भर्तृहरिसुभाशितम्.pdf/नीतिशतकम्

               




   

॥ श्रीरस्तु ॥

॥ भर्तृहरिसुभाषितम् ॥

॥ नीतिशतकम् ॥


॥ व्याख्यानपीठिका ॥

वन्देऽहं रघुनन्दनाङ्घ्रिसरसीजातद्वयीमद्वया-
मन्दानन्दमरन्दबिन्दुलहरीसंदोहनिष्यन्दिनीम् ।
यत्रेन्दिन्दिरजातवन्मुनिमनोबृन्दं कृतस्वाश्रयं
काञ्चित्तुन्दिलतामविन्दत परानन्दावबोधोदयात् ॥

श्रीमांस्त्रैलिङ्गादेशे स जयति विबुधश्रेणिकोटीरकोटी
कोटीमाणिक्यभूतागणितगुणगणोऽखण्डपाण्डित्यशौण्डः ।
धीरः शाण्डिल्यगोत्रः सकलकविकुलाह्लादिसूक्तिप्रवीणो
वीणोदाहार्यविद्याविवरणनिपुणो रामचन्द्रो बुधेन्द्रः ॥

वेदान्तोदन्तचिन्तामतनुत चतुरेणान्तरेणाकुतर्कं
तर्कं चातर्कयद्यः फणिपतिवचसां सारमादत्त योगे।
यो गेयः सांख्यसंख्यागमसमयविधावप्यलं तन्त्रविद्या-
विद् यो यामिन्यधीशः स्फुरति निरुपमो वञ्चवंशाम्बुराशौ ॥

विप्रेणाभूतपूर्वं फलमधितपसाऽलम्भि सूर्यप्रसादा-
ल्लब्ध्वा तस्मात् स्वयं तत् प्रचुरतरजरापञ्चताकुञ्चनाढ्यम् ।

हित्वा मोहं स्वकान्तास्वतिविमलधिया तं निषेव्यात्तभव्यो
योगीन्द्रो भर्तृहर्याह्वय इह कुरुतेऽद्यापि विद्याविलासम् ॥

सोऽहमेतत्प्रणीतायाः सुभाषितकृतेः कृती।
कुर्वे सहृदयानन्दिन्याख्यां व्याख्यां सतां मुदे ॥

व्याकुर्वन्ति निबद्धगौरवभयान्नैव स्फुटं युक्तिभि-
र्ये तेऽध्येतृजनप्रतारणपराः का नैपुणी वा ततः ?।
वैखर्या वचसां कवीशहृदयं प्रख्यापयन्नन्वय-
द्वारै वाहमिहाखिलं प्रविवृणोम्युक्तिव्रजोज्जृम्भितम् ॥




 इह खलु तत्रभवानशेषविशेषसारपारदृश्वा विश्वातिशायि-गुणगरिमावतारो भर्तृहरिनामा महायोगीश्वरो निजयोगमहिमानु- सारेण करतलामलकीकृताखिलविरिञ्चिप्रपञ्चस्तृणकणमिव जगज्जाल- मालोकयन् परमकारुणिको लोकव्यवहारपरिज्ञानखिन्नान्तःकरणः लोकानुजिघृक्षया नीतिशृङ्गारवैराग्यवर्णनप्रख्यं सुभाषितत्रिशत्याख्यं कंचित् प्रबन्धं प्रारंभमाणस्तत्परिपन्थिनिर्मन्थनद्वारा परिसमाप्ति- प्रचयगमनलक्षणं फलमाशासानः शिष्टाचारपरिप्राप्तिविशिष्टपरज्यो- तीरूपेष्टदेवतानमस्काराकारं मङ्गळमादौ निबध्नाति ॥

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥

 व्या.-दिशः प्राच्यादिदिक्प्रदेशाः - कालाः भूतभविष्य- द्वर्तमानरूपाः - आदिशब्दसंगृहीतानि वस्तूनि - तथा च दिक्काला आदयो येषां तानि दिक्कालादीनि-- तद्गुणसंविज्ञानबहुव्रीहिः- अन्यथा तेषामप्राधान्येन विनाभावे शास्त्रविरोधः स्यात् - तैरनवच्छिन्ना अपरिक्लृप्ता- विभुत्वान्नित्यत्वादेकत्वाञ्च देशतः कालतो वस्तुतश्चापरिच्छिन्नेत्यर्थः - अत एवानन्ताऽपरिमिता त्रिविधपरिच्छेदशून्यत्वादखण्डदण्डायमानेत्यर्थः - एतेन सजातीयविजातीयस्वगतभेदत्रयराहित्यमर्थात् सूचितमिति विज्ञेयम् - आनन्देति पाठे आनन्दचिच्छब्दयोर्द्वन्दान्ते श्रूयमाणो मात्रशब्दः प्रत्येकं संबध्यते - तथा चानन्दमात्रा आनन्दमयी चिन्मात्रा ज्ञानघना च - घिदेकरसेति यावत् - तादृशी मूर्तिस्तस्यै तद्रूपायेत्यर्थः ; ‘सत्यं ज्ञानमनन्तं ब्रह्म' ’एकमेवाद्वितीयं ब्रह्म' 'विज्ञानमानन्दं ब्रह्म' 'आनन्दो ब्रह्मेति व्यजानात् ’आनन्दमयोऽभ्यासात्' 'सत्यं ज्ञानमनन्तं यत् सानन्दं ब्रह्मकेवल"मित्यादिश्रुतिस्मृतिकदम्बकमत्र प्रमाणमिति भावः ; नात्र बहुव्रीहिराश्रयणीयः। अन्यथा। " इकोऽचि विभक्ता"वितिनुमि "मूर्तिन" इति स्यात् ; न च " तृतीयादिषु भाषितपुंस्कं पुंवद्गालव- स्ये "ति पुंवद्भाव इति वाच्यम् । मूर्तिशब्दस्य नियतस्त्रीलिङ्गत्वे- नाभाषितपुंस्कत्वात् ; तस्माद्यथाश्रुतमेव साधु मन्तव्यम् ; भाषित- पुंस्कत्वस्यानित्यत्वविवक्षायान्तु बहुव्रीहिविहिते तदा न काऽप्यनुप- पत्तिरिति सर्वं सुस्थम् ; तथा स्वानुभूतिरात्मानुभव - एव एकं मुख्य- मद्वितीयं वा - मानं स्वप्रकाशसाधनं - यस्य तस्मै ; स्वयं प्रकाश- संविद्रूपत्वादस्य प्रदीपवत् स्वपरप्रकाशकतया स्वसाक्षात्कारे स्वानुभव एव प्रमाणं न घटादेरिव घक्षुरादिप्रामाणिकत्वमिति भावः । एतेन वृत्तिविषयत्वमेव न तु फलविषयत्वमित्यवधेयम् ; तदुक्तमाचार्यैः

"स्वबोधेनान्यबोधेच्छा बोधरूपतयात्मनः ।
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥"

इति; तथा शान्ताय अविद्यातत्कार्यसम्बन्धशून्यत्वात् प्रसन्नाय - "निष्कळं निष्क्रियं शान्त"मित्यादिश्रुतेः । तेजसे ज्योतीरूपाय । ब्रह्मणे । नमः प्रह्वीभावः । “ नमःस्वस्ती"त्यादिना चतुर्थी ।।

 अत्र “मगळादीनि मङ्गळमध्यानि मङ्गळान्तानि शास्त्राणि प्रथन्ते। वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्ति । अध्येतारश्च प्रवक्तारो भवन्ती"ति भगवद्भाष्यकारवचनप्रामाण्यात् । "आशी- र्नमस्क्रियावस्तुनिर्देशोवाऽपि तन्मुख"मित्यादि दण्डिवचनाञ्चादौ नमस्काररूप मन्ते परब्रह्मस्मरणलक्षणं च। मध्ये तदुभयात्मकं च मङ्गळमाचरितमित्यवगन्तव्यम् ; “अथ शब्दानुशासन"मि- त्यादौ सर्वत्र शास्त्रारम्भे मङ्गळार्थत्वेनाथशब्दप्रयोगदर्शनात् । तस्य तदर्थकत्वं च ; नि - "मङ्गळानन्तरारम्भप्रश्नकात्स्नर्थेष्वथो अथे" त्यभिधानात् ;

" ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गळिकावुभौ ॥"

इति स्मरणाच्च ; तच्च निर्विघ्नं प्रारिप्सितपरिसमाप्तिकामेनावश्यं कर्त- व्यम्। “परिसमाप्तिकामो मङ्गळमाचरे "दित्यनुमितश्रुतिबोधित- कर्तव्यताकत्वात् ; अनुमानं च---मङ्गळं वेदबोधितकर्तव्यताकम- लौकिकाविगीतशिष्टाचारविषयत्वात्। दर्शाद्याचारवदित्यन्वयव्यति- रेकाभ्याम् । तस्य कारणत्वानिश्चयात् कथ मवश्यकर्तव्यताकत्वम् ? तथा हि। शबरभाष्यादौ कृतेऽपि मङ्गळे समाप्तेरजातत्वात् । किरणावळ्यादायकृतेऽपि जातत्वादिति चेत् । सत्यं । क्वचिद्विघ्न- बाहुळ्येन तत्समसंख्याकमङ्गळाभावात् । क्वचित् प्राचीनमङ्गळ बाहुळयाच व्यत्यय ; इत्यलमतिप्रसङ्गेन ॥

 अत्र चारुत्वेन यथावद्वस्तुवर्णनात् स्वभावोक्तिरलंकारः - " स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णन"मिति लक्षणात् । श्लोकाख्य- मेतदानुष्टुभं वृत्तम् ।

“पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः ।
गुरुषट्कं च सर्वेषामेतच्छोकस्य लक्षणम् ॥"

इति वचनात् ॥

॥ मूर्खपद्धतिः ।।

बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपहताश्चान्ये जीर्ण मङ्गे सुभाषितम् ॥२॥

 व्या::---प्रबन्धस्यास्य विविधस्वरूपपरिज्ञानार्थं तत्तत्पद्धति- निबन्धनतया चिकीर्षितत्वात् । तत्र मूर्खविद्वत्पद्धत्योार्व्यावर्तकभाव- स्याविशिष्टत्वेनोभयनिरूपणे संप्राप्ते। प्राथम्ये मुख्यप्रसङ्गसङ्गत्यो- रन्यतरस्याभावादशोकवनिकान्यायप्रायत्वाच्चादौ मूर्खपद्धतिं वर्णयितु- मारभते। तत्र प्रथमं सहदयाभावात् सुभाषितस्य वक्तुमनव- काश इत्याह-बोद्धार इति.--बोद्धारः परिजातारः * “बुध अवगमन" इत्यस्माद्धातोस्तृच् । मत्सरेणासूयया परोत्कर्षासहनेन - प्रस्ताः समाकान्ताः - ते न हृदयाळवः अतो नानुमोदन्त इति भावः । प्रभवो राजानः। स्मयदूषिताः गर्वदुर्विनीताः - न तु विनयप्रह्वाः - अतो न शृण्वन्तीति भावः। अन्ये उक्तोभयव्यति-. रिक्तजनाः । अबोधेनाज्ञानेन - उपहता नष्टात्मानस्ते न त्वधिकारिणः- अतस्तेषामाकर्णनयोग्यताऽपि नास्तीति भावः । तस्मात् सुभाषितं साधुभाषणं - प्रियवचनमिति यावत् - नपुंसके भावे क्तः। अङ्गे- ऽन्तरङ्गे। जीर्णमन्तर्हितं . न त्वद्यापि बहिः प्रवृत्तम् - तथाऽपि वक्ष्यार्माति वाक्यशेषः । वृत्तं पूर्ववत् ॥

अज्ञः सुख माराध्य स्सुखतर माराध्यते विशेषज्ञः।
ज्ञानलवदुर्विदग्धं ब्रह्मापि, नरं न रंजयति ॥

 व्या.--ननु कीदृशो मूर्खः यतस्तत्स्वरूपं निरूप्यते । तत्राह.-अज्ञ इति..----न जानातीत्यज्ञः अकिंचिज्ज्ञः मूढ इति यावत् । सुखमक्लेशेन। आराध्यः समाधेयः • तस्योपदेशमात्रेणैव विस्रम्भसम्भवादिति भावः। विशेषं जानातीति विशेषज्ञः तत्त्व- वेत्ता। सुखतरमत्यन्तानायासनेत्यर्थः - 'द्विवचनविभज्ये 'त्यादिना तरप् प्रत्ययः । आराध्यते समाधीयते - तद्बुद्धेः सर्वदा विशेषग्रहण- मात्रपर्यवसानादिति भावः । किं तु। ज्ञानं शास्त्रजन्यसंवित् तस्य लवेन दुर्विदग्धं पण्डितमानिनम् । नरं मूर्खजनमित्यर्थः। ब्रह्माऽपि कर्तुमकर्तुमन्यथाकर्तुं समर्थश्चतुर्मुखोऽपि - किमुतान्य इति भावः । न रञ्जयति रञ्जयितुं न शक्नोति - तन्मनसः सूक्तिसहस्रैरपि समा-- धानासंभवादिति भावः । उक्तोभयमध्यस्थो मूर्ख इति फलितार्थः ॥

 रञ्जनसंबन्धेऽप्यसंबन्धाभिधानादतिशयोक्तिभेदः । “अज्ञो। 'विशेषज्ञ' इत्यत्र च ' आतोऽनुपसर्गेक' इति कप्रत्ययो । न त्विगु- पघज्ञो 'त्यादिना कप्रत्ययः ; अत एवाह भगवान कात्यायनः " अकारादनुपसर्गात् कर्मोपपदो भवति विप्रतिषेधेने "ति वार्तिकव्याख्याने भाष्यकारेणार्थज्ञशब्दमुदाहृत्यास्यार्थस्य समर्थनात् : एत- च्वासकृदुक्तं मदीयशृङ्गारशृङ्गाटकेऽपि - ' रुक्मिणीरसमयं समयज्ञः' इत्यादिषु; एवमुत्तरत्रापि द्रष्टव्यम् । - आर्यावृत्तभेदोऽयमुग्नेयः; सत्तरत्रापि भेदान्तराण्युन्नेयानि ॥

प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरा-
त्समुद्रमपि संतरेत्प्रचलदूर्भिमालाकुलम् ।
भुजङ्ग मपि कोपितं शिरसि पुष्पवद्धारये-
न्नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४ ॥

 व्या.---अथ द्वाभ्यां मूर्खजनचित्तस्य दुराराध्यतामाह--- प्रसह्येति-मकरः शिंशुमाराख्यो जलग्राहविशेषः - तस्य वक्रे बदनगह्णरे दंष्ट्राणां निशिताप्रदशनविशेषाणाम् - अन्तरात् अन्तराळात् - अतिसंकटादित्यर्थः । प्रसह्य बलात्कारेण । मणि रत्नं - दुद्धरमपीति भावः। उद्धरेदुद्धतुं शक्नुयात्। जन इति शेषः । केनचिवधाने- नानयेदित्यर्थः । तथा प्रचलन्तो दोलायमानाः - ये ऊर्मयस्तेषां - मालाभिः परम्पराभिराकुलम् उल्लोलोज्जृम्भितमित्यर्थः । समुद्रमपि - दुस्तरमपीति भावः। संतरेत् सम्यक्तरितुं शक्नुयात् - केनचितवन- साधनेनेति भावः। लङ्घयेदिति पाठे हनुमानिव केनचिच्छक्ति- विशेषेण लञ्घितुं शक्नुयादित्यर्थः। तथा कोपितं संजातकोपं - कोप- वशात् सफूत्कारं जिह्वया मुक्कप्रान्तौलेलिहानमित्यर्थः - " तदस्य संजातं - तारकादिभ्य इतजि"तीति तच्प्रत्ययः - तारकादिराकृति- गणः । भुजङ्गं सर्पमपि - दुर्धरमपीति भावः। शिरसि केशपाशे । पुष्पेण तुल्यं पुष्पवत् - पुष्पस्रजमिवेत्यर्थः - " तेन तुल्यं क्रियाचे- द्वति रितिवतिप्रत्ययः। धारयेत् धारयितुं शक्नुयात् - मणिमन्त्रादि- साधनेनेति भावः । किं तु प्रतिनिविष्टमभिनिवेशाक्रान्तं - दुराग्रहा- विष्टमति यावत् - मूर्खजनस्य दुर्विदग्धस्य - चित्तम् । नाराधयेत् आराधयितुं समाधातुं न शक्नयात् - उपायालाभादिति भावः। मकर- दंष्ट्रान्तरस्थमण्युद्धरणादिप्रायं मूर्खजनचित्तसमाराधनमिति श्लोकार्थः ॥

लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णकासु सलिल पिपासार्दितः ।
कदाचिदपि पर्यटन शशविषाण मासादये-
न्नतु अतिनिविष्टमूर्खजनचित्त माराधयेत् ॥ ५ ।।

 व्या।.--एवं दुर्लभवस्तुसाधने दुष्करकार्यकरणे व संभाव- नया शक्तिरुता । न मूर्खचित्तप्रसाधने : इदानीमत्यन्तदुर्लभवस्त्वपि प्रसाधयन्न तु तचित्तमित्याह.-- लभतेति.----यत्नतः कुतश्चित्प्रयत्नात् - पञ्चम्यास्तसिल । पीडयन् केनचिद्यन्त्रेण सम्मर्दयन् । सिकतासु वालुकास्वपि - कालवयेऽप्यन्तस्स्नेहानधिकरणभूतास्वपीति भावः । तैलं स्नेहम्। लभेत लब्धुं शक्नुयात् - 'स्नेहनेतेल 'मित्यनुशासनान्नात्र तिलसंबन्धित्वाशङ्काकलङ्कावतार इति द्रष्टव्यम् । तथा पातुमिच्छा पिपासा - 'पा पान' इत्यस्माद्धातोः सन्नन्तात् स्त्रियामप्रत्यये टाप् - " तया अदितः पीडितः तृष्णातुरः सन्नित्यर्थः। मृगतृष्णिकासु च मरुमरीचिकास्वपि वा - जलभ्रममात्रदायिनीष्वपीति भावः - मृग- तृष्णाशब्दात स्वार्थे कप्रत्यये - 'प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुप' इतीकारः। सलिलं जलम्। पिबेत् पातुं शक्नुयात् - 'पाघ्राध्मे 'त्यादिना पिबतेः पिबादेशः । तथा पर्यटन तत्र तत्र चतान्तरे संश्चरन् । कदाचित् कस्मिंश्चित समये । शशस्य मृगविशे- षस्य - विषाणं शृङ्गमपि - वाङ्मात्रगोचरमपीति भावः। आसादये- दधिगन्तुं शक्नुयात्। (न तु प्रतिनिटेत्यादि पूर्ववत् ।) सिकतातैल- लाभादिवदत्यन्तदुर्घटं मूर्खचित्तसमाधानमिति भावः ; मृगवृष्णिका- जलशशविषाणयोर्गगनारविन्दवन्ध्यापुत्रवदत्यन्तासंगतत्वमुक्तं सुरेश्वर- वार्तिक----

"मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः।
एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः ॥"

इति पद्यद्वयेऽप्यस्मिन मणिमुद्धरेदिल्यादी शकि लिञ्चे'ति शक्यार्थे विधिलिङ्; तथा अपि शब्दः समुञ्चये। “संभावनायां पेत्' तदनुवाद इति विवेकः ; उभयथाऽप्यनुशासनसंभवात् । प्रकृतार्थोप- पत्तेश्च ; यथाहामरसिंहः “गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपी"ति; अत्र “ समुद्रमपि लङ्घयेदि " त्युदाजहार स्वामी ।

 अन मण्युद्धरणाद्यसंबन्धेऽपि तत्संबन्धाभिधाना दतिशयोक्तिः ।

  श्लोकद्वयमेतत् पृथ्वीवृत्तम् : तदुक्तं केदारेण वृत्तरत्नाकरे " जसौ जसयलावसुग्रहयतिश्च पृथ्वी गुरु"रिति। अत एव "सिक- तासुतैल 'मित्यत्र। - 'मृगतृष्णिकासु सलिल'मित्यत्र 'मूर्खजनचित्त' मित्यत्र च। अष्टमवणे विहितस्य विच्छेदस्याभावाद्यतिभ्रष्टंनाम दोषः । इममेव केचिदपस्थयर्ति वदन्ति ; तदुक्तं विद्यानाथेन " यत्र- स्थाने यतिभ्रंशस्तद्यतिभ्रष्टमुच्यत" इति ॥

"कुत्रचित्पदमध्ये तु यतिमिच्छन्ति सूरयः ।
यत्र पूर्वापरौ भागौ स्यातामेवैकवर्णगौ ।”

इति दत्तिलवचनमपि समाधातुं न शक्नोति ; पूर्वापरभागयोरेकवर्ण- गतत्वाभावात् ; निरंकुशाः खलु कवयो भवन्ति सर्वपथीनाः इत्यल- मतिप्रपञ्चेन ॥

व्याळं बालमृणाळतन्तुमि रसौ रोद्धुं समुज्जृम्भते
भेनुं वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यति ।
माधुर्यं मधुबिन्दुना रचयितुं क्षारा बुधे रहते
मूर्खान्यः प्रतिनेतु मिच्छति बलात्सूक्तैः सुधास्यन्दिभिः ॥

व्या--.-अथ मूर्खानुनयेच्छायाः अत्यन्ताविवेकितामाह - व्याळमिति । असौ पुमान । व्याळं दुष्टगजं - न तु साधारणजन्तु- मित्यर्थः॥ नि - "व्याळो दुष्टगजेसर्प" इति विश्वः । बालमृणाल- तन्तुभिः कोमलविसकिसलयसूत्रैः - ईषन्निरोधस्याप्यनुपयुक्तैरिति भावः। रोद्धुं नियन्तुम् । समुज्जृम्भते कृतप्रयत्नो भवतीत्यर्थः । तथा वज्रमणिं हीराख्यमणिविशेषम् । अलोहलेख्यमपीति भावः - नि - 'हीरोवञ्रश्चकथ्यत' इति हलायुधः। शिरीषकुसुमस्याति- कोमलपुष्पविशेषस्य - प्रान्तेनाञ्चलेन । भेत्तुं विदारयितुम् । सन्नाह्यति उद्युङ्क्ते इत्यर्थः । तथा क्षाराम्बुधेः लवणार्णवस्य - न तु स्वल्पजला- शयस्य । मधुविन्दुना क्षौद्रविप्रुषा - न त्वविच्छिन्न मधुधारासंपाते- नेत्यर्थः । माधुर्य मधुरगुणम् । रचयितुं संपादयितु मीहते काङ्क्षति ; कोऽसावित्यत आह ; यः पुमान् । बलाद्वापाटवात् । सुधास्यन्दिभिरमृतस्वादुभिरतिमधुरैरित्यर्थः । सूक्तैः प्रियोक्तिभिः - नपुंसके भावे क्तः । मूर्खान् प्रतिनेतुं समाधातु मिच्छति सोऽसाविति संबन्धः : मृणालतन्तुभिव्र्याळनिरोधनादितत्पर इव मूर्खानुनयपरोऽप्यत्यन्ता- विवेकीति भावः । अत्यन्तदुष्करं मूर्खप्रसादनमिति फलितार्थः ॥

 अत्र यः प्रतिनेतुमिच्छति वाञ्छति असौ समुज्जृम्भत इत्यादि विशिष्टानुनयेच्छाविजृम्भमाणादिवाक्यार्थयोनिर्दिकत्वासंभ- वात् सादृश्यलक्षणायामसंभवद्वस्तुसंबन्धो वाक्यावृत्तिनिदर्शना- भेदः ; न प्वायं दृष्टान्तः। वाक्यभेदेन प्रतिबिम्बकरणाक्षेपे तस्यो- त्थानात् । अत्र तु वाक्यार्थे वाक्यार्थसमारोपाद्वाक्यैकवाक्यतायां तदभाव इत्यलंकारसर्वस्वकारः ।।

 शार्दूलविक्रीडितम् - " सूर्याश्रैर्मसजस्तताः सगुरवः शार्दूल- विक्रीडितम्” इति लक्षणात् ।।

 

स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादन मज्ञतायाः ।
विशेषृतः सर्वविदां समाजे विभूषणं मौन मपण्डितानाम् ॥

 व्या..---अथैषां गतिमाह---स्वायत्तमिति.---विधाता ब्रह्म- णा कर्त्रा स्वायत्तमात्माधीनं - न तु परोपदेशसापेक्षम् -नि- 'अधीनो निन्न आयत्त' इत्यमरः । एकान्तहितमत्यन्तहितकारि - स्वावगुणाच्छादकत्वादिति भावः। तथा विशेषतो विशेषाकारेण - सार्वविभक्तिकस्तसिः । सर्वविदां समाजे सर्वज्ञसभायाम् । विभूषण- मुपस्कारहेतुभूतत्वाद्भूषणप्रायम् । मौनं तूष्णीम्भावः कर्म वा 'इग- न्ताश्च लघुपूर्वा 'दित्यण्। अपण्डितानामविदुषां संबन्धिन्याः। अज्ञतायाः। मौढ्यस्य च्छादनमाच्छादकम् । सद् । विनिर्मितं रचितम्। अतोऽपण्डितैर्निजमौव्यसङ्गोपनार्थ मानेनैव वर्तितव्य मिदमेवैतेषां गतिः - अन्यथा हास्यास्पदता स्यादिति भावः । 'एकान्तकृत 'मिति पाठे तु। कृतं कर्म - भावे क्तः - एकान्तकृतं रहस्यनुष्टितं कर्म - अज्ञतायाः छादनं सद्विनिर्मितमपण्डितानां मौनं भूषणं सद्विनिर्मितमिति प्रत्येकमन्वयो द्रष्टव्यः । अज्ञताच्छादनार्थ- मेकान्त एव कर्म कर्तव्यमपण्डितैमौंनिभिरेव स्थातव्यमन्यथा स्वरूप- प्रकाशनेनापहास्यास्पदता स्यादिति भावः ॥

 उपजातिवृत्तम् - ' इन्द्रोपेन्द्रवज्र' ति लक्षणात ; तौ द्वौ कीध्म्विधौ?

