भर्तृहरिसुभाशितम्.pdf/वैराग्यशतकम्

               




   

केशानाकुलयन् दृशो मुकुलयन् वासो बलादाक्षिप-
न्नातन्यन्पुलकोद्गमं प्रकटयन्नङ्गेषु के शनैः ।
वारं वारमुदारसीत्कृतकृतो दन्तच्छदान् पीडय-
न्प्रायः शैशिरएष संप्रति मरुन्कान्तासु कान्तायते ॥ १००

 व्या.केशानिति.----केशान् शिरोरुहान् । आकुलयन् व्याकुलीकुर्वन् एकत्र विश्लेषणादन्यत्र केळिसंरम्भाच्चेति भावः। दृशो मुकुलयन्निमीलयन् - एकत्र पुरुषस्पर्शवशादपरत्र सुखपारव - श्याच्चेति भावः । वासो जयनांशुकं । बलात्प्रसह्याक्षिपन् आकर्षन् - एकत्र वेगवशादपरत्र संभोगेच्छया चेति भावः। पुलकोद्गमं रोमाञ्च मातन्वन्नुत्पादयन् एकत्र शीतस्पर्शादन्यत्र शृङ्गारोद्वोधनाच्चेति भावः आवेगेनोद्वेगेन - यः कम्पो गात्रवेपथुस्तं। शनैः प्रकटयन्मन्दमभि- व्यञ्जयन् - इति विशेषणद्वयेन सात्त्विकोक्तिः । उदाराणि मनोज्ञानि सीत्कृतानि कुर्वन्तीति तथोक्तान् । छ।द्यन्ते एभिरिति छदाः * 'पुंसि संज्ञायां घः प्रायेणे'ति धप्रत्ययः। छादेर्धेऽव्द्युपसर्गस्थे' ति ह्रस्वः दन्तानां छदाः। तानधरोष्टान् । वारं वारं पुनः पुनः पीडयन्- एकत्रशैत्यातिशयेनान्यत्र दन्तक्षतेन च व्यथन्नित्यर्थः। एषोऽयं । शैशिरो मरुत् शिशिरमारुतः । संप्रतीदानि शिशिर्तौ। प्रायो भूम्रो । कान्तासु कामिनीषु विषये । कान्तायते -

कथाभिः कमनीयाभिः काम्यै र्भोगैश्च सर्वदा ।
उपचारैश्च रमयेद्यस्सकान्तइतीरितः ' ।

इत्युक्तलक्षणः कान्त इवाघरति - उक्तविशेषणैः कान्तसादृश्यलाभात्स इव वर्तत इत्यर्थः । 'उपमानादाचार' इति क्याङ् है

अकृन्सार्वधातुकयोः ।।

 अतएवोपमा - सा च प्रायश्शब्दादिव्यञ्जितोत्प्रेक्षया संकीयते - तदुक्तमाचार्थदण्डिना -

'मन्ये शङ्के ध्रुवं नूनं प्राय इत्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दैरिव शब्दोऽपि तादृशः ॥' इति ।।
शार्दूलविक्रीडितम् ॥

इति शृङ्गारशतके ऋनुवर्णनपद्धतिः संपूर्णा ॥

॥ वैराग्यशतकम् ॥

॥ तृष्णादूषणम् ।।

चूडोत्तसितचन्द्रचारुकलिकाचंचच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।
अन्तःसार्जदपारमोहतिमिरप्राग्भारमुच्चाटयं-
श्चेतस्सदनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १

 व्या.--चूडेति.--चूडोत्तंसितस्य शिरोभूषणीकृतस्य - च- न्द्रस्य - चारुकलिकया मनोहरकोरकयेव - चञ्चच्छिखया प्रकाशमा- नाग्रेण - भास्वरः प्रकाशमानः। विलोलः चञ्चलः - काम एव । शलभः - सः लीलया विलासेन - दग्धो येन। श्रेयसां शुभानां . दशासु अवस्थासु - अग्रे पुरतः - स्फुरन् प्रकाशमानः । अन्तर्मनसि- स्फूर्जत: विजृम्भमाणस्य - अपारस्य अनन्तस्य - मोहतिमिरस्य - प्राग्भारं गुरुं प्राक्प्रदेशम्। उच्चाटयन् निरस्यन्। ज्ञानप्रदीपः ज्ञान- प्रकाशकः। हरः भक्तानां ज्ञानाज्ञानकृतमानसिकवाधिककायिकपाप- हारी भगवान् साम्बशिवः। योगिनां सनकादीनां। चेतस्सद्मनि मनस्येव गृहे विजयते सर्वोत्कर्षेण वर्तते ॥

 प्रथमतः चूडोत्तंसितेति वाक्ये घन्द्रपदग्रहणात् भक्तानां ताप हारीत्यर्थो लभ्यते। लीलादग्धेति वाक्ये कामशलभपदग्रहणात् महा- शत्रुसंहारीति लभ्यते । अन्तःस्फूर्जदिति वाक्ये मोहतिमिरपदग्रहणात् यथा उदितस्सूर्यः सर्वतिमिराणि नाशयति तथा अयमपि अज्ञाननाशं करोतीति । चेतस्सद्मनीति वाकये ज्ञानदीपपदग्रहणात् कामक्रोधादि- पङ्करहितनिर्मलचित्तानां निस्सङ्गानां योगिनां चतसि यथा वर्तते तथा रक्तानां सर्वाज्ञाननाशनं कुर्वन् ज्ञानप्रदीपो हरो विजयत इत्यभिप्रायः ॥

भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं
त्यक्तवा जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परगृोवाशङ्कया काकव-
न्तृष्णे जृम्भसि पापक पिशुने नाद्यापि तुष्यसि ॥ २

 व्या.----अथ रागस्य तृष्णामूलकत्वात्तद्गर्हणं विना न वैरा - ग्यसिद्धि रित्यभिप्रेत्य तत्सिद्धार्थमादौ नवत्तत्परिपन्थि भूतां तृष्णा दूषयति-भ्रान्तमित्यादि नवभिश्लोकॅः । तत्र प्रथमं स्वकर्मकप्टनिवे - दनपूर्वक तृष्णा संबोध्य त्रिभिर्दूपयति - भ्रान्तमिति.--अनेकैर्बहुभि द्रुगॉः पार्वत वाक्ष जलदुर्गादिभिः - विषमं बिकटं दुस्संघारमित्यर्थः देशं भ्रान्तं संचरितं। तथाऽपि । किंचि दल्पमपि । फलं धनं। न प्राप्तं न लब्धं - बहुफलापेक्षयैव दुर्गमविदेशसंचारः कृतः • फलंत्वी पदपि न प्राप्तमित्यर्थः - अत्र देशशब्दस्य नपुंसकत्वं निघण्ट्वन्तरेषु मृग्य - यद्वा - देशमुद्दिश्य भ्रान्तम् । भावे क्तप्रत्ययः - अथवा - नि. नीवृजनपदॉ देशविषयावि' त्यभिधानात् - पुंलिङ्गस्यापि देशशब्दस्य नपुंसकत्वसंबन्ध मनुवर्तत इति भाष्कारप्रयोगादिष्यते। तथा। उचितमनुरूपं । जातिकुलयोः - जातिः ब्राह्मणत्वादिः - कुलंसद्वंश:- तयोरभिमान मित्यर्थः * सापेक्षत्वेऽपि गमकत्वास्समासः । त्यत्कव विसृज्य। निष्फला फलशून्या। सेवा परिचर्या । कृता। धनाड्याना मिति शेषः । उभयत्रापि कष्टमेवावशिष्टं नत्वन्यात्किंचिदपीत्यर्थः . नि. 'लाभनिष्पत्तियोगेषु बले शल्ये धने फलमि' ति वैजयन्ती ।। तथा मानविवर्जितमभिमानशून्यं यथा तथा - बहुमानविहीन । मितिवा। आशङ्कया आकाङ्क्षया - लोलुपत्वेनेति यावत् । परगृ हेषु काकेन बलिभुजा-तुल्यं काकवत् तेन तुल्यं क्रियाचे द्वतिः' इति वतिप्रत्ययः। भुक्तम् अभिमानत्यागेऽपि न बहुमानपूर्वकं। किंतु सावमानमेव दत्तं परान्नपिण्डमभ्यवहतमित्यर्थः । तथाऽपि। पापक- र्मणां पापात्मनां - पिशुने सूचके येषां तृष्णा अत एव पापिष्ठा इति भावः-यद्वा-पापकर्मणां दुष्कर्मणां - पिशुने प्रवर्तके-इत्यर्थः - एतव्यति रेकेण दुष्कर्मप्रवर्तकान्तराभावादिति भावः । हे तृष्णे विषयस्पृहे । जुभ्भास प्रवृद्धा भवसि । किंत्वद्यापि ईहक्कष्टकर्मप्रवर्तनदशायाऽम .. पीतिभावः। न संतुष्यसि संतुष्टा न भव सि - विरतिं न प्राप्नोषी- त्यर्थः । इतः परमपि किंचिदृष्टकर्म कारयितुमपेक्षाऽस्तीवेति प्रतिभा- तीति भावः ॥ शार्दूलविक्रीडितम् ।।

