प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ७७ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ७८
[[लेखकः :|]]
अध्यायः ७९ →


अथाष्टसप्ततितमोऽध्यायः
नन्द उवाच
श्रीक़ष्ण जगतां नाथ सुस्वप्नश्च श्रुतो मया ।
वेदसारो नीतिसारो लौकिको वैदिकस्तथा ।। १ ।।

अधुना श्रोतुमिच्छामि पापं येषां च दर्शने ।
यस्मिन्कर्मणि वा वत्स तन्मां कथितुमर्हसि ।। २ ।।

वचनं वेदशाश्रोक्तं तथा वेदानुयायिनः ।
श्रोतुमिच्छन्ति संतप्ता लोकास्त्वन्मुखतस्तथा ।। ३ ।।

वेदानां जनकस्त्वं च वैदिकानां सतामपि ।
प्रह्मादीनां सुराणां च मुनीनां जगतामपि ।। ४ ।।

श्रुतं यत्त्वन्मुखाम्भोजात्प्रमाणं वचनामृतम् ।
तेन देहोऽभिषिक्तो मे वत्सविच्छेददाहनः ।। ५ ।।

स्वप्ने यच्छरणाम्भोजं सर्वकामफलप्रदम् ।
ब्रह्मादयो न पश्यन्ति तदद्य दृष्टिगोचरम् ।। ६ ।।

अतः परं त्वत्पदाब्जं क्व पश्यामि च पातकी ।
विण्मूत्रधारी देहो मे निबद्धश्च स्वकर्मणा ।। ७ ।।

ईदृशं च दिनं वत्स कदा मम भविष्यति ।
त्वया ब्रह्मादिनाथेन संवादो मम पापिनः ।। ८ ।।

कृपां कुरु कृपानाथ मम दोषं क्षमस्व च ।
वत्सबुद्ध्या च दुर्नीतं यत्कृतं च महेश्वर ।। ९ ।।

ब्रह्मेशशेषमुनयो ध्यायन्ते त्वत्पदाम्बुजम् ।
सरस्वती श्रुतिर्यस्य स्तवने जडतां व्रजेत् ।। १० ।।

इत्येवमुक्त्वा नन्दश्च निरानन्दः शुचाऽऽकुलः ।
मूर्च्छामाप रुदित्वा च पुत्रविच्छेदविह्वलः ।। ११ ।।

संत्रस्तो भगवान्कृष्णो बोधयामास यत्नतः ।
परमाध्यात्मिकं ज्ञानं ददौ तस्मै जगत्पतिः ।। १२ ।।

श्रीभगवानुवाच
हे नन्द जनकश्रेष्ठ सर्वश्रेष्ठ व्रजेश्वर ।
चेतनं कुरु कल्याम ज्ञानं च परमं श्रृणु ।। १३ ।।

परमाध्यात्मिकं ज्ञानं ज्ञानिनां च सुदुल्रभम् ।
वेदशास्त्रे गोपनीयं तुभ्यमेव ददाम्यहम् ।। १४ ।।

निबोध श्रूयतां नन्द सानन्दः सुसमाहितः ।
जन्ममृत्युचराव्याधिर्यदभ्यासान्न जायते ।। १५ ।।

स्थिरो भव महाराज व्रजनाथ व्रजं व्रज ।
ज्ञानं लब्ध्वा सदानन्दः शोकमोहविवर्जितः ।। १६ ।।

जलबुद्बुदवत्सर्वं संसारं सचराचरम् ।
प्रभाते स्वप्नवन्मिथ्या मोहकारणमेव च ।। १७ ।।

मिथ्याकृत्रिमनिर्माणहेतुश्च पाञ्चभौतिकः ।
मायया सत्यबुद्ध्या च प्रतीतिं जायते नरः ।। १८ ।।

कामक्रोधरोभमोहैर्वेष्टितः सर्वकर्मसु ।
मायया मोहितः शश्वज्ज्ञानहीनश्च दुर्बलः ।। १९ ।।

निद्रातन्द्राक्षुत्पिपासाक्षमाश्रद्धादयादिभिः ।
लज्जा शान्तिर्धृतिः पुष्टिस्तुष्टिश्चाऽऽभिश्च वेष्टितः ।। २० ।।