" स्यादिन्द्रवज्रा यदि तौ जगौ गः उपेन्द्रवज्रा जतजास्ततो गौ।
___ अनन्तरोदीरितलक्ष्मभाजः पादा यदीया उपजातयस्ताः ॥”

इति वृत्तरत्नाकरे उक्तत्वात् ॥

यदा किंचिज्ञोऽहं गज इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः।
यदा किंचित्किंचि दुधजनसकाशादवगतं
तदा मूर्योऽसीति ज्वर इव मदो मे व्यपगतः ॥८॥

 व्या.----अथ कश्चिदनुभविनः परान्, प्रति स्वानुभवप्रकार- माह. -यदेति.-अकिंचिद्ज्ञः अल्पज्ञस्सन् । यदा यस्मिन् समये। गज इव । मदेन दर्पणान्धः कर्तव्यविवेकशून्यः । समभवं जातोऽस्मि । तदा तस्मिन् समये। सर्वज्ञः अशेषज्ञोऽस्मीति मम मनोऽवलिप्तं गर्वितमभवत् - “अल्पविद्यो महागर्वी "ति न्यायाल्पज्ञत्वस्यैव गर्वहेतुत्वादिति भावः। नि-"अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि घे"ति विश्वप्रकाशः। यदा बुधजनसकाशाद्विद्वज्जनमुखादित्यर्थः - 'आख्यातोपयोग' इत्यपादानत्वात् पञ्चमी। किंचित्किंचित् स्वल्पं खल्पं - शास्त्रबोधिताचारादिकमिति शेषः । अवगतं ज्ञातम् । तदा। मुखें मूढोऽस्मीति। मे मम। मदो ज्वर इव। व्यपगतो निर्गतः। अभूदिति शेषः। वरवद्विकारकारित्वादस्यैतत्साम्यमि- त्यवगन्तव्यम् । 'आचार्यवान्पुरुषो वेद' ति श्रवणादाचार्यादवगत- विद्यस्यैव विवेकसंभवादिति भावः ; अल्पज्ञोऽपि सन् यस्सर्वज्ञ- मात्मानं मनुते स एव मूर्खः । यस्तु सर्वज्ञोऽपि मूढमानी भवति स एव विद्वानिति विवेकः। मदो गर्वहेतु गुरुशुश्रूषादिविनयहेतु- रिति फलितार्थः । यद्वा एतावन्तं कालं मदवशान्मूोऽस्मि । इदानीं गुरुशिक्षावशाद्विवेकावगतिरिति वा योजनीयम् ॥

 शिखरिणीकृतं - - रसै रुद्वैश्छिन्ना यमनसमला गः शिखरि- णी"ति लक्षणात् ॥

क्रिमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं
निरुपमरसप्रीत्या खादन्खरास्थि निरामिषम् ।
सुरपति मपि वा पावस्थं विलोक्य न शङ्कते
नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ९ ॥

 व्या...-मूर्खस्यातिनच्यं दृष्टान्तमुखेनाह.--क्रिमिकुलमिति.- श्वा शुनकः। क्रिमिकुलैरमेध्यमध्योत्पत्तिमदपादजन्तुसंततिभिश्चितं च्याप्तम्। लालाक्लिन्नं वसापूरार्द्रं - यद्वा - लाला सृणीका दन्तान्त- जेलमिति यावत् - नि-'सृणीकास्यन्दिनीलाले'त्यमरः - तया क्लिन्नं खादनसमये तस्यास्तत्र स्त्रवणादिति भावः । विगन्धि दुर्गन्धि - अत्र विशब्दस्य पूतिपोयत्वविवक्षायाम् । 'गन्धस्ये' त्यादिना समा- सान्त इकारोऽन्तादेशः - यद्वा - विगन्ध आमगन्धोऽस्यास्तीति विगन्धि । अत एव । जुगुप्सितं हेयम् । तदपि । निरामिषं मांस- लेशशून्यम् । तदपि । खरास्थि रासभकीकसम् । निरुपमः - उप- मानरहितो - यो रसः स्वादः - तत्र या - प्रीतिः प्रेमतया। खाद- न्भक्षयन्पार्श्वस्थमन्तिकस्थं - 'सुपिस्थ' इति के प्रत्ययः। सुरपति- मिन्द्रमपि - किमुतान्यमिति भावः । विलोक्य । न शङ्कते न लज्जते । तथाहि - क्षुद्रो जन्तुः नीचजन्तुः - परिग्रहे स्वीकृतवस्तुनि - फल्गुतां तुच्छत्वम्। न गणयति न मनुत इत्यर्थः । जुगुप्सितकर्माचरण- तत्परो मूर्योऽप्येवं न महद्विगर्हणाद्विभतीति भावः। नि-पत्नी परिजनादानमूलशापाः परिग्रहाः” इत्यमरः । 'फल्गु तुच्छमसारं चे' ति यादवश्च ।।

 अत्राप्रस्तुतवृत्तान्तकथनात् प्रस्तुतमूर्खजनवृत्तप्रतीतेरप्रस्तुत- प्रशंसालंकारः॥

“ अप्रस्तुतस्य कथनात् प्रस्तुतं यत्र गम्यते ।
अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥"

इति लक्षणात् हरिणीवृत्तं - "भवति हरिणीन्सौ म्त्रौ स्लो गो रसा-

म्बुधिविष्टपैः" इति लक्षणात् ।।

शिर श्शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधर
महीधा दुत्तङ्गा दवनि मवनेश्वापि जलधिम् ।
अधो गङ्गा सेयं पदमुपगता स्तोक मथवा
विवेकभ्रष्टानां भवंति विनिपातः शतमुखः ॥ १० ॥

 व्या.- अथाविवेकस्यानर्यादिधनद्वारा विवेकस्यावश्यकत्वं प्रदर्शयति - शिर इति.-अत्रोत्तरवाक्ये तच्छब्दस्य विद्यमानत्वा- द्यच्छब्दोऽध्यार्तव्यः- यत्तदोर्नित्यसंबन्धात् - उत्तरवाक्यस्थयच्छब्द- स्यैव पूर्ववाक्यतच्छब्दानपेक्षितत्वनियमात् । तथा च या गङ्गा स्वर्लोकात्। शर्वस्येदं शार्वमैश्वरं - नि-'ईश्वरश्शर्व ईशान' द्यत्यमरः - तस्येदमित्यण्ग्रत्ययः। शिरशीर्षमुपगतेति सर्वत्रानुषज्यते। प्रथमत इति शेषः । तदनु। पशुपतश्शर्वस्य - शिरस्तइशीर्षात् - पञ्चम्यास्तसिल् । धरतीति धरः - पघाद्यच् - क्षित्याः धरः क्षिति- धरः - तं हिमवन्त मुपगता । महीं धरतीति महीध्रः - मूलविभु- जादित्वात्क प्रत्ययः - यथाह-वामनः " महीध्रदयो मूलविमुजादि- दर्शनादि "ति - अत एव - नि---" महीध्र शिखरि क्ष्माभृदि" त्याद्यमरः। उत्तुङ्गादुन्नतान्महीघ्राद्धिमवदाख्यक्षितिधरादत्रनिं भुव- मुपगता। अवनेश्चापि । जलधिं समुद्रमुपगता -'नदीनां सागरो गतिरिति गङ्गा सागरपूरणी' ति वचनादिति भावः । अथो अनन्तरं - नि-"मङ्गळान्तरारम्भप्रश्नकालर्चेष्वथो अथे "त्यमरः - सेयं परिदृश्यमाना गङ्गा मन्दाकिनी । स्तोकमल्पं परिमितमिति यावत् । पदं स्थानम्। उपगता प्राप्ता। यद्वा - अधः उक्तप्रकारेणाधःप्रदेशे - पाताळे वा - पदमिति योजना - अथवा तथाहीत्यर्थः - पक्षान्तरे या - विवेकभ्रष्टानां विवेकशून्यानां - स्थानभ्रष्टानां च। शतमुखो बहुप्रकारः। विनिपातो भङ्गः - अधोऽध: पतनं च । भवति। विवेक- युक्तानां तु नैवम् । अतो विवेकानभ्रंशितव्यमिति भावः । यतस्सकल- लोकमहिताया अपि गङ्गाया भ्रंशवशादीगवस्थापत्तिः। किमुतान्ये- षामिति विवेकस्यात्यन्तावश्यकत्वमित्यवगन्तव्यम् । पुरा किल तत्र भवान् भगीरथोऽश्वमेधीयाश्वन्वेषणतत्परतया पाताळमुपगतानां कपिलविलोचनानलभस्मीकृतानां सगरकुमाराणामूध्र्वलोकप्राप्त्यर्थं स्वर्लोकात् सुरसरितमवतारयामासति पौराणिकी कथाऽत्रानुसंधया ।।

 अत्रानेकस्मिन्नाधारे क्रमेणैकस्या आधेयभूतायाः गङ्गायाः स्थितिकथनात् पर्यायाख्योऽलंकारः; तदुक्तं विद्यानाथेन.-

"क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि।
एकस्मिन्नथवाऽनेके पर्यायालंकृतिर्मता ॥"

इति शिखरिणीवृत्तं - लक्षणंतूक्तम् ।।

शक्यो वारयितुं जलेन हुतभुक्छत्रेग सूर्यातपो
नागेन्द्रो निशितांकुशेन समदो दण्डेन गौ र्गर्दभः ।
व्याधि भैषजसङ्गहै श्च विविधै मन्त्रैः प्रयोगौ विषं
सर्वस्यौषध मस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ ११ ॥

 व्या.---अथान्यादीनां विनिवारणे शाखप्रतिपादितजलादि- रूपहेतून प्रतिपाद्य मौख्यस्य निवारणे शाखाभावं हेत्वभावं ष स्फुटीकुर्वन्नाह.-शक्य इति.-हुतभुक् - हुतं होमद्रव्यं हविः पुरोडाशवपादि - भुनक्तीति हुतमुक् सहविः वैदिकाग्रिः - अत्र तु गृहादिदाहकृत् लौकिकोऽग्निरिति मन्तव्यम्। जलंन उदकेन। वारयितुं निवारयितुम् । शक्यं। एवंरीत्या। सूर्षातपस्सूर्यस्य रवेरातपः। छत्रेण वारयितुं शक्य इति पदद्वयस्योत्तरत्राप्यनुषङ्ग इति। मन्तव्यं समदः मदसहितः । नागेन्द्रः गजश्रेष्ठः । निशिताङ्कशेन तीक्ष्णाङ्क- शेन । गौः वृषभः । गर्दभो रासभश्च । दण्डेण। व्याधिः कुष्टादि- रोगः। भेषजसंग्रहैः औषधसंग्रहणैश्च । अत्र चकारात् महामन्त्रजप- होमसुरार्चनदानादिकमपि गृह्यते - 'तच्छान्तिरौपधैर्दानैपहोमसुरा र्चनैरि' ति स्मरणात्। विषं कालकूटादि। विविधैर्नानाविधैः। मन्त्रैः मन्तारं त्रायन्ते रक्षन्तीति मन्त्राः - तैमन्त्रैः प्रणवादिभिः - विविधैः प्रयोगैश्च। निवारयितुं शक्यमित्यर्थः। तस्मात् सर्वस्य प्राणिहिंसा- कारणीभूतदुष्टजन्तुजातस्य । शास्त्रविहितं शास्त्रविधिोदितमौषधं जलादिरूपभेषजम् । अस्ति । मूर्खस्य तु । औषधं सुभाषितादिरूपं । नास्ति शास्त्रविहितं न वर्तते ।।

इति नातिशतक पूर्वपद्धति सम्पूर्णा ।।

॥ विद्वत्पद्धतिः ॥

शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमाः
विख्याताः कवयो वसन्ति विपये यस्य प्रभो निर्धनाः ।
तज्जाड्यं वसुधाधिपस्य मुधिय स्त्वर्यं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षकै र्न मणयो थैरर्षतः पातिताः ॥ १२ ॥

 व्या.-अथ मुर्खपद्धतित्रैलक्षण्येन विद्वत्पद्धति वर्णयति ; यद्वा । यदुक्तं विवेकस्यात्यन्तावश्यकत्वं । तस्य शास्त्रपरिज्ञानसाध्य स्वात्। तस्य च विद्वदधीनत्वात् । तत्पद्धतिवर्णनमिदानीमारभते - शास्त्रेति--शासौः काणादगौतमीयादिभिरुपस्कृताः अलंकृतास्तथा शब्देन व्याकरणेन - सुन्दराः - गिरो वाचो - येषां ते तथोक्ता: - अत्र यद्यपि शास्त्रपदग्रहणेनैव सर्वेषां शास्त्राणां संग्रहात पार्थक्येन शब्दशास्त्रग्रहणे पौनरुक्त्यं दूषणं स्यात् - तथाऽपि गोबलीवर्दन्यायेन समाधेयं - यद्वा सर्वशास्त्रमुखं व्याकरणम्' इति तस्य प्राधान्यात् पार्थक्येन निर्देशः - अथवा इतरेषां शास्त्राणामुपस्काग्हेतुभूतत्वमात्र- मेव -अस्य तु 'वाणी व्याकरणेन' इति खेनैवोत्तरत्न वक्ष्यमाण- त्वात् तदेकान्तसौंदविह्त्वेन पृथग्रहणमिति मन्तव्यम्। तथा शिष्ये- भ्योऽन्तेवासिभ्यः - प्रदेया व्याख्यानरूपेण प्रदातुं योग्या - आगमाः शास्त्राणि येषां ते तथोक्ताः - सम्यक् शिक्षापावात प्रबुद्धाखिल- शास्त्रसिद्धान्तत्वेन शिघ्यद्वारा व्याख्यातनिखिलागमा इत्यर्थः - यद्वा शिष्यभ्यः प्रदेया विनियोगहीः न तु कुहकतया गर्भ एव जीर्णी कृता इत्यर्थः - तथा भूता आगमा एषां ते तथोक्ताः - नि-- 'आगमः शास्त्र आयतावि' ति विश्वः । अत एव विख्याताः सर्वत्र- प्रसिद्धाः। कवयो विद्वांसः। निधनाः धनहीनाः सन्तः । यस्य ग्रभो राज्ञो । विषये देशे सन्निधौ वा । सन्ति तिष्ठन्ति । तत्रिर र्थत्वे नावस्थानं । तस्य वसुधाधिषस्य प्रभो रेव । जाड्यं मान्द्यं- हैन्यमिति यावत्, 'गृणवधनत्रामाणादिभ्यः कर्मणि चे' ति ष्यत्र- त्ययः । सुधियो विद्वांसस्तु । अर्थ धनं । विनाऽपि - 'पृथग्विने'- त्यादिना विकल्पाहितीया। ईश्वराः समर्थाः पूज्या इत्यर्थः - विद्याया एव तेषां महाधनत्वादिति भावः । किं तु । यैः कुपरीक्षकैः तनशास्त्रपरिज्ञानाभावात् कुत्सितपरिज्ञानिमिः । मणयः अमूल्या- अपीति भावः। अर्घतः मल्यतः पातिताः यदि बहुमूल्या- मणयोऽल्पमूल्याः कृता इत्यर्थः । कुत्स्याः स्युः किं । न स्युरेवेत्यर्थः- अयमर्थः - विद्वद्धिः प्रभुसमाश्रयेणैव स्थातव्यं "सदाश्रयेण शोभन्ते- पण्डिता वनिता लता" इति न्यायात् ; तत्र नते यदि विद्वन्मनो- रथं पूरयेयुस्त तेषामेव कुत्सितत्वं । विद्वांसस्तु कुपरीक्षकोपहतमणय- इव न कुत्स्या इति ; अतः श्रेयःकाभैः प्रभुमिः तन्मनोरथपूरकैरेव- अबितव्यमिति तात्पर्यम्। शार्दूलविक्रीडितं वृत्तं-लक्षणं तूक्तम् ।।

हर्तु र्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा
यार्थिभ्यः प्रतिपाद्यमान मनिशं प्राप्नोति वृद्धि पराम् ।
कल्पान्तेध्वपि न प्रयाति निधनं विद्याख्यनन्तर्धनं
येषां तान्प्रति मान मुज्झत नृपाः कस्तै स्सह स्पर्धते? ॥ १३ ॥

 व्या... अथ विद्याधनस्य प्रसिद्धधनवैलण्यवर्णनद्वारा विदुषा- मुत्कर्षमापादयन्नेतेषु गौरवेण विश्वासोत्पादनार्थं नृपान् संबोधयति . हर्तुरिति.---यद्विद्याख्यं धनं। हर्तुश्चोरादेः - 'हर्तुमिति' तुमुन्नन्तपाठे अपहर्तुमित्यर्थः । गोचरं न याति विषयतां न प्राप्नोतीति - भावप्र- धानो निर्देशः - तस्यात्यन्तदुर्गहत्वादिति भावः । तथा सर्वदा काल- त्रयेऽपि। किमप्यनिर्वाच्यं । शं मुखं । पुष्णाति वर्धयत्ति - 'अर्थाना- मार्जने दुःखमि' ति स्मरणात् - प्रसिद्धं तु नैवमिति भावः । अनिशं सर्वदा। अर्थिभ्यो विद्यार्थिभ्यः यायकेभ्यश्च । प्रतिपाद्यमानं व्याख्याय- माणं दीयमानमपि च । परामुत्कृष्टां - वृद्धिमभ्युच्छ्रया प्राप्नोति विद्याया व्याख्यानेनाभिवृद्धिसंभवादिति भावः । तथा कल्पान्तेषु प्रळयेष्वपि । निधनं नाशं - न प्रयाति न नश्यतीत्यर्थः। कल्पान्तेष्वपीति बहु- वचनग्रहणं विद्याधनस्यात्यन्तविनाशाभावप्रकाशनार्थम् । प्रसिद्धं तूक्त- विपरतिमिति भावः • तदुक्तम् ।।

 'नभोगहार्या न च बन्धुहार्या न भ्रातृहार्या न घ राजहार्या। खदेशमित्रं परदेशबन्धु र्विद्यासुधां ये पुरुषाः पिबन्ति' इति । तद्विद्याख्यं विद्याभिधानं। यत्तदोर्नित्यसंबन्धात्तच्छब्दस्याध्याहारः । अन्तर्धनमभ्यन्तरस्थवित्तं । येषां पुरुषाणामस्तीति शेषः । अत स्तान्विद्याधनान्प्रति। हेनृपाः राजानो मानं कोपं दुराग्रहमिति यावत्। उज्झत तैर्विद्वद्भिस्सह कः पुमान् - स्पर्धते निगृह्णाति? न कोऽपीत्यर्थः॥ ततस्ते सर्वदा गौरवेण बहुमाननीया इति भावः।।

 अत्रोपमानात् प्रसिद्धधनादुपमेयस्य विद्याधनस्याधिक्यकथ- नाव्द्यतिरेकालंकारः - 'उपमानाद्यदन्यस्य व्यतिरेकस्स एव स' इति- काव्यप्रकाशकारलक्षणात्। वृत्तं पूर्ववत् ।।

परिगतपरमार्धान् पण्डितान्मावमस्था-
स्तृण मिति लघु लक्ष्मी र्नैव तान् संरुणद्धि ।
अभिनवमदरेखाश्यामगण्डस्थलानां
न भवति बिसतन्तु वारणं वारणानाम् ॥ १४ ॥

 व्या... अथ त्वदीयलक्ष्मीर्न तेषां प्रतिबन्धिका। अतस्तेषु- बहुमानाचरणतत्परेणैव भवितव्यमिति सदृष्टान्तं राजानं संबोधयति - परीति.-हेनृप। परिगतपरमार्थान् विज्ञाततत्त्वार्थान - “ सर्वे गत्यर्थाः ज्ञानार्था"इति न्यायात् - अथवा प्राप्तपुरुषार्थान्। पण्डितान् विदुषो मावमंस्थाः मावमानय - मन्यतेरवपूर्वाल्लु्ङि थासि 'न माङयोग' इत्यट्प्रतिषेधः। कुतस्तृणमिव लवु निस्सारा - लक्ष्मीस्त्वदीयसंपत्तिः - नि - " शोभा संपत्ति पद्मासु लक्ष्मीः श्रीरिख गीयत" इति विश्वः । तान् पण्डितान् नैव संरुणद्धि ईषदपि संरोद्धुं न शक्नोतीत्यर्थः । तत्र दृष्टान्तः। अभिनवमदरेखाभिः दान- वाराभिः - श्यामानि गण्डस्थलानि येषां तेषाम् वारणानां मत्ते- भानाम्। बिसतन्तुः मृणाळसूत्रम्। वारणं प्रतिबन्धकभूतम्। न भवति ; अतः पण्डितेषु बहुमानाचरणतत्परत्वेनैव वर्तितव्य मित्यर्थः ॥

 अत्र दृष्टान्तालंकारः--

." यत्र वाक्यद्वये बिम्बप्रतिविम्बतयोच्यते ।
सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निगद्यते ॥"

इति लक्षणात् : स चोक्तोपमयाऽङ्गेन संकीर्यते ॥

 मालिनीवृत्तं - " ननमयययुतेऽयं मालिनी भोगिलोकै "रिति लक्षणात् ॥

अम्भोजिनीवनविहारविलास मेव
हंसस्य हन्ति नितरां कुपित्तो विधाता।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्थ्यकीर्ति मपहर्तु मसौ समर्थः ॥ १५ ॥

 व्या.--किं बहुना ब्रह्माऽपि तदीयवैदग्ध्यापहरणे न शक्त इति दृष्टान्तमुखेनाह - अम्भोजिनीति -विधाता ब्रह्मा। कुपितः केनचिद्धेतुना क्रद्धस्सम् । हंसस्य निजयानमराळस्य । अम्भोजिनीवने पद्मिनीषने - यो विहारः क्रीडा - स एव विलासः लीला - तमेव न त्वन्यत् । नितरामतिशयेन। हन्तु नाशयतु । 'विलासमेक' मिति पाटे - एकं केवलं विलासमित्यन्वयः। अम्भोजाकरसंशोषणेन तत्र विहारभङ्गमात्रमेव कतुं शक्नोतीत्यर्थः। किं त्वसौ सौ विधाता। अस्य हंसस्य । दुग्धजलयोः क्षीरनीरयोर्भेदविधौ विभागकरणे विषये। प्रसिद्धां प्रख्याताम् । वैदग्ध्यकीर्ति वैदग्ध्येन " कृत्यवस्तुपु चातुर्य वैदग्ध्यं परिकीर्यंत' इत्युक्तलक्षणनैपुण्येन - प्रयुक्ता या कीर्तिस्ता मपहर्तुं न शक्नोति। हंसो हि क्षीरमिश्रिते नीरे नीरं विहाय क्षीरं गृहाणातीति प्रसिद्धिः। एवं कुपितो राजा स्वविषयवासादिभङ्गमात्र- मेव कर्तुं शक्नोति। न तु तेषामशेषविद्यापरिशीलनजनितचातुर्य- भङ्गमतो निष्कोपेन भवितव्यं विद्वत्सु राज्ञेति तात्पर्यम् ॥

 अत्राप्रकृतविधातृवृत्तान्तकथनात् प्रस्तुतराजविद्वज्जनवृत्तप्रतीते- रप्रस्तुतप्रशंसालंकारः - लक्षणं तूक्तम् ॥

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वलाः
न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः ।
वाण्येका समलंकरोति पुरुषम् या संस्कृता धार्यते
क्षीयन्तेऽखिलभूषणानि सततं वाग्भूषणं भूषगम् ॥ १६ ॥

 व्या.-अथ विदुषां तावद्विद्यैव भूषणरूपसंपत्तिरित्याह द्वाभ्यां - केयूराणीति.----केयूराण्यङ्गदानि - यद्यपि केयूरयोर्निज- भुजशिरोभूषणत्वेन द्वित्वमेव वक्तव्यं - तथाऽपि तद्विशेषविवक्षायाम् बहुवचनप्रयोग इति मन्तव्यम् । पुरुषम् जनम् । न भूषयन्ति नालं- कुर्वन्तीति यथायोगं संबध्यते । चन्द्रवदुज्ज्वला धवळतराः हारा मुक्ताहाराश्च । न भूषयन्ति । स्नानमभिषेकोऽपि। न भूषयति । विलेपनं घनसारकस्तूरीगन्धसारचर्चाऽपि । न भूषयति । कुसुमं मल्लिकामालतीचम्पकादिपुष्पमपि - जातावेकवचनम् । न भूषयति । अलंकृता अभ्यङ्ग पुष्पमाल्यादिना सम्यक्प्रसाधिता मूर्धजा: शिरोरुहा अपि न भूषयन्ति पुरुषमिति सर्वत्रानुषङ्गः; किंत्वेका केवला वाणी पुरुषम् समलंकरोति, सम्यग्भूषयति। केयं वाणीत्यत आह - या संस्कृता व्याकरणादिपरिशुद्धा। धार्यते स्वायत्तीक्रियते । सेत्यध्याहृततच्छब्देन संबन्धः : ननु केयूरादीनां विभूषणत्वेन प्रसिद्धत्वात्तनिषेधे प्रत्यक्षापलापः स्यादित्याशङ्कय तेषां क्षयिष्णुत्वान्न तथात्वमित्याह - अखिलभूषणानि केयूराद्युक्ताशेषभूषणानि । क्षीयन्ते कालक्रमेण नश्यन्ति - 'क्षीयन्ते खल्वि'तिपाठे खलुशब्दो वाक्यालंकारे। वाग्भूषणं संस्कृतवाग्रूपभूषणं तु। सततं भूषणं नित्यभूषणं - कदाऽपि न नश्यतीत्यर्थः ॥

व्यतिरेकालंकारः - लक्षणं तूक्तम् ॥
एतदादिश्लोकचतुष्टयं शार्दूलविक्रीडितं वृत्तम् ॥

विद्या नाम नरस्य रूप मधिकं प्रच्छन्नगुप्तं धनं
विधा भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।
विद्या बंधुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः॥ १७ ॥

 व्या.--विद्या नामेति.-रूपं नाम कुण्डलहारनूपुराङ्ग-

दादिचतुर्विधभूषणाभावेऽपि विभूषितबद्भासमान आकारविशेषः . तदुक्तं भावप्रकाशे----

" आवेध्यारोप्यविक्षेप्यबन्धनीयैरभूषितम् ।
यद्भूषितमिवाभाति तद्रूपमिति कथ्यते ।।"

इति.-
विद्या नाम वेदशास्त्राद्यात्मिका विद्यैव । नरस्य पुंसोऽधिकं भूयिष्ठं। रूपमुक्तलक्षणाकारविशेषः - तद्बल्लोकरञ्जकत्वादितिभावः । तथा प्रच्छन्नं निगूढं यथा तथा। गुप्तं रक्षितं । धनं विद्यै- बेति संबन्धः - तद्वकालान्तरेषूपकारकत्वादिति भावः। विद्या भोगान् करोतीति भोगकरी स्रक्चन्दनादिभोग्यवस्तुलाभहेतुः। तथा यशस्समाख्या - सुखमिन्द्रियतर्पणम् - एतत्करी एतद्धेतुश्च - उभय- त्रापि 'कृञो' हेतुताच्छील्यानुलोम्येष्वि' ति टप्रत्यये टित्वात् ङीप्। तथा विद्या । गृणन्त्युपदिशन्तीति गुरवस्तेषां हिताहितोपदेष्टॄ णामा- चार्याणामपि - गुरुरुपदेष्टॄभूता - तथा परमार्थबोधकत्वादिति भावः । विद्या । विदेशगमने प्रवासे । बन्धुजनः सुःऋजनः - तद्विशेषोप- चारसंपादकत्वादिति भावः- तदुक्तं - स्वदेशमित्रं परदेशबन्धुं विद्या- सुधां ये पुरुषाः पिबन्ति । विद्या परा देवता परमात्मभूता - मोक्षदायकत्वादिति भावः - यद्वा परादेवता स्वाभीष्टदेवता - तथा ऐहिकामुष्मिकफलदत्वादिति भावः - विद्या । राजसु राजमध्ये। पूज्यते प्रशस्यते - गौरवसंपन्नत्वाद्राजपूज्या भवतीत्यर्थः - यद्वा विद्याशब्देन विद्यावान् लक्ष्यते राजशब्देन च तत्सभाः लक्ष्यन्ते तथा च विद्यावान राजसभासु पूज्यते पुरस्क्रियते संभाव्यत इति यावत्। धनं द्रव्यं तु। न ह्युक्तप्रकारं न भवतीत्यर्थः । तस्माद्विद्यया- उक्तरूपया - विहीनश्शून्यः जनः। पशुः पशुप्रायः - कर्तक्या- कर्तव्यविवेकराहित्यादिति भावः। ततो बहूपकारकत्वाद्विशिष्ट विद्यैव प्रधानं न त्वन्यदिति तात्पर्यम् ॥

 अत्र विद्यायाः रूपधनाद्याकारेण बहुधा निरूपणान्निरवयव- मालारूपकालंकारः॥

क्षान्तिश्चेत्कवचेन किं कि मरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञाति श्चदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् ।
कि सर्पै र्यदि दुर्जनाः किमु धन र्विद्याऽनवद्या यदि
व्रीडा चे त्किमुभूषणौ स्सुकविता यद्यस्ति राज्येन किम्॥

 व्या.--अथलोकहितवर्णनप्रसंगात्तस्या एवं प्रकृष्टैश्वर्यभाव- माह - क्षान्तिरिति.--देहिनां प्राणिनां - क्षान्तिः तितिक्षा - परि- भवादिषूत्पद्यमानेषु क्रोधप्रतिबन्धक इति यावत्। अस्तिचेतहि । कवचेन वर्मणा । किं फलमिति सर्त्रत्रानुपज्यते न किंचिदपीत्यर्थः - तस्या एवारुन्तुदानामनवकाशप्रदत्वादितिभावः। क्रोधचित्तक्षोभोऽस्ति चेत्। अरिभिः शत्रभिः किम् ? तस्यैवान्तश्शत्रुत्वादुपद्रवहेतुत्वाच्चेति भावः। ज्ञातिर्दायादोऽस्ति चेदनलेनाग्निना किम् ? तस्यैव सर्वार्थ- निर्मलननिदानत्वादिनि भावः । सुह्र्त् सन्मित्रमस्ति यदि * 'सुहृद्दुर्हृदौ मित्रामित्रयोरि'ति निपातनात्साधुः। दिव्योषधैः सिद्धौषधैः किं फलम् ? न किंचिदपि - तस्यैवारोग्यकरत्वादिति भावः । दुर्जना: खला स्सन्ति यदि सर्पैराशीविषैः किम् ? तेषामेव प्राणापहारित्वा- दिति भावः । अनवधा निर्दुष्टा के अवद्यपण्वे 'त्यादिना निपातना- त्साधुः - ततो नञ् समासः - 'तस्मान्नुडची ति तुडागमः । विधा वेदवेदाङ्गाध्यात्मिका । अस्ति यदि। धनैः किम् ? तस्या एवा- खिलभोगसाधकत्वादिति भावः । ब्रीडा अकार्यप्रवृत्तौ मनस्संकोच- लक्षणलजाऽस्ति चेद्भूषणैः किमु हारनूपुराद्यालंकरणैः किम् ? - तस्या एव लोकोत्तरभूषणत्वादिति भावः । सुकविता सत्याण्डित्यं - नि- 'संख्यावान्पण्डितः कविरि'त्यमरः - यद्वा कवयति वर्णयति रसोल्लसितशब्दार्थसंघटनां करोतीति कविस्तस्य भावस्तत्ता - यदि । राज्येन भूमण्डलाधिपत्येन किम् ? - तस्या एवं सकललोकवशीकरत्वा- दिति भावः - राज्ञो भावः कर्म वा राज्यं प्रजापरिपालनात्मकं - पुरोहितादित्वाद्यक्प्रत्ययः ॥