उत्खातं निधिशङ्कया क्षितितलं माता गिरेातको
निस्तीर्णस्सरितां पतिपतयो यत्नेन सन्तोषिताः ।
मन्त्राराधनतत्परेण मनसा नीताश्मशाने निशाः
प्रातः काणवराटकोऽपि न मया तृष्णे! सकामा भव।। ३

 व्या.--उत्खातमिति-निधिशङ्कया निक्षेपोऽत्र तिष्ठतीति. भ्रान्त्या। क्षितितलं किंचिदिष्टकादिनिचितभूतलमुत्खातमवदारितं - तत्र न किंचिल्लब्धमित्यर्थः। तथा गिरेर्धातवः मनशिलाद्याः । ध्माताः सुवर्णभावं प्राप्स्वन्तीति घिया अग्नौ मूषायां समूलिकाविशेष निक्षिप्य यावत्प्राणं पृत्कारैस्संतापिता इत्यर्थः - तथाऽपि न किंचिज्जातमिति भावः ध्माशब्दाग्नि (व) संयोगयोरि त्यस्मा- द्धातो. कर्मणि क्तः - नि-धातुर्मनश्शिलाद्यद्रेरियमरः • अन्यत्रा प्युक्तम्---

"सुवर्णरूप्यताम्राश्महरिताला मनश्शिलाः ।
गॉरिकाञ्जनकाश्मीरलोहसीसास्सहिङ्गलाः ।
गन्धकाभ्रकमित्याद्या धातको गिरिसंभवाः ।।" इति-

 अत्र सुवर्णरूप्यव्यतिरेकेणैव योज्यमन्यथा प्रकृतासंगतेरिति! तथा सरितां पतिस्समुद्रो। निस्तीर्णः द्वीपान्तरेषु वाणिज्येन बहुधनं संपा- दयिष्यामीति सांयात्रिकभावेन विलचित्त इत्यर्थः । नृपतयो राजानश्च यन्नेन छन्दानुवर्तनम्पप्रयत्नेन। संतोषिताः। तथा मन्त्राराधनतत्प- रेण मन्त्रजपतात्पर्यवता मनसा हेतुना । श्मशाने प्रेतभूमौ । निशा रात्रयो। नीताः यापिताः भूतप्रेतपिशाचादिभ्यो भयमविगणय्य निध्यादिप्रदर्शकदेवताभिमुखीकरणसाधनमन्त्रजपतात्पर्येण निशासु श्मशाने स्थितमित्यर्थः ॥ तथाऽपि मया काणवराटकः अन्धकप- दोऽपि न प्राप्तः - धनं तु दूरापास्तमिति भावः नि.- कपर्दश्च वराटक' इति हलायुधः। अतः। तृष्णे। सकामा सफलमनोरथा । भव । त्वत्प्रतिज्ञातार्थनिष्पत्तेः सिद्धसंकल्पा भवेत्यर्थः; इत्थमनर्थहेतु- भूतया तृष्णया वृथा व्यापारजनितश्रम एवावशिष्टो न वाञ्छितलाभ इत्यतस्तदुन्मूलने यन्त्रः कर्तव्य इति भावः ॥

खलालापास्सोढाः कथमपि तदाराधनपरै-
र्निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ।

कृतो विचस्तम्भप्रतिहतधिया मञ्जलिरपि
त्वमाशे ! मोघाशे ! किमपरमतो नर्तयसि माम् ॥ ४

 व्या.-----खलालापा इति.-~-खलानां दुर्जनानामालापाः दुर्भाषितानि। तदाराधनपरैस्तत्सेवातत्परैरस्माभिरिति शेषः। कथ मप्यतिकृच्छ्रेग । सोढाः क्षान्ताः - - अन्यथाभावे कार्यभङ्गो भवे - दिति भयादिति भावः । तथा। अन्तरभ्यन्तर एव - बाष्पं तदा लापश्रवणजनिताशु । निगृय नियम्य । शून्येन निरुत्सुकेन। मनसा उपलक्षितॅर्निर्भिन्नान्त:करणॅरित्यर्थः। हसितं हासोऽपि कृत इति शेषः कर्तरि क्तः - दुरालापैराक्षिणा अपि ते संतोषवन्त एव न तु निर्विण्णा अतो विश्वसनीया इति यत्पादनार्थ निर्विपयमिथ्याहा- सोऽपि विरचित इत्यर्थः । तथा। वित्तेन धनेन - यः स्तम्भो जडी- भाव-स्तेन प्रतिहता मूढा विवेकशून्येति यावत् - धीर्येपान्तेषां धनदु र्मदान्धानामित्यर्थः - नि. 'स्तम्भौ स्थूणाजडीभावा वि' त्यमरः। अञ्जलिरपि कृतः प्रह्विभावोऽपि विहितः-तथाऽपि न किंचिल्लब्धमिति भावः । अत: मोघाशे व्यर्थमनोरथे। आशे तृष्णे - नि. - आशातृ- ष्णादिशोः प्रोक्ते' इति विश्वः। त्वं मामतोऽस्मात्खलालापादिसहनादि- कृत्यात्। अपरामितरत। किं कार्य नर्तयसि नाटयसि मया किं कार्य कारयसीति यावत् - न किमपीत्यर्थः - नाटयितव्यार्थस्य वैयर्ध्यादिति भावः ननु पूर्वश्लोके मयेत्येकवचनं प्रयुक्तं - अत्र' तु तदाराधनपरैरिति बहुत्वं - कथमेतत्समञ्जसमिति चेत्सत्यं - तृष्णोपहतानां बहुत्त्वात्तत्प्रयुक्ततत्तत्कर्मकर्तृभेदेन कधिदेकवचनं क- चिद्वहुवचनं च विवक्षितमित्यवधेयम् । एवमुत्तरत्रापि योज्यम् ।। शिखरिणीवृत्तम् -- रसैरुद्रहिंछन्ना यमनसभलाग शिखरीणी 'ति लक्षणात् ॥

अमाषां प्राणानां तुलितबिसिनीपत्रपयसां
कृते किं नामाभिर्त्रिगळितविवेकैर्व्यवसितम्।
यदाढ्यानामग्रे द्रविणमदनिस्संज्ञमनसां
कृतं मानवीडॅनिजगुणकथापातकमपि ॥ ५

 व्या.--अथ तृष्णादुर्विलसितेनैव महदनुचितमप्याचरित - मित्याह - अभीपामिति -किंच तुलितानि समीकृतानि - बिसिनी पत्रपयांसि - येषां तेपां - नलिनीदळगतजललवतरळानां-क्षणभङ्गुराणा मित्यर्थः । अमीषामविश्वसनीयानां प्राणानां कृते - एतत्प्राणत्राणा र्थमित्यर्थः - नि. ' अर्थे कृ शब्दो द्वौ तादर्थेऽव्ययसंज्ञिता वि ति वचनात् । विगलितः भ्रप्टः - विवेकः कर्तव्याकर्तव्यविचारो-येषां तैरस्माभिः । किं दुष्कर्म । न व्यवसितं नोद्युक्तं - सर्वमपि व्यवसित मेवेत्यर्थः । कुतः - यद्यस्मात्कारणात् द्रविणमदेन धनमदेन। निस्सं ज्ञानि स्तम्भितानि - मनांसि येषां तेषां - विमर्शशून्यान्तःकरणाना माढ्यनां धनिकानाम् । नि. - 'इभ्य आम्चो धनी स्वामी'त्यमरः । अग्रे पुरस्तात्। * मानव्रीडैर्निर्लज्जॅ रस्माभि निजगुणकथा - पातकं स्वकीयविद्याविनयादिगुणप्रशंसारूपपापमपि । कृतं; तच्च निषिद्धम् - ' आत्मप्रशंसा मरगं परनिन्दा तथैवचे ति वचनादा - स्मगुणप्रशंसैवात्मोपघातः - तस्य च निरयप्रापकत्वेन पातकत्वं च ; निजगुणप्रख्यापनेन धनं संपाद्य तेन प्राणान्संतर्पयिष्याम इत्या

शयेनेदृशानुचितमाचरितं - तथाऽपि न तल्लव्धमित्यपि शब्दार्थः ॥

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषत-
स्सोढो दुस्सहशीतवातपवनकेशो न तप्तं तपः ।
ध्यातं वित्तमहर्निशं नियनितग्राणॅर्नशम्भोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलॅर्वंचिताः॥ ६