मनोबुद्धिचेतनाभिः प्राणज्ञानात्मभिः सह ।
संसक्तः सर्वदेवैश्च यथा वृक्षश्च वायसैः ।। २१ ।।

अहमात्मा च सर्वेशः सर्वज्ञानात्मकः स्मृतः ।
मनो ब्रह्मा च प्रकृतिर्बुद्धिरुपा सनातनी ।। २२ ।।

प्राणा विष्णुश्चेतना सा पद्मा तु चाधिदेवता ।
मयि स्थिते स्थिताः सर्वे गतास्तेऽपिगते मयि ।। २३ ।।

अस्माभिश्च विना देहः सद्यः पतति निश्चितम् ।
पाञ्चभूतो विलीनश्च पञ्चभूतेषु तत्क्षणम् ।। २४ ।।

नामसंकेतरूपं च निष्फलं मोहकारणम् ।
शोकश्चाज्ञानिनां तात ज्ञानितां नास्ति किंचन ।। २५ ।।

निद्रादयः शक्तयश्च ताः सर्वाः प्रकृते कलाः ।
लोभादयो ह्यधर्माशास्तथाऽहंकारपञ्चमः ।। २६ ।।

ते ब्रह्मविष्णुरुद्राशा गुणाः सत्त्वादयस्त्रयः ।
ज्ञानात्मकः शिवो ज्योतिरहमात्मा च निर्गुणः ।। २७ ।।

यदा विशामि प्रकृतौ तदाऽहं सगुणः स्मृतः ।
सगुणा विषया विष्णुप्रह्मरुद्रादयस्तथा ।। २८ ।।

धर्मो मदंशो विषयी शोषः सूर्यः कलानिधिः ।
एवं सर्वे सत्कलांशा मुनिमन्वादयःसुराः ।। २९ ।।

सर्वदेहे प्रविष्टोऽहं न लिप्तः सर्वकर्मसु ।
जीवन्मुक्तश्च मद्भक्तो जन्ममृत्युजराहरः ।। ३० ।।

सर्वसिद्धेश्वरः श्रीमान्कीर्तिमान्पण़्डितः कविः ।
चतुर्स्त्रिशद्विधः सिद्धः सर्वकर्मोपहारकः ।। ३१ ।।

तमुपैमि स्वयं सिद्धं भक्तस्त्वन्यन्न वाञ्छति ।
द्वाविंशतिविधं सिद्धं सिद्धिसाधनकारणम् ।। ३२ ।।

मन्मुखाच्छूयतां नन्द सिद्धमन्त्रं गृहाण च ।
अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।। ३३ ।।

ईशित्वं च वशित्वं च तथा कामावसायिता ।
दूरश्रवणमेवेति परकायप्रवेशनम् ।। ३४ ।।

मनोयायित्वमेवेति सर्वज्ञत्वमभीप्सितम् ।
वह्निस्तम्भं जलस्तम्भं चिरंजीवित्वमेव च ।। ३५ ।।

वायुस्तम्भं क्षुत्पिपासानिद्रास्तम्भनमेव च ।
कायव्यूहं च वाक्सिद्धिं मृतानयनमौप्सितम् ।। ३६ ।।

सृष्टीनां करणं चैव प्राणाकर्षणमेव च ।
ॐ सर्वेश्वरेश्वराय सर्वदिघ्नविनाशिने मधुसूदनाय स्वाहेति ।। ३७ ।।

अयं सन्त्रो महागूढः सर्वेषां कल्पपादपः ।
सामवेदे च कथितः मिद्धानां सर्वमिद्धिदः ।। ३८ ।।

अनेन योगिनः सिद्धा मुनीन्द्राश्च सुरास्तथा ।
शतलक्षजपेनैव मन्त्रसिद्धिर्भवेत्सताम् ।। ३९ ।।

यदि नारायणक्षेत्रे हविष्यान्नरतो जपेत् ।
गत्वा कुरु जपं तातकाशिकां मणिकर्णिकाम् ।। ४० ।।

श्रृशु नारायणक्षेत्रै जलाधस्तच्चतुष्टयम् ।
अत्र नारायणः स्वामी नान्यः स्वामी कदाचन ।। ४१ ।।

ज्ञानं चात्र मृते लोके मूर्तिर्भवति तस्य वै ।
व्रतं विनाऽपि मन्त्रेण जीवन्मुक्तो न संशयः ।। ४२ ।।