दाक्षिण्यं खजने दया परिजने शाठ्यं सदा दुर्जने
प्रीतिः साधुनने नयो नृपजने विद्वज्जने चार्जवम् ।
शौर्य शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ १९ ॥

 व्या.-अथ विदुषां गुणवर्णनपूर्वकं लोकव्यवस्थापकत्वमाह दाक्षिण्यमिति.---स्वजने बन्धुजनेष्वित्यर्थः । जातावेकवचनम् - एक- मुत्तस्त्रापि - दाक्षिण्यं छन्दानुवर्तनम् - अन्यथा विनिदेयुरिति भाषः - नि- दक्षिणस्सरळावामपरच्छन्दानुवर्तिस्वि'ति। परिजने भृत्य- जनेषु विषये । दया दारिद्यादितद्दुःखप्रहाणेच्छा - अन्यथा विजह्यु- रिति भावः। दुर्जने खलजनेषु विषये। सदा शाठ्यं विप्रियकारित्वम् - अन्यथा अधिक्षियेरन्निति भावः । साधुजने सजनेषु विषये। प्रीतिः स्नेहः - आदर इति यावत् - अन्यथाऽनुतपेयुरिति भावः । द्दपजने राजसु विषये । नयो नीतिः - अनुवर्तनतात्पर्यमिति यावत् - अन्यथा दण्डयेरनिति भावः । विद्वज्जने पण्डितजनेषु विषये। आ- जवमवक्रता - अन्यथा निषिध्येयुरिति भावः। शत्रुजने शत्रुजनेषु विषये । शौर्य विक्रान्तत्वम् - अन्यथा निपातयेरन्निति भावः । गुरु- जने पित्रादिपु विषये। क्षमा सहिष्णुत्वम् - अन्यथा शपेरन्निति भावः। कान्ताजने नारीजनेषु विषये। धृष्टता प्रागल्भ्यं च - अन्यथा वशीकुर्युरिति भावः ; इत्येवमुक्तविधासु । कलासु शिल्पेपुनि -'कळा शिल्पे कालभेदे चन्द्रांशे कलना कले'ति वैजयन्ती। ये च पुरुषाः। कुशलाः निपुणाः। तेषु पुरुषेष्वेव। लोकस्थितिः 'लोकमर्यादा । अस्तौति शेषः। त एव लोकव्यवस्थासंस्थापकाः न तूक्तगुणरहिता इत्यर्थः । एवं भूतास्तु विद्वांस एव नत्वन्य इति हृदयम् ॥

जाड्यं धियो हरति सिञ्चिति वाचि सत्यं
मानोन्नतिं दिशति पाप मया करोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
सत्संगतिः कथय किं न कराति पुंसाम् ॥ २० ॥

  •   व्या.--- इत्थं विद्वज्जनाननुवर्ण्य संप्रति सत्संगतेश्श्रेयस्करत्व-

माह.----जाड्यमिति..-धियः बुद्धेर्जाड्यं मान्यम् । हरति निरस्यति । वाचि वचने। सत्यं सूनृतभावम्। सिञ्चत्याप्लावयति। मानोन्नतिं बहुमानातिशयम् । दिशति प्रयच्छति। पापं किल्विषमपाकरोति माशयति - धर्मोपदेशादिनेति भावः । तथा चेतः। प्रसादयति निर्मलयति - ज्ञानोपदेशादिनेति भावः। दिक्षु दशसु कीर्तिम् । तनोति विस्तारयति। अतस्सत्संगतिस्सजनसमागमः । पुंसां कि श्रेयो न करोति कथयेति पृथग्जनसंबोधनम् - सर्वमपि श्रेयः करो- त्येवेत्यर्थः ; अतस्तैरेव संगतिः कर्तव्या न तु दुर्जनैरिति तात्पर्यम् ॥

 अत्र क्रियाणां बहूनां समुच्चितत्वात्समुच्चयालंकारः - 'गुण- क्रियायौगपचं समुच्चय उदाहत' इति लक्षणात् ।। वसंततिलकावृत्तं - लक्षणं तूक्तम् ॥

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
नास्ति तेषां यशःकाये जरामरणजं भयम् ॥ २१ ॥

 व्या.- अथैतेषा मसाधारणमहिमास्पदत्वाल्लोकोत्तरस्वं वर्ण- यनिगमयति.---जयन्तीति.---सुकृतिनो धन्याः - नि -- 'सुकृती पुण्यवान धन्य' इत्यमरः । रससिद्धाः सिद्धशृङ्गारादिरसाः सिद्ध- पारदधुटिका श्च ॐ वाऽऽहिताग्न थादिष्विति निष्ठायाः परनिपातः। ते प्रसिद्धाः पूर्वोपवर्णिता वा। कवीश्वराः कविसार्वभौमाः पण्डि. तोत्तमा इति वा। जयन्ति सर्वोत्कग वर्तन्ते - अद्याऽपीति शेषः : यद्वा • रससिद्धाः सिद्धरसाः - ब्रह्मसाक्षात्कारवन्त इत्यर्थः - रसो बैस' इति श्रुतेः।

" शृङ्गारादौ विषे वीर्ये पारदे ब्रह्मवर्षसे।
वेतस्यास्वादने हेन्नि निर्यासेऽमृतशब्दयो:--रसः ॥"

इत्यभिधानाच । कवीश्वराः - कवयः क्रान्तदर्शिन - स्तेषा मीश्वराः कालनयाभिज्ञा ब्रह्मविद्याविशारदा इत्यर्थः। जयन्ति । कुत स्तेषां कवीश्वराणाम् । यशः काये कीर्तिशरीरे । जरामरणाभ्यां जातम् - इति तथोक्तम् । भयं नास्ति ; रससिद्धानां भौतिकशरीर एव जरामरणभयं नास्ति। यशश्शरीरे तु किं वक्तव्यम्। तस्य कल्पान्तस्थायित्वा दिति भावः ॥

अत्र रससिद्धपदार्थस्य विशेषणगत्या भयाभावपदार्थं प्रति हेतुत्वात्काव्यलिङ्गभेदः । वृत्त मुक्तम् ॥

इति नीतिशतके विद्वत्पद्धति सम्पूर्णा !!

॥ मानशौर्यपद्धतिः ॥

क्षुत्क्षामोsपि जराकृशो?ऽपिशिथिलमायोऽपि कष्टांदशा-
मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि ।
मत्तेभेन्द्रविभिन्नं कुम्भपिशितग्रासैकवद्धस्पृद्दः
किं जीर्णं तृण भत्ति मानमहता मग्रेसरः केसरी ॥ २२ ॥

 व्या.----अथ विदुषामपि मानशौर्ययो रपेक्षितत्वाद्विद्वत्प- द्धतिनिरूपणानन्तरं मानशौर्यपद्धति निरूपयति--क्षुत्क्षाम इति.-- क्षुधा क्षामः क्षीणोऽपि * 'क्षायो म' इति मत्वं, जरया विस्रसया - कृशो जीर्णोऽपि - नि-विस्रसाजरे'त्यमरः । शिथिलप्रायः विश्लथाङ्गतया बलहीनस्सन्नपी त्यर्थः। कष्टां दशामाहारालाभादति- कृच्छावस्था मापन्नः प्राप्तोऽपि - नि-दशावर्ताववस्थायामिति र्स्था यामिति विश्वः । अत एवं विपन्न दीधिति र्नष्टकान्तिरपि। किं बहुना प्राणेषु पञ्चसु। नश्यत्सूत्क्रममाणेषु सत्स्वपि - प्राणप्रयासे संप्राप्ते सत्यपी त्यर्थः । मत्तेभेन्द्रस्य मत्तगजपुङ्गवस्य - विभिन्नोविदारितो .. यः कुम्भः कुम्भस्थलं - तत्र यत्पिशितं मेदो मांसं - तद्ग्रासे तत्कबळने - एक मुख्यं यथा तथा - बद्धा सन्दानिता - स्पृहा वाञ्छा यस्य स इति शोर्यातिशयोक्तिः। तथा मानमहताभिमानोर न्नताना मग्रेसरोऽग्रगण्यः * 'पुरोऽग्रतोऽग्रेषु सर्तेरि 'ति टप्रत्ययः । केसरी सिंहः। जीर्णं तृणं धासम्। अत्ति किं अभ्यवहरति किम् ? नास्त्येवेत्यर्थः। इति मानातिशयोक्तिः ; नीचजन्तु स्तु नैव मिति भावः ॥

 अत्र यद्यपि सर्वत्रापिशब्द स्ताव देकैक विशेषण विशिष्टस्यै- वात्यन्तनीचवृत्तिप्रवृत्तिं द्योतयति । तथाऽप्युक्ताखिलविशेषण विशिष्टोऽपि गजेन्द्र मेदः कबळनविहितप्रतिज्ञः केसरी न नीचवस्तुनि प्रवर्तत इति महती मानशौर्यपरकाष्ठोक्ति रिति मन्तव्यम् ॥

"प्राणानपि परित्यज्य मानमेवाभिरक्षयेत् ।
प्राणा स्तरङ्गचपला मान माचन्द्रतारकम् ॥”

इति वचनान्मान शौर्यसंपन्नेन भवितव्यं यशस्कामेनेति भावः ।।

 अत्र प्रकरणे कुत्रचिन्मानस्य कुत्रचिच्छौर्यस्य कुत्रचिदुभ- यस्य च प्राधान्यकथनमपि द्रष्टव्यम् । कुलक्रमागतोत्तमशीलपरि पालनं मानं सहायमनपेक्ष्य शत्रुसंहरणसामर्थ्यम् शौर्यमिति विवेकः ॥ अत्र प्रायेणाप्रस्तुतप्रशंसालंकारोऽनुसंधेयः ।। शार्दूलविक्रीडितं वृत्तं - लक्षणं तूक्त्तम् ।। " स्वल्पस्नायुवसावसेकमलिनं निर्मांस मप्यस्थि गोः

श्वा लब्ध्वा परितोष मेति नच तत्तस्य क्षुधाशान्तये।

सिंहो जम्बुक भंकपागतमपि त्यक्त्या निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जन स्सत्वानुरूपं फलम् ॥२३॥

 व्या. क्षुद्रजन्तुस्तु नैव मिति उक्तमेवार्थं भङ्ग्यन्तर्रे - णाह-स्वल्षेति.-श्वा शुनकः । स्वल्पयोः लेशमात्रयोः - स्नायु चसयोः - स्नायुर्वस्नसाख्यनाडीभेदः - वसा मेदः - तयो रव सेकेन मेळनेन • मलिनं मलदूषितमपि - नि-,वस्नसा स्रायुः स्त्रियां' - 'हुन्मेदस्तु वपावसे' त्यमरः। निर्मांसं मांसलेशशून्य मपि । गोः पशोः -नि-

" स्वर्गेषुपशुवाग्वज्रदिडनेत्रघृणिभूजले ।
लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः" इत्यमरः ॥

अस्थि कीकसं । लब्ध्वा । परितोष मेति संतुष्यति। तच्च गवास्थि तु। तस्य शुनः। क्षुधा * 'आपं चैव हलन्ताना मिति वध नाट्टाप - तस्याः शान्तये क्षुन्निवारणाय । न पर्याप्तं न भवती त्यर्थः - अस्ति र्भवन्तीपरोऽप्रयुज्यमानोऽध्यस्तीति भाष्यकारवच नात् - भवन्तीति लटः पूर्वाचार्याणां संज्ञा - नीचजन्तुरिति भावः। सिंहस्तु। अङ्कं समीपमागत मपि - समीपवर्तिनम पीत्यर्थः - नि-अङ्कस्समीप उत्सङ्गे चिह्न स्थानापवादयो रिति विश्वः। जम्बुकं क्रोष्टारम् । त्यक्त्वा अनादृत्यालक्ष्यीकृत्येति यावत्। द्विषं गज मेव दूरस्थमपीति भावः। निहन्ति विदारयति तथा हि - कृच्छ्रगतोऽप्यतिसंकटस्थोऽपि। सर्वोऽशेषो जनः । सत्त्वानुरूपं स्वशक्त्यनुगुणं। फलं लाभं वाञ्छति ; न तु दुर्बलः प्रकृष्टफलकाङ्क्षी प्रबलो निकृष्टलाभकाङ्क्षी च भवति । अतः श्वसिंहदृष्टान्तेन नीचानीचवस्तुपरिहारपरिग्रहतत्परेण भवितव्य मायुष्मतेति भावः ॥ वृत्तं पूर्ववत् ॥

लांगूलचालन मधश्चरणावधातं
भूमौ निपत्य वदनोदरदर्शनञ्च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्व भुंक्ते ॥ २४ ॥

 व्या.-अथ क्षुद्रजन्तो श्रेष्टाविशेष माह - लाङ्गलेति.-श्वा सारमेयः। लाङ्गूलचालनं पुच्छविवर्तनम् । अधः भूतले चरणावघातं पादेन विदारणं च। भूमौ निपत्य स्वयमेव पतित्वा। वद- नोदरदर्शनं वक्रकुक्षि प्रदर्शनं च। पिण्डदस्य पुरस्तादिति शेषः । कुरुते निजनीचचेष्टामाविष्कुरुत इत्यर्थः। पुमान गौः पुंगवो वृषभः - विशेषणसमासः ' गो रतद्धितलुको' ति समासान्तष्टच्- स एव पुंगवः श्रेष्ठ इत्यर्थः - नि.---' श्रेष्ठोक्षाणौ तु पुंगवा विति वैजयन्ती - गजपुंगवो गजेन्द्र स्तु। धीरं गम्भीरम् । विलोक- यति पश्यति - पिण्डदसन्निधाविति भावः। अथ चाटुशतैरनेक- प्रियोक्तिभिः - अनूनवाक्यैश्च वा। भुङ्क्ते अभ्यवहरति - गुडतण्डु लादिकमितिशेषः * “भुजोऽनवन' इत्यात्मने पदम् । इमावेव नीचानीचजनयोः दृष्टान्ताविति भावः ॥

 वसन्ततिलकावृत्तम् - लक्षणं तूक्तम् ॥

परिवर्तिनि संसार मृतः को वा न जायते ।
स जातो येन जातेन याति वंशस्समुन्नतिम् ॥ २५ ॥

 व्या.-अथ मानशौर्यसंपन्नतया वंशवर्धनस्यैव जनस्य सत्ता

लाभो न त्वन्यस्येत्याह----परिवर्तिनीति.--परिवर्तिनि धर्माधर्मवशा पौन: पुन्येन वा वर्तमान । संसारे जरामरणरूपे संसारचक्रे । को वा पुमान् । मृतः प्रेतः । न जायते न भवतीत्यु प्त न्नो वा न भवतीति शेषः । यद्वा को वा न मृताः को वा न जाअयते नोत्पद्यते - सर्वोऽप्युत्पन्नो मृतश्च भवत्येवेत्यर्थः - " जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य चे"ति भगवद्वचनादिति भावः। ततः किमत आह। स पुमान। जात उत्पन्नो जन्मलाभवानिति यावत् । कोऽसवित्यत आह । येन जातेनोत्पन्नेन पुंसा। वंशोऽन्ववायः समुन्नति महोन्नत्यम्। याति प्राप्नोति ; वंशोद्धारको यः पुमान स एव जन्मलाभवानेवभूतत्वं च मानशौर्यसंपन्नस्यैव न त्वन्यस्य । अतः किमन्यैरजागळस्तनवदुत्पन्नै- र्मशकवद्विनष्टैश्चेति भावः ।।

 आनुष्टुभं वृत्तम् ॥

कुसुमस्तबकस्येप द्वंयी वृत्त्तिर्मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा॥ २६ ॥

 व्या.-इत्थं भूतस्य पुरुषस्य व्यापारमाह - कुसुमेति ॥ कुसुमस्तबकस्येव पुष्पगुच्छस्यवेत्येकं पदम् । मनस्विनो धीरस्य । मानशौर्यशालिनः पुंस इत्यर्थः । द्वयी द्विविधा । वृत्तिाव्यापार:- द्वे गती हीति पाठे स्पष्टोऽर्थः - तृतीया तु न संभवतीत्यर्थः ; किं तद्वृत्तिद्वयमित्यत आह :-सर्वलोकस्य सर्वेषां जनानामि- त्यर्थः । मूर्ध्नि शिरस्युनतस्थाने च। स्थीयत एवेति शेषः । अथवा वन एवारण्ये । शीर्यते जीयते वा - भावे लट् । एवमुभयी वृत्तिः - शौर्यादुन्नतस्थानस्थितिस्तदलाभे मानादरण्ये जीर्णता वा इति विवेकः । इयमेव पुंसां श्रेयस्करी वृत्तिरिति भावः । कुसुम- स्तबकस्येवेत्यत्र समानाश्रौती पूर्णोपमाऽलंकारः। इवशब्देन सह समासस्य संभवात् - तथा च वार्तिकम् * ' इवेन सह नित्य- समासो विभक्त्यलोपः। पूर्वपदप्रकृतिस्वरत्वं च 'ति। वृत्तं पूर्ववत् ॥

सन्त्यन्येऽपि बृहस्पतिप्रभृतयस्संभाविताः पञ्चषा-
स्तान्प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ।
द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्वरौ
भ्रातः पर्वणि पश्य दानवपतिश्शीर्षावशेषाकृतिः॥ २७ ॥

 व्या.- पुनरप्युक्तोभयगुणवैशिष्ट यस्यैवोत्क्रष्टतामाह.- सन्तीति.-अन्ये वक्ष्यमाणसूर्यचन्द्राप्रेक्षया इतरे । बृहस्पतिप्रभृ- तयः बृहस्पतिप्रमुखाः - प्रभृतिशब्देन बुधशुक्रादयोऽपि गृह्यन्ते। पञ्च षड़ा पञ्चषाः प्रहाः * 'संख्ययाव्यये 'त्यादिना बहुव्रीहिः * 'बहुव्रीहौ संख्येये डज बहुगणादि'ति समासान्तो डच् प्रत्ययः । संभाविताः ग्राह्यत्वेनोपस्थिताः बहुमता वा । सन्ति वर्तन्ते । तान् प्रति बृहस्पतिप्रभृतीन लक्ष्यीकृत्येत्यर्थः । विशेषेषु विशिष्टेषु तेजोमह- स्विति यावत् - विक्रमे पराक्रमणे - रुचिः प्रीतिर्यस्य स तथोक्त:- तेजस्विभिस्सहैव कलहाचरणतत्पर इत्यर्थः । एषः उपरागकर्तृत्वेन प्रसिद्धो। राहुः सैंहिकेयः । न वैरायते वे न करोति - अल. क्ष्यत्वात्तत्कबलनतत्परो न भवतीत्यर्थः * 'शब्द वैर कलहाभ्र- कण्व मेघेभ्यः करण' इति क्यङ् * · अकृत्सार्वधातुकयोर्दीर्घ्' इति दीर्घः - विक्रमरुची राहुरित्यत्र * रो रीति रेफलोपे * "ढ्रलोपे पूर्वस्य दीर्घोऽण' इति दीर्घः । किं तु। भास्वरौ तेजस्विनौ 'स्थेश भास' इत्यादिना वरच्प्रत्ययः। द्वावुभौ। दिवाकरनिशा- प्राणेश्वरौ सूर्याचन्द्रमसावेव - अन्ययोगव्यवच्छेदार्थकोऽयमेव कारः । शीर्षमेवावशेषो यस्यास्सा शीर्षावशेषा आकृतिर्यस्य शिरोमात्रावशिष्टगात्र इत्यर्थः - शीर्षावशेषीकृत' इति पाठेऽव्ययमे- वार्थः परिणमयितव्यः । दानवपतिर्दानवेश्वरः पूर्वोक्तो राहुः । पर्वणि दर्शपौर्णमासीप्रतिपत्संधौ। प्रमति गिलति। हे भ्रातरि- त्यादरेण पृथग्जनसंबोधनम् । पश्येत्यत्र वाक्यार्थः कर्म.--- यत श्शिरोमात्रावशिष्ट एवाय मीद्दक्कर्ताचरणतत्परोऽभूत्संपूर्णाङ्गश्चेत्त्किं- करिष्यति न जानार्माति भावः; एव मानशौर्यशालिनो हि निजाङ्गवैकल्यं न परिगणयेयुरिति किं तु महत्कार्यमेव कर्तुं व्यवस्यन्तीति तात्पर्यम्.----पुरा किल देवानाममृतप्रदानसमये विष्णुचक्रेण च्छिन्नशीर्षत्वाच्छिरोमात्रावशिष्टगात्रोऽभूत्सैहिकेय इति पौराणिकी कथाऽत्रानुसंधेया। शार्दूलविक्रीडितं वृत्तम् ॥

वहति भुवनश्रेणिं शेषः फणाफलकस्थितां
काठपतिना मध्यपृष्ठं सदा सच धार्यते ।
तमपि कुरुते क्रोडाधीनं पयोधिरनादरा-
दहह महतां निस्सीमानश्चरित्रविभूतयः॥ २८ ॥

 व्या.---अथ महतो माहात्म्यमाह-वहतीति. शेषः फणाः सहस्रसंख्याकाः स्फटाः फलकानीव तेषु-स्थितां । भुवनश्रेणि पाता- कादिचतुर्दशविष्टपपक्तिं । वहति धारयति - नि-स्फटायां तु फणा द्वयोर्रित्यमरः । स च शेषः कमठपतिना आदिकूर्मेण ' पति स्समास एवे'ति घिसंज्ञाया 'माङोनास्त्रियामि'त्याङो नाभावः। पृष्ठस्य मध्ये मध्येपृष्ठं निजकूर्परोपरिप्रदेश इत्यर्थः * 'पारे मध्ये षष्ठ्या वे'त्यव्ययीभावः . तत्सन्नियोगादेदन्तत्वं च मध्यश- ब्दस्य । सदा निरन्तरम् । धार्यते। उह्यते। तमपि। कमठपतिमपि । पयोधिः प्रळयार्यवः। अनादरात् अनायासात् । क्रोडाधनिं आदि- वराहायत्तं कुरुते - प्रळयकाले पाताळगतभूमण्डलस्यादिवराहाव- तारेण विष्णुना निजदंष्ट्रया समुद्धृवत्वादिति भावः। अतो मद्यत्तां मानशौर्यशालिनां महानुभावानां सम्बन्धिन्य श्चरित्रविभूतयो माहात्म्यसंपदो निस्सीमानो निर्मर्यादाः - अवाङ्मनसगोचरा इति यावत्। अह हेत्याश्चर्ये - नि- अह हेत्यद्भुते खेदे' इत्यमरः ।। अन पूर्वपूर्वस्योत्तरोत्तरगुणोत्कर्षावहत्वान्मालादीपकाख्योलंकारः - त दुक्तं विद्यानाथेन ॥

“यदा तु पूर्वपूर्वस्य संभवेदुत्तरोत्तरम् ।
प्रत्युत्कर्षावहत्वं तन्मालादीपकमुच्यते।' इति ।।

हरिणीवृत्तं - लक्षणं तूक्तम् ।।

वरं प्राणोच्छेदः समदमघवन्मुक्तकुलिश-
प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः ।
तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे
न चासौ संपातः पयसि पयसां पत्युरुचितः॥ २१ ॥

 व्या.--मानशौर्यशालिन एवोक्तविधमहत्त्वं न तु तद्विहीन- स्येति मैनाकं दृष्टान्तीकृत्याह - वरमिति.---तुषाराद्रेस्सूनोर्हिम- वत्पुत्रस्य मैनाकस्य। उद्गच्छन्नुज्जृम्भमाणो - बहुलो भूयिष्ठश्च - यो दहन श्शिलासंघर्षणजनितवह्नि स्तस्योद्गारै निस्सरणैः • गुरुभिः दुस्सहैः। समदेन सदर्पण • मघवता देवेन्द्रेण - मुक्तस्य प्रयुक्तस्य कुलिशस्य वज्रायुधस्य - प्रहारै विदारणैः । प्राणोच्छेदो मरणमित्यर्थः। वरं मनाक्प्रियम् - नि.- देवाद्वृते वरः श्रेष्ठ त्रिषु क्लीबं मनाक्प्रिय' इत्यमरः। कुतः। अह हेति खेदातिशयद्योतनार्थोऽनुकरणशब्दः। पितरि हिमवति। क्लेशेन वज्रप्रहार जनितदुःखेन - विवशे विह्वले सति। असावद्याऽप्युपलभ्यमानः। पयसां पत्यु समुद्रस्य - अ त्रासमासत्वेन घिसंज्ञाभावात् ख्यत्यात्परस्ये'ति कृतयणादेशा त्तिशब्दात्परस्य ङसोऽकारस्य उकारादेशः। पयसि सलिले संपातः प्रवेशः - निजप्रागसंरक्षणार्थं निमज्यावस्थानमित्यर्थः । उचितो न्याय्यो। न च न भवति हि। अस्यैवेति शेषः । यतो मानशौर्य संपन्नस्य पुंसः स्वप्राणमात्रपरित्राणतत्परतया क्वचिन्निलीयाव- स्थान मेवात्यन्तायशस्करम्। किमुत पितरि क्लेशविवश; अतः प्राण- परित्यागेनापि मानशौर्य एव प्रतिष्ठापनीये। अन्यथा महानप- वांदस्स्यादिति भावः। अत्रोद्गारशब्दस्य गौणत्वा न्नग्राम्यतादोषः । प्रत्युत सौन्दर्यातिशयमेवापादयति । तदुक्तं दण्ड्याघार्यैः ।।

“निष्ठ्यतोद्गीर्ण वान्तादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दर मन्यत्र ग्राम्यकक्ष्यां विगाहते" ।।

इति पुरा किल भूमण्डलोपद्रवकारिणां पर्वताना कोपवशात्पक्ष क्छेदोद्यते शक्रे भयविह्वलो मैनाकः समुद्रमध्ये निमज्ज्यातिष्ठ दिति पौराणिको कथाऽत्रानुसंधेया ॥


शिखरिणी वृत्तम् ॥

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिन कान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥ ३० ॥

 व्या.-अथ मानिनां परनिकारासहनं सदृष्टान्तमाह - यदिति.--- यद्यस्मात्कारणादचेतनः चेतनरहितः निर्जीवोऽपीति यावत् - पाषाणत्वादिति भावः। इनकान्तस्सूर्यकान्तमणिस्सवितु स्सूर्यस्य । पादैः रश्मिभिरङ्घ्रिभिश्च। स्पृष्टः संवळितस्ताडितश्चेति ध्वन्यते। प्रज्वलति जाज्वल्यमानो भवति - कोपोद्रिक्तश्चेति गम्यते । तत्तस्मात्कारणात। तेजस्वी तेजश्शाली मानशौर्यसंपन्नः पुरुषः सचेतन इति शेषः । परैश्शत्रुभिः कृतनिकृतिं विहितापकारं कथं सहते क्षमते - न कथंचिदित्यर्थः; मैनाक स्तु नैवमिति भावः - नि.-' पादारश्म्यङ्घ्रितुर्यांशा' इत्यमरः ॥
आर्यावृत्तभेदः ॥

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववां नखलु वयस्तेजमां हेतुः॥ ३१ ॥

 व्या.--विक्रान्तत्वे वयोऽपि न हेतुरिति विनिगमयति - सिंह इति..-शिशुबालोऽपि विक्रान्तत्वयोग्यतारहितावस्थोऽपीत्य- र्थः। सिंहः। मदमलिनाः दानपयःपङ्किलाः - कपांलाः भित्तय इव एषां तेषु गजेषु - मातङ्गेषु। निपतति कुम्भस्थलविदारनार्थमिति भावः । इयं बाल्येऽपि विक्रान्तता। सत्त्ववतां बलाढ्यानां । प्रकृतिः स्वभावः । कुतः। वयो बाल्यादि। तेजसां प्रतापशालिनामिति तजस्तेद्वतोरभेदाद्ध्यवसायोऽत्यन्ततेजस्वित्वप्रकाशनार्थकः । हेतुः कारणं - न भवति खलु - 'तेजसा हि न वयः समीक्ष्यते' इति न्यायादिति भावः - 'वयः पक्षिणि बाल्यादा वि'त्यमरः । अयम- प्यायोवृत्तभेदः ॥

इति नीतिशतक मानशौर्यपद्धतिः सम्पूर्णां !!