 व्या...---अथ यद्यप्युचितमेवाचरितं तथाऽपि तस्या याथा तथ्यान्न फलोफधायकमभूदित्याह-क्षान्तमिति..---सत्येवाऽपि परि - भवहेतौ मनसोऽनुद्वेगः क्षमा - तया न क्षान्तं न सोढम् - अवमा - नादिकमिति शेषः - किं त्वशक्ततयैवेति भावः । तथा । गृहे - उचितं युक्तं यत् सुखं मृष्ठान्नभोजनकळत्र संभोगादिजनितानन्दादि । तच्च। संतोषतः किमनेन तुच्छेनेत परितोषान्न त्यक्तं - कित्वसं भावित ब्रह्मचर्येणवेति भावः । तथा दुस्सहा स्सोहु मशक्या: - ये शीतवाततपनैः - ग्लशा दुःखानि - ते । सोढाः क्षान्ताः - देहया त्रार्थं देशान्तरसंचारे तेपामनुभूतत्वादिति भावः । तपश्चान्द्रायणा - दिकं तु । न तप्त न चरितं तथा। नियमितप्राणै रन्तः प्रत्याहतप्राणै- रस्माभिः । अहश्च निशा चाहर्निशम् - अहोरात्रं * * अचतुरे' त्यादिना निपातनात्साधुः। वित्तं । ध्यातं चिन्तितं शंभोः पदं न ध्यातं । अतो मुनिभि र्यद्यत्कर्म कृतम् अवमानसहनादिकमाच - रितं । तत्तदेव कर्म अस्माभिश्च कृतं। किंतु तैस्तैस्तत्तत्कर्मनियतैः । फलैर्वाञ्चिता वर्जिताः । तेषामयथाचरणेन वैगुण्यात्फलभाजो न जाता. इत्यर्थः ; क्षन्त्यादिनैव यद्यवमानादिकं क्षान्तं स्यातर्हि फल - लाभो भवेदेव - नतु तदाचरितम् ; अयं चानर्थस्तृण्णादुर्विलसितमूल

एवेति फलितार्थः ॥ शार्दूलविक्रीडितंवृत्त - लक्षणं तूक्तम् ।।

भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव यातास्तृष्णा न जीवियोव जोर्णाः।।

 व्या.---अथ त्रिभिर्जरादूषणद्वारा तृष्णां निन्दति - भोग इति.---भुज्यन्त इति भोगाः स्त्रक्चन्दनादिविषया । न भुक्ता नानु- भूताः । किंतु वयमेव भुक्ताः तत्प्राप्त्यर्थ दुरन्तचिन्तया प्रस्ताः । तथा । तपः व्रतोपवासादिपुण्यं । न तप्तं नाचरितं । किंतु वयमेव तप्ताः आध्यात्मिकादितापत्रयेण संतापिताः । तथा । कालोन यात: न गतः - तस्याखण्डदण्डायमानत्वेन यानासंभवादिति भावः । कि तु वयमेव याताः जीवितावधिकाल मु ल्लङ्घयावसानं प्राप्ता इत्यर्थः । अथवा कालो न गातः सदाचारसज्जनसहवासादिना न गतः - तथा चेच्छेयो भवेदेवति भावः - किंतु वयमेव याताः देहगेहादियो- गक्षेमानुसंधानलम्पटत्वेन कालमतिक्रम्य गता इत्यर्थः । तथा ! तृष्णा न जीर्णा न शिथिला-तच्छैथिल्यहेतो रनुपस्थितत्वादिति भावः। किंतु वयमेव जीर्णाः तृष्णासहकृतजरया शिथिलाङ्गा जाता इत्यर्थः। अतः इतः परंवा । क्षिप्रं खट्वाङ्गधारि चिन्तनेनैव तृष्णोन्मूलनहेतु स्संपादनीय इति भावः ॥

 इन्द्रोपेन्द्रवज्रालक्षणश्रवणादुपजाति वृत्तम् - • अनन्तरोदी रित लक्ष्मभाजॅ पादौ मदीयावुपजातयस्ता ' इति लक्षणात्॥

वलिभिर्मुखमाक्रान्तं पलितेनांकितं शिरः।
गात्राणि शिविलायन्ते तृष्णैका तरुणायते ॥ ८

 व्या.-~-लिभिरिति....वलिभिर्जराविश्लथचर्म रेखाभिर्मुखं वक्त्र माक्रान्तं - बैरूप्यं प्रापितमित्यर्थः । पलितेन जरसा शौक्ल येन । शिरः मस्तकम् । अङ्कितं चिह्नितं - शिरः केशादयो धवळा जाताः इत्यर्थः । तथा गात्राणि करचरणाद्यवयवाः - अवयविवाचिनो गात्रशब्दस्यावयवार्थत्वं लक्षणया वेदितव्यम् - अवयवावयविनो रभे दविवक्षया वा-न च गात्रबाहुळ्यविवक्षायां यथा श्रुतमेव समञ्जस- मिति वाच्यं - मुखं शिरइत्येकवचनप्रयोगविरोधात् - ननु तत्रापि - जात्येकवचनग्रहणे न कोऽपि विरोध इति चे-किमनेन बकबन्धनप्र - यासेनेत्यलमतिप्रसङ्गेन। शिथिलायन्ते शिथिलानीवाघरन्ति जराज- र्जरभावविश्लिप्ट संधिवन्धतया कार्यकरणासमर्थ न जायन्त इत्यर्थः । किंतु । एका तृष्णा । तरुणायते तरुणीवाधरति - बलिया जाते त्यर्थः। जरया सर्वमप्येवं विशकलितं न तृष्णोति महदेतदाश्चर्य मितिभावः - उभयत्रापि , ' कर्तुः क्यङ्सलोपश्चे' ति क्यङ् ' अकृत्सार्वधातुकयो र्दीघे' इति दीर्घः ॥

निवृत्ता भोगेच्छा पुरुषबहुमानोऽपिगळित-
स्तमानास्वर्यातास्सपदि सुहृदो जीवितसनाः ।
शनैर्यष्टु बत्थानं घनतिमिररुद्रे च नयने
अहो मूदः काश्रस्तदपि भरणापायचकितः ॥ ९

 व्या..निवृत्तेति — भोगेच्छा विषयानुभवस्पृहा । निवृत्ता। विगता। अत्र जरादूपणाभिनिवेशपारवश्येनेत्थमुक्तं- तेन · तृष्णॅका- तरुणयत' इत्यविरोधः। पुरुप इति यो। बहुमानस्सम्मानस्सोऽऽपि गळितः अपगत-स्तत्प्रयोजकपौरुषाधपायादिति भावः-यद्वा-पुरुषाणां बहुमानस्तत्कर्तृकसम्मान-स्सोपिं गळित: - पूर्ववत्पुरुषादिना न बहु - मन्यत इत्यर्थः- इत्यर्थः तादृशगौरवालाभादिति भावः । अथ परेतबान्धवशोचनापदेशेन स्वस्यापशदतां सूचयन्नाह- जीवितसमाः प्राण- तुल्याः अत्यन्तप्राणतुल्या इत्यर्थः। सुह्रदो बन्धवश्च । समाना सबहु- मानास्सन्त स्सपदि सद्यएव जरावस्थायाः प्रागवेत्यर्थः । स्वर्याताः स्वर्गगता:-निजसुकृतपाकेन पुण्यलोकं गता इत्यर्थः-जरादुर्दशापत्त्या बहुमानरहितोऽहं न यातो हीनजीवन इति भावः - यद्वा - समाना स्सवयसः - जीवितसमा बन्धवश्व - सपदि सद्यएष दुरवस्थापत्तेः पूर्वमेवेति भावः - स्वर्याता लोकान्तरं गताः - न त्वहमित्यर्थः -नि. 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालया' इत्यमरः । ननु कंचित्कालं स्थीयतां किमनेन अमङ्गळाशंसनेनेत्यत आह - शनैर्मन्दं । यष्ट्युत्थानं यष्ट यवष्टम्भनेनोस्थानं - प्राप्तमिति शेषः - पादपाटवविघट्टनात्स्वय - मुत्थाने संचारे या शक्तिर्नास्तीत्यर्थः नत्वेतावन्मात्रमेव - किंतु नयने चक्षुषी घ प्रगृह्यत्वादस्य अहो इत्यनेन संध्यभावः । घनं निबिडं - यत्तिमिरं पाटलाख्यनेत्ररोगविशेषो वैद्यशास्त्रप्रसिद्धः-नि. 'तिमिरं ध्वान्ते नेत्रामयेऽपि चेति विश्वप्रकाशश्च - तेन रुद्धे निरुद्धशुद्धप्रसारे अर्थग्रहणासमर्थे जाते इत्यर्थः - अन्धकपङ्कजीवना द्वरं मरणमेवेति भावः । एतत्सर्वमनर्थजातं जराकृतमेवेति हृदयं । तदपि तथाऽपि। मूढः ज्ञानहीनः । कायो देहः । मरणेन योऽपायो विश्लेषः - नाश 'इति यावत् - तस्माच्चकितो भीतः भवतीतिशेषः ; अत्र देहिधर्मः तदु पाधौ देहे उपचर्यते। अहो ईदृकष्टदशायामपि जीविताशैव बली - यसी न विज्ञानोदय हत्याश्चर्यमित्यर्थः । एतदपि तृष्णाविलसितमे -.