व्रजं कुरु पवित्रं च व्रजनाथ व्रजं व्रज ।
पापं यद्दर्शने तात कथयामि निशामय ।। ४३ ।।

दुःस्वप्नं पापबौजं च केवलं विघ्नकारणम् ।
गोघ्नं च ब्राह्मणघ्नं वा कृतघ्नं कृटिलं तथा ।। ४४ ।।

देवघ्नं पितृमातृघ्नं पापं विश्ववासघातिनम् ।
मिथ्यासाक्षिप्रदातारं यं चाऽऽतिथ्यविवञ्चनम् ।। ४५ ।।

ग्रामयाजिनमेवेति देवविप्रस्वहारिणम् ।
अश्वत्थघातिनं दुष्टं शिवविष्णुविनिन्दकम् ।। ४६ ।।

अदीक्षितमनाचारं संध्याहीनं द्विजं तथा ।
देवलं वृषवाहं च शूद्राणां सूपकारकम् ।। ४७ ।।

शवदाहं च शूद्राणां शूद्रश्राद्धान्नभोजिनम् ।
अवीरां छिन्ननासां च देवब्राह्मणनिन्दकाम् ।। ४८ ।।

पदिभक्तिविङीनां च विष्णुभक्तिविहीनकाम् ।
शूद्राणां विधवां चैव चाण्डालीं व्यभिचारिणीम् ।। ४९ ।।

शश्वत्कोपयुतं दुष्टमृणग्रस्तं च जारजम् ।
चौरं मिथ्यावादिनं च शरणागतयायिनम् ।। ५० ।।

मांसापहारिणं चैव ब्रह्मणं वृषलीपतिम् ।
ब्राह्मणीगामिरं शूद्र द्विजं वाधुर्षिकं तथा ।। ५१ ।।

अगम्यामामिनं दुष्टं चतुर्वणं नराधमम् ।
माता सपत्नीमाता च श्वश्रूश्च भगिनी सुता ।। ५२ ।।

गुरुपत्नी पुत्रपत्नी सोदरस्य प्रिया सती ।
मातृष्वसा पितृष्वसा भामिनेयप्रिया तथा ।। ५३ ।।

मातुलानी नवोढा य पितृव्यस्त्री रजस्वला ।
पितृमातृप्रसूश्चैव चागम्याष्टादश स्मृताः ।। ५४ ।।

कीर्तिताः सामवेदे च परिपाल्याः सतां व्रज ।
एता दृष्ट्वा च स्पृष्ट्वा च ब्रह्महत्यां लभेन्नरः ।। ५५ ।।

तस्माद्दैवेन ता दृष्ट्वा सूर्यं दृष्ट्वा हरिं स्मरेत् ।
कामतो यदि पश्यन्ति विनिन्द्यास्ते भवन्ति वै ।। ५६ ।।

तस्मात्सन्तो न पश्यन्ति शापभीता व्रजेश्वर ।
राहुग्रस्तं रविं सोभं न पश्यन्ति विपश्चितः ।। ५७ ।।

जन्माष्टसप्तरिः फाङ्कदशमस्थे दिवाकरे ।
जन्मर्क्षे निधने चापि चतुर्थेऽपि कलानिधौ ।। ५८ ।।

सर्वैरंशैर्न पश्यन्ति कम्पितं चन्द्रभास्करम् ।
नेष्टचन्द्रो न दृश्यश्य भाद्रे मासि सितासिते ।। ५९ ।।

चतुर्थ्यामुदितश्चन्द्रः परित्यक्तो मनीषिमिः ।
चन्द्रस्तारापहरणं कलङ्गमतिदुष्करम् ।। ६० ।।

तस्मै ददाति हे नन्द कामतो दि पश्यति ।
अकामतो नरो दृष्ट्वा मन्त्रपूतं जलं पिबेत् ।। ६१ ।।

तदा शुद्धो भवेत्सद्यो निष्कलङ्की महीतले ।
सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः ।। ६२ ।।

सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ।
इति मन्त्रेण पूतं च जलं साधुः पिबेद्ध्रुवम् ।।
इति ते कथितं सर्वमपरं कथयामि ते ।। ६३ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखण्डo उत्तo नारदनाo भगवन्नन्दसंo
अष्टसप्ततितमोऽध्यायः ।। ७८ ।।