।। अर्थपद्धतिः ॥

जातिर्यातुरसातलं गुणगणस्तत्राप्यधो गच्छतात्
शीलं शैलतटात्पतत्वभिजनस्सन्दह्यतां वह्निना।
शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तुनः केवलं
येनैकेन विना गुणास्तृणलवप्रायास्प्तप्नस्ता इमे ॥ ३२ ॥

 व्या.-मानशौर्ययोरप्यर्थमूलत्वात् तन्निरूपणानन्तरमर्थपद्धतिं निरूपयति.-तत्र प्रथममर्थैकतत्पराणां मतमभिसंधाय तमाह - जातिरिति..--जातिः ब्राह्मणत्वादिः। रसातलं नामाधोलोकम्। यातु गच्छतु भ्रश्यस्वित्यर्थः । गुणगणो धैर्यौदार्यगाम्भीर्यादिगुणसमूहः । तत्रापि रसातलापेक्षयाऽप्यधःपाताळलोकम्। गच्छतात् प्राप्नुयात्। शीलं सत्स्वभावः। शैलतटात् । पततु विशीर्णं भवत्वित्यर्थः । अभि- जनो वंश:- नि.-"अभिजनान्वयौ वंश" इत्यमरः । वह्निना। संद- ह्यता भस्मीक्रियताम्। वैरिणि संक्षोभकारित्वाच्छत्रुभूते शौर्ये । शूर- त्वमूर्ध्नीत्यर्थः । आशु शीघ्रम्। वज्रमशनिर्निपततु - अशनिनिपातेन तदपि विध्वस्तं भवत्वित्यर्थः। एवं पूर्वोक्तजातिकुलोचिताभिमान- शौर्यादिनाशेऽप्यास्माकं न किंचदपि च्छिन्नमिति भावः। तथाऽपि किं युष्मदभिलषितमित्यत आहुः - नोऽस्माकम् । अर्थः केवलं वित्तमे वास्तु संभवत्वयमेवास्माकं परमार्थ इति भावः। ननूत्कर्षावहत्वेन प्रसिद्धानामुक्तगुणानां विध्वंसमङ्गीकृत्य एकेन वित्तेन किं करिष्य- थेति नाशङ्कनीयं - यतस्तद्विना तेषामप्यत्यन्ताकिंचित्करत्वमेवेत्याहुः । एकेन केवलेन - नि- 'एके मुख्यान्यकेवला' इत्यमरः । येन अर्थन विना - * 'पृथग्विनेत्यादिना विकल्पात्तृतीया। इमे पूर्वोक्ताः । समस्ता अपि गुणाः जातिकुलशीलाभिमानादयस्तृणलवप्रायास्तृ- णकल्पास्तद्वन्निस्सारा इत्यर्थः। अतो गुणमहत्ताया अप्येतन्मूल- कत्वादयमेव संपादनीय इति भावः ॥

"धनमर्जय काकुत्स्थ धनमूलमिदं जगन् ।
अन्तरं नाभिजानामि निर्धनस्य मृतस्य च ॥"
इति लक्ष्मणवाक्यमेव सिद्धान्तीकुर्मः
" अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
रक्षितानां व्यये दुःखं धिगर्थं दुःखभाजनम् ॥"
इति मनुस्मरणं त्वशक्तविषयं मन्यामह इति तात्पर्यम् ।।
शार्दूलविक्रीडितं - लक्षणं तूक्तम् ।।

यस्यास्ति वित्तं स नरः कुलीनः स. पण्डित स्मश्रुतवान् गुणज्ञः।
सएक वक्ता सच दर्शनीयः सर्वेगुगाः काञ्चनमाश्रयन्ति ।।

 व्या.-ननु तथाऽपि गुणाभावेऽपि कवलवितस्याकिंचि- त्करत्वमेवेत्याशङ्क्य तस्यैवाशेषगुणावहत्वं तावदाह - यस्येति.----. यस्य नरस्य । वित्तमस्ति संभवति । स नरः । कुले जातः कुलीनः महाकुलप्रसूतः के कुलात्ख' इति ख प्रत्ययः। स एव पण्डितो विद्वान् । स एव श्रुतवान् शास्त्रज्ञः • यद्वा - श्रुतं श्रवणं नपुंसके भावे क्तः - तदस्यास्तीति श्रुतवान् धर्मशास्त्राधाकर्णनचतुरोऽपीत्यर्थः । स एवं गुणज्ञो गुणग्राही • अत्र * 'आतोऽनुपसर्गे क' इत्यादि- व्याख्यातं प्राक् । स एव वक्ता वाग्मी स प स एव । दर्शनीय- स्सुन्दरश्च - उक्तगुणराहित्यऽपीति भावः । नन्वेवं चेत्पुरुषस्यैकेन वित्तन ईदृग्गुणसाकल्यसंपन्नत्वं कुत इत्याशङ्कयाह - सर्वे। गुणाः पूर्वोक्तकुलीनत्वादयः । काञ्चनं वित्तमाश्रयन्ति। अतोऽनेनैव सकल- गुणसंपतिसंभवे किमन्यैः प्रत्येकप्रयाससाध्यैरिति भावः ।।

 अत्र वित्तस्यैतावद्गणसंपादकत्वासंबन्धेऽपि तत्संबन्धाभि- धानादसंबन्धे संवन्धरूपातिशयोक्तिः ॥
वृत्त मुपजातिः ॥

दौर्स्मन्त्रयान्मृपतिविनश्यति यतिस्सङ्गात्सुतो लालना-
द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
हार्म बादनवेक्षणादापिकृषिः स्नेहः प्रवासाश्रया-
नौत्री चा प्रणयात्सवृद्धि रनयात्यागाधादाद्धनम् ॥ ३४ ॥

 च्या.--अथ द्वाभ्या मर्थस्य विनाशकार माह - दौर्मन्त्र्या- दिति..---नृपतिः राजा। दुटो न सुलक्षण प्रयुक्तो मन्त्रः पाङ्गुण्य- चिन्तनं यस्य तस्य दुर्भन्त्रस्य भावो दौमन्त्र्यं तस्माद्धेतोर्नश्यति विनष्टो भवति-मन्त्रवैकल्ये परेपामवकाशसंभवात् राज्याद्यपहरणादिति भावः- यद्वा - दुष्टा मन्त्रिणः प्रधानानि यस्य तस्य भावस्तस्मान्नश्यति - अदण्ज्यदण्डनांद्युपदेशेन लम्यादिरहितो भवतीत्यर्थः.-

"सन्मन्त्रिगा वर्धयते नृपाणां लक्ष्मीर्महीधर्मयशस्समूहः ।
दुर्मन्त्रिणा नाशयते तथैव लक्ष्मीर्मतीधर्मयशस्समूहः॥"

इति वचनादिति भावः; यतियोंगी। सगात्समागमानश्यति -

सङ्गस्य कामक्रोधादिहेतुत्वात् - तदुत्पत्तौ भ्रष्टयोगो भवतीत्यर्थः--

“सङ्गात्संजायते कामः कामाक्रोधोऽभिजायते।
क्रोधाद्भवति संमोहः सम्मोहात् स्मृतिविभ्रमः ॥"

इति गीतावचनादिति भावः; सुतो लालनान्नश्यति गुणहीनो भवति-

“लालनाद्बहवो दोषास्ताडनाद्बवहवो गुणाः ।
तस्मात्पुत्रं व शिष्यं व ताडपेन्न तु लालयेत् ॥

इति न्यायादिति भावः: विप्रो ब्राह्मणोऽनध्ययनात्। नश्यति नीचो भवति ॥

"वेदवेदाङ्गतत्त्वज्ञो विग्रस्सर्वत्र पूज्यते ।
अनधीतश्रुतिर्विप्रः सभामध्ये न शोभते ॥"

इति ; कुलं वंशः। कुतनयात्कुपुत्रानश्यति--

"कोटरान्तर्भवो वह्निस्तरुमेव दहिष्यति ।
कुपुत्रस्तु कुले जातः स्वकुलं नाशयेत्परम् ॥"

इति न्यायात् ; शीलं सत्स्वभावः । खलोपासना जनसमागमान्न - श्यति - तेषामत्यन्तानर्थमूलकत्वादिति भावः-

" छादयित्वाऽऽत्मभावं हि धरन्ति शठबुद्धयः ।
प्रहरन्ति च रन्ध्रेषु साऽतर्थस्सुमहान्भवएत् ।।"

इति वाक्यात् ; ह्रीर्जुगु र्जुगुप्सितकर्माचरणानिवृत्तिः । मद्यात् मद्यपानां पश्यति ॥

"अयुक्तं बहु भाषन्ते यत्र कुत्रापि शेरते ।
. नग्ना विक्षिप्य गात्राणि ते जाल्मा इव मद्यपाः ॥"

इत्युक्तत्वात् । कृषिस्सस्यमनवेक्षणान्नश्यति - नित्यमपरामर्शान्नश्यति ।

"कृषिं व पत्नीमनवेक्ष्य यः पुमानन्यानि कार्याणिसमाचरेच ।
- ते त्वेवमेवं च समाकुले द्वे तथेति बाधानि वयं च यातः"॥

इति स्मरणात् ; स्नेहः पुत्रदारादिपूत्पन्नो मोहः । प्रवासाश्रयादेशा- न्तरसंचारसमाश्रयणान्नश्यति-

"सुताङ्गनाबन्धुषु सोदरेषु नृपेषु भृत्येषु च जातमोहः ।
प्रवासमात्रेण हि नश्यतेऽखिलं चिरं प्रवासेन हरत्य-
शेषम् ॥”

इति वचनात् ; मैत्री मित्रभावः । अप्रणयादननुरागानश्यति-

"मृद्धट इव सुखभेद्यो दुस्संधानश्च दुर्जनो भवति ।
सुजनस्तु कनकधट इव दुर्भेद्यश्चाशु संधयः ।।

इति वचनात्। समृद्धिस्संपत्तिरनयान्नीतिराहित्यान्नश्यति-

"रक्षायां स्वमतिक्षिपत्यधिकरं शिक्षा गुणैर्लभ्यते
विद्वेष्टि स्वजनं त्यजत्यवनतिं मृद्गाति मार्गस्थितान ।
भूतिं नेच्छति योजनात्प्रतिभयं दुर्वत्मना गच्छति
क्रूराग्रं विनयाङ्कुशं न सहते भूपालमत्तद्विषः ॥"

धनं तु त्यागादर्थिसात्करणात् - 'द्यूतादिति पाठे - द्यूतादक्षक्री- "डायाः - प्रमादादनवधानतया वा - नश्यति 'श्रुतिनिष्पीडनाश्चैव चार्थासक्तधियां नृणाम्' इति . प्रमादान्नाशस्त्वनुभवसिद्धएव- दानानाशस्समनन्तरश्लोक एव वक्ष्यते - शिष्टानां गर्हणान्नाशः

सदाचारविवर्जनात्।' शार्दूलविक्रीडितम् ॥

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वितस्य ।
यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥ ३५ ॥

 व्या.----अथ वित्तस्योत्तमादिभेदेन त्रैविध्यमाह - दान मिति.---दानं सत्पात्रत्यागः । भोगः स्रक्चन्दनादिद्वाराऽनुभवः । नाशः दानधर्माद्यभावे श्वोरादिना विलयश्च - तदुक्तम्-

"चत्वारो धनदायादा धर्माग्निनृपतस्कराः ।
तेषां ज्येष्ठावमानेन त्रयः कुप्यन्ति सोदराः ॥"

इति एवमुत्तममध्यमाधमभेदन वित्तस्य । गतयो गमनापायाः भवन्ति; तत्र यः पुमान् । न ददाति अर्थिभ्यो न प्रयच्छति वित्त - मिति शेषः । अथवा न भुङ्क्ते नानुभवति। तस्य दानभोगाभ्यां वित्तव्ययमकुर्वतः पुरुषस्य संबन्धिनो वित्तस्यति शेषः। तृतीया गतिर्नाशावस्था भवति - सा त्वत्यन्तकटेत्यर्थः । अयमत्र निष्कृष्टोऽर्थः-् वितस्य दानेन गतिरुत्तमा। आत्मभोगेन मध्यमा। चोरादिना नाशगतिरधमेति ; अतो दानशौण्डनैव भवितव्यं धनाढ्येनति- भावः ॥ आर्याभेदः ।।

मणिश्शाणॊल्लीढः समरविजयी हेतिदळितो
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गळितविभवाश्चार्थिषु नराः ॥ ३६ ॥

 व्या.---अथ दानशीलस्य वित्तव्ययजनिततनुत्वमपि शोभा- वहमेवेत्याह - माणिरिति-शाणश्शलोत्तेजनसाधनोपलविशेषः - तेनोल्लीढः संघृष्ठो। मणिश्च । हेतिदलितः शस्वक्षतः समरविजयी रण. शूरश्च * “जिदृक्षी' त्यादिना इनिः - नि-’हेतिश्शस्त्रे तु नृस्ति- यो' रिति केशवः। मदेन दानवर्षेण । परिक्षीणः कृशो। नागश्च - नि.-"प्रहाम्रा हि गजा नागा" इति वैजयन्ती। शरदि शरत्काले - आश्यानानि ईषच्छु'काणि • पुलिनानि सैकतानि - यस्यास्सा। सरित् नदी च संयोगादेरातोधातोर्यण्वतो' निष्ठानत्वं । कलाशेषः षोडशांशमात्रावशिष्ट श्चन्द्रश्च - नि.-'कळा तु षोडशो भाग' इत्यमरः - 'प्रथमां पिबते वह्नि' रित्यादीतिहासक्रमेणेतरकलाना- मग्न्यादिदेवैर्गिळितत्वादिति भावः। सुरतेन रतिरणेन - मृदिता विवलीकृता । बालवनिता मुग्धाङ्गना च - 'जारवनिते'ति पाठे वेश्या- घोच्यते। तथा । अर्थिषु विषये - गळितविभवा व्यपगतार्थसंपदः . निश्शेषमर्थिसात्कृतधना इत्यर्थः - नि.-." अर्थ रै विभवा अपी". त्यमरः । नरा दातृजनाश्च! तनिम्ना तनुत्वेनैव * पृथ्वादित्वादिम निच् । शोभन्ते - एवंभूततनुत्वस्यैव शोभाहेतुत्वादिति भावः ।।

 अत्र प्रस्तुतानां नराणां च सामस्त्येन शोभारूपतुल्यधर्मेणो- पम्यस्य गम्यमानत्वाद्दीपकालंकारः॥

"प्रस्तुतानां तथाऽन्येषां सामस्त्ये तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते"॥


इति लक्षणात् ।। शिखरिणीवृत्तम् ॥

परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये
स पश्चात्सम्पूर्ण कलयति धरित्रीं तृणसनाम् ।

अतश्चानेकान्ता गुरुलधुतयाऽर्थेषु धनिना-
मवस्था वस्तूनि प्रथयति च संकोचयति च ॥ ३७ ॥

 व्या.-~~-अथ पुंसां धनाभावतत्सद्भावसमयावस्थामाह - परिक्षीण इति.--कश्चिद्धनिकः पुमान्। परिक्षीणो देवाद्दरिद्रस्सन् यवानां शितशूकाख्यधान्यानां प्रसृतये स्पृहयति प्रसृतिमात्रयवान् गुरुतया काङ्क्षत इत्यर्थः। ॐ स्पृहेरीप्सित' इति संप्रदानत्वाचतुर्थी- नि...' शितशूकयवौ समावित्यमरः। स परिक्षीणः पुमान् । पश्चादनन्तरं - कालान्तर इत्यर्थः। संपूर्णो दैववशाद्धनसंपन्न- स्सन् । धरत्रीं भुवम्। तृणसमां तृणकल्पां तद्वल्लध्वीमित्यर्थः। कल- यति मनुते - धनमदेन तथाऽऽलोकयतीत्यर्थः । - अतश्चात एव हेतो रर्थेषु । यवधरित्य्रादिषु वस्तुषु विषये। गुरुलधुतया महत्त्वाल्प- त्वभावेन । अनेकान्ताऽप्रतिनियता - सर्वथा गुरुणि गुरुत्वमेव लघुनि लघुत्वमेवेति नियमाभाववतीत्यर्थः। धनिनां संबंधी। व्यवस्था व्यापारः । वस्तूनि यवधरित्य्राद्यल्पमहत्तरवस्तूनि । प्रथ- यति व धनाभावदशायां नीचमपि वस्तु गुरूकरोतीत्यर्थः । तथा संकोचयति च तत्सद्भावदशायां महदपि वस्तु निराकरोतीत्यर्थः । निर्धनधनिकयोरित्थंभूताऽवस्था प्रत्यक्षसिद्धा ।। अतो विवेफिना नैवं- विपर्यस्तबुद्धिना भवितव्यमिति भावः ।।


शिखरिणीवृत्तं - लक्षणं तूक्तम् ।।

राजन् दुधुक्षसि यदि क्षितिधेनुमेतां
तेनाद्य वत्समिव लोकममुं पुषाण।

तस्मिंश्च सम्यगनिशं परियुष्यमाणे
नानाफलं फलति कल्पलतेव भूमिः ॥ ३८ ॥

 व्या.----अथ राजानं : संबोधयंस्तस्यार्थसाधनोपायमतिदि- शति - राजन्निति. हे राजन् त्वमिति शेषः - अन्यथा के शेषे प्रथम' इति प्रथमपुरुषः स्यात् । एनामेतां त्वद्धस्तगतामित्यर्थः । अत्रान्वादेशाभावादेनादेशश्चिन्त्यः : क्षितिर्धेनुरिवेत्युपमितसमासः - न तु क्षितिरेव धेनुरिति रूपक - वत्समिवेति स्पष्टोपमालिङ्गात्। तां क्षितिधेनुं । दुधुक्षसि यदि दोग्धुमिच्छसि चेत् - अर्थमिति शेष: । दुहेस्सन्नन्तात् सिच् । दुह्यादेर्द्विकर्मकत्वनियमात्। तर्हि तेन दुधुक्षाहेतुना । अद्येदानीमुपलभ्यमानं। लोकं जनम्। वत्सं तर्णकमिव - नि.- वत्सो नाकुलजे वर्षे तर्णके तनयादिके' इति वैजयन्ती - पुषाण पोषय - नि । 'लोकस्तु भुवने जन' इत्यमरः - वत्सनाशे क्षीरस्येव लोकनाशेऽर्थस्यासंभवादिति भावः । पोषणफल- माह - तस्मिन् लोके चानिशं सर्वदा। सम्यगसंबाधं । परिपुष्य- माणे परिपाल्याने सति। भूमिः क्षितिः। कल्पलतेव कल्पवृक्षशा- स्त्रेव - नि.-'समे शाखालते' इत्यमरः - यद्वा कल्पयत्यभीप्सिता- नीति कल्पा - सा च सा लता च * स्त्रियाः पुंव' दित्यादिनापुंव्द्भावः- -सैव कल्पवल्लीव । नानाविधफलं धनधान्यादिबहुरूपफलं। फलति निष्पादयति - ‘फलनिष्पत्ताविति धातोलेट । यतो लोक परिपालनव्यतिरेकेण न तेऽर्थः संभविष्यति-तद्वारैव भूमेरप्याखिलफल. दोग्धृत्वात् - तस्मादशेषलाभार्थं तत्परिपोषणमावश्यकमिति भावः । अब पूर्ववाक्यस्थोपमया निव्यूढोत्तरवाक्यस्थोपमेत्यनयोर- ङ्गाङ्गिभावेन संकरः ।।
वसंततिलकावृत्तम् ।।

सत्याऽन्नृता च परुषा प्रियभाषिणी च
हिंस्रा दयालुरपि चार्थपरा वदान्या।
नित्यव्यया प्रचुरनित्यधनागमा च
वाराङ्गनेव नृपनीतिरनेकरीतिः ॥ ३९ ॥

 व्या.--यतो राजानं संबोधितवानपि तन्नीतिः कीदृशीत्या- शङ्कायां तस्या बहुविधत्वमित्याह · सत्येति - सत्या यथार्थभाषिणी। अनृता असत्यवादिनी च । तथा परुषा कठोरभाषिणी। प्रियभाषिणी मधुरालापिनी च । तथा हिंस्रा धातुका - नि-शरारुर्धातुको हिंस्र' इत्यमरः । के 'नमि कम्पीत्यादिना रप्रत्ययः। दयाळुरपि कारुणिका च-नि- स्याद्दयालुः कारुणिक' इत्यमरः ॐ स्पृहि गृही'त्यादिना आलुच्यत्ययः । तथा अर्थपरा धनलुब्धा। वदान्या दानशॉण्डा च । कुत्रचिद्विषय इति सर्वत्राप्यध्याहार्यं-नि-'स्युंर्वदान्यस्थूललक्षदान- शौण्डाबहुप्रद' इत्यमरः। तथा नित्यं प्रतिदिनं - व्ययो धनत्यागो यस्यास्सा तथोक्ता। प्रचुरनित्यधनागमा - प्रचुरं प्रभूतं यथा तथा - नित्यं - धनस्य - आगमः प्राप्तिर्यस्यास्सा तथोक्ता च । अतो वारा- ङ्गना वेश्येव - नि-वारस्त्री गणिका वेश्ये 'त्यमरः । नृपनीतिः राजवृत्तिः । अनेकरूपा बहुप्रकारा - न त्वैकान्तिकीत्यर्थः ; वाराङ्ग- नायामपि विशेषणानि समानि ॥ अत्र सत्यानृतेत्यादिपदश्रवणमात्रेण झडिति विरोधः स्फुरति । तस्य खाभाव्येनाभासीकरणादलंकारस्सन । वाराङ्गनेवेत्युपमयाs- ङ्गाङ्गिभावेन संकीर्यते ॥

आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगोभित्रसंरक्षणं च ।
येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥

 व्या.--सोऽपि गुणाढ्य एव समाश्रयणीयो न तु निर्गुण इति राजानमेव संबोधयति - आज्ञेति.---आज्ञा मर्यादापरिपालना- स्मकशासनम् : कीर्तिदानक्षात्रोद्भवा सत्समाख्या। ब्राह्मणानां पालनं निरुपद्रवं ब्राह्मणसंतर्पणम्। दानं सत्पात्रे त्यागः। भोगः स्रक्चन्द- नादिजनितसुखानुभवः । मित्रसंरक्षणं सुहृत्समुद्धरणम्। चेत्येते षड् गुणाः। येषां राज्ञाम्। न प्रवृत्ताः न प्रवर्तन्ते - कर्तरि क्तः। पृथिव्या ईश्वरः पार्थिवः तस्य संबुद्धिः - हे पार्थिव राजन् - । तस्येश्वरः।' 'सर्वभूमिपृथिवीभ्यामणित्यण्प्रत्ययः - तेषामुपाश्रयेण समाश्रयेण । कोऽर्थः को लाभः न कोऽपीत्यर्थः ; तस्मादुक्तगुणसंपन्न एव राजा समाश्रयणीयः। न तु कुझिम्भरिरिति भावः ॥

 शालिनीवृत्तं - 'शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकै 'रिति लक्षणात्।।

यद्धात्रा निजफालपट्टलिखितं स्तोकं महद्वा धनं
तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ च नातोऽधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः ।
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ ४१ ॥

 व्या.-अथातिकार्पण्यं मा कुरु । लाभालाभयोर्दैवायत्तमूल-

कत्वमित्याह - यदिति.----धात्रा ब्रह्मणा। स्तोकमल्पम् । महद्बहुळं वा। यद्धनम्। निजफालं निजनिटिलतटमेव पटुं तत्र - लिखितं लेख- नेन निर्दिष्टम् । तद् तद्भह्मलिखितं धनम्। मरुस्थले ऊषरदेशेऽपि - किमु- तान्यत्रेति भावः। नितरामतिशयेन। प्राप्नोति लभते - अन्यूनमिति शेषः - नि-समानौ 'मरुधन्वाना' वित्यमरः। मेरौ कनकाचलेऽप्यतो- प्यतो ब्रह्मलिखितादधिकम्। न प्राप्नोति। तत्तस्मात्कारणाद्वीररिस्थर- चित्तो। भव। वित्तवत्सु धनादृयेषु विषये। कृपणां दीनाम् । वृत्तिं व्यापारम्। वृथा व्यर्थम्। माकृथाः माकार्षीस्तेन कार्पण्यजनित- निन्दामात्राश्रयत्वमेव न त्वधिकधनप्राप्तिरिति भावः। कृव्यो लुङि थास - तनादित्वेऽपि सिचो नित्यलोपविधानानसिच् - 'न माङयोग' इत्यट्प्रतिषेधः। तत्र दृष्टान्तमाह - कूपेऽल्प जलाधारे गर्तेऽपि। पयो- निधौ समुद्रेऽपि। घटः कलशस्तुल्यमात्मपरिमितम्। जलं गृह्णाति स्वीकुरुते - पश्येति कृपणसंबोधनं - न तु कूपेऽल्पं पयोनिधावधिक- मत एतद्दष्टान्तेन समाहितचित्तेन भवितव्यम्। न तु कार्पण्यपर्याकुले- नेति तात्पर्यम् ॥

ज्ञति नीतिशतके अर्थपद्धतिरसम्पूर्णा ॥


॥ दुर्जनपद्धतिः ॥

अकरुणत्यप्रकारणविग्रहः परधने परयोषिति च स्पृहा ।
सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिशिद्धनिदं हि दुरात्मनाम् ।।

 व्या.----अथार्थादिसंपन्नोऽपि दुर्जनो नोपादेय एवेत्साशये-

नार्थपद्धतिनिरूपणानन्तरं दुर्जनपद्धति निरूपयति - तत्र तेषामव- गुणं गणयति - अकरुणत्वमिति.--परदुःखप्रहाणेच्छा करुणा - तद्राहित्यमकरुणत्वं - दयाहीनत्वं च । अकारणविग्रहो निष्कारण- कलइश्च - नि.-"अस्त्रियां समरानीकरणाः कलहविग्रहा"वित्य- मरः । परधने परद्रव्ये। परयोषिति परदारेषु । स्पृहा घ - एकत्रा- पहरणेच्छा - अन्यत्र संभोगाभिलाषश्च। सुजनेषु बन्धुजनेषु च। असहिष्णुता असहनशीलत्वं चेतीदं सर्व * 'नपुंसकमनपुंसकेने' स्यादिना नपुंसकैकशेषः । दुरात्मनां दुर्जनानां । प्रकृतिसिद्धं स्वभा- विसंद्ध हि। अतस्तेनोपादेया इति भावः - नि.---'प्रकृतिः प्रपञ्च- भूते प्रधाने मूलकारणे स्वभाव' इति विश्वः ॥ द्रुतविमम्बितवृत्तं - 'द्रुतविलम्बितमाह नभौभरा' विति लक्ष- गात् ।।

दुर्जनः परिहर्तव्यो विद्ययाऽलंकृतोऽपि सन् ।
मानिना भूपितस्सर्पः किमसौ न भयंकरः? ॥ ४३ ॥

 व्या.-आस्तां तावत् दुर्जनमात्रस्य परित्याज्यत्वकथनम् - अशेषावगुणावमार्जकसंपन्नोऽपि दुर्जनः परित्याज्य एवेति सदृष्टान्त- माह - दुर्जनइति.---दुर्जनो। विद्यया वेदवेदाङ्गाद्यात्मिकयाऽलंकृतो भूषितस्सन्नपि - सकलविद्यापारीणस्सन्नपीत्यर्थः। परिहर्तव्यस्त्याज्यः कुत इत्यतआह - सर्पः आशीविषः । मणिना फलकस्थमाणिक्येन । भूषितोऽलंकृतस्सन्नपि । असौ सर्पो । नभयंकरः किम् ? भयंकर ऐवेत्यर्थः । अतो मणिभूषितसर्पप्रायो विद्यावानपि दुर्जन दूरतस्त्याज्य एव - "दुर्जनं दूरतस्त्यजे"दिति न्यायादिति भावः*'मेघर्तिभयेषु कृष' इति खश - खशि 'अरुर्द्विष दि' त्यादिना मुमागमः ॥ अत्र बिम्बप्रतिबिम्बन्यायेन धर्मधर्मिणोर्वाक्यद्वये पृथङ्नि- र्देशादृष्टान्तालंकारः --