वेति भावः। शिखरिणी वृत्तम् ॥

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः॥ १०

 व्या.-नन्वेतादृशतृष्णामुल्लङ्घय स्वात्मसुखानुभवतत्पर। ये केचन महान्तस्सन्ति किमित्याशङ्कय सन्त्येवेति निगमयन् तस्याः पृथग्जनदुस्तरतरत्वद्योतनार्थं महानदीत्वं रूपयति - आशेति.-- मृष्टान्नपानभोजनविचित्राम्बरभूषणषोडशवार्षिककामिनीसंभोगादि - गोचरमानसव्यापारा मनोरथास्त एव जलानि यस्यास्सा तथोक्ता। अप्राप्येष्वप्यर्थेषु प्राप्त्यभिलाषविशेषाः तृष्णास्ताभिरेव तरङ्गैः कल्लोलै- राकुलासङ्कुला । अभिमतवस्तुषु स्नेहो रागः - उपलक्षणमेतद्देषादीनां तथा च रागद्वेषादय एव - ग्राहा नक्रादयस्त्वस्यां सन्तीति तथो. क्ता। तत्तत्पदार्थलाभालाभगोचराः वितर्काः - त एव विहगाः कारण्डवादिपक्षिणो - यस्यां सा तथोक्ता । ‘मनसोनिर्विकारत्वं धैर्यं सत्स्वपि हेतुस्वि' त्युक्तलक्षणं धैर्यं - तदेव द्रुमः - तं ध्वंस- यति उन्मूलयतीति तथोक्ता। अज्ञानं मोह एव • तद्वृत्तयो दम्भद- र्पादयो लक्ष्यन्ते • तथा च - मोहाः अज्ञानवृत्तय - एवावर्ता जल भ्रमास्तैस्सुदुस्तरा मुष्टु तरितुमशक्या। अतिगहना - एकत्र दुर्विभा- व्यस्वाभाव्यादन्यत्र दुरवगाहत्वाच्चेत्थमिति निर्णेतुमशक्येत्यर्थः । इष्टाधिगमजनितध्यानं चिन्ता - बहुविधत्वेऽपिः चिन्तानां तटद्वयरूपणोपयोगार्थं द्वित्वं वक्ष्यते - तथा प्रोत्तुङ्गे अत्युन्नते - चिन्ते एव तटे • यस्यास्सा तथोक्ता। आशा नाम नैकविधात्यायतातृष्णा - नि. - दशाऽवस्थानैकविधाऽत्याशा तृष्णाऽपि चायते' त्यमरः । नामेति प्रसिद्धौ - आशेति प्रसिद्धेत्यर्थः । या नदी वर्तत । इति शेषः - यत्तदोर्नित्यसंबन्धात्। तस्या आशानद्याः। पारं गताः ज्ञानप्नवेनेति भावः। अत एव विशुद्धमनसोनिर्मलान्त:करणाः । योगीश्वरा महायोगिनः । नन्दन्ति ब्रह्मानन्दमनुभवन्तीत्यर्थः । अतस्सर्वदा तृष्णातरणोपायोऽन्वेषणीयः श्रेयस्कामेनेति भावः ।।

इति शृङ्गारशतके दुर्विरक्तपद्धति सम्पूर्णा ।।

॥ विषयपरित्याग विडंबनम् ।।

न संसारोत्पन्नं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महान्तो जायते व्यसनामिव दातुं विषयिणाम् ॥ ११

 व्या.----यदुक्तं योगिन स्तृष्णानदीं तीर्त्वा नन्दन्तीति - तत्र विषयपरित्यागमन्तरा तदसंभवादथविषयपरित्यागविडम्बनो - च्यते - अथेति.—अथ तृष्णादूषणानन्तरं। विषयाणां रूपादीनां - नि.-रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी'त्यमरः . यद्वा . स्रक्चन्दनवनितादिभोग्यवस्तूनां - परित्याग स्सन्यासस्तस्य विडम्ब- लाऽनुकरणमभिनय इति यावत् - उच्यत इति शेषः - तत्प्रकारमे- वाह दशभिः - न संसारोत्पन्नमिति.-संसारे अनादिभवपरम्प-- रायामुत्पन्नमुदितं - फलोद्देशेनानुष्ठितामति यावत्। चरितं पुण्या- चरणम् * आदिकर्मणि कर्तरि चेति कर्तरि क्तः। कुशलं क्षेमकरं। नानुपश्यामि नानुसंदधामीत्यर्थः। कुत एतद्वैपरीत्य मित्या- शङ्कथ तत्रोपपत्तिमाह - विपाक इति - पुण्यानां पुराकृतसुकृतानां । विपाकस्संपद्परूपरिपाकः। विमृशतः तत्फलं परामृशतः । मे मम। भयं । जनयत्युत्पादयति - तत्पर्यालोचने संपदा पुण्यव्ययलभ्यत्वेन विपद्परूत्वाद्भयजनकत्व मित्यर्थः - अत एवोक्तं कविकुलसार्वभौमैन श्रीहर्षेण - 'पूर्वपुण्यविभवव्ययलब्धा स्संपदो विपद एवं विमृष्टा' इति - अथ वा - पुण्यानां ज्योतिष्ट्रोमादिसत्कर्मणां। विपाकः सर्गा- दिरूपफलपरिणामः । विमृशतः पूर्वोत्तरं पर्यालोचयतो। मे भयं जनयति क्षीणे पुण्ये मर्त्यलोकं विशन्तीति' भगवद्वचनात् - याव- न्नियतकालं स्वर्गसुखमनुभूय पुण्यक्षये सति पुनमर्त्यलोकप्रवेशे महा विषादगर्भ निरयवासजन्मपरम्परादुःखप्रभवत्वाद्भयङ्करत्वमित्यर्थः । अतः शकुलं न पश्यामीति संबन्धः ।। एवं तत्फलभूतानां भोगाना. मध्यनर्थहेतुत्वमेवेत्याह - महद्भिः भूयिष्टैः पुण्योधैः पुण्यसंचयैः - हेतुभिश्चिरपरिगृहीताश्चिरकालमारभ्य संगृहीता। विषयाश्च भोगा अपि। विषयिणां विषयासक्तानां। व्यसनं विपत्ति दुःखमिति यावत्। दातु मिव दातुमेव - इव शब्दोऽत्रावधारणार्थकः - न तूत्प्रेक्षाभिव्यञ्जकः • अन्यथाऽर्थान्तरन्यासदिति वेदितव्यं । महान्तः प्रवृद्धा! जायन्ते भवन्ति - व्यसन प्रदानप्रवणैव एतद्धिः नान्यदा- नप्रवणेत्यर्थः । एव मैहिकामुष्मिक भोगानामनिष्टानुबन्धित्वात्त. त्त्याग एव श्रेयानिति भावः ॥ शिखरिणीवृत्तम् ।।

अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया
वियोगे कोभेदस्त्यजति न जनो यत्स्वय ममून् ।

वूजन्तस्वातन्त्र्यादतुलपरितापाय मनस
स्वयं त्यक्ता ह्येते शमसुख मनन्तं विदधति ।। १२

 व्या.---अथ सर्वथा विषयाः परित्याज्या इति वक्तुं तेषां व्यवस्थिति माह - अवश्यामिति ----विषया भोगाश्चिरतरं बहुकालम् । उषित्वा स्थित्वाऽपि * 'वसति क्षुधोरि' तोडागमः * ‘वचि स्वपी' त्यादिना संप्रसारणम्। अवश्यं नियतं सिद्धमिति यावत्। यातारो गन्तारः - आगमापायित्वेनास्थिरत्वात्परिचयानादरेण पुरुषं त्यक्त्वा यातार एव - न तु परिचयवशाद्यावज्जीवं स्थातार इत्यर्थः - तदुक्तं भगवता-

“मात्रास्पर्शाश्व कौन्तेय शीतोष्णसुखदुःखदा:-
आगमापायिनोऽनित्यास्तां स्तितिक्षस्व भारत ॥” इति--

 *यात्तेलुट्। अतः वियोगे विषयविरहे। को भेदः कोवा विशेषः न कोऽपीत्यर्थः - स्वकर्तृकत्यागे वा पुरुषकर्तुकत्यागे वा तस्य जाय- मानत्वादिति भावः। तथाहि । यद्यस्मात्कारणात् । जनो विषयासक्तः पुमान् । अमूम् विषयान् स्वयं न त्यजति गुणान् गृहीत्वा न विसृ- जति - स्वय मेव त्यजति चेत्तर्हि तेन कृतार्थो भवेदिति भावः - एतेन विषयकर्तृकत्यागे तु न कृतार्थत्वमिति सूच्यते। ननु कुत एतद्वैषम्यमित्याशङ्कय तत्र व्यवस्थामाह - स्वातन्त्र्यात् कर्तृत्वात् - खाच्छन्द्यादिति यावत् * स्वतन्त्रः कर्ते'त्यनुशासनात् । त्यजन्तः पुरुषं विसृजन्तस्सन्तः - विषयां इति शेषः। मनसः अतुलपरिता- पाय दुरन्तसंतापाय भवन्तीति शेषः - अत्यन्त दुःखकारिणो भव. न्तीत्यर्थः। स्वयं स्नवे को पुरुषेण। त्यक्ताः तुच्छत्वभावनया 15. विसृष्टाश्चेत्तर्हि । एते विषया। अनन्तमपरिच्छिन्नं। शमसुखं परमा- नन्दमिति यावत्। विदधति कुर्वन्ति हि - हिरवधारणे - तदुक्तं-

"यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्-
तृष्णाशमसुखस्यैते नार्हतष्षोडशी कळाम् ॥” इति।।

 अतोऽनर्थापादक विषयकर्तृकत्यागात्पूर्वमेव स्वयं तत्त्यागतत्परेण भवितव्यं श्रेयस्कामेनेति भावः॥  वृत्तं पूर्ववत् ।।

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं
यन्मुंचन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो नि:स्पृहाः ।
सम्प्राप्तान्न पुरा न सप्रैति न च प्राप्तो दृढप्रत्ययो
वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ १३

 व्या..-ननु कीदृग्विधाः पुरुषा विषयत्यागसमर्था इत्याका-' ङ्क्षायां ज्ञानिन एव समर्था न तु मादृशा इत्याह - ब्रह्मेति..---ब्रह्म- ज्ञानेन यो - विवेकस्तत्त्वविचारस्तेन - निर्मला निष्कलङ्का - असंभावनादिरहितेति यावत् - साधीर्येषां ते ज्ञानवन्त इत्यर्थः । दुष्करं कर्तुमशक्यं। कुर्वन्ति । अहो इत्याश्चर्ये । किं तद्दुष्करमि - त्याह - यद्यस्मादुपभोगं भजन्तीत्युपभोगभाञ्जि स्रक्चन्दनादि - भोगसाधनत्वेनानुभूयमानान्यपीत्यर्थः- धनानि वित्तानि । निःस्पृहाः निरीहास्सन्तः । एकान्ततः नितान्तं निरवशेषमिति यावत् । मुञ्चन्ति विसृजन्ति इदमेवातिदुष्करमत्यन्ताश्चर्यं चेत्यर्थः । वयमस्मद्विधा अज्ञानिनस्तु। पुरा पुरातनकाले न संप्राप्ताम्नाधिगतान् । तत स्संप्रती- दानीं वर्तमानकालेऽपि । प्राप्तौ वा भविष्यकाललाभेऽपि वा न दृढप्रत्ययान्न दृढविश्वासान् - अविश्वसनीयानिति यावत् - कालत्रयेs 'प्यसंभाव्यमानानित्यर्थः . नि. प्रत्ययोऽधीनशपथज्ञानविश्वासहे तुष्वि ' त्यमरः। किं तु। वाञ्छामात्रपरिग्रहान्मनोरथमात्रसंगृ - हीतार- मनोव्यापारमात्र गोचरी कृतानपीत्यर्थः - अनुभूयमानांस्तु किमुतेति भावः - विषयानिति शेषः । त्यक्तुं परमत्यन्तं न शक्ता अमर्थाः - अतस्त एव धन्या इति भावः - 'शकघृषे' त्यादिना तुमुन ; विषयपरित्यागे ब्रह्मज्ञानमेव मुख्यसाधनमतस्तत्संपादनेन तत्परित्यागोऽवश्यं कर्तव्य इति फलितार्थः ॥

 शार्दूलविक्रीडितम् ॥

धन्यानां गिरिकंदरेषु वसता ज्योतिः परं ध्यायता-
मानन्दाश्रुजलं पिबन्ति शकुना निश्शङ्कमङ्केशयाः ।
अस्माकं तु मनोरथोपरचितप्रासाद वापीतट-
क्रीडाकामनकेळिकौतुकजुषामायुः परं क्षीयते ॥ १४

 व्या.---- उक्तमेवार्थं भङ्ग्यन्तरेणाह - धन्यानामिति...- गिरिकन्दरेषु गिरिगह्वरेणु - नि. दरी तु कन्दरो वा स्त्री' त्यमरः । वसतां विविक्ततया वर्तमानानां - 'विविक्तसेवी लध्वाशी 'ति वध नादिति भावः । तथा। परं ज्योतिः परं ब्रह्म । ध्यायतां। धन्यानां पुण्यशालिनां - नि. 'सुकृती पुण्यवान् धन्य' इत्यमरः' आनन्देन ये - अश्रुकणाः बाष्पविन्दवः - तान् । निश्शङ्कं तेषां तपः प्रशान्त - स्वान्निर्भयं यथा तथा । अङ्के के शेरत इत्यङ्के शयाः उत्सङ्गवर्तिनः

  • अधिकरणे शेतेरि' त्यच्प्रत्ययः । शकुनाः । पक्षिणः पिबन्ति । किंतु।

मनोरथेन वाञ्छामात्रेणोपरचिताः याः - प्रासादेषु हर्म्पेषु - वापीतटेष्वल्पसरस्तीरेषु - क्रीडाकाननेद्यानेषु च - केळयो विहारास्तासु - कौतुकजुषामौत्सुक्यभाजामस्माक मायुः परम् आयु रेव । क्षीयते नश्यति - दुर्लभविषयचिन्तातत्परैः वृथा कालो यापितः न तु तत् ब्रह्मज्ञानं संपादितम् - अतो वयमपि तथा न धन्या इति । भावः ॥ वृत्त मुक्तम् ॥

भिक्षाऽशनं तदपि नीरसमेकवारं
शल्या च भूः परिजनो निजदेह्रमात्रम् ।
वस्त्रंविशीर्णशतखण्डमयी च कन्था
हाहा तथाऽपि विषया न परित्यजन्ति ॥ १५

 व्या.—अथ कस्यचिद्विषयाभिभूतस्य निर्वेदनवचनमभिनी - याह- भिक्षाशनमिति.--भिक्षा भैक्षमित्यर्थः । अशनमाहारः । तदपि भिक्षान्नाशनमपि । नीरसं मधुराम्लादिरसहीनं । तदप्येकवारं - न तु द्वित्रिवारमित्यर्थः । शय्या शयनीयं च । भूः - साऽप्यास्तरणादि - रहितति भावः । परिजनः । सेवकजनः । निजदेहमानं स्वस्य स्वय- मेव परिजनो न तु कश्चिदन्योऽस्तीत्यर्थः । वस्त्रमाच्छादनं च विशीर्णा शतखण्डमयी विशेषेण जीर्णा एकचीवरशकलनिर्मिता। कन्था। तथाऽपि ईदृक्कष्टदशायामपि । विषयाः भोगवाञ्छाः । न परित्य . जन्ति न विसृजन्ति - मामिति शेषः । हाहेति विषादविस्मयाति - शयाभिनिवेदनार्थाद्विरुक्तिः । पापिष्टा इमे विषया हतमेव घ्नन्तीति. भावः ॥

 अत्र विषयपरित्यागकारणसामग्रयां सत्यां कार्यानुदयाद्विशे षोक्तिरलंकार:- तत्सामग्रन्या मनुत्पत्तिर्विशेषोक्ति र्निगद्यत' इति लक्षणात् ॥ वसन्ततिलकावृत्तम् ॥

स्तनौ मांगग्रंथी कनककलशावित्युपमितौ
मुख श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिकरशिरस्सपर्धि जघनं
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ १६

 व्या.—अथ विषयाणां कामिनीप्राधान्यात्तद्दूषणाभावे तत्प- रित्यागो न सुकर इति मनसि निधाय तो दूषयति - स्तनाविति.--- स्तनो कुचौ। मांसग्रन्थी मांसपिण्डौ। तथाऽपि। कनककलशौ अनर्घ्यहिरण्मयकुम्भावित्युपमितौ उपमाविषयीकृतौ - कनककलश- कल्पत्वेनोपवर्णितावित्यर्थः । मुखं वक्त्रं तु श्लेष्मागारं कफलालाद- न्तमलादिस्थानं तदपि च ; शशाङ्केन सुधारसमयेन चन्द्रेण । तुलितं समीकृतं - तत्तुल्यत्वेनोपवर्णितमित्यर्थः * अत्र तुलितशब्दस्य सा- दृश्यवाचित्वात्तद्योगेऽपि न * 'तुल्यार्थैरतुलोपमाभ्यामिति तृती- याप्रतिषेधः - अत्र सूत्रे सदृशवाचिन एव ग्रहणादिति । जघनं कटि- पुरोभागस्तु - नि. 'पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुर' इत्यमरः। स्रवता मदनसदनदार्ढ्याभावादृ्वता - मूत्रेण - क्लिन्नमा- र्द्रम् - अपवित्रमित्यर्थः । तदपि । करिवरशिरःस्पर्धिमजलपरिप्लुति श्लाघ्यगजेन्द्रकुम्भस्थलसदृशमित्युपवर्णितमिति भावः। अतः। मुहुः पीनः पुन्येन । निन्द्यं ग्रन्थ्याद्याकारेण जुगुप्स्यं । रूपं स्तनाद्यवयव- स्वरूपं कामिन्या इति शेषः । कविजनविशेषैः तत्तद्विशेषकल्पना चतुरकवीश्वरैः ।गुरुकृतंकनककलशादिसादृश्यवर्णनेन श्रेष्ठीकृतं। कविजनवाङ्मात्र सारमेवैतद्रूपं न तु स्वतस्सिद्धसारवदिति भावः ।। अत्र मांसग्रन्थित्वेन स्तनयोमर्दनानर्हत्वं । श्रेष्मागारत्वेन मुखस्य चुम्बनाद्ययोग्यत्वं । स्रवन्मूत्रश्लिन्नत्वेन जघनस्य हेयतया संभोगापा- त्रत्वं च सूचितम् ।। एतत्कृत एव कामिनीनां संभोगास्पदत्वेनाभि मतत्वम् - इदमेवत्थं जुगुप्सितत्वेन दूषितं चेत्तर्हि किमन्यत्कामि • न्यां भोगयोग्यमस्तीति श्लोकतात्पर्यम् - तदुक्तं -

