्श दर्पणे मुखम् ।।
कस्तूरीबिन्दुना सार्द्धं सिन्दूरबिन्दुभूषितम् ।। ३६।।
आरक्त नेत्रयुगलं निर्मलाञ्जनसंयुतम्।।
शरन्मध्याह्नममलं यथालिपंक्तिवेष्टितम्।।३७।।
सुकोमलौष्ठयुगुलं ताम्बूलरागसंयुतम्।।
अतीव सुन्दरं रम्यपक्वबिंबफलं यथा।।३८।।
रत्नकुंडलदीप्त्या च गंडस्थलविराजितम् ।।
सूर्योदयेन ज्वलितं सुमेरुशिखरं यथा ।।३९।।
अत्यनिर्वचनीयं च दन्तपंक्तिमनोहरम् ।।
यथा मुक्तासमूहं च सजलं जलदागमे।।4.38.४०।।
गजमुक्तासमायुक्तं सुचारुनासिकोत्तमम् ।।
सुशोभितं यथा मेरुं स्वर्णदीजलधारया।।४१ ।।
मालतीमाल्यसंयुक्तकबरीभारसंयुतम्।।
बकपंक्तिसुशोभाढ्यं नवीनं जलदं यथा ।। ४२ ।।
तप्तकाञ्चन वर्णाभं चारुवक्षःस्थलोज्ज्वलम् ।।
रत्नेन्द्रसारहाराक्तं कस्तूरीकुङ्कुमान्वितम् ।।४३।।
चारुचम्पकवर्णाभं स्तनयुग्मं मनोहरम् ।।
बदरीफलतुल्यं च चारुपत्रकशोभितम् ।।४४।।
मध्यं मनोहरं क्षीणं निम्ननाभिस्थलोज्ज्वलम्।।
अतीव सुन्दरं रम्यमुदरं वर्तुलाकृति ।। ४५ ।।
रम्भास्तंभविनिंद्यैकमूरुयुग्मं मनोहरम् ।।
कामालयं सुकठिनं निगूढमंशुकेन च।। ४६ ।।
स्थलपद्मप्रभामुष्टपदयुग्मं मनोहरम्।।
रत्नपाशकसंयुक्तं सिद्धालक्तकभूषितम् ।। ४७ ।।
दधतं रत्नमञ्जीरं राजहंसानुकारि च।।
रत्नेन्द्रसाराभरणं निर्मितं विश्वकर्मणा ।। ४८ ।।
करं सुकोमलतरं सुन्दरं कनकप्रभम् ।।
रत्नकङ्कणकेयूरशंखभूषणभूषितम् ।।४९।।
बिभ्रत्सद्रत्नमुकुरं लीलाकमलमुज्ज्वलम्।।
रत्नाङ्गुलीयमतुलं दधतं सुमनोहरम् ।। 4.38.५० ।।
दृष्ट्वा स्वरूपमतुलं दध्यौ शङ्करमीश्वरम् ।।
विशिष्य मनसा शश्वद्भर्तुश्चरणपङ्कजम् ।। ५१ ।।
पितरं मातरं बन्धुं साध्वीवर्गं सहोदरम् ।।
अन्तरे सा न सस्मार किंचिदेव शिवं विना ।।५२।।
अथ शैलेश्वरस्तत्र ददर्श चन्द्रशेखरम् ।।
स्वर्णदीपुलिनाद्रम्यादुत्पतन्तं च सस्मितम् ।। ५३ ।।
दधतं संस्कृतां मालां जपन्तं मम नामकम् ।।
तप्तस्वर्णप्रभाजुष्टजटाराशि विराजितम् ।। ५४ ।।
वृषभस्थं शूलपाणिं सर्वभूषणराजितम् ।।
नागयज्ञोपवीतं च सर्पभूषणभूषितम् ।। ५५ ।।
शुद्धस्फटिकसंकाशं व्याघ्रचर्मधरं परम् ।।
विभूतिभूषिताङ्गं तमस्थिमालं दिगम्बरम् ।।५६।।
पञ्चवक्त्रं त्रिनयनं सूर्यकोटिसमप्रभम् ।।
ददर्श रुद्रान्परितो ज्वलतो ब्रह्मतेजसा ।। ५७ ।।
शिववामे महाकालं दक्षिणे नन्दिकेश्वरम् ।।
भूतप्रेतपिशाचांश्च कूष्माण्डान्ब्रह्मराक्षसान् ।।५८।।
वेतालान्क्षेत्रपालांश्च भैरवान्भीमविक्रमान् ।।
सनकं च सनन्दं च कुमारं च सनातनम् ।। ५९ ।।
जैगीषव्यं देवलं च काणादं गौतमं तथा ।।
पिप्पलादं कणखनं वोढुं पञ्चशिखं कठम् ।। 4.38.६० ।।
जाजलिं करखं कर्णं लोमशं सूर्यवर्चसम् ।।
कात्यायनं पाणिनिं च शंखं दुर्वाससं ततः ।। ६१ ।।
शातातपं पारिभद्रमष्टावक्रं मरुद्भवम् ।।
एतान्पुरोगमान्नत्वा प्रणनाम शिवं गिरिः ।। ६२ ।।
मूर्ध्ना निपत्य भूमौ स दण्डवत्संपुटाञ्जलिः ।।
अथो अनल्पया भक्त्या धृत्वा तच्चरणाम्बुजम् ।।
ननाम चाश्रुनेत्रः स पुलकाञ्चितविग्रहः ।। ६३ ।।
धर्मदत्तेन स्तोत्रेण तुष्टाव परमेश्वरम् ।।
तुष्टे ब्राह्मे दिनेऽतीते पुष्करे सूर्यपर्वणि ।। ६४ ।।
हिमालय उवाच ।।
त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः ।।६५।।
त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः ।।
त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः ।। ६६ ।।
प्रकृतः प्रकृतीशश्च प्राकृतः प्रकृतेः परः ।।
नानारूपविधाता त्वं भक्तानां ध्यानहेतवे ।।
येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ।।६७।।
सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम् ।।
सोमस्त्वं सस्यपाता च सततं शीतरश्मिना।।६८।।
वायुस्त्वं वरुणस्त्वं च त्वमग्निः सर्वदाहकः ।।
इन्द्रस्त्वं देवराजश्च कालो मृत्युर्यमस्तथा ।। ।।६९।।
मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः ।। 4.38.७० ।।
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः ।।
विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः ।।७१।।
मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः ।।
वाक् त्वं वागधिदेवी त्वं तत्कर्ता तद्गुरुः स्वयम् ।।७२।।
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वरः ।।
इत्येवमुक्त्वा शैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् ।।७३।।
तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः ।।
स्तोत्रमेतन्महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ।। ७४ ।।
मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे ।।
अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि ।।७५।।
भार्याहीनो लभेद्भार्यां सुशीलां सुमनोहराम्।।
चिरकालगतं वस्तु लभते सहसा ध्रुवम् ।। ७६ ।।
राज्यभ्रष्टो लभेद्राज्यं शंकरस्य प्रसादतः ।।
कारागारे श्मशाने च शत्रुग्रस्तेऽतिसंकटे।।७७।।
गभीरेऽतिजलाकीर्णे भग्नपोते विषादने ।।
रणमध्ये महाभीते हिंस्रजन्तुसमन्विते ।। ७८ ।।
सर्वतो मुच्यते स्तुत्वा शंकरस्य प्रसादतः ।। ७९ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे ऽष्टत्रिंशोऽध्यायः ।। ३८ ।।