"बिम्बानुबिम्बन्यायेन निर्देशो धर्मर्मिणोः ।
दृष्टान्तालंकृतिर्ज्ञेया भिन्नवाक्यार्थसंश्रया ॥"

.इति लक्षणात् । वृत्तमानुष्टुभम् ।।

जाड यं हीमति गण्यते व्रतशुचौ दंभः शुचौ कैतवं
शूरे निघृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।
तेजस्विन्यवलिप्तता मुखरता वक्तव्यशक्तिस्थिरे
तत्को नाम गुणो भवेत्सगुणिनां यो दुर्जनैनाङ्कितः ॥

 व्या..---अथास्य सर्वदूषकत्वमाह - जाड्यमिति.---हीमति लज्जावति पुंसि। जाड्यं मान्द्यं * 'गुणवचनगाह्मणादिभ्यः कर्मणि चे 'ति व्यञ् प्रत्ययः । गण्यते संख्यायते - दुर्जनैरिति शेषः - न तु जुगुप्सितकर्माचरणपराङुखत्वम् । व्रतॅस्तपश्चान्द्रायणादिनियमैः - शुचौ शुद्धे । दम्भो धर्मध्वजत्वम् गण्यते - न त्वनुष्ठातृत्वम्। शुचौ स्वभावादेव बाह्यान्तरशुद्धे। कैतवं कपटं। गण्यते - न तु पारमार्थि- कत्वं । शूरे। निर्घृणता दयाराहित्यं । गण्यते - न तु विक्रान्तत्वं मुनौ मननशीले विमतिता बुद्धिहैन्यं गण्यते न त्वात्मैक्यानुसंधान तत्परत्वं प्रियालापिनि मधुरवादिनि - दैन्यं गण्यते - न तु श्रव- णानन्दकरत्वं । तेजः प्रागल्भ्यं - प्रभाविशेषो वा तद्वत्यवलिप्तता गर्वग्रस्तत्वं । गण्यते - न तु स्वभावः - नि-'अवलेपस्तु गर्वे स्याल्ले- पने दूषणेऽपि चे'ति विश्वः । वक्तव्येष्वर्थेषु - शक्तिः प्रतिभापर- । पर्यायस्सामर्थ्यविशेषः - तया स्थिरे। मुखमस्यास्तीति मुखरो दुर्मु- खः - नि-दुर्मुखे मुखराबद्धमुखा वि'त्यमरः * ख मुख कुञ्जे- भ्यश्चे'ति रप्रत्ययः - तस्य भावस्तत्ता असंबद्धालापित्वमित्यर्थः । गण्यते - न तु वाग्मित्वं । तस्मात्कारणात्। गुणिनां गुणसंपन्नानां - स को नाम गुणो भवेत् । यो गुणः । दुर्जनैर्नाङ्कितः न दूषितः - दुर्जनादूषितो गुणस्सुगुणिनां न कोऽप्यस्तीत्यर्थः। 'यो दुर्जनानां मत' इति पाठे यो गुणः दुर्जनानां मतः इष्टः स्यात् स को नाम भवेदिति संबन्धः । दुर्जनाभिमतो गुणस्तु गुणिनां न कोऽप्यस्ती- । त्यर्थः ।।

शार्दूलविक्रीडितं वृत्तं - लक्षणं तूक्तम् ॥
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ? ।
सौजन्यं यदि किं बलेन महिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ? ॥ ४५ ॥

 व्या.--अथ गुणावगणप्रणालिकामाह - लोभ इति.-- लोभोधनादिवाञ्छाऽस्ति चेदगुणेन दुर्गुणेन किं ? न किंचिदपीत्यर्थः- तस्यैवात्यन्तनिन्दावहत्वादिति भावः। पिशुनता परोक्षे परदोषसूच- कता। अस्ति यदि। पातकैब्रह्माहत्यादिभिः किं १ तस्या एव निरय- पातनदक्षत्वादिति भावः। सत्यं यथार्थभाषणं समदर्शित्वं वाऽस्ति चेत्तपसा चान्द्रायणादिना किं ? तस्यैवपरिशोधकत्वादिति भावः। शुचि द्रोहचिन्तादिराहित्येम शुद्धम्। मनोऽस्ति यदि। तीर्थेनः प्रयागादिना कि ? तस्यैवापवर्गमूलकत्वादिति भावः-- "यस्वास्मतीर्थ भुजते विनिष्क्रियस्स सर्ववित्सर्वगतोऽमृतो भवेत् ॥" इति स्मरणमत्रमूलम्। सौजन्यं सुजनभावोऽस्ति यदि। बलेन परि- जनैन कि ? तस्यैवाशेषकार्यनिर्वाहकत्वादिति भावः। महिमा माहा- स्यमस्ति यदि । मण्डनैः कुण्डलहाराद्यलंकरणैः किं ? तस्यैवोपस्कार- हेतुभूतत्वादिति भावः। अपयशः अपकीर्तिरस्ति यदि मृत्युना मर- णेन किं ? तद्वत् मृतप्रायत्वादिति भावः; एवं विचार्य सद्गुणार्जन- तत्परेण भवितव्यं निपुणेन। अन्यथा दॉर्जन्यमनायाससाध्यामिति वाक्यशेषत्वेनोन्नेयम् ॥

शशी दिवसधूसरो गळितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतिस्सजनो
नृपाङ्गणगतः खलो मनसि सप्तशल्यानि मे ॥ ४६ ॥

 व्या.--कस्यचिदनुभविनो निजकष्टाभिवेदनमभिनीयाह - शशीति.--दिवसेऽह्नि। धूसरो निस्तेजस्कः । शशी चन्द्रश्च । गळित- यौवना भ्रष्टनूतनवयस्का। कामिनी कान्ता च । विगतवारिजं पुण्ड- रीकषण्डहीनम्। सरः कासारश्च । शोभना आकृतिर्यस्य सुन्दरपुरु- षस्य। अनक्षरं शास्त्रविभ्रष्टं मुखं च। धनपरायणो। धनलुब्धः । प्रभुः राजा च। सततदुर्गतिः निरन्तरदारिद्रयवान् । सजनश्च - नृपाङ्गणगतो राजगृहान्तर्वर्ती । खलो दुर्जनश्च - तस्य विधातुकस्वादिति भावः; इत्येवं सप्त शल्यानि शूलानि - तथा दुस्सह- दुःखजनकत्वादिति भावः; इदमेवात्यन्तकष्टनिवेदनबचनमिति तात्पर्यम् ॥ अत्राप्रकृतानां प्रकृतस्य खलस्य च दुःखहेतुत्वसाम्येनौप- भ्यस्य गमामानत्वाद्दीपकालंकारः - लक्षणं तूक्तम् ।। गतमिदं पृथ्वीवृत्तम् ॥

न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् ।
होतारमपि जुह्वानं स्पृष्टो दहति पावकः ॥ ४७ ॥

 व्या.-- अथ दुष्पराजलक्षणं सदृष्टान्तमाह.--चण्डको- पानाम् उग्रक्रोधानां । भूभुजां राज्ञां । कश्चिदपि पुमान् । आत्मीयो नाम आत्मीयत्वेन प्रसिद्धः। न भवति - किं तु सर्वोऽप्यनात्मीय एवेत्यर्थः । ननु यथा कथंचिद्धितमाचरन्भविष्यत्येव आत्मीय इत्या- सङ्क्य दृष्टान्तमुखेन निराकुर्वनाह.-जुह्वानमाज्यपुरोडाशादि- दानेनोपचरन्तमपि * 'हु दानादनयो रि'ति धातोः कर्तरि शानच् । होतारं यजमानं। पावकोऽग्निः । स्पृष्ठस्सन् दहति संतापयतीत्यर्थः ; अतोऽमिदृष्टान्तेनेदृशो राजा न समाश्रयणीय इति भावः ॥

* मौनान्मूकः प्रवचनपटुवाचको जल्पको वा
धृष्टः पार्क्ष्वे भवति च वसन् दूरतोऽप्यप्रगल्भः ।
क्षान्त्या भीरुयदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ४८ ॥

 व्या.-कथं न समाश्रयणीय इत्याशङ्क्य तत्सेवाया दुष्क-

रत्वादित्याह-मोनादिति। मॉनातूष्णीभावान्भूको निर्वचो भवति सेवक इति शेषः। प्रवचनपटुः प्रगल्भश्चातिवक्ता। वाचको बहुभाषी।। जल्पतीति जल्पकोऽसंबद्धप्रलापी - भवति । उभयत्रापि * " ण्वुल् तृचावि'ति कर्तरि ण्वुल्प्रत्ययः - णित्वाद्वृध्दिः - ' जल्पक' इति पाठे जल्पतीति जल्पक: - पचाद्यच् स्वार्थे कप्रत्ययः - अन्यथा * 'जल्पभिक्षे' त्यादिना षाकन्प्रत्यये जल्पाक इति स्यात् - यदाहामरसिंहः - नि! 'स्याजल्पाकस्तु वाचाल' इति । पार्श्व समीपे च। वसन् धृष्टो निर्भीको - भवति । दूरतो विप्रकृष्टदेशे। वसन्। अप्रगल्भः अप्रौढो - भवति । क्षान्त्या परिभवादिपूत्पद्यमानेषु क्रोधप्रतिबन्धलक्षणयोपलक्षितश्चेद्धीरुभयशीलो - भवति * 'मियः ऋकलुकनाविति ऋप्रत्ययः ।। न सहते परिभवादिकं न क्षमते। यदि तर्हि ! प्रायशो बाहुळ्येन। अभिजातस्सत्कुलीनो न नमवति। अतः। परमगहनोऽत्यन्तदुरवगाहः। सेवाधर्मः परिचर्यात्मकं कर्म योगिनामपि कालखयज्ञानामप्यत्तीन्द्रियवस्तुपरिज्ञानवतामित्यर्थः - किमुतान्येषामिति भावः। अगम्यो ज्ञातुमशक्यः - सर्वे गत्यर्थाः ज्ञानार्था - यतः परब्रह्माऽपि ध्यानादिना साक्षास्क्रियते न त्वय- मिति भावः; मौनादिव्यतिरिक्तधर्मस्य गगनारविन्दप्रायत्वात्तस्य ब्रह्मणोऽपि दुर्विज्ञेयतयाऽत्यन्तदुष्करत्वमिति तात्पर्यम् ॥  अत सेवाधर्मस्य योगिगम्यत्वेऽप्यगम्यत्वोक्तस्संबन्धे असंब- न्धरूपातिशयोक्तिः। मन्दाक्रान्तावृत्तम्-'मन्दाक्रान्ता जलधिषडगैर्मे।

भनौ तौ गुरुचे'तिलक्षणात् ॥

उद्भासिताखिलखलस्य विशृङ्खलस्य
प्रोद्गाढविस्मृतनिजाधमकर्मवृत्तेः ।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य
नीचस्य गोचरगतैः सुखमास्यते कैः ? ॥ ४१ ॥

 व्या.--किं बहुनाऽस्य पुरस्तान्न केनचित् स्थातुमपि शक्यत - इत्याह - उद्धासितेति.-उद्भासिता ! प्रकाशिता: - आखिलाः खलाः येन तस्य अधिकारप्रदानेन पुरस्कृताशेषदुर्जनस्ये- त्यर्थः - तस्य सुजनविद्वेषित्वादिति भावः। तथा। विश्वङ्खलस्य विधिनिषेधातीततया स्वच्छन्दगतेरित्यर्थः। तथा। प्रोद्गाढमतितरां - विस्मृता स्मरणाविषयीकृता-निजा स्वकीया - अधमकर्मवृत्तिः प्राक्त- ननीचकृत्यव्यापारी - येनतस्य 'प्रागेव विस्मृते'ति पाठे प्राक् प्रथमम् आचरणसमय एवेत्यर्थः। एतेन लज्जाहैन्यमुक्तं । तथा। दैवाददृष्ट- वशादिदानीमवाप्तः प्राप्तो - विभवः ऐश्वर्य संपत्तिर्यस्य गुणद्विष- स्सुगुणनिन्दकस्यास्य पूवोक्तस्य नाचस्य राक्षः । गोचरगतैः विषय- वासिभिः। कैर्जनैम्सुखमक्लेशेन। आस्यते स्थीयते। न कैरपीत्यर्थः - अतोननाघाश्रयः कर्तव्य इति भावः * 'आस उपवेशने' । भावेलट् ॥  अत्रोद्भासितेत्यादिपदार्थस्य विशेषणगत्या सुखस्थित्यभावप- दार्थहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः ।। वसन्ततिलकावृत्तम् ॥

आरम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमुपैति पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्त्री खलसज्जनानाम् ॥

 व्या.--अथ दुर्जनसुजनमैत्त्रीप्रकारमाह - आरम्भेति.----

पूर्वार्धपरार्धाभ्यां पूर्वाह्णापराह्णभेदेन - भिन्ना पृथग्विधा । छाया अना- तप इव - नि.---"छाया त्वनातपे कान्तौ प्रतिबिम्बार्कजाययो" रिति वैजयन्ती। आरन्मे प्रारम्भसमये - गुर्वी गुरुः वर्धिष्णुरि- त्यर्थः * 'वोतो गुणवधना 'दिति विकल्पात् ङीष् । क्रमेण काल- क्रमेण। क्षयिणी क्षयिष्णुश्च - 'जिद्दक्षी'त्यादिना इनिः। तथा । पुरा प्रारम्भे। लम्वी लघुः ह्रस्वेत्यर्थः - पूर्ववत् ङीष् । पश्चादन- न्तरम्। वृद्धिमुपैति प्राप्नोतीति भावः-अयमर्थ:----दुर्जनमैत्री पूर्वाह्णच्छायेव प्रारम्भगुर्वी क्रमेण क्षयिणी च भवति। सुजनमैत्री तावदपराह्णच्छायेवादौ लध्वी ततो वर्धिष्णुश्च भवतीति । अतोऽत्र यद्युक्तं तत्कर्तव्यं कुशलेनेति भावः ।।

मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् ।
लुब्धकधीवरपिशुना निष्कारणमेव वैरिणो जगति ॥ ५१ ॥

 व्या.--यदुक्तमकरुणत्वमकारणविग्रह इति तदेव प्रकटयन्नु- पसंहरति - मृगेति.--संतोषो दैववशाल्लब्धेन मनस्संतुष्टिः - तृण- जलसंतोषैर्विहिता कल्पिता - वृत्तिर्जीवनं - येषां तेषां - न तु परो- पतापोपजीविनामित्यर्थः - नि-'वृत्तिर्वर्तनजीवन' इत्यमरः । मृगाणां हरिणादीनां - मीनानां मत्स्यानां - सज्जनानां साधूनां च । लुब्धको व्याधः - धीवरो दाशः - जालिक इत्यर्थः - पिशुनस्सूचकश्व - नि- 'व्याधो मृगवधाजीवो मृगयुर्लुब्धकश्च सः।' 'कैवर्ते दाश धीव- राचि'ति चामरः। एते। जगति भुवि। निष्कारणं निर्हेतुकमेव । वैरिणो विद्वेषिणः घातुका इत्यर्थः ॥ तृणेन विहितवृत्तीनां भृगाणां लुब्धका निष्कारणवैरिण . इत्यादि यथाक्रममन्वयात्क्रमापरनामा यथासंख्यालंकारः - तदुक्तं विद्यानाथेन ॥ "उद्दिष्टानां पदार्थानां पूर्व पश्चाद्यथाक्रमम् । अनूद्देशो भवेधव तद्यथासंख्यमुच्यते ॥” इति आर्यावृत्तम् ।।

इति नीतिशतके दुर्जनपद्धति सम्पूर्णा ।


॥ सुजनपद्धतिः॥

वाञ्छा सज्जनसङ्गतौ परगुणे प्रीतिगुरौ नम्रता
विद्यायां व्यसनं स्वयोपिति रतिर्लोकापवादाद्भयम् ।
भक्तिश्शुलिनि शक्तिरात्मदमने संसर्गमुक्तिः खलै-
रेते येषु वसन्ति निर्मलगुणास्तभ्यो नमः कुर्महे ॥ ५२ ॥

 व्या.-अथैतद्वैलक्षण्येन सुजनपद्धति निरूपयति - तत्वादा- वादरातिशयात्तान्नमस्करोति - वाञ्छेति-सज्जनसंगतौ साधुसमा- गमे। वाञ्छा अभिलाषः - न तु जिहासा - तस्य मोक्षसाधकत्वा- दिति भावः - तदुक्तं ज्ञानवासिष्ठे- - "मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारस्संतोषश्चतुर्थस्साधुसंगमः ॥” इति - तथा चोक्तं श्रीमद्भागवते - ' महत्सेवां द्वारमाहुर्विमुक्त'रिति-

खेनाप्युक्तम्

"घेतः प्रसादयति दिक्षु तनोति कीर्ति ।
सत्संगतिः कथय किं न करोति पुंसाम् ॥"

इति। परेवां गुणे - प्रीतिस्संतोषः - न तु दोषापादनम्-

"परगुणपरमाणून्पर्वतीकृत्य नित्यं
निजहृदि विकसन्तस्सन्ति सन्तः कियन्तः ॥"

इति वक्ष्यमाणत्वादपीति भावः । गुरौ विद्योपदेष्टरि । नम्रता भक्ति- श्रद्धाभरेण प्रह्वीभावः - न तु गर्वोद्रिक्तता-

" यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।।
तस्यैते निखिला ह्यर्थाः प्रकाशन्ते महात्मनः ॥"

"गुरुब्रह्मा गुरुर्विष्णुर्गरुर्देवो जनार्दनः ।
गुरुस्साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥”

" इति श्रुतिस्मृती। विद्यायां वेदान्तादिविद्याभ्यासे । व्यसनमासक्ति:- न तु द्यूतकेळ्यादौ - तस्य मोक्षसाधनब्रह्मज्ञानजनकत्वादिति भावः । स्वयोषिति निजदारेषु। रतिस्संभोगः - न तु परदारेषु - " रम्यं कुल- स्रीरत"मिति भावः। लोकापवादात् लोकनिन्दायाः * 'भीत्रार्थानां भयहेतु 'रित्यपादानत्वात्पश्चमी - भयं न तु निर्लज्जत्वं * लोकाप- वादो बलवानिति सत्यवती क्षृति'रित्यादिवचनात्तस्य बलिष्ठत्वादिति भावः। शूलिनि परदेवतायां भगवति । भक्तिरनुरागः । न तु क्षुद्रदेव- तायां * 'शिवे भक्तिश्शिवे भक्तिरित्यादिवचनेष्वावृत्त्या तस्याः प्राशस्त्यश्रवणादिति भावः । आत्मदमने स्वपरिभवे सति। शक्ति-

स्सामर्ध्ये पराक्रम इति यावत् - न तूपशमेनौदासीन्यम्.

"अन्यदा भूषणं पुंसां शमो लज्जेव योषिताम् ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ।”

 इति वचनादिति भावः। खलैर्दुर्जनस्सह संसर्गमुक्तिस्सङ्ग- त्यागः - न तु तत्सहवासाभिलाष: * 'दुर्जनं दूरतस्त्यजे 'दिति - 'दुर्जनः परिहर्तव्य' इत्यादिवचनादिति भावः। इत्येते - निर्मलाः निष्कालङ्काः - गुणास्सज्जनसंगतिवाञ्छादयो। येषु पुरुषेषु वसन्ति ।- तेभ्यो महद्भ्यो नमः - इत्थं भूतगुणविशिष्टानामेव नमस्कारार्हत्वा- दिति भावः * 'नमस्स्वस्ती'त्यादिना चतुर्थी ; तैरेव भूर्भूषिते 'ति पाठे तैर्निर्मलगुणसंपन्नैरेव भूरलंकृता न त्वन्यैस्तेषामेव चारुत्वा- द्यतिशयहेतुत्वादिति भावः ॥  शार्दूलविक्रीडितम् ।।

विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरतिर्व्य॑सनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्।।

 व्या.--अथैषां निसर्गसिद्धगुणं - गणयति - विपदीति.- विपद्यापत्काले। धैर्यंं निर्विकारचित्तत्वं - न तु दैन्यं - ‘मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुध्विति । अथानन्तरं वाक्यारम्भे वा। अभ्युदये संपदि । क्षमा सहिष्णुत्वं - न सूचण्डता। सदसि राज- विद्वत्सभायां वाक्पटुता वाग्मित्वं - सरसवचनरचनाचातुर्यमिति यावत् - न तु मूकभावः। युधि रणरङ्गे। विक्रमः पराक्रमो - न तु पलायनम् । यशस्यभिरतिः संग्रहेच्छा - न त्वनादरः । श्रुतौ वेद- शास्त्राभ्यसने । व्यसनमासक्तिर्न तु निर्वेदः इतीदं सर्व * ' नपुंस- कमनपुंस केने'त्यादिना नपुंसकैकशेषः । महात्मनां महानुभावानां । प्रकृतिसिद्धं स्वभावसिद्धं हि - नि-संसिद्धिप्रकृती समे' स्वरूपं च स्वभावश्च निसर्गचे'त्यमरः । द्रुतविलम्बितवृत्तम् - लक्षणं तूक्तम् ।।

करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् ।
हृदि स्वच्छावृत्तिः श्रुतमधिगतं च श्रवणयो-
र्चिनाप्यैश्वर्येग प्रकृतिनहतां मण्डनभिदम् ॥ ५४ ॥

 व्या.- अथैषां प्रसिद्धविलक्षणमण्डनसंपत्तिमाह - कर इति-करे हस्ते। श्लाघ्यस्सकललोकप्रशस्तस्त्यागो दानम् । मण्डनं । न तु कङ्कणं - 'दानेन पाणिर्न तु कङ्कणेने 'ति स्वेनैवाने वक्ष्यमाण- त्वात् । शिरसि गुरुपादयोः। प्रणयिता अभिवादनतात्पर्यम् । मण्डनं - न तु मणिहिरण्मयकोटीरादिः। मुखे वके। सत्या वाणी सूनृतभा- षणम् । मण्डनं - न तु ताम्बूलचवणादि। भुजयो-रतुलं निरुपमानम् - विजयि जयशीलं च । जिदृक्षी 'त्यादिना इनिः। वीर्य बलम्। मण्डन - न तु केयूरादि । हृद्यन्तर्ङ्गे । स्वच्छा वृत्तिः निष्कलङ्कष्या- पारो मण्डनं - न तु हाररुचकादि - हृच्छब्दस्य वक्षस्थलवाचकत्व- मपि संभवतीति कृत्वा अभेदेन निर्देशः। श्रवणयोः। कर्णयोरधि- गतं श्रुतं शास्त्रमेव - नि.-'श्रुतं शात्रावधृतयो रिति विश्वः । मण्डनं - न तु कुण्डले - ' श्रोत्रं श्रतेनैव न कुण्डलेने ति वक्ष्यति। इदं पूर्वोक्तदानादिकं सर्वमैश्वर्येण धनरत्नसंपत्त्या। विनापि * 'पृथग्विने' त्यादिना विकल्पात्ततीया। प्रकृत्या स्वभावेन। महतां महात्मनां - सौजन्यसंपन्नानामित्यर्थः * 'प्रकृत्यादिभ्यस्तृतीये 'ति तृतीयासमासः। मण्डनं भूषणं तस्यैव लोकोत्तररामणीयकादिहे- तुवादिति भावः ॥ शिखरिणीवृत्तम् ।।

प्राणाघातान्निवृतिः परधनहरणे संयमः सत्यवाक्यं
काले शक्त्या प्रदान युवतिजनकथामूकभावः परेषाम् ।
तृष्णाघोता विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा
साप्रान्यं सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥५५॥

 व्या.--गुणाध्यत्वे को लाभ इत्याशङ्कय तेषां श्रेयोहेतुत्व- माह - प्राणेति.-प्राणाघातायाणहिंसायाः। निवृत्तिनिवर्तनं च - “ माहिस्यात्सर्वभूतानि' । 'अहिंसा परमो धर्मस्त्वधर्मः प्राणिनां वध' इत्यादिनाऽग्नीषोमीयपश्वालम्भनवृत्त्यतिरिक्तहिंसाया निषेधश्रवणात् । परधनहरणे संयमो मनोरोधश्च 'परद्रव्याणि लोष्टव दिति न्याया- दिति भावः । काले समये सत्यवाक्यं यथार्थभाषणं च - तथा धर्मोप देशश्रयणादिति भावः - अत्र ' ब्राह्मणार्थे गवामर्थे ' इत्यादिष्वसत्य- वचनस्वापि निषेधाभावश्रवणात्काल इत्युक्तम् । शक्तय प्रदानं वित्ता- नुसारेण त्यागश्च - ‘वितशाठ्यं न कारयेदिति वचनादिति भावः। युवतिजनकथायां परस्त्रीवृत्तान्तकथने - मूकमावस्तूणीभावशीलत्वं च - 'स्वप्नेऽप्यन्यवधूकथा 'मिति वचनात् परेषामन्येषां - याचका- नामित्यर्थः तृष्णा धनलिप्सा - तस्या एव - स्रोतसः प्रवाहस्य - विभङ्गो निरोधः - अभीसितदानेन मनोरथपरिपूरणं चेत्यर्थः-

"याचमानजनमानसवृत्तेः पूरणाय बत्त जन्म न यस्य ।
तेन भूमिरतिभारवतीयं न द्रमैर्न गिरिभिर्न समुद्रैः ॥"

इति शवमादिति भावः । गुरुषु विषय। नम्रत्वं च . 'गुरौ नम्रते' त्युक्तत्वादिति भावः । सर्वभूतेष्वशेषप्राणिष्वनुकम्पया दयया - सामान्यं समदर्शित्वं च। सर्वशास्त्रेषु वेदवेदान्तादिसकलागमेष्वनु- पहतः अविच्छिन्नः - विधिरध्ययनविधानं च - यद्वा 'सर्वभूतानु- कम्पे' ति पृथक्पदम् । तथा सर्वशास्त्रेषु सामान्यमवैषम्यण तत्त- त्सिद्धान्तानुवर्तित्वम्। अनुपहतविधिरलुप्तकर्मानुष्टानं चेत्येष गुण- समुदायः। श्रेयसां पन्था अखण्डितैश्वर्यादिश्रेयःप्राप्तिमार्गः • न त्वेतव्द्यतिरिक्तोऽन्योऽस्तीत्यर्थः । एतादृशगुणसंपत्तिस्सुजनानामेवेति कृत्वा त एव श्लाघ्या इति भावः । अथवा श्रेयसां प्रशस्यानां सुज- नानां संबन्धी। पन्था तत्प्रवृत्तिमार्ग इत्यर्थः - प्रशस्यशब्दादीय- सुनि* 'प्रशस्यस्य'श्र इति श्रादेशः । अत्र वाञ्छासज्जनसंगता' वित्यादिश्लोकेषूक्तगुणाः प्रायेण॥ दैवसंपत् - अभिजातांनामेव संभ- वति न त्वन्येषां - तदुक्तं भगवद्गीतासु-

" अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।।
अहिंसा सत्यमक्रोधस्त्यागशान्तिरपैशुनम् ।
दया भूतेष्वलोलत्वं मार्दवं ह्रीरचापलम् ।।
तेजः क्षमा धृतिइशौचमद्रोहो नातिमानिता।
वदन्ति संपदं दैवी मभिजातस्य भारत ॥”

इति ॥

 स्रग्धरावृत्तं-"म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्” ॥ इति लक्षणात् ।।

संपत्सु महतां चित्तं भवेदुत्पलकोमलम् ।
आपत्सु च महाशैलं शिलासङ्घातकर्कशम् ॥ ५६ ॥

 व्या.---अथापत्संपदोस्सुजनमनोवृत्तिमाह - संपत्स्विती.---

संपत्सु धनधान्यवस्तुवाहनादिसमृद्धिषु। महतां महात्मनां सजनानां । वित्तमुत्पलवत्कोमलं मृदुलं भवेत्। न तु कठिनमित्यर्थः । आपत्सु दारिद्य्राद्यनर्थसंकटेपु। महाशैलशिलासंघातः पाषाणकूटः - तद्वत्कर्कश कठोरं च भवेत् • न त्वधैर्यविश्लथमित्यर्थः - न कदाऽप्युक्तवैपरीत्य- मन्यथा माहात्म्यभङ्गप्रसङ्गादिति भावः । विवेकिनामविवेकिनां चाय- मेव पन्थाः आदरणीय इति तात्पर्यम् : अत्र शैलस्य महत्त्वविशेषणं तच्छिलासंघातस्यात्यन्तदुर्भेद्यत्वद्योतनार्थम् - उक्तं चैतदन्यत्रापि -