 'हासोऽस्थिसंदर्शनमक्षियुग्ममत्युजलं तत्कलुषं वसायाः। स्तनौ च पीनौ पिशितास्नपिण्डौ स्थानान्तरे किं नरको नः योषित् ?' इति शिखरिणी ॥

एको रागिषु राजते प्रियतमा देहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः।
दुर्वारस्मरवाणपन्नगवि.व्याविद्धमुग्धो जन-
श्शेषः कामविडंबितान्न विषयान् भोक्तुं न मोक्तुं क्षमः ।।

 व्या.--अथैकः परमेश्वर एवैकान्ततोऽनुरक्तो विरक्तश्च अन्य- स्तु तथाऽननुरक्तत्वादविरक्तत्वाच्च परिक्लिष्ट एवेत्याह-एक इति.-प्रिय- तमायाः पार्वत्या:-देहस्य शरीरस्य- अर्धम् अर्धभागम् ४ अर्धं नपुंसक मिति समास:- तद्धरतीति तथोक्तः - महाकामुकतया क्षणमात्रवि - श्लेषस्याप्यसहिष्णुत्वान्निजदेहवामार्धपरिक्लुप्तप्रियतम इत्यर्थः - वामा र्धधारीति च पाठः । एक एव हरो । रागिष्वनुरक्तेषु - कामुकष्वि- त्यर्थः । राजते अप्रतिनिधित्वेन प्रकाशते - तादृशकामुकान्तरस्यानुप . ' लभ्यमानत्वादिति भावः । तथा। नीरागेषु विरक्तेष्वपि । विमुक्त स्त्यक्तो - ललनासङ्गो योषिदासक्तिर्येन स तथोक्तो। जनः वैरा - ग्यपुरुषो । यस्माद्धरात् । परोऽन्यो। नास्ति-तपश्चरणसमये मदन दहनादिना तादृग्वैराग्यप्रकटनात्तथाविधविरक्तो न कश्चिदस्तीत्यर्थः । किंतु। दुर्वारा: निवारयितुमशक्याः - स्मरबाणा एव - पन्नगास्स- र्पा-स्तेष विषण गरळेन - तत्सदृशेन व्यामोहेन च - व्याविद्धो व्याक्षिप्तः - अतएव - मुग्धो मूढो निश्चेष्टश्च शेषः अवशिष्टः । जनः। कामेन मन्मथेन हेतुना - विडम्बिताननुकृतान् - स्वीकृतानिति यावत् । विषयान् स्त्रीसंभोगादीन् । भोक्तुमनुभवितुं वा । मोक्तुं त्यक्तुं वा। न क्षमः तादृगनुरागविरागोत्कर्षाभावात्तथा विधभोग - त्यागयोरसमर्थ इत्यर्थः ; कर्तुमकर्तुमन्यथा कर्तुं समर्थः परमेश्वर - एक एवानुरक्तेषु विरक्तेषु च परां काष्टां प्राप्तस्तदन्यस्सर्वोऽप्युभय भ्रष्टएवेति भावः ॥ स्मरबाणपन्नगेत्यत्र रूपकालंकारः ।। शार्दूल - विक्रीडितम् ॥

अजानन्दाहात्म्यं पततु शलभस्त्रीव्रदहने
स मीनोऽप्यज्ञानाद्वडिशयुत मश्नातु पिशितम् ।
विजानन्तोऽप्येते वयमिह विपज्जालजटिला-
न्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ १८

 व्या... अथ विषयदोषपरिज्ञानेऽप्यत्यागे कारणमा - अजा नन्निति - शलभः पतङ्गः। दह्यते अनेनेति दाहः ॐ करणे घञ् - तस्य आत्मनः स्वभावस्य भावो दाहात्म्यं भस्मीकरणस्वाभाव्य- मित्यर्थः - नि. आत्मा देहे धृतौ जीवे स्वभावे परमात्मनी 'ति विश्वः । अजानन् अनवबुध्यन् । तीव्रदहने जाज्वल्यमानाग्नौ । पततु प्रविशतु - प्रविश्य भस्मीभवत्वित्यर्थः ॐ संभावनायां लोट् । तथा । स प्रसिद्धो। मीनो मत्स्योऽपि। अज्ञानादात्मविनाशकारण मेतदित्यविवेकात्। बडिशयुतं मत्स्यवेधनसंदानितम् - अयोमयवक्रकण्ट काग्रस्यूतमित्यर्थः । पिशितं मांसमश्नातु भक्षयतु - आमिषलोभात्क ण्टकगिळनेन गळनिरोधात्सोऽपि म्रियतामित्यर्थः - नात्रानयोरप- राधः - नाज्ञानमपराध्यति - पतङ्गमातङ्गकुरङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्चेति च न्यायादिति भावः-नि. 'बडिशं मत्स्यवे - धनं'- पिशितं सरसं मांसमि' ति चामरः। किंत्विहास्मिन् लोके । विजानन्तोऽपि विनिपातहेतव इति विवेकवन्तोऽप्येते वयं । विपञ्जालेरापत्परम्पराभि - र्जटिलान् ग्रथितान् - उपद्रवहेतूनपी. - त्यर्थः * पचादित्वान्मत्वर्थीयो अच्प्रत्ययः । कामान्विषया न्न मुच्चामो न त्यजामः - विषयस्वरूपपरिज्ञानेऽप्यमुञ्चतामस्माकमेक एवापराध इति भावः के 'शे मुचादीनामि' ति नुमागम: विचा र्यमाणे नास्माकमध्यपराधः • प्रबलतरकारणसद्भावादित्याह - मोहस्य अज्ञानस्य । महिमामाहात्म्यं । गहनो दुर्विज्ञेयः • अघटितघटनापटु तराविद्याविलासमहिम्ना लोको जनः अविहितमपि करोति - अतो नास्माक मपराध इति भावः ॥ शिखरिणीवृत्तम् ॥

तृषा शुष्यत्यास्ये पिवति सलिलं शीतमधुरं
क्षुधार्त श्शाल्यन्नं कबळ्यति मांसादिकलितम्।
प्रदीप्ते कामाग्नौ सुदृढतर मालिङ्गति वधूं
प्रतीकारं व्याधेस्सुख मिति विपर्यस्यति जनः॥ १९

 व्या.--अज्ञानमहिम्नैव सुखाभावेष्वप्यन्नपानादिविषयेषु सुखबुद्धिं करोतीत्याह - तृषेति..---तृषा तृष्णया | आस्ये वक्त्रे। शुष्यति शेषं प्राप्नोति सति । शीतं च तन्मधुरं चेति विशेषणयोरपि मिथो विशेषणविशेष्यभाव विवक्षायां * विशेषणं विशेष्येण बहुल मि' ति समासः - शैत्यगुणयुक्तं संतापहर चेत्यर्थ:- 'शीतली क्रियते तापो येन तन्मधुरं स्मृत मि 'ति लक्षणात् - यद्वा मधुरं शर्करापानकवन्माधुर्यसंयुक्तं - सलिलमुदकं - पिबति । तथा क्षुधार्तः बुभुक्षापीडितस्सन् । मांसादिना मांस घृतपयो दध्यादिव्यञ्जनद्रव्ये - णेत्यर्थः - कलितं रुचिरं स्वादूकृतमित्यर्थः ॐ कलिः कामधेनुः । शाल्यन्नं । कबळयति भुङ्क्ते। तथा कामानौ मदनदहने। प्रदीप्ते प्रज्वलते सति - मन्मथोद्रेके सतीत्यर्थः । सुदृढतरमतिगाढं। वधूं स्त्रिय मालिङ्गत्याश्लिष्यंति । अतः व्याधेः क्षुत्तृष्णादिरूपामयस्य। प्रतीकारं तदुपशान्तिकरान्नपानालिङ्गनरूपौषधसेवनरूपप्रीतक्रिया- "मित्यर्थः । सुखं भोग। इति । जनो विपर्यस्यति विपर्यस्तबुद्धिं प्राप्नो ति - न तु तत्वं जानातीत्यर्थः । अतस्मिंस्तद्हो विपर्यासः । अयं च अज्ञानदुर्विलास एवेति भावः॥  वृत्तं पूर्ववत् ॥

तुङ्गं वेश्म सुतस्स्मतामभिमतास्सङ्ख यातिगास्संपदः
कळ्याणी दयिता वयश्व नवमित्यज्ञानमूढो जनः।
मत्वा विश्वमनश्वरं निविशते संसारकारागृहे
संदृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्नन्यस्यति ॥ २०

 व्या.--एवं तावदज्ञो जनस्संसारविषयासक्त्या बद्धो भवति ज्ञानी तु सर्वसङ्गं परित्यज्य कृतकृत्यो भवतीति निगमयति । तुङ्गमिति.- वेश्म प्रासादादि। तुङ्गमुन्नतं । सुताः पुत्रास्सतां साधूनां - विदुषाम्। अभिमता इष्टास्संप्राप्त विद्याविनयादिगुणा इत्यर्थः * · मतिबुद्धी' त्यादिना वर्तमानार्थे क्तः - अत एव* ‘क्तस्य च वर्तमान' इति षष्टी - प्रतिपदविधाना षष्ठी न समस्यत इति वक्तव्यमिति समासनिपेधः । संपदः धनधान्यादिद्रव्यसमृद्धयः संख्यातिगाः असंख्येयाः - अपरिमिता इत्यर्थः । दयिता प्रियतमा- कल्याणी आनुकूल्यादिगुणसंपन्नत्वाच्छोभना - तदुक्तम् -

अनुकूलां विमलाङ्गीं कुलजां कुशलां सुशीलसंपन्नाम् ।
पञ्चलकारां भायां पुरुषः पुण्योदयाल्लभते'॥

 वयश्च । नवं नूतनं - यौवनमित्यर्थः - नि. वयः पक्षिणि बाल्यादा- वि' त्यमरः। इत्येवमज्ञानेन मोहेन - मूढो विवेकशून्यो । जनः । विश्वं गृहापत्यवित्तदारादिप्रपञ्चम्। अनश्वरं शाश्वतं । मत्वा आलोच्य । संसार एव कारागृहं बन्दीगृहं - तत्र निविशते प्रवि- शति - तदासको भवतीत्यर्थः - न तु तस्यानर्थमूलत्वं जानातीति भावः * 'नेर्विश' इत्यात्मनेपदम् - अतिसंकटतया परमनिर्बन्ध हेतुत्वात्संसारस्य कारागृह्त्वरूपणं - नि. कारा स्याद्बन्धनालय' - इत्यमरः । धन्यस्तु ज्ञानी - तु शब्दः पूर्वस्माद्वैलक्षण्यं द्योतयति। तदेवाह - तदखिलं वेश्माद्यशेषप्रपञ्चं क्षणभङ्गरमशाश्वतं। संदृश्य सम्यगालोक्य संपूर्वादृशेः क्त्वाचो ल्यबादेशः। सन्न यस्यति - न तत्रासक्तो भवति - किं तु विरक्तो भवतीति भावः ; अतः ज्ञानेन सर्वानर्थमूलमज्ञानं निरस्य कृतकृत्येन भवितव्य मिति तात्पर्यम् ।।

 शार्दूलविक्रीडितम् ॥

इति वैराग्यशतके विश्वपरित्यागविडंबनं संपूर्णम् ।।

॥ याच्ञादैन्यदूषणम् ॥

दीनादीनमुखैस्सदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैनिरन्नविधुरा दृश्या न चेद्रोहिनी।
याच्ञाभङ्गभयेन गद्गदगळत्रुट्यद्विलीनाक्षरै
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनखी पुमान् ॥ २१

 व्या.--अथ याच्ञादैन्यदूषणमारभते-अत्रायमभिप्रायः विष- याणां याच्ञादैन्यप्रयोजकत्वाद्विषयपरित्यागविडम्बनानन्तर्येणैतत्प्र- योज्ययाच्ञाजनितदैन्यमपि दूषणीयमेवेति अतस्तत्प्रसङ्गानन्तरमेतद्दू- षयितुमारभते - दीनेत्यादिश्लोकदशकेन-दीनादीनमुखैरिति.दीनाद- रिद्राः । अत एव। दीनानि शोभाहीनानि मुखानि येषां तैः । कुतः। क्रोशद्धिः रुदद्भिः। तत्कुतः। क्षुधितैः संजातक्षुधैः - बुभुक्षितैरि- त्यर्थः - क्षुधाशब्दोऽप्याबन्तस्तस्मात् * सदस्य संजातं तारकादि- भ्य' इतजिती'तच्प्रत्ययः - तारकादिराकृतिगणः - क्षुदिति दका- रान्तपक्षे तु-क्षुधं प्राप्तै- क्षुधितैः क्षुधातुरैः ॐ कर्तरिक्तः वसति क्षुधो रिडि 'तीडागमः । शिशुकैरत्यन्तबालकै: * अल्पार्थे कन्प्रत्य- यः। सदा सर्वदैवाकृष्टमन्नपानादियाच्ञापूर्वकमाक्षिप्तं - जीर्णाम्बरं विशीर्णवस्त्रं - यस्यास्सा। तथा। निरन्ना अन्नपानरहिता - अत एव विधुरा विह्वला - निरन्ना च सा विधुरा चेति विशेषणसमासः .. अनाभावात्कष्टजीवनेत्यर्थः - नि.--' विधुरः प्रत्यवेतेस्यात्कष्टविश्लि. ष्टयोरपी'ति विश्वः । गेहिनी गृहिणी । दृश्या दृष्टिगोचरा । न चेन्न- स्याद्यदि। तर्हि । मनस्वी सुमेधाः - धैर्यशाली * प्रशंसायामिनिः । कः पुमान् । याच्ञाभङ्गाद्यद्भयं तेन । गद्दो हीनस्वरः - अनुकरणशब्दोऽयं - यो गळः कण्ठः - तत्र- त्रुट्यन्ति शकलीभवन्ति - अत एव - विलीनान्यनुञ्चारितप्रायाण्यक्षराणि वर्णा यस्मिन् कर्मणि तद्य- था तथा । स्वस्य - दग्धः प्लुष्टो - यो जठरः उदरं - तस्यार्थे तत्पूर- णार्थमित्यर्थः - नि.- अर्थे कृते च शब्दो द्वौ तादर्थेऽव्ययसंज्ञिता वि' त्यमरः - दुग्धशब्दोऽत्र निर्वेदाभिद्योतकः - यथोक्तं सुरेश्वरवा- र्तिके - 'अस्य दग्धोदरस्यार्थे किन्न कुर्वन्यसांप्रतमिति। देहीति । वदेत् ब्रूयात् । न कोऽपीत्यर्थः । तस्याः दृश्यत्वादीदृगवस्थापन्नो भव- त्यतोऽनर्थमूलत्वात् तत्परित्यागोऽवश्यं कर्तव्य इति भावः ।

 शार्दूलविक्रीडितम् ॥

अभिमतमहाभान ग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटाज्जलचन्द्रिका ।
विषुलीवलसल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ २२

 व्या.---इदानीं दैन्यानर्थमूलं जठरं निन्दति - अभिमतेति.- अभिमतः कीर्तिप्रतिष्ठावहत्वादिष्टः - यो महामानग्रन्थिर्गरिष्ठाभि- मानग्रन्थिः - तस्य - प्रभेदे विश्लेषणे - पटीयसी समर्थतरा पटु- शब्दादीयसुन्युगितश्चेति क्लीप्। गुरुतरा अतिशयेन वर्तमाना - ये गुणग्रामाः गाम्भीर्यधैर्यादिगुणगणाः - त एवाऽम्भोजानि तेषां स्फुटं यथा तथा - उज्जलचन्द्रिका पूर्णिमाकौमुदी तत्सङ्कोचहेतुभूतेत्यर्थः । विपुलं विस्मृतं यथा तथा - विलसत्प्रकाशमानं - यल्लजावल्लीवितानं व्रीडालताविततिस्तस्य कुठारिका परशुः - तदुछेदनसाधनभूतेत्यर्थः । दुष्पूरा पूरयितुमशक्या - प्रत्यहमन्नपानादि पूरिताऽपि पर्याप्त्यभावा. दिति भावः * · ईषदृुरि'त्यादिना खल्प्रत्ययः । इयं जठरमुदरमेव पिठरी कुण्डी - नि. 'पिठरः स्थाल्युखा कुण्ड मि' त्यमरः के । गौरारित्वात् ङीष् - तथा च कृष्णामृतस्तवे - ' जठरापिठरीपूर्तये नर्तितासी' ति । विडम्बनं याच्ञानुकरणं । करोति याच्ञादैन्य मस्माभिरभिनाटयतीत्यर्थः । एतद्वयतिरेकेण दैन्यकारिणी न काडप्य- स्तीति भावः । 'वल्ली कठोरकुठारिकेति पाठे निशिततरपरशुरित्यर्थः॥