" सौजन्यामृतसिन्धवः परहितप्रारब्धवीरव्रता
वाचालाः परवर्णने निजगुणालापे तु मौनव्रताः ।
आपत्स्वप्यविलुप्तधैर्यनिलयास्संपत्स्वनुत्सेकिनो।
माभूवन खलवक्रनिर्गतविषम्लानाननास्सज्जनाः ॥"

इति उपमालंकारः॥

प्रिथा न्याय्या वृत्तिमलिन नमुभङ्गेऽप्यमुकरं
त्वसन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः ।
विपद्युचैधैर्य पदमनुविधेयं च महतां
सतां केनोदिष्टं विषप्रमसिधाराव्रतमिदम् ॥ ५७ ॥

 व्या.-अथ द्वाभ्यामेव तद्वृत्तस्यासाधारण्यमाह - प्रियेति । न्यायादनपेता न्याय्या नीतिप्रवणा वृत्तिर्जीवनं-नि-वृत्तिर्वर्तन जीवन' इत्यमरः । प्रीणातीति प्रिया इष्टा - न त्वन्या - तस्या एव श्रेयस्करत्वादिति भावः 'इगुफ्धज्ञाप्रीकिरः कः' इतिक प्रत्ययः। असुभङ्गेऽपि प्राणप्रयासेऽपि किमुतान्यदेति भावः। मलिनं दुष्कर्म असुकरमकर्तव्यं - न त्वापत्काले नास्ति मर्यादे 'ति न्यायात्सुकरं - तस्यैवैहिकामुप्मिकफलदत्वादिति भावः * ईषद्दुरि'त्यादिना खल् प्रत्ययः - ततो नञ् समासः । असन्तः कुहकास्तु । नाभ्यर्थ्याः कस्मिंश्चिद्विषयेऽपि न प्रार्थनीयाः - किंतु सन्त एव - तेषामुपेक्ष्यत्वा- दिति भावः । यद्यपि न पादादौ खल्वादय' इत्याह वामनः - तथाऽपि कविप्रौढ्या तु शब्दस्य पादादौ प्रयोगः। सुहदपि प्राण प्रियबन्धुरपि किमुतान्यइति भावः * ' सुहृद्दुर्हृदौ मित्रामिवयो' रिति निपातनात्साधुः। कृशधनः धनहीनश्चेत् । न याच्यः याचितुं न योग्यः - धनादिकमिति शेषः - किंतु धनपरिपूर्ण एव • तथा- विधयाच्ञाया अनुचितत्वादिति भावः। विपद्यनर्थसंकटेऽप्युच्चैः धैर्य महाधैर्य न तु भयविह्वलत्वं 'आपत्स्वप्यविलुप्तधैर्यनिलयाः' विपदि धैर्यमथाभ्युदये क्षमे 'ति चोक्तत्वादिति भावः। महतां पूज्यानामनु- विधेयमनुकूलं। पदं व्यवसितं च - नत्वननुकूलं पदम् । तथाभूतस्यैव श्लाध्यत्वादिति भावः - नि-'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रि वस्तुष्वि 'त्यभिधानात्। इतादेमतत्। विषममसाधारणतया दुष्कर- मसिधाराव्रतमस्यभिचरितव्रतं। सतां सत्पुरुषाणां। केनोद्दिष्टमुप- दिष्टं - न केनापीत्यर्थः - स्वतस्सिद्धत्वादिति भावः। अत्रासिधारा- वन्निशितत्वादसिधारासंचारवत्सावधानेनैकाग्रतया विधेयत्वाद्वा असि- धाराव्रतं - यद्वा असिधारया व्यवहरतां व्रतं वीरव्रतमित्यर्थः - अथवा -

"युवा युवत्या सार्धं यन्मुग्धभर्तृवदाचरेत् ।
अन्तर्निवृत्तसङ्गस्यादसिधाराव्रंतं स्मृतम् ॥"

इत्युक्तमित्यवधेयम् । शिखरिणीवृत्तम् ।।

प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः
प्रियं कृत्वा पौन सदसि कथनं चाप्युपकृतेः ।
अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथा:
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। ५८ ।।

 व्या.----प्रदानमिति.----प्रच्छन्नं प्रदानं गुप्तदानं - न तु प्रकाशं - तथाभूतस्य दानस्य महाफलश्रवणादिति भावः। गृहं निजम- न्दिरं प्रत्युपगते सति अर्थिनीतिशेषः। संभ्रमविधिः प्रत्युत्था नाभिवादनादिसत्वरव्यापारविधानं ध न तु वैमुख्यं - तस्यैव शास्त्रोदिताचारत्वादिति भावः - प्रियं तदभीष्टं - कृत्वा । मौनं तूष्णी- भाव श्चापरिकीर्तनमिति यावत् - न तु प्रकटनं - कृतस्यपरिकीर्तनं । 'नदत्वा परिकीर्तये'दिति मनुस्मरणादिति भावः । सदसि राजविद्वत्सभायामुपकृतेः। कथनं परोपकारप्रख्यापनं च - न तु तत्र तूष्णी शीलत्वम् - अन्यथा कृतब्नत्वप्रसङ्गादिति भावः । लक्ष्म्यां संपत्त्यामनुत्सेको गर्वराहित्यं - न तु मदान्धत्वं - 'संपत्स्वनुत्से किन' इत्युक्तत्वादिति भावः। निरभिभवसाराः । अनिन्दापराः परकथाः पुरुषान्तरप्रसङ्गाश्च - न तु गर्हणपराः - 'आत्मप्रशंसां परगर्हामपि च वर्जये"दित्यादिस्मरणात् । सतामित्यादि। वृत्तं च पूर्ववत् ॥

सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते
मुक्ताकारतया तदेव नलिनीपत्त्रस्थितं दृश्यते ।
अन्तस्सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते
प्रायेणाघनमध्यसोत्तमजुषामेवंविधा वृत्तयः ॥ ५९ ॥

 व्या.-अथाधममध्यमोत्तमवृत्तिमाह - संतप्तायसीति.--

संतप्तायसि सम्यगग्नितप्तायःपिण्डे संस्थितस्य । निक्षिप्तस्येत्यर्थः । पयसो जलस्य नामाऽपि नामधेयमात्रमपि। न श्रूयते मूलतो ध्वस्त- मेव भवतीत्यर्थः - स्वरूपदर्शनं तु किमुवतव्यमिति भावः । तदेव पयः। नलिनीपत्त्रस्थितं पद्मिनीपत्त्रगतं सत्। मुक्ताकारतया मौक्ति- करूपेण। दृश्यते न तु मौक्तिकत्वेनेत्यर्थः। तदेव पयः। अन्तस्सा- गरे सागरान्तराळे - अन्तरित्यव्ययं - या शुक्तिः मुक्तास्फोट: - तस्याः - मध्ये उदरे - पतितं सत्। मौक्तिकं जायते मौक्तिकत्वेन परिणमतीत्यर्थः ‘ज्ञाजनोर्जे 'ति आदेशः - मुक्तैत्र मौक्तिकमिति विग्रहः * विनयादित्वात्स्वार्थे ठक् ; अतः प्रायेण भूम्न । अधममध्य मोत्तमजुषां निकृष्टसाधारणोत्कृष्टाश्रयाणांश्रितवतामेवंविधाः नामा- श्रवणादिरूपा वृत्तयो व्यापारा भवन्तीति यथाक्रममन्वयाद्यथा- संख्यालंकारः। अतः महदाश्रय एवं कर्तव्यः - 'नीचाश्रयो न कर्तव्यः कर्तव्यो महदाश्रय' इति वचनात्। अत्रोत्तममध्यमाधमा इति लोकप्रसिद्धोद्देशक्रमः कविना न विवक्षित इति ज्ञेयम् ॥  शार्दूलविक्रीडितम् ॥

यः प्रीणयेत्सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव हितमिच्छति तत्कळत्रम् ।
तन्मित्रमापदि सुखे च समक्रियं य-
देतत् त्रयं जगति पुण्यकृतो लभन्ते ।। ६० ।।

 व्या.----अथ सत्पुत्रकलस्त्रवमित्रसंपत्तिः पुण्यकृदधीनेत्याह - य इति.--यः पुत्रस्सुपरितः वाक्यकरणादिसदाचारैः। पितरं । श्रीणयेत् संतोषयेत् के 'प्रीञ् तर्पण' इत्यस्माद्धातोश्चौरादिकाण्णिचि लिङ्। * 'धूञ् प्रीञोर्नुग्वक्तव्य' इति नुगागमः । स पुत्रः 'पुन्नाम्नो नरकात्त्रायत' इति व्युत्पन्न इति पुत्रशब्दवाच्यः न तूत्पन्नमात्रः ॥

"जीवतोर्वाक्यकरणात् प्रत्यब्दं भूरिभोजनात् ।
गयायां पिण्डदानेन त्रिभिः पुत्रस्य पुत्रता ॥"

इति स्मरणात् ॥ यद्भर्तुः पत्युः। हितमिच्छति भयभक्तिभ्यां हिताचरणतत्परं भवति - तदेव। कलत्रं भार्या - न तु यादृच्छिकं - पतिभक्तिपरा साध्वी शान्ता सासत्यभाषिणीति पतिव्रताधर्मत्वात् - नि- कळत्रं श्रोणि- भार्ययोर' त्यमरः । यदापदि अनर्थसंकटे। सुखे संपदि च। सम- क्रियमविषमाचारमित्यर्थः - तुल्यवृत्ति । तदेव मित्रं सुहन - नत्वाप- त्संपदोः त्यागानुवर्तनतत्परम् - ___ 'आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः । इति वक्ष्यमाणत्वादेतत्त्रयमुक्तसत्पुत्रादित्रितयं । जगति भुवि। पुण्यकृतो धन्याः लभन्ते प्रामुवंति - न त्वकृतसु कृता इत्यर्थः । एवंविधत्रितयलाभस्य महापुण्यफलत्वादिति भावः - बसन्ततिलकावृत्तम् ॥

नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान्गुणान्ख्या पयन्तः
स्वार्थान्संपादयन्तो विततपृथुतरारम्भयत्नाः परार्थे ।
क्षान्त्यैवाक्षेपलक्षाक्षरमुखरमुखान्दुर्जनान्दुःखयन्तः
सन्तस्साश्चर्यचयों जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥

 व्या.--अथ सतां तावदसाधारणगरिमास्पदत्वेनाशेषो.

पादेयत्वमाह - नम्रत्वेनेति--नम्रत्वेन प्रह्वत्वेनैवोन्नमन्त औन्नत्यं प्राप्नुवन्तस्तथा भावस्यैवोन्नत्यहेतुत्वादिति भावः । परेषां - गुणकथ- नैस्सद्णवर्णनैः । स्वान स्वकीयान् । गुणान् सौजन्यादीन् । ख्याप- यन्तः प्रकटयन्तः - नत्वात्मप्रशंसया - तादृग्भावस्यैव निजगुणप्रकट- नहेतुत्वादिति भावः । परार्थे परप्रयोजननिर्वहणे - विततो विस्तृतौ- पृधुत्तरौ-महत्तरौ चारम्भयत्नौ प्रारम्भोत्साहौ च येषां ते तथोक्तास्सन्त एव - स्वार्थान स्वप्रयोजनानि । संपादयन्तो निष्पादयन्तः । परकार्य- साधनपुरस्कारेणैवात्मीयकार्यसाधनतत्पराः न त्वेकान्तत इत्यर्थः - तथाभूतत्त्वस्यैवात्मार्थकत्वादिति भावः। क्षान्त्या सहनशीलत्वे वाक्षेपेण निन्दया • रूक्षाक्षराणि परुषवाक्यानि तैः मुखराणि वाचालानि - मुखानि एषां तान परुषभाषिण इत्यर्थः । दुर्जनान् खलान्। दुःखयन्तः सन्तापयन्तः-नत्तूच्चण्डतया - तथाविधत्वस्यैव तेषां हृच्छल्यप्रायत्वादिति भावः । अत एव साश्चर्यचर्या अत्यन्ताश्चर्य- करचरित्रास्सन्तस्सत्पुरुषाः। जगति लोके । बहुमताः बहुमानिता स्सन्तः। कस्यया पुंसो। नाभ्यर्चनीयाः न पूजनीया इति काकुः ; सर्वेषामप्यभ्यर्चनीया एवेत्यर्थः । स्त्रग्धरावृत्तम् - 'म्रभ्रैर्यानां त्रयेणा त्रिमुनियतियुता स्त्रग्धरा कार्तितेयमि'ति लक्षणात् ॥

इति नीतिशतके सुजनपद्धतिस्सम्पूर्णा ॥


भवन्ति नम्रास्तरवः फलोद्गभै
र्नवान्बुभिर्दूर विलम्बिनो घनाः ।
अनुद्धतास्सत्पुरुषास्समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥ ६२ ॥

 व्या.--अथ सौजन्यस्य परोपकारफलकत्वात्तनिरूपणान- न्तरं परोपकारपद्धति वर्गयति भवन्तीति-तरवः पनसरसालादिवृक्षाः । फलोद्गमैः फलभारैः। नत्राः अवनता भवन्ति । धना मेघाः । नवाम्बुभिर्नूतनोदकैरुपलक्षितासन्तः। दूरविलम्बिनस्सर्वत्र प्रवर्ष- णार्थमन्तरिक्षसंचारिणो भवन्ति। सत्पुरुषास्समृद्धिभिरुपलक्षिता अपि । अनुद्धता अनुचण्डा भवन्ति - तीक्ष्णम्वभावा न भवन्ती- त्यर्थः - 'अनर्थिता' इति पाठे - अयाचिता भवन्ति - याच्ञां विनैव परहितमाचरन्तीत्यर्थः तथा एव उक्तनिजनम्रत्वादिव्यव हारः - परोपकारिणां परहिताचरणतत्पराणां। स्वभावो निसर्ग- सिद्ध एव न त्वाहार्यक इत्यर्थः : महान्तो हि परोपकारार्थक्लेशं क्लेशत्वेन न गणयन्ति - तेषां तस्य स्वाभाव्यादिति भावः । तदुक्तं-

"परोपकाराय फलन्ति वृक्षाः परोपकाराय वदन्ति नद्यः ।
परोपकाराय चरन्ति गावः परोपकारार्थमिदं शरीरम्" ।।

इति । अर्थान्तरन्यासोऽलंकारः । वंशस्थवृत्तम् - 'जतौ तु वंशस्थ- मुदीरितं जरौ' ।

श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कंणेन ।
विभाति कायः करुणापराणां परोपकारेण न चन्दनेन ॥६३॥

 व्या.----अथैषां मुख्यमण्डनसंपत्तिमाह - श्रोत्रमिति.--

करुणापराणां दयाळनां - परोपकारिणामित्यर्थः । श्रोत्रं कर्णः - नि । 'कर्णशब्दग्रहौ श्रोत्र'मित्यमरः । श्रुतेन धर्मशास्वश्रवणेनैव - विभाति प्रकाशते। कुण्डलेन सुवर्णमणिमयकर्णभूषणेन। न तु विभाति ; पाणिर्हस्तः । दानेन सत्पात्रत्यागेन । विभाति । कङ्कगेन कनकवल- येन न तु विभाति ; कायो देहः । परोपकारेण परेषां हिताचरणेन । विभाति ; चन्दनेन कस्तूरीघनसारविमिश्रितपटीरपङ्कलेपेन तु न विभाति ; महात्मनां श्रवणादिकमेव स्वाभाविक मण्डनं न त्वन्यत् । तस्य नश्वरत्वादिति भावः ॥  वृत्तमुपजातिः ॥

पद्माकरं दिनकरो विकचं करोति
चन्द्रो विकासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिते विहिताभियोगाः ॥ ६४ ॥

 व्या.----यदुक्त'मनर्थितास्सत्पुरुषा' इत्यादि तदेव प्रपञ्च- यति - पद्माकरमिति-~-दिन दिवसं करोतीति दिनकरस्सूर्यः कृञो. हेत्वित्यादिना टप्रत्ययः। अभ्यर्थितो न भवतीति नाभ्यर्थितः - अयाचितम्सन्नित्यर्थः नशब्दस्य सुप्सुपेति समासः। पद्माकरं पद्मवनं । विकघं विकसितं । करोति - नि। 'प्रफुल्लोत्फुल्लसंफुल्लव्या- कोचविकवस्फुटाः- फुल्लश्चैते विकसित्ते' इत्यमरः । तथा चन्द्रोऽपि- कैरवचक्रवाळं कुमुदषण्डं - नि। सिते कुमुदकैरव' इत्यमरः। विकासयति व्याकोषयति । तथा जलबरो वारिवाहोऽपि * पचा द्यच्। नाभ्यर्थित स्सन्नेव । जलं ददाति प्रवर्षति । तथाहि सन्तस्स- त्पुरुषाः स्वयमयाचिता एवेत्यर्थः । परेषां हिते हिताचरणे विहिताभि- योगाः कृताभिनिवेशाः - न त्ववबोधिता इत्यर्थः । अतो युक्तमेवं हेताचरण मेतेषामिति भावः.  सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः - सामान्य- विशेषकार्यकारणभावाभ्यां सदृष्टप्रकृतकार्यसमर्थनमर्थान्तरन्यास' इति सर्वस्वसूत्रम्. वसन्ततिलकावृत्तम् .

एते सत्पुरुषाः परार्थघटकास्वार्थान् परित्यज्य ये
साप्तान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये।
तेऽपि मानुषराक्षसाः परहितं स्वार्थाय निभन्ति ये
ये तु घ्नान्ति निरर्थकं परहितं ते के न जानीमहे ॥ ६५ ॥

 व्या.---अथ व्यापारतारतम्येन पुरुषाणामुत्तमादिभेदमाह - एते इति..--ये पुमांसः । स्वार्थान स्वप्रयोजनानि - नि’अर्थोऽभि- धेयरैवस्तुप्रयोजननिवृत्तिष्वत्यभिधानात् । परित्यज्य त्यक्त्वा । परा- थै घटकाः परप्रयोजनसंघटनशीलाः। एते। सत्पुरुषाः पुरुषोत्तमाः । सत्त्वस्य तेनैवाभिव्यक्तत्वादिति भावः। ये तु स्वार्थस्यावि- रोधेनावैषम्येण - स्वार्थनिर्वाहतत्परत्वेनैवेत्यर्थः । परार्थं परप्रयोजन- निर्वाहार्थम् - उद्यमभृत उद्योगभाजः । ते सामान्यास्साधारणा: मध्यमपुरुषा इत्यर्थः । ये तु । स्वार्थाय स्वार्थनिष्पत्त्यर्थ । परहित । निघ्नन्ति नाशयन्ति । तेऽमी। मानुषराक्षसाः मानुषशब्दवाच्या: राक्षसाः · तथा कूराचारतत्परत्वात्पुरुषाधमा इत्यर्थः । ये तु निरर्थक निष्फलं प्रयोजननिष्पत्तिराहित्येनापीति यावत् । परहितं घ्नन्ति। ते पुमांसः। के वा कथं भूता वा । न जानीमहे । उक्तत्रिविधपुरुषविलक्षणत्वात्तान् ज्ञातुं न शक्नुम इत्यर्थः । अत एव परमनीचा इत्यर्थः । उक्तपक्षेषु यः श्रेयान् तत्पक्षाश्रयणं कर्तव्य- मायुष्मतेति भावः. शार्दूलविक्रीडितम् -

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्ष्ण मिदं प्रवदन्ति सन्तः ॥ ६६ ॥

 व्या----अथ सन्मित्रलक्षणमाह - पापात्पापाचरणान्निवार- यति निवर्तयति - धर्मोपदेशेन दुष्कर्मप्रवृत्तः विरमयतीत्यर्थः.

  • 'जगुप्साविरामे’त्यादिना पञ्चमी। हिताय योजयते सत्कर्माचर-

णाय प्रवर्तयतीत्यर्थः - यद्वा श्रेयस्संग्रहार्थं प्रोत्साहयतीत्यर्थः । गुह्यं गोप्यं । निगृहत्याच्छादयति - न कुत्रापि प्रकटयतीत्यर्थः । गुणान सौशील्यादिसद्गुणान् । प्रकटीकरोति प्रख्यापयति - न तु निगूहती- त्यर्थः। आपद्गतमतिसंकटस्थमपि न जहाति न त्यजति - 'तन्मित्र- मापदि सुखे च समक्रियं य’दित्युक्तत्वादिति भावः । काले व्यस- नादिसमये। ददाति वाञ्छितं दिशति । तदिदं पापनिवारणादिकं सर्वं - सन्तस्सत्पुरुषास्सन्मित्रस्याकैतवसुहृदः । लक्षणं स्वरूपं प्रव- दन्ति.. बसन्ततिलकावृत्तम् .

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः
क्षीरोत्तापप्रवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।

गन्तुं पावकमुन्मनस्तदभवदृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्वीदृशी ।। ६७ ।।

 व्या.---पुनस्तदेव क्षीरनीरदृष्टान्तेन वर्णयति.---क्षीरे- णेति.-क्षीरेण कर्त्रा आत्मान मुपगतं प्राप्तं - यदुदकं जलं - तस्मै स्वात्ममिश्रितजलायेत्यर्थः। पुरा पूर्व। ते प्रसिद्धाः । अखिलास्समस्ताश्च । गुणा निजमाधुर्यधावळ्यादिगुणाः दत्ता हि वितीर्णाः खलु - स्वगुणप्रदानद्वारा मैत्री संपादितेत्यर्थः। अतः क्षीरोत्तापं - क्षीरस्य श्रपणार्थमग्नौ निक्षिप्तस्य दुग्धस्य - उत्तापं संतापमवेक्ष्य। तेन क्षीरमिश्रितेन। पयसा उदकेन । नि 'पयः । श्रीरं पयोऽम्बु चे" त्यमरः । स्वात्मा स्वशरीरं। कृशानौ बह्रौ हुत: मित्रसंतापासहनात्संशोषित इत्यर्थः। ततस्तत् क्षीरं कर्तृ मित्रस्य जलस्यापदं संशोषरूपां विपत्तिं । दृष्ट्वा । पावकं वह्निं। गन्तुमुन्मनः उद्युक्तमभवत् ’ उत्क उन्मना' इति निपातनात्साधुः - जलसंशो- पणे क्षीराणां वहिर्निर्गमनसंभवादिति भावः। तदनन्तरं तेन जलेन। युक्तं मिश्रितं सत्। शाम्यति प्रशान्तं भवति * 'शभा- मष्टाना' मिति दीघः । तथाहि । सतां मैत्री सौहार्दम। व्याख्याता मैत्री। ईदृशी पुनः परस्परव्यसनासहनशीला खलु । अत एतद्युक्त- मिति भावः.  अत्र स्वभावसिद्धस्य क्षीरनीरव्यवहारस्य परस्परसंतापदर्शन- हेतुकत्वेनोत्प्रेक्षणात्क्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा। सा चोक्तार्था-

न्तरन्यासनिर्व्यूंढेत्यनयोर्विजातीयसंकरः. वृत्तमुक्तम् .

इतः स्वपिति केशवः कुलमितस्तदीयद्विषा-
मितश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
इतोऽपि बडवानलः सह समस्तसंवर्तकै-
रहोक्तितमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ६८ ॥

 व्या.----अथैतन्माहात्म्यमाह - इत इति - इतोऽस्मिन्प्रदेशे। केशवो विष्णुः कुक्षिस्थाखिलभुवन इति भावः । स्वपिति योगानु- संधानेन निद्राति रुदादिभ्यस्सार्वधातुक' इतीडागमः । इतो-5 स्मिन्प्रदेशे। तस्य केशवस्य इमे तदीयाः के त्यदादित्वात् वृद्धाच्छः - ये द्विषो हिरण्याक्षरावणादयस्तेषां । कुलं समूहस्तिष्ठतीति शेषः । इत- स्ततोऽन्यस्मिन् प्रदेशेऽपि। शरणार्थिनो रक्षणाभिलाषिणः - नि. 'शरणं गृहरक्षित्रो’रित्यभिधानात् । तेषां शिखरिणां मैनाकादिपर्व- तानां गणाश्च । शेरते स्वपन्ति ।”शीङो रुडि’ति रुडागमः। इत- स्तस्मादप्यन्यस्मिन् प्रदेशे। समस्ता ये संवर्तकाः प्रळयकालप्रवर्षि- मेघविशेषाः - अत एव पुष्कलावर्तकसंज्ञया च व्यवह्रियन्ते - तै स्सह । बडबानलोऽपि वसति - तस्मात् । सिन्धोस्समुद्रस्य । वपु- शरीरं । विततं केशवाधारत्वेन विस्तृतं। अर्जितं बडबानलाश्रय- वेऽप्यतिवर्धिष्णु। भरसहं पर्वतभरणेन भारोद्वहनक्षमं च । अहो अप्रमेयानुभावत्वेनात्यन्ताश्चयमित्यर्थः.  अत्र लक्षयोजनपरिच्छिन्नस्य समुद्रस्यापरिच्छिन्न केशवाद्य- चतारत्वकथनादधिकप्रभेदोऽलङ्कारः . " आधाराधेययोरानुरूप्या-

भावोऽधिको मत" इति लक्षणात् ।। पृथ्वीवृत्तम् ।।

जातः कूर्मः स एकः पृथुभुवनभरायापितं येन पृष्ठं
श्लाघ्यं जन्म ध्रुवस्थ भ्रमति नियमितं यत्र तेजस्विचक्रम् ।
संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ ६९ ॥

 व्या.----अथ परहिताचरणपराकाप्रया द्वयोरेव जन्म सफलं न त्वन्येषामित्याह - जात इति..---किं बहुना। अवतारेष्वपीत्य- ध्याहार्यम्.----एकः केवलस्स कूर्मः अदिकूर्मावतार एव जातः जन्मलाभवानित्यर्थः । कुतः येन कूर्मेण । पृथुर्महान् - यो भुवनभर- चतुर्दश विष्टपमारस्तस्मै तद्वहनार्थमित्यर्थः - पृथु विपुलमिति पृथ- क्पदं वा । पृष्ठं निजकूर्परतलमर्पितं दत्तं - निरन्तरमधःप्रदेशे स्थित्या दुर्भरभुवनभारेण जनितः क्लेशस्सोढ इत्यर्थः। तथा ध्रुव- स्यौत्तानपादेर्जन्म । श्लाघ्यं सकललोकप्रशस्तम्। कुतः? यत्र यस्मिन् ध्रुवे: तेजस्विनां ग्रहनक्षत्रादीनां - चक्रं शिंजुमाराख्यं ग्रहनक्षत्र- मण्डलं वा। नियमितं नियुक्तं सद्भ्रामति पर्यावर्तते - तत्रभवान्भगव. दनुग्रहवशात्सकलोकोन्नतमेरुशिखरशिखामणिधुवः स्वायत्तत्वेन तेजस्विचक्रं प्रवर्तयतीति श्रीविष्णुपुराणभागवतादिकथाऽनुसंधेया ; ततः किमत आह-परहितकरणे परोपकाराचरण विषये । व्यर्थों निरर्थः अप्रयोजक इति यावत् - यः पक्षः - संजातो येषां ते सिंजातव्यर्थपक्षाः - न तु संजातपरहितकरणसमर्थपक्षा इत्यर्थः

  • सापेक्षत्वेऽपि गमकवात्समासः। अपरे उक्ताभ्यामन्ये । जन्तवः

प्राणिनः - नैच्योद्भावनार्थकोऽयं जन्तुशब्दप्रयोगः। उपरिष्टान्न। ध्रुवव- दुपरिभागेऽपि वर्तमाना न भवन्तीत्यर्थः । अधश्च न । कूर्मवदधस्ताद्वा वर्तमाना अपि न भवन्तीत्यर्थः । किं तु उदुम्बरः जन्तुफलाख्यवृक्ष- विशेषः - तस्य फलमुदुम्बरं - नि. 'उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धक' इत्यमरः । ‘फले लुगि'ति लुक - ब्रह्माण्डमुदुम्बरं तस्यान्तः अन्तराळे - अव्ययमेतत् । ये मशकास्तैस्तुल्यं तद्वत् तेन तुल्यं क्रियाचेद्वति'रिति वतिप्रत्ययः। जाता उत्पन्नाश्च ते नष्टाश्च जातनधाश्च भवन्तीति शेषः ॐ स्नातानुलिप्तवत्पूर्वकालसमासः - यतो न तैः किमपि साधितमतो मशकवन्निष्फल जन्मभिः किमन्यै- रिति भावः,  रूपकोपमयोस्संकरः  स्रग्धरावृत्तम् .

तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं माकृथाः
सत्यं ब्रह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।
मान्यान्नानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं
कीर्ति पालय दुःखिते कुरु दयामेतन्सतां चेष्टितम् ॥ ७० ॥

 व्या..-अथ विधेयलोकं संबोधयंत्सदाचारं शिक्षयति - तृष्णामिति- हेजनेत्यध्याहार्यं सर्वत्रापि - मध्यमपुरुषप्रयोगसंभ- वात् । अलभ्येषु परधनेषु लाभाभिलाषस्तृष्णा - तां छिन्धि वैराग्य- शस्त्रेण विदारय-अन्यथा अनेकाशापाशनिबद्धत्वेन क्लेशभागित्वं स्यादिति भावः । परिभवादिषूत्पद्यमानेस्षु क्रोधप्रतिबन्धः क्षमा - तां - भज सेवस्व अन्यथा उप्रभावन कार्यहानिस्स्यादिति भावः। मदं विद्याजनितदर्पम्। जहि विज्ञानेन विनाशय - अन्यथा विवेक- शून्यतया अकार्यकरणप्रवृत्तौ अनर्थप्राप्तिस्यादिति भावः। पापे पाप- कर्माचरणे रतिं प्रीतिम् । माकृथाः अज्ञानेन माकार्षीः - किं तु धर्मं घरे'त्याद्युपदेशवचनेन सत्कर्माचरणे। एव रतिं कुर्वित्यर्थः . अन्यथा निरयपातस्स्यादिति भावः । करोतेर्लुङिथासि ’न माङ्योग'इत्यतट् प्रतिषेधः। सत्यं सूनृतम्। ब्रूहि ’सत्यं वदे’ति वचनेन यथार्थमेव वचनं वदेत्यर्थः - अन्यथा ’नानृतात्पातकं पर' मिति न्यायादविवेकित्वप्रसक्तिरस्यादिति भावः । साधुपदवीं सन्मार्ग- मनुयाहि धर्मशास्त्रानुरोधेनानुसर - अन्यथोत्पथप्रतिपन्नत्वे वचनीय- तादिदोषापत्तिस्स्यादिति भावः। विद्वज्जनं उपदेशेन कृतार्थीकरण- शीलं पण्डितमण्डलम् । सेवस्व

“यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान् ।
तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥"

इति वचनाद्बुद्धिवैशद्यार्थं शुश्रूषस्व - अन्यथा बुद्ध्यवैशद्याशिक्षित- स्वाद्यभियोगस्स्यादिति भावः । मान्यान् पूज्यान्मानय यथार्हं पूजय - अन्यथा “ समासमाभ्यां विषमसमे पूज्ये” इति गौतमसूत्रात् ।

" अपूज्यायत्र पूज्यन्ते पूज्याश्चैवावमानिताः ।
अयशो महदाप्नोति धनाद्धर्माच हीयते ।।"

इत्यादिस्मरणाञ्च अन्यथा अकीर्तिस्सुकृतधनहींयमानत्वरूपाऽश्रेयः प्राप्तिस्स्यादिति भावः । किं बहुना। विद्विषशत्रूनपि किमुतान्यान् । अनुनय- समश्शत्रौ च मित्रे च'इति भगवद्वचनात्प्रसादय - अन्यथा रन्ध्रेषु पातयिष्यन्तीति भावः । प्रश्रयं गुर्वाचार्यादिषु नम्रत्वं । विनय- मिति यावत् । प्रख्यापय 'गुरौ नम्रतेत्युक्तत्वात्प्रकटय - अन्यथा दुर्वि- नीतत्वापवादप्रसङ्स्स्यादिति भावः; कीर्ति पालय। जन्मसाफल्यार्थं कीर्तिनिर्वहणे प्रयत्नं कुर्वित्यर्थः - अन्यथा 'क्षितितले किं जन्म कीर्तिं विने'ति वचनान्जीवन्मृतत्त्वापत्तिस्यादिति भावः । दुःखिते संजातदुःस्वेयुः भूतेष्वित्यर्थः । तारकादित्वादितच् - जातावेकवचनम्। , दयां दुःखप्रहाणेच्छालक्षणाम् । कुरु 'दुःखिषु करुणे’ति शास्त्रानु- । रोधाद्विधेहि - अन्यथा चित्तशुद्ध्यसंभवादिति भावः । एतत्सर्व तृष्णाच्छेदादिकम् । सतां सज्जनानां चेष्टितं व्यापारः। यदि सौजन्ययशःकामी तदैवं प्रवर्तस्व अन्यथा पुरुषार्थलाभासंभवादिति भावः ॥

मनसि वचसि काये पुण्यपीयूषपूर्णा
स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहदिं विकसन्तः सन्ति सन्तः कियन्तः ॥ ७१ ॥

 व्या..--ईदृशा विरळा एवेति निगमयति - मनसीति-- मनसि वचसि काये मनोवाक्कायेषु । पुण्यमेव - पीयूपममृतं • तेन पूर्णाः - करणत्रितयेनापि सत्कर्माचरणतत्पराइत्यर्थः । नि.-'पीयूष- ममृतं सुधे'त्यमरः, त्रयाणां भुवनानां समाहारत्रिभुवनं - लक्षणया त्रिभुवनस्थजनानित्यर्थः * 'तद्धितार्थे त्यादिना समासः * पात्रा- दिवाम्न स्त्रीत्वम् । उपकारश्रेणिभिर्हिताचरणपरम्परामिः। प्रीण- यन्तस्संतोषयन्तः । ’प्रीञ्प्रीण’ इति धातोश्चोरादिकाण्णिचि शतृप्रत्ययः। ’धूञ्त्रीञार्नुग्वक्तत्र्य ' इतिनुगागमः। परेषां गुणपरमाणू- नत्यल्पगुणानपीत्यर्थः - यतोऽणुर्नास्ति स परमाणुरित्याहुः । पर्वतीकृत्य महत्तरान कृत्वा । अभूततद्भावे च्विः। 'ऊर्यादिच्विडाचश्चेति गतिसंज्ञायां * 'कुगतिप्रादय' इति समासः । नित्यं ख्यापयन्तः निरन्तरं प्रशंसन्तः । तथा निजहृदि स्वान्तःकरण एव विकसन्तः । संतुष्यन्तस्सन्तः सत्पुरुषाः। कियन्तः कतिपये विरळा वेत्यर्थः। सन्ति - न तु सान्द्राः एतादृशगुणसंपत्तेरसाधारण्यादिति भावः । 'निजहृदि विकसन्तस्सन्ति सन्तः कियन्त' इत्येव पाठः - तथा- चोक्तं - 'सौजन्यामृतसिन्धव' इत्यादि. मालिनीवृत्तम.

इति नीतिशतक परोपकारपद्धतिस्सम्पूर्णा ॥



॥ धैर्यपद्धतिः ।।

रत्नैर्महाब्धेस्तुतुपुर्न देवा न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरप्नन्ति धीराः ।।

 व्या.---रत्नैरिति - देवा अमराः। महाब्धेः क्षीरार्णवस्य संबन्धिभिः। रत्नैः कौस्तुभादिमणिभिः - नि.-' रत्नं श्रेष्टेमणावपीति विश्वः - यद्वा - रत्नैः - नि.-' जातौ जातौ च यच्छ्रेष्टं तद्रत्न- मभिधीयत' इति वचनात् - ऐरावतोच्चैश्श्र्वः कल्पवृक्षादिश्रेष्ठजातीय- वस्तुभिः हेतुभिः। न तुतुषुस्तुष्टिं न प्रापुः - मथनसमय इति शेषः । तथा। बिभ्यत्यस्मादिति भीमं । भीमादयोऽपादान' इत्यपादा- नार्थे भियः मप्रत्यय औणादिकः - तथाभूतं यद्विषं कालकूटाख्यं - केन हेतुना तस्मादित्यर्थः । न भीतिं। भेजिरे न प्रापुरिति धैर्याति- शयोक्तिः ॐ विषेणेत्यत्र भीत्नार्थानां भयहेतु'रित्यपादाने पञ्चम्या भाव्यं । तथापि हेतुत्वमात्रविवक्षयाऽयं निर्देश इति मन्तव्यम्। किं तु सुधाममृतं - विना * 'पृथग्विनेत्यादिना द्वितीया। विराममवसानं। न प्रययुः मथनादिति शेषः - सुधोत्पत्तिं विना न विरता इत्यथः - अनने शीलसंपत्तिरुक्ता । तथाहि - धीरा मन- स्विनी निश्चितार्थात् प्रतिज्ञातार्थान्न विरमन्ति विरामं न प्राप्नुवन्ति - ' किं त्वा फलोदयं प्रयतन्त एवेत्यर्थः। अतो धैर्यशीलसंपन्नानां देवाना- मपीदं युक्त मेवेति भावः * 'जुगुप्सा विरामे'त्यादिना पञ्चमी

  • व्या्ङ्परिभ्यो रम' इति परस्मैपदम्.

 अर्थान्तरन्यासोऽलंकार:. वृत्तमुपजातिः.

प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विनिहता विरमन्ति मध्याः ।
र्विनैर्महुर्मुहुरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ ७३ ॥

 व्या..--उक्तमेवार्थ नीचातिवृत्तिकथनद्वारा द्रढयति - प्रार- भ्यत इति.-नीचैरधमैः विघ्नेभ्योऽन्तरायेभ्यो - यद्भयं तेन हेतुना। न प्रारभ्यते खलु - नोपक्रम्यते कार्यमिति शेषः - नि. 'विघ्नोऽन्तरायः प्रत्यूह' इत्यमरः , मध्याः मध्यमास्तु। कार्य प्रार- भ्योपक्रम्य। विघ्नैर्निहता विह्वलीकृतास्सन्तो विरमन्ति। विरता भवन्तीत्यर्थः । उत्तमाः उत्कृष्टाः - गुणा धैर्यशीलादयो - येषां ते तथोक्ताः पुरुषश्रेष्ठास्तु विघ्नैर्मुहुर्मुहुः पौनःपुन्येन। प्रतिहन्यमाना: बम्भज्यमाना। अपि। प्रारब्धमुपक्रान्तं कर्म । न परित्यजन्ति ; अतः कालकूटबडबानलादिविघ्नाद्युपहतत्वेऽपि उक्तगुणसंपन्नतया देवानां सुधोत्पत्तिपर्यन्तं मथनं युक्तमिति श्लोकद्वयस्यापि तात्पर्यम्. अत्र प्रकरणे कुत्रचिद्धैर्यस्य कुत्रचिच्छीलस्य कुत्रचिदुभयस्यापि प्राधान्यनिर्देश इति द्रष्टव्यम् 'मनसो निर्विकारत्वं धैर्य सत्स्वपि हेतुष्वि'त्युक्तलक्षणं धैर्यं - शीलं तु नियतकुलोधितसत्स्वभाव इति विवेकः - 'शीलं स्वभावे सद्वृत्ता' वित्यभिधानात्.

 वसन्ततिलकावृत्तम् .

क्वचित्पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
क्वचित्कन्याधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।। ७४ ।।

 व्या...--अयोक्तगुणसंपन्नस्य कृच्छ्राकृच्छ्रयोर्दुःखसुखापरि- गणनया कार्यसाधनत्वमाह - क्वचिदिति-क्वचित्कुत्रचिद्देशे काले वा। पृथ्वी शय्यां यस्य स तथोक्तः - कठिनतरस्थण्डिलशयनोऽपी- त्यर्थः । क्वचिच्च्। पर्यङ्के हंसतूलिकातल्पे - शयनं स्वापो - यस्य स तथोक्तः - मृदुलतरशय्योऽपीत्यर्थः - नि.- शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वयासमाः'- स्यान्निद्रा शयनं स्वाप' इत्युभयत्नाऽप्यमरः । क्वचिच्छाक एवाहारो यस्य नीरसाहारोऽपीत्यर्थः । क्वचिञ्च । शाल्यो- दने शाल्यग्ने - रुचिः स्वादो यस्य स तथोक्तः - षडूसोपेतमृष्टान्न- भोजनसंतुष्टोऽपीत्यर्थः । क्वचित्कन्थां जीर्णवत्वशकलनिर्मिताच्छादनं क्षरयतीति कन्थाधार्यपि। क्वचिश्च दिव्याम्बरधरः कनत्कनकपी- ताम्बरधरोऽपि। कार्यार्थी कार्यनिष्पत्यभिलाषी - अर्थः अभिलाष:- तद्वानर्थीति विग्रहः * 'कृद्धृत्तेस्तद्धितवृत्तिर्बलीयसी'ति महाभाष्ये । मनस्वी महामनाः धीरः * प्रशंसायामिनिः। पृथ्वीशय्यादिना दुःखं च न गणयति। पर्यङ्कशयनादिना सुखं च न गणयति ।। किंतु सुखदुःखयोस्समानावस्थयैव कार्यसाधनतत्परो भवतीत्यर्थः ।।

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा ययेष्टम् ।
अद्यैव वा मरगमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीर: ॥ ७५ ॥

 व्या.----अथ धीराः लोकनिन्दास्तुतिप्राप्ता अपि न्याय- मार्गान्न भ्रश्यन्तीत्याह - निन्दन्त्विति -नीतिनिपुणा नयविशारदाः। निन्दन्तु कथंचिद्दूषयन्तु। वा यदि अथवा । स्तुवन्तु भूषयन्तु वा। लक्ष्मीरसंपत् । समाविशतु प्राप्नोतु। वा, उत । यथेष्टं निरगळम्। गच्छतु था। अद्यैवेदानी मेव। मरणं निव**स्तु वा। उत युगा- न्तरे कल्पान्तरे वाऽस्तु। तथापि। धीर***शालिनः न्याय्यान्- न्यायादनपेतात्पथो मार्गात्। पदमेकपादविन्यासमात्रमपि। न - प्रविचलन्ति न भ्रश्यन्ति । तेषां न्यायमार्गापरित्याग एव परमार्थों - न निन्दास्तुत्यादिरिति भावः ॥  वसन्ततिलकावृत्तम् ॥

कान्ताकटाक्षविशिखा न लुनन्ति यस्य
चित्तं न निर्दहति कोपकृशानुतापः ।
कर्षन्ति भूरिविषयाश्च न लोभपाशै
र्लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ ७६ ॥

 व्या.-ननु को धीरस्स वा किं साधयतीत्याशक्याह--

कान्तेति-यस्य चित्तं । कान्ताकटाक्षाः

" यद्गतार विश्रान्ति वैचित्र्येण विवर्तनम् ।।
तारकायाः कळाभिज्ञास्तं कटाक्षं प्रचक्षते ॥"

इति भावप्रकाशोक्तलक्षणलक्षितकामिन्यपाङ्गालोकनानि - त एव विशिखा बाणा नलुन्ति न भिन्दन्ति न सम्मोहयन्तीति यावत् स्था कोपकृशानुतापः क्रोधाग्निसंतापश्च । न निर्दहति न व्याकुल- यति। तथा भूरयो बलवत्तरा - विषयाः शब्दादीन्द्रियार्थाश्च । लोभः परस्वापरहरणे प्रयत्नः - एतेन कामादयोऽप्युपलक्ष्यन्ते - तथाच - लोभा एव पाशा रज्जवश्व बन्धनहेतुत्वात्तेषां पाशत्वारोपण। न तर्षन्ति तृष्णायुक्तं न कुर्वन्ति - कर्षन्तीति पाठे न स्वायत्तीकुर्वन्ती- त्यर्थः । स धीरः। कृत्स्नपशेषं। लोकत्रयं स्वर्गादिलोकत्रितयमपि जयत्यामाधीनं करोतीत्यर्थः। तस्य न किंचिदप्यसाध्यमिति भाव: वृत्तं पूर्ववत् ॥

कर्थितस्यापि हि धैर्यवृत्तेन शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्वेर्नाधश्शिखा यान्ति कदाचिदेव ॥

 व्या.-धैर्यगुणन्यक्कारः कथंचिदपि न युज्यत इति सदृष्टान्तमाह - कदर्थितस्येति.---कुत्सितोऽर्थः कदर्थः * 'को: कत्तत्पुरुषेऽधी'ति कुशब्दस्य कदादेशः - कदर्थीकृतः कर्थितः तस्य नीचैः । कृतस्यापि सतः धैर्येण वृत्तिर्वर्तनं यस्य तस्य संबन्धि धैर्यमेव गुणः। प्रमार्ष्टुमधः-कर्तु। न शक्यते । तत्र दृष्टान्तः - अधोमुखस्य कृतस्यावा्ङ्मुखीकृतस्यापि सतो। वह्नेश्शिखा ज्वाला। कदाचिदेव कदाचिदप्यधो न यान्ति - किं तूर्ध्वमेव प्रसरतीर्थः । तद्वद्धारस्यापि

धैर्यगुण इति विवेकः. उपजातिवृत्तम.

वरं शृङ्गोत्सङ्गाद्गुशिखरिणः क्वापि विषमे
पतित्वाऽयं कायः कठिनदृयदन्ते विदलितः।
वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने
वरं वहौ पातस्तदपि न कृतः शीलविलयः ॥ ७८ ॥

 व्या.-मरणोद्योगो वा वरं न तु शीलविलय इत्याह- वर- मिति.---अयं कायो देहः गुरुशिखरिणोऽत्युन्नतपर्वतस्य शृङ्गो- त्सङ्गाच्छृङ्गोपरिभागात्क्वापि कस्मिंश्चिद्विषमे विकटे। कठिनदृषदन्ते कर्कशपाषाणान्तराळे। पतित्वा विगलितः शकलितश्चेद्वरं मनाक्प्रियं। तथा हस्तस्तीक्ष्णदशने विषानलोग्रदंष्ट्रे। फणिपतेः - मुखे वक्त्रे । न्यस्तश्चेद्वरं । तथा वह्नौ पातोऽग्निप्रवेशोऽपि। वरं। किं तु शील- विलयस्स्वभावत्यागः । कृतश्चेन्न वरम्। मनाक्प्रियमपि । न भवती- त्यर्थः। प्राणप्रयासेऽपि शीलं न त्याज्यमिति तात्पर्यम् - 'दैवाद्वृते वरः श्रेष्टे त्रिषु क्लीबं मनाक्प्रिय' इत्यमरः.


वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा-
नभेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते।
व्यालो माल्यगुणायते वि?रसः पीयुषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतरं शीलं समुन्नीलति ।। ७९ ।।

 व्या.-नन्वेवं शीलस्यात्यन्तावश्यकत्वमुक्तं। तद्भावे को लाभ इत्याशङ्कायामाह - वहिरिति..---तस्य पुंसः। वह्निर्दाहकोऽपीति भावः । जलायते जलमिवाचरति - तवच्छीतलो भवतीत्यर्थः * 'कतुः क्यड्सलोपश्चे'ति क्यङ् * 'अकृत्सार्वधातुकयो'रिति दीर्घः - एवं सर्वत्र प्रयोज्यम् जलनिधिर्दुस्तरोऽपीति भावः। कुल्यायते अल्पनदीवाचरति। तस्येति सर्वत्रान्वयोऽवगन्तव्यः । तत्क्षणात्तस्मिन्नेव क्षणे - न तु विलम्बनेत्यर्थः । मेरुः स्वल्पशिलायत अल्पदृषदिवा- चरति। मृगपतिस्सिहः - हिंस्रोऽपीति भावः। सद्यः कुरङ्गायते हरिण इवाचरति। व्याळसर्पः - विषरोगभीषणोऽपीति भावः । माल्यगुणायते पुष्पस्रगिवाचरति । विषमेव - रसो द्रवः प्राणप्रया- सहेतुरिति भावः। पीयूषवर्षायते अमृतवृष्टिरिवाचरति । कस्येत्याका- ङ्क्षायामाह - यस्य पुंसोऽङ्गेऽखिललोकानामशेषजनानां - वल्लभतर- मत्यन्तमनोहरं। शीलं सत्स्वभावः । समुन्मीलति समुल्लसति । तस्येतिसंबन्धः। शीलसंपन्नस्य दुःखहेतवोऽपि सुखहेतव एव भवन्ति । अयमेव परमलाभ इति भावः .

 अत्र कृव्यर्थादौपम्यप्रतीते रुपमाभेद:.--

"इवादिलोपे विविध णमुलि क्यचि घ क्यङि ।
तथा वाक्ये समासे च सप्तधैषः प्रकीर्तिता ।।"

इति

(एषा उपमेत्यर्थः.)

छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।
इति विमृशन्तस्सन्तः सन्तप्यन्ते न लोकेषु ॥ ८० ॥

 व्या.--अथैषां कदाऽपि संतापो न प्रवर्तत इत्याह - छिन्न इति.-तरुः छिन्नस्सन्नपि । पुना। रोहत्युद्गच्छति । चन्द्रः। क्षीणः कृष्णपक्षे दिनक्रमेण कृशस्सन्नपि। पुनरुपचीयते प्रवर्धते इत्येवं। 'विमृशन्तो मनस्यनुसंदधानास्सन्तः शीलसंयन्ना लोकेषु बन्धु- जनेषु। विश्लथेषु विह्वलेषु सत्स्वपि। न संतप्यन्ते। किं तु तरुचन्द्र-

दृष्टान्तेनाभिवृद्धिमाशंसन्त एव सन्तीत्यर्थः. आर्याभेदः.

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्थ वाक्संयमो
झानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ ८१ ॥

 व्या.---शीलमेवाशेषभूषणमित्याह - ऐश्वर्यस्येति.-ऐश्वर्यस्य स्वाम्यस्य । सुजनता विभूषणं - न तु दौर्जन्यम्। शौर्यस्य विक्रान्त- त्वस्य वाक्संयमो वानियमो विभूषणं न स्वसंबद्धप्रलापित्वम्। ज्ञानस्य कर्तव्याकर्तव्यविवेकस्यात्मविषयकस्य वा। उपशमो विषयो- परतिः। विभूषणं न तु लोलुपत्रम्। श्रुतस्य शास्त्रस्य । विनयो विभूषणं - न तु गर्वोद्रिक्तता। वित्तस्य पात्रे व्ययः सत्पात्र प्रति- पत्तिः। विभूषणं - न तु विटनटादिषु। तपसश्चान्द्रायणादेरक्रोधः क्रोधराहित्यं * कचित्प्रसज्यप्रतिषेधेऽपि नञ् समास इश्यते विभू- पणं - न तु कोपशीलत्वम्। प्रभवितुः समर्थस्य। क्षमा सहिष्णुत्वम्। विभूषणं - न तूच्चंडता। धर्मस्य सत्पात्रदानस्य । नियाजता व्याज- राहित्यं । विभूषणं - न तु द्रव्यनाशदुःखं। तथा सर्वकारणं ऐश्व- यादिसमस्तनिदानमिदं पूर्वोपवर्णितमेव शीलं। सर्वेषामपि सर्व- पुंसां। परं सौजन्याद्यपेक्षयाऽप्युत्कृष्टं भूषणमलंकारः, अतस्सर्व- श्राऽपि शीलमेवाश्रयणीयमिति तात्पर्यम्.

इति नीतिशतके धैर्यपद्धति सम्पूर्णा ॥


नेता यस्य बृहस्पतिः प्रहरणं वनं सुराः सैनिकाः
स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावणो वारणः ।
इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे
तद्व्यक्तं ननु दैवमेव शरणं धिग्र धिग्र वृथा पौरुषम् ॥ ८२ ॥

 व्या.--- अथ धैर्यशीलयोरपि दैवायत्तत्वात्तन्निरूपणानन्तरं दैवपद्धति निरूपयति - नेतेति.-~यस्य बलिभिदः । नेता शिक्षकः हिताहितोपदेशकर्ता। बृहतां वाचां पतिर्बृहस्पतिः - न तु यः कश्चित् * तद्बृहतोः करपत्योश्चोरदेवतयोस्सुड्तलोपश्चेति सुडागम- तलोपौ। प्रहरणम् आयुधं प्रहारसाधनं तु। वज्रं वज्रायुधं - पर्वत- पक्षच्छेदनेऽप्यकुपिठतमिति भावः • न तु यत्किंचिदयोमयं। सैनि- कास्सुराः - न तु दुर्बललौकिकाः। दुर्गं गुप्तिस्थानं । स्वर्गः स्वर्ग- लोकः - न तु मृत्पाषाणादिनिर्मितम् । अनुग्रहः परिपालनतात्पर्यं । हरेः खलु सकललोकाधीश्वरस्य विष्णोः - तस्यावरजभावनावती- र्णत्वादिति भावः। न तु क्षुद्रदेवतायाः। वारणो गजः ऐरावतः न तु यः कश्चित्कलभः । इत्यनेन प्रकारेण स बलभिदिन्द्रः। आश्च- र्यबलान्वितोऽसाधारणत्वादद्भुतकरशक्तिसद्दितोऽपि। संगरे रणे। परैर्दानवैर्भग्नो विदारितः । तत्तस्मात्कारणाद्व्यक्तं स्फुटं यथा सथा। दैवमेव । शरणं रक्षकं । न तु । पुरुषस्य कर्म पौरुषं हाय- नान्तयुवादिभ्योऽणि’ति युवादित्वादण् - नि. 'पौरुषं पुरुषस्योक्ते भावे कर्मणि तेजसी’ति विश्वः - पौरुषं पुरुषकारं। धिग्धिक् पौनःपुन्येन निन्द्यमित्यर्थः। वृथा व्यर्थमप्रयोजकत्वादिति भावः । धिग्धिगिति *'नित्यवीप्सयो' रित्याभीक्ष्ण्ये द्विशक्तिः। तद्योगात्पौरुष- मिति द्वितीया ; अतः पौरुषस्याकिंचित्करत्वमेवाश्रयणीयमिति भावः,

 उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी
दैवं प्रधानमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्धति कोऽत्र दोषः ?

इत्यादिवधनस्य अयमेव दत्तजलाञ्जलिरिति वेदितव्यम् ।।

 अब साभिप्रायविशेषणत्वात्परिकरालंकारः - “सामिप्राय- विशेषणं परिकर" इति ॥

भग्नाशस्य करण्डपिण्डिततनोम्ल्रोनेन्द्रियस्य क्षुधा
कृत्वाखुर्विचर स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तपिशितेन सत्वरमसौ तेनैव यातः पथा
खस्थास्तिष्ठत दैवमेव हि परम् वृद्धौ क्षये कारनणम् ॥ ८३ ॥

 व्या.--अथ बन्धमोक्षयोहोनिवृद्ध्योश्चापि दैवमेव कारण. मित्याह - भन्नेति--आखुर्मूषकः कर्ता । नक्तं रात्रौ । विवरं बिलं । करण्डस्यैवेति भायः। कृत्वा। भग्नाशस्य भुमत्वाद्धममनोरथस्य । करण्डे पिण्डिकायां - पिण्डता पुञ्जीकृता - तनुर्यस्य तथोक्तस्य । विहारप्रसारशून्यतयाऽतिकृच्छ्रदशामापनस्येत्यर्थः। क्षुधा बुभुक्षा- व्यसनेन । म्लानेन्द्रियस्य विनष्टेन्द्रियपाटवस्य। भोगिनः सर्पस्य । मुखे . स्वयमेव दैववशानिपतितः। ततोऽसौ भोगी। सपिशितेन मूषकमांसेन। नृतस्सन्। तेनैव पथा विवरेण। सत्वरं शीघ्रं । यातः बहिनिर्गत्य पलायितः हे जना इति शेषः । स्वस्थाः स्थिर- चिनास्सन्तः । तिष्टत । कुतः वृद्धौ क्षये च देवमेव। परमुत्कृष्टं । 'भारणं हि नत्वन्यदतो मूषकभोगिदृष्टान्तेन स्वस्थैर्भाव्यं । न तु वृथा। पौरुषैरिति भावः.

यथा कन्दुकपातनोत्पतत्यायः पतन्नपि।
तथा त्वनार्यः पतति मृत्पिण्डिपतनं यथा ॥ ८४ ॥

 व्या.-अथ देवायतिकतदन्ययोरवस्थामाह . यथेति.- आर्यो दैवायतिकः। पतन्नपि कुतश्चित्कारणानीचैर्भवन्नपि कन्दुक- पातेन दृष्टान्तेनयथोत्पतत्युच्छ्रयं प्राप्नोति। तथा तद्वदेव अनार्यः मृपिण्डपतनं यथा सान्द्रमृत्कबलमिव 'इववद्वायथाशब्दा' विति दण्ड्याचार्यानुशासनात् । पतति निलीनो भवतीत्यर्थः ।।

खर्वाटो दिवसेश्वरस्य किरणः सन्तापिते मस्तके
गच्छन्देशमनातपं विधिवशात्तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भने सशब्दं शिरः
प्रायो गच्छति यत्र दैवहतकत्तत्रैव यान्त्यापदः ॥ ८५ ॥

 व्या.---दैवोपहतस्य न कुत्रापि सुखप्राप्तिरित्याह - खाट इति.---खाटः स्वभावलुप्तलोमशिरस्कः - मस्तकं निजशिरसि । दिवसेश्वरस्य सूर्यस्य । किरणैस्संतापिते सति। अनातपमातपशून्य देशं प्रति । द्रतगतिः शीघ्रगमनः । गच्छन् । तालस्य ताळवृक्षस्य । मूलं गतः तालाधस्सात्तिष्ठति । तत्र ताळमूलेऽपि । पतता वृन्तादकता महाफलेन पृथुलतरफलेन। अस्य खार्वाटस्य शिरः। स्वशिरश्शब्देन पटपटायमानेन सहितम्। सशब्दं यथा तथा । भग्नं विदळितं; ननु कुत एतदित्याशङ्कय दैवप्रातिकूल्यादित्याह - दैवहतको दैवोपहतः दैवानुग्रहशून्य इत्यर्थः। यत्र यस्मिन् देशे गच्छति - यं देशमुहिश्य गच्छति। तत्र तमुद्धिशयैवापद उपद्रवा अपि। प्रायो भूना। यान्ति तदेतन्मशकमयागामं विहाय गच्छतोऽरण्ये व्याघ्रग्रहणमभूदित्यर्थः ।।  शार्दूलविक्रीडितम् ।।

गजभुजङ्गविहङ्गमबन्धनं शशिदिवाकरयोग्रहपीडनम् ।
मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः।।

 व्या.-अतो दैवमेव बलीय इति मम मतिः प्रवर्तत इत्याह - गजेति.--अयं स्पष्टार्थः, यतोऽत्यन्तदुर्ग्रहाणां गजा- दीनां बन्धनं । जगत्प्रकाशकयोस्सूर्याचन्द्रमसोः राहुग्रहपीडनं । मतिमतां प्राज्ञानां। दरिद्रतामकिंचनत्वं च। विलोक्य दृष्ट्वाऽपि । अहो आश्चर्यम्; अतस्सर्वस्यापि देववलीयस्त्वं मन्ये। दैवमेव मूलमिति तात्पर्यम्. द्रुतविलम्बितम् .

सृजति तावदशेषगुगाकरं पुरुषरत्नम लङ्करगं भुवः।
तदपि तत्क्षणभङ्गिः करोति चेदहह कष्ट नपण्डितता विधेः ॥

 व्या.–एवं चेद्विधेरप्यज्ञता स्यादित्याशयेनाह - सृज- तीति.---विधिरशेषगुणाकरं सकलसद्गुणाश्रयं भुवोऽलंकरणं मण्डनं । पुरुषरनं पुरुषश्रेष्ठं। मुजति तावनिर्माति खलु । ततः किमत आह - तदपि तथाऽपि सृजनपीत्यर्थः। तत्पुरुषरनं मणमणि क्षणमात्रेण भङ्गरं नश्वरमित्यर्थः । करोति चेत्। विधे रपण्डितता मौढ्यमहह कष्टमतिकृच्छमिति विषादातिशयाभियोतकमहहेति : करोति चेत्तत्पाण्डित्यमेवेत्यर्थः । तथा ताद्दक्पुरूषरत्नस्य क्षणभङ्गित्वे- नैव निर्माणात्तु अपण्डित एवं विधिरिति परमरहस्यम् .  द्रुतविलम्बितम् .

अयममृतनिधानं नायकोऽप्योषधीनां
शतभिषगनुयातः शम्भुमूर्भोऽवतंसः ।
विरहयति न चैनं राजयक्ष्मा शशाङ्क
हतविधिपरिपाका केन वा लङ्घनीयः ॥ ८८ ॥

 व्या.---कथंचिदपि दैवयोगो न लङ्घय इत्याह - अयमिति- । अयं परिदृश्यमानश्चन्द्रः। अमृतस्य । निधानं स्थानमपि ओषधीनां । संजीविन्यादीनाम् । नायको नेताऽपि । शतभिषजा नक्षत्रेण - शतेन भिषभिर्धेचैश्वानुयातोऽनुमृतोऽपि । किं बहुना शम्भोस्सकललोकक्षे- मङ्करस्य शंकरस्य । मूोऽवतंसशिरोभूषणमप्येनमुक्तविशेषणविशिष्टं शशाङ्कं राजयक्ष्मा क्षयरोगो। न विरहयति न त्यजति खलु। अतो हतविधेर्नष्टदेवस्य - परिपाको नियोगः केन वा पुंसा । लङ्घनीयो न केनाऽपीत्यर्थः; हतेति निर्वेदानुसंधानार्थकः । राजयक्ष्मेत्यत्र राज्ञ- श्चन्द्रस्य यक्ष्मा - राजा चासौ यक्ष्मेति वा विग्रहः यथाह बाहट:-

"अनेकरोगानुगतो बहुरोगपुरोगमः ।
राजयक्ष्मा क्षयोऽशेषरोगराडिति च स्मृतः ॥"

प्रियसख विपदण्डाघातप्रपातपरम्परा-
परिचयरले चिन्ताचक्रे निधाय विधिः खलः ।

मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालव-
शमयति मनो नो जानीमः किमत्र विधास्यति ॥ ८९ ॥

 व्या.---मनोनियन्ताऽप्ययमेवेति सखायं संवोधयति - प्रिय : इति - प्रियश्चासौ सखा च प्रियसखः - तस्य संबुद्धिः - हे प्रिय- सखः 'राजाहस्सखिभ्यष्ट खलइशठोऽयं विधिः । प्रगल्भकुला- लेन तुल्यं प्रगल्फकुलालयत् प्रौढकुम्भकारइवेत्यर्थः * 'तेनतुल्यं- क्रियापद्वतिरितिवतिः। मनोमदीयचित्तम्। मृदं मृत्तिकामिव । बला- सामर्थ्यापिण्डीकृत्य कपालीकृत्य। विपदः आपदः - दण्डाधाताः मुद्रघट्टनानीव - तेषां - प्रवातानां च - या परम्परा पौनःपुन्येना- वृत्तिः - तस्याः यः परिचयस्संस्तरो निबिडावयवपरस्परसन्निवेशश्च स एव - बलं दाव्य यस्य तस्मिन् । चिन्ताचक्रे चिन्ताचक्रमिव तस्मि- निधाय भ्रमयति । अत्र भ्रमणे। कि विधास्यति किं करिष्यति वा। नो जानीमः । कुलालस्तु घटं करिष्यत्ययं तु किं विधास्यति न जानीम इत्यर्थः॥

चिरम विश्मायासादस्माहरण्यवसायतो
विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे ।
अयि जड विधेकल्पापायेऽप्यपेतनिजक्रमाः
कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ ९० ॥

 व्या.-एवमापत्परम्पराचरणे महद्वैर्यध्वंसो भविष्य तीति न मन्तव्यमिति विधिमलक्षीकृयोपालभते - विरमेति.-- अयाति प्रश्ने - नि. 'अयिप्रश्नानुनयो रिति विश्वः । जडेसि मान्थे - विधे हे दैवेति संबोधनत्रयम्। अस्माहु रध्यवसायतो दुराप्रहाय आयासस्तस्मादि रम विरम आभीक्ष्ण्येन विरतो भव नित्यवीप्सयो- रि त्याभीक्ष्ण्ये द्विरुक्तिः कोऽसावायास इत्याशङ्कायामाह - विपदि त्वत्कृतापदि। महतां महात्मनां धैर्यध्वंसं धीरत्वहासमीक्षितु- मीहसे काङ्क्षसे। यत् त्वमस्मादायासादिति संबन्धः तस्यासन्तासं- भावितत्वात्वदायासस्यैवावशिष्टत्वादिति भावः। कुतो वाऽसंभावि- तत्वमित्याशक्य दृष्टान्तमुखेन द्रढयति - कल्पापाये कल्पान्तेऽपि अतिसंकटेऽपि किमुतान्यदेति भावः. अपेताः विनष्टाः - विजक्रमा: खमर्यादाः - येषां ते तथोक्तास्सन्तः। एते कुलशिखरिणो महे- न्द्रादिसप्तकुलाचला वा। जलराशयस्सप्तसमुद्रा वा क्षुद्रा नीचा: न खलु - किं त्वत्यक्तमर्यादा एव वर्तन्ते। अतः दृष्टान्तेन धीर- धैर्यध्वंसनस्यातिदुष्करत्वावदायास एवावशिष्टो न तु फललाम इति भावः,

“ महेन्द्रो मलयस्सह्यस्सानुमानृक्षपर्वतः ।
विन्ध्यश्च पारियात्रश्च सप्तते कुलपर्वताः ॥"
'लवणेनुसुरासपिर्दधिक्षीरजलार्णवाः ॥' इति.

देवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकृतं
ततस्योपनमेन्मनागपि महानैवाश्रयः कारणम् ।
सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यह
सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः॥ ९१ ॥

 व्या.---तथाऽपि देवमेव शरणमित्याह - दैवेनेति,-प्रभुणा समर्थेन । जगति लोके। यस्य पुंसो। यद्वस्तु । प्रमाणीकृतं निर्दिष्ठं । तद्वस्तु तस्योपनमेत् संगच्छत्। महानायो। मनागीषदपि । नैव कारणं न साधनं हि - बहुफलप्राप्ताविति शेषः। तत्र दृष्ट्वान्तः - सर्वाशापरिपूरके - सकललोकमनोरथपरिपूरके- सकलदिगन्तव्यात- फलके वा। जलधरेऽम्बुवाहे के पचाद्यच्। अन्यहनि प्रत्यहम्

  • 'अव्ययं विभक्ती त्यादिनाऽव्ययीभावः - अह्रश्च 'नपुंसकव.

दन्यतरस्या' मिति समसान्तः । वर्षति सत्यपि । घातकस्य स्तोकक- पक्षिणो। मुख चञ्चूपुटे। सूक्ष्मा अणव एव। तथाऽपि द्वौ वा त्रयो वा द्वित्रा एवं * 'संख्ययाव्ययासन्नेत्यादिना बहुव्रीहिः

  • 'बहुप्राही संख्यये डजबहुगणा' दिति डच् प्रत्ययः ।

पयोबिन्दवो जलकणाः। पतन्ति - न स्वाश्रयमहत्तया बहुजल- लाभस्तत्रापि देवस्यैव नियन्तृत्वादिति भावः - तस्मात्सर्वथा दैव- मेव शरणमिति तात्पर्यम् - नि. स्तोककश्चातकस्समा' इत्यमरः.

इति नीतिशतके देवपद्धति सम्पूर्णा ॥


॥ कर्मपद्धतिः ॥

नमस्यामो देवाननु हतविधेस्तेऽपि वशगा
विधिर्वन्यः सोऽपि प्रतिनियतकमैकफलदः ।
फलं कर्मायत्तं किममरगणैः किं च विधिना
नमसत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ ९२ ॥

 व्या.---यदुक्तं देवेन प्रभुणेत्यादिसंदर्भेण देवस्यैवात्यन्ताव. श्यकत्वं । तस्यापि कर्मनियम्यत्वेनास्वातन्त्र्यादित्याशयेन देवपद्धतिनिरूपणानन्तयेाग कर्मपद्धति निरूपयिष्यस्तत्रापि सर्वदेवनियामकत्वेन विधेस्तभियामकत्वेन कर्मण: - प्राबल्यमिति परम्परामनुविदधाति - नमस्याम इति...-देवानिन्द्रादीन्नमस्यामोऽभिवादयामः । न त्वेका- स्ततयतेषामेवाभिवाद्यत्वमेत नियामकस्य कस्यचिद्विधेः विद्यमान- स्वात्। सोऽप्यभिवाद्य एवेत्याशयेनाह - ते देवा अपि हतो यो विधिब्रह्मा तस्य। वशगा ननु नियम्याः खलु - अतो विधिरपि वन्धः नत्वस्यापि स्वातन्त्र्यमित्याह - सोऽपि विधिरपि। प्रतिनियतं यत्कर्मणः एकं फलं त इदातीति तथोक्तः यत्फलं कर्मणः प्रतिनियतं तत्पदो न तु स्वतन्त्र इत्यर्थः । तथाच फलं कर्मायत्तं यदि कर्माधीनं चेदपरैः देवैः किं? विधिना च किं? न किंचिदपोत्यर्थः । तस्यैव । फलदानवाम्यादिति भावः। तत्तस्मात्कर्मभ्यो ज्योतिष्ट्रोमतपोदानादि. रूपेभ्यो नमः ।, यतः विधिरपि। येभ्यः कर्मभ्यो न प्रभवति न समर्थो भवति स्वातन्त्र्येण प्रवृत्तेरभावादिति भावः ॥

 अब पूर्वपूर्वस्योत्तरोत्तरं प्रत्युत्कर्षावहत्वान्मालादीपकाख्योs लंकारः - तल्लक्षणं तूक्तम् ।।

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डमाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते ।
है सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ९३ ॥

 व्या...-यदुक्तं विधिरपि न येभ्यः प्रभवतीति तत्प्रपंचयति- प्रोति.---येन कर्मणा कर्ता ब्रह्मा चतुर्मुखो। ब्रह्माण्डमेव भाण्डं । तस्योदरे। कुलालेन कुम्भकारेण तुल्यं कुलालवनियमितः विविधवस्तुनिर्माणकर्मत्वेन नियमितो नियोजितः। येन विष्णुः कुक्षिस्थाखिल- भुवनोऽपि । महासंकटेऽतिकृच्छूतरे । दशावतारा एव गहनमरण्यानी- सत्र क्षिप्तो निक्षित्पः । येन कर्मणा रुद्रो मृत्युञ्जयोऽपीति भावः । कपालं ब्रह्मशिर एव पाणिपुटकं करतलस्थभिक्षाहरणोचितभाजनं तत्र। भिक्षाटनं सेवते - कपालस्थभिक्षान्नं भुङ्क्त इत्यर्थः। किं च येन सूर्योऽपि सकरलोकप्रकाशकोऽपीति भावः। नियमित इति शेषः - गगनेऽन्तरिक्षे नित्यमेव न तु क्षणमात्रमपि विश्रमावकाश- इति भावः । भ्राम्यति परिवर्तते *वाभ्राशे'त्यादिना विकल्पात् इयन्प्रत्ययः। तस्मै सकलनियन्त्रे कर्मणे नमः . तथाभूतस्यैवाभि- वादनौचित्यादिति भावः ॥

या साधूध खलान् करोति विदुषो मूर्खान् हितान् द्वेषिणः
प्रत्यक्ष कुरुते परोक्षममृतं हालाहलं तत्क्षणात् ।
तामाराधय सक्रियां भगवती भोक्तुं फलं वाञ्छितं
हे साधो व्यसनैगुणेषु विपुलेवास्थां वृथा माकृथाः ॥ ९४ ॥

 व्या.-एवं श्लोकद्वयेन सकलनियामकत्वकथनपूर्वकमभि- वादनीयत्वोपयोगात्स्वयमभिवाद्य संप्रति बहुश्रेयोहेतुत्वात्तस्योपादे- यतामाह - येति.---या सक्रिया खलांश्च दुर्जनानपि साधून्करोति। मूर्खानज्ञानिनोऽपि । विदुषः पण्डितान्। करोति। द्वषिणोऽपि। हितांत्सुहदः करोति । परोक्षमतीन्द्रियमपि वस्तु। प्रत्यक्षमिन्द्रिय गोधरं । कुरुते। तथा हालाहलं विषमपि। तत्क्षणात्सद्य एवामृतं करोति - ताइक्सामर्थ्यसंभवादिति भावः । अतः हे साधो सज्जननिपुणेति वा - 'साधुस्समर्थो निपुणो वेति काशिकायाम् । वाञ्छितमभिलषितं । फलं भोक्तुमिच्छसि चेदिति शेषः । भगवती तां । सत्कियां सत्कर्माराधय - तस्याः अशेषफलदायकत्वादिति भावः। किं तु व्यसनैर्विपुलेष्वापद्भूयिष्ठेषु । गुणेषु। रजस्तमःप्रभू- तिषु वृथाव्यर्थमास्था मासक्ति। माक्रथा माविधेहि । तस्याः क्लेशैक- फलकत्वादिति भावः। करोतेर्जुछ न माङ्योग' इत्यः प्रतिषेधः ॥

अल खलादीनां साधुत्वादिकरणादशक्यवस्तुकरणरूपो विशे--घालंकारः ।।

शुभ्रं सम सविभ्रमा युवतयः श्वेतातपत्रोज्वला
लक्ष्मीरित्यनुभूयते चिरमनुस्यूते शुभे कर्मणि ।
विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटतन्तुकं
मुक्ताजालमिव प्रयाति झडिति भ्रश्यदिशोऽदृश्यताम् ॥ ९५ ॥

 व्या.-वृद्धिहान्योरप्येतन्मूलकत्वमेवेत्याह - शुभ्रमिति.---- चिरं चिरकालमारभ्यानुस्यूतेऽनुवर्तमानेऽपि * पिवु तन्तुसंताने' इति धातोः कतरि क्त: * च्छोश्शूडनुनासिके चेति अठि यणा- देशः। शुभे कर्मणि पुराकृतविशेष संभवति सतीत्यर्थः। शुभ्रं सम सौधादिकं। सविभ्रमास्सविलासाः। युवतयस्तरुण्यः। श्वेतात- पत्रणेकश्वेतच्छत्रेणोज्वला । लक्ष्मी राज्यश्रीरित्येतदखिलमित्यर्थः। अनुभूयतेऽनुमुज्यते। जन्मान्तरीयफलहेतुत्वात्तस्येति भावः। विच्छिन्ने शुभकर्मणि विनष्टे सति। नितरामतिशयेन। अनाकलहो रतिरण- रस एव क्रीडा केलिस्तया हेतुना त्रुटन भिदुरस्तन्तु येस्य तत्तथोक

  • शेषे कप्प्रत्ययः। मुक्ताजालमिव भ्रश्यत्सत्। सद्मादिकमिति

शेषः । झाडिति द्राग्दिशो प्रयाति यत्र यत्र सितं गहं तल तत्र विनश्यती' ति न्यायादिति भावः। दृश्यतां विलोक्यतामित्यर्थः. अन्वयव्यतिरे- काभ्यां वृद्धिहान्योरस्यैव कारणत्वं द्रष्यमिति भावः ।।

गुणवदगुणवद्वा कुर्वता कार्यमादी
परिणतिरवधायो यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्ते
र्भवति हृदयदाही शल्यतुल्यो विपाकः ।। १६ ।।

 व्या.–अथैषामाचरणप्रकारमा - गुण पदिति.-गुणवद्- णयुक्त भगुणवतणरहितं वा। यत्कार्यानं तत्कुर्वताऽनुतिष्ठताs - नेन। पण्डितेन परिज्ञात्रा। परिणतिः परिपाकावस्था। यत्नतः . अतिप्रयत्नेन - सावधानेनेति यावत् । अवधाऽनुसंधेया। यत्नत - एव कर्मजातमारब्धव्यम् । समालोच्य परिण नियन्तमित्यर्थः । अन्यथा नर्थमाह - अतिरभसतानां सहसाऽपितानां । कर्मणां गुणवतां- देति शेषः आविपत्तेर्निष्पत्तिपर्यन्तं बिकल्पादाडोऽसमासः-वियू- वात्पद्यतेर्निष्पय॑थत्वमुपसंगवशाद्धातूना पनका थत्वादित्यवगन्तव्यम् । हृदयदाही मनस्संतापकारी। कुत इशल तुल्यः शल्यप्रायो । विपाकः परिपाकदशा । भवति । अतस्सावधानेनैव कर्मजातमार म्भणीयं । तथाभूतस्यैव चित्तसमाधायकत्यादितिभावः ।।

स्थाल्यां वैदूर्यमध्यां पचति तिलखां चान्दरिन्धनौधैः
सौवर्णाङ्गलाििलखति वसुधामकतूरस्य हेतोः ।

छित्त्वा कर्पूरखण्डान् वृत्तिमिह कुरुते कोद्रवाणां समन्तात्

प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्यः॥

 व्या.---- अतस्सत्कर्माननुष्ठातुः दुर्मेधस्कतामाह-स्थाल्यामि- ति.-स मनुजः इह लाके - विदूरात्प्रभवति वैदूर्य वालवायज- माणिः - नि 'वैदूर्यं वालवायजमि'त्यमरः * 'विदुराञ्ञयः' इति - ज्यप्रत्ययः - अत्र विदूरशब्दो वालवायस्यादेशः पर्यायो वा तत्रोपच - रितो वा - तेन वालवायाद्रेिरसै प्रभवति - स विदूरानगरात् - तन्न संस्कृत'इत्याक्षेपः प्रत्युक्तः ॥

वालवायो विदूरं च प्रकृत्यन्तरमेव वा ।
न वै तत्रेति चेद्भूयाज्जित्वरीवदुपाचरेत् ।।

वैदूर्यमय्यां वैडूर्यमणिविकारायां - - विकारार्थे मयट् । स्थाल्यां पात्रे । चान्दनैश्चन्दनतरुसंवन्धिभिरिन्धनौधैः काष्ठभारैः । तिलस्त्रलं तिलिपिष्टं । पचति । तथा । सौवर्णैस्सुवर्णविकारै र्लाङ्गलाग्रैर्हलमुखै रर्कतूलस्य हेतोरर्काख्यवृक्षतूलार्थमित्यर्थः >> ’षष्टी हेतुप्रयोग' इति षष्ठी । वसुधां भुवं । विलिखति कर्षति। तथा कर्रपूरखण्डान् कर्पूरकदलीकाण्डां श्छित्वा । कोद्रवाणां कोरदूषाख्यसस्यविशे- षाणां - नि. 'कोरदूषस्तु कोद्रवः' इत्यमरः । समन्तात्सर्वतोऽ-- धिकमित्यर्थः । वृतिमावरणं । कुरुते । कोऽसावीदृशोदुर्भग इत्याशङ्कायामाह - इमां कर्मभूमिं कर्माचरणयोग्यभूमि प्राप्य योमन्द- भाग्यो निर्भाग्यो मनुज स्तपश्चान्द्रायणादिकम। न भजति न सेवते। इति संबन्धः; वैदूर्यपात्रे तिलपिष्टपचनादिप्रायं कर्मभुव्यस्यां - तपोऽ- ननुष्टनमित्यर्थः । अतस्सर्वथा सत्कर्मानुष्ठेयं श्रेयस्कामेनेति तात्पर्यम् ॥  अत्र यस्तपो न भजति स तिलखलं पचतीत्यादि विशिष्टभज- नपचनाद्यो वाक्यार्थयोर्निर्दिष्टकत्वासंभवात्सादृश्यलक्षणायामसंभवद्व- स्तुसंबन्धो वाक्यार्थवृत्तिर्निदर्शनाभेद इत्येतत्सर्वं मूर्खपद्तौ व्याख्या- तमितीहोपरभ्यते ॥

नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि सेवा ।
भाग्यानि पूर्वतपसा खलु सञ्चितानि ।
काले फलन्ति प्रुषस्य यथैव वृक्षाः ।। १८ ।।

 व्या --- पुण्यविशेष एव फलं न त्वन्यदित्याह.-नेति । आकृ- तिराकारसंपत्तिरेव । नैव फलति फलकारणं न भवतीत्यर्थः। कुलं सद्वंशो वा। नैवफलति । शीलं सरस्वभावो वा नफलति । विद्याऽपि वेदवेदाङ्गात्मिकाऽपि । नैव फलति । यत्नकृता प्रयत्नानुष्ठिता सेवा राजादिपरिचर्या च । न फलति । किं तु पूर्वतपसा पुराकृतसुकृतेन संचितानि संपादितानि। पुरुषस्य संबन्धीनि। भाग्यानि। वृक्षा- यथा । वृक्षाइवेत्यर्थः - 'इव वद्वा यथा शन्दा’विति दण्ड्याचार्यानु- शासनात् । काले परिपाकसमय एव फलन्ति खलु। तपोजनित. भाग्यविशेषव्यतिरेकेण फलजनकं न किंचिदस्तीत्यर्थः ।।

मज्जत्वम्भासि यातु मेरुशिखरं शत्रून् जयत्वाहवे
वाणिज्यं कृषिसेवनादि सकला विद्याः कलाः शिक्षताम् ।
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ ९९ ॥

 व्या.. --सर्वथाऽपि भाव्यभाविनोरावश्यकत्वं कर्मवशा-

देवेत्याह - मज्जत्विति । अम्भसि । मज्जतु मग्नो भवतु - जलस्तम्भा- दिनेति भावः । मेरुशिखरं। यातु गच्छतु - योगानुसंधानादिनेति भावः। आहवे युद्धे । शत्रून जयतु। वाणिज्यं क्रयविक्रयादि। कृषिः कर्षणं - सेवन परिचर्या - दौत्यादिनेतिभावः - ते कृषिसेवने च - तथा सकलाः समस्ताः । विद्याः वेदवेदाङ्गादयः ।।

"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विधा ह्येताश्चतुर्दश ॥"

इत्येताश्चतुर्दशविद्याः । कला इतिहासागमप्रभृतीश्चतुष्षष्ठि कळाश्च शिक्षताम् अभ्यस्यतु। तथा । परमुत्कृष्टं। प्रयत्नं पादुकासिद्ध्यात्मकं । कृत्वा खगवत्खगेन तुल्यं । विपुलमाकाशं प्रयातु। तथाऽपि कर्म- वशतोधर्माधर्मात्मककर्मवशादिहास्मिन् लोके। अभाव्यमभावि फलं न भवति। तथा भाव्यस्यावश्यम्भाविनः फलस्य - नाशः कुतः। तस्य ब्रह्मणाऽपि निवारयितुमशक्यत्वात् - 'यद्भावि तद्भवत्येव यदभावि न तद्भवे’दिति न्यायादिति भावः। अत्राम्भोमज्जनादीनां चतुष्पष्टि कळास्वेवान्तर्भूतत्वमवगन्तव्यम्। ताश्च कळामदीयशृङ्गार- शृङ्गाटके संख्यातास्तत्रैव द्रष्टव्या इतीहोपरम्यते ॥

ब्बने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा।
सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥

 ध्या.-अतिसंकटस्थस्यापि प्राचीनपुण्यसद्भा तु न क्षति-

रित्याह - व्न इति.-अयं तु स्पष्टोऽर्थः ।

भीमं वनं भवति तस्य परं प्रधानं
सर्वो जनः सुजनतामुपयाति तस्य ।
कृत्स्नाच भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ।। १०१ ।।

 व्या.-किं बहुना । सुकृतिनस्तावत्सर्वमप्यानुकूल्यमेव प्रया- न्तीति निगमयति.--भीममिति.-~~यस्य पुंसः। भीमं हिंस्रादि- प्राचुर्येण भयङ्करं । वनमरण्यानी कर्तृ। प्रधानं नियतं। पुरं भवति । तद्वदशेषभोगसाधनं भवतीत्यर्थः। तस्य सर्वोऽशेषोऽपि। जनः। स्वजनतां किंकरतामुपयाति । तस्य कृत्स्ना 'चतुस्समुद्रान्ता। भूः। सन्निधिभिस्समीचीनैः रत्नैर्महापद्मादिनिधानैनिक्षेपैर्वा . रत्नैः श्रेष्ठवस्तुभिश्च - पूर्णा भवति। समस्तफलानि प्रसूतइत्यर्थः। कस्ये- त्यत आह - यस्य। नरस्य । विपुलं बहुळं। पूर्वसुकृतं पुराकृत- सत्कर्मसंजातं पुण्यमस्ति वर्तते तस्येति संबन्धः। अतस्सत्कर्मा- चरणतत्परेणैव भवितव्यं श्रेयस्कामेनेति संदर्भाभिप्रायः॥

इति नीतिशतके कर्मपद्धतिः सम्पूर्णा !!