 रूपकालंकारः हरिणीवृत्तं - ' भवति हरिणीन्सौ म्रोस्लौगारे साम्बुधि विष्टपैरिति लक्षणान् ।।

पुण्ये ग्रामे वने वा महतिं सितपटच्छन्नपालीं कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।
द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणैस्सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः २३

 व्या.-अथ मानिन स्तावद्वन्धुयाच्ञाया परमन्यत्र भिक्षा- शनतात्पर्येण प्राणधारणमित्याह . पुण्य इति...-न्यायगर्भ मीमांसाशास्त्रोक्तप्रकारगर्भितं यथा तथा - यद्वा नीयन्ते ज्ञाप्यन्ते - बुभुत्सितार्था एभिरिति न्यायाः - वेदशास्त्रपुराणादयः - ते गर्भे कुक्षौ - येषां ते न्यायगर्भाः अधीताखिलविद्या इत्यर्थः । 'कुक्षि- भ्रूणार्भका गर्भा' इत्यमरः • तथाभूता - द्विजाः ब्राह्मणाः तैः • हुताः आज्यादिहविर्भिस्सुतर्पिताः - ये - हुतभुजोऽग्नय - स्तेषां धूमेन'- धूम्राणि कृष्णलोहितवर्णानि - उपकण्ठानि अन्तिकप्रदेशाः - यस्य तस्मिन् - नि. 'धूम्रधूमलौ कृष्णलोहिते'-' उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अन्यभितोऽव्ययमिति चामरः । अतएव - पुण्ये पवित्रे । महति विपुले च । विशेषणद्वयेन निस्संकोचसंचारार्हत्वं सूच्यते । ग्रामे अग्रहारे। वने अरण्ये वा - तत्रापि वानप्रस्थादीनां विद्यमानत्वा दिति भावः। सितपटेन श्वेतवस्त्रेण- छन्ना परेषां दृष्टिगोचरवाभावार्थ माच्छादिता - तथा विशिष्टाचारात् - पालिरश्रिर्यस्यास्तां - नि. 'पालि स्त्र्यश्रयङ्कपतिष्वि' ति वैजयन्ती। कपालिं भिक्षाहरणो - चितशराव मादाय गृहीत्वा। क्षुधार्तः क्षुत्पीडितः । मानी अभि - मानवान् पुरुष इति शेषः । उदरमेव - दरी गिरिगह्वरं - तस्याः । पूरणाय पूर्त्यर्थमित्यर्थः तादर्थ्ये चतुर्थी । अथवा - उदरं पूरयितु मित्यर्थः 'तुमर्थाच्च भाववचनादि' ति चतुर्थी । द्वारं द्वारं प्रति- द्वारं - गृहमेधिनामिति शेषः नित्यवीप्सयोरिति वीप्सायां द्विरूक्तिः । प्रविष्ट:भिक्षार्थमित्यर्थः । प्राणैस्सनाथस्सहितश्चेत् भिक्षाशनेन प्रागधारणतत्परस्स्याञ्चेदित्यर्थः । वरं मनाक्प्रियं नि. 'दैवाद्वृते वरश्रेष्टे त्रिपु क्लीबं मनाक्प्रियमि' त्यमरः । दिने दिने अनु दिनं प्रत्यह्मित्यर्थः यथार्थेऽव्ययीभावः । तुल्यकुल्येषु समानकु- ल्येषु समानकुलोद्भवेषु तन्मध्य इत्यर्थः । दीनः पुनः दैन्यवांश्चेन्न वरं - बन्धुमध्ये याच्ञादैन्यनीच जीवनाद्वरं भिक्षान्नेन प्राणधारणं - 'न बन्धुमध्ये धनहीनजीवन मि' ति वचनादिति भावः. अत्र य • द्यपि - 'त्यजन्त्यसून् शर्म च मानिनो वरं त्यजन्ति नत्वेकमयाचि- तव्रतमि' ति वचनान्मानिनः सर्वथा अयाचितत्वमेव मुख्यव्रतं तथाऽपि यदि क्षुधातुरत्वेन याच़्ञाप्रवृत्तिस्यात्तदा कुत्रचिदपरिक्ज्ञात- देशे श्रोत्रियगृहेषु कपालभिक्षान्नभक्षणेनोदरपूरणं कर्तव्यं - न तु बन्धुजनयाच्ञाप्राणसंकटेऽपि - तस्याः परमनैच्यावहत्वादिति गूढा- भिसंधिः ॥

 स्रग्धरावृत्तं - तदुक्तं केदारेण - ' प्रश्नानां त्रयेण त्रिमुनिय तियुता स्नग्धरा कीर्तितेयम् ॥

गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युतिवारशिलातलानि ।
स्थानानि किं हिमवतः प्रळयं गतानि
यत्सावमानपरपिण्डरता मनुष्याः ॥ २४

 न्या.---अथ विशिष्टगत्यन्तराभाववितर्कद्वारा दूषयति-गङ्गे-ति.-गङ्गातरङ्गाणां भागीरथीकल्लोलानां - ये कणाः बिन्दवः -तेषां - शीकरैः - प्रालेवप्रायलेशैः - अथवा - कणाः स्थूलबिन्दवः-शीकराः सूक्ष्माः - तैः शीतलानि शिशिराणि - ' धनशीकरे 'ति वा पाठः - तथा सान्द्रा इत्यर्थः । विद्याधरैर्देवयोनिविशेषैरघ्युषि-तानि अधिष्ठितानि ६ गत्यर्थाकर्मके 'त्यादिना वसेः कर्मणि क्तः* वचिस्वपी'त्यादिना संप्रसारणं . अन एव - चारूणि मनोहराणि - शिलातलानि येषु तानि तथोक्तानि - * विशेषणद्वयनैतेन-परमपवित्रत्वं च सूच्यते । हिमवतः हिमाद्रेस्संबन्धीनि - स्थानानि प्रान्तप्रदेशाः प्रळयं गतानि किं नष्टानि कि?- किं शब्दोऽत्र वितर्के-नि.-'कुत्साप्रश्नवितर्केषु क्षेपे कि शब्दइष्यते 'इति शाश्वतः। ननु कुतः एवं विद्यमानेष्वत्रस्थानेषु विनाशो वितर्क्यत इत्याशङ्कय तत्र कारणमाह - यद्यस्मात्कारणान्मनुष्या जनाः । सावमानेषु याच्ञया- तिरस्काराचरणपूर्वक दत्तेषु - परपिण्डेषु परान्नेषु - रता आसक्ताःतादृक्परपिण्डाशनेन प्राणत्राणतत्परा जाता इत्यर्थः यदि स्थानानि न नश्येरन् तर्हि जना ईदक्कष्टयाच्ञातत्परा न भवेयुः - तेषां नष्टत्वा- देवेदृग्दुरवस्थापन्ना इति कृत्वा एवं वितर्क्यत इति वाक्यार्थः ; यद्वा- गत्यन्तराभावं प्रश्नद्वारा दूषयति-गङ्गेति --- किंशब्दोऽत्र प्रश्ने - नन्वेवं कुतः पृच्छयत इत्यत आह - यस्मात्कारणात् - हे मनुष्याः सावमान परपिण्डरताः - यूयं जाता इति शेषः - अतः प्रश्नस्यावकाश इति भावः - अन्यत्समानम् ; एतेन दुर्भगयाच्ञापिशाचिकामूर्धन्यशनिं पातयित्वा गिरिपरिसरेषु सुखेन वर्तितव्यमिति सूचितम् ।।

 वसन्ततिलकावृत्तम् ॥

किं कन्दाः कंदरेभ्यः प्रळयमुपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।।
वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तित भ्रूलतानि ॥ २५

 व्या---- इदानींपुनर्जीवनोपायान्तराभाववितर्कद्वारादूषयति- किमिति,-कन्दरेभ्यो गुहाभ्यस्सकाशात् कन्दाः कन्द - मूलादिपदार्थाः - क्षुन्निवारणक्षमा इति भावः। प्रळयं विनाशं - विराममिति यावत् । उपगताः प्राप्ताः किं- * 'जुगुप्साविरामे त्या - दिना पञ्चमी। एवमुत्तरत्रापि - किंशब्दो वितर्के । तथा गिरिभ्यस्सकाशा न्निर्झरावा प्रवाहाश्च वा - उपशमकरा इति भावः। 'प्रळयमुपगताः किमिति संबन्धः - 'प्रवाहो निझरो झर' इत्यमरः - नि - वास्याद्विकल्पोपमयोरेवार्थे च समुच्चय' इति चामरः । तथा तरुभ्यः वृक्षेभ्यस्सकाशात् । सरसानि माधुर्यरसयुक्तानि - फलानि विभ्रतीति तथोक्ताः। वल्कलिन्यः वल्कलवत्यः । एतेन विशेषणद्वयेन सुभोज्यवस्तुसमृद्धत्वाच्छादनयोग्यवस्तुसमृद्धत्वे सूचित । शाखाश्च । प्रध्वस्ता वा विनष्टाः किम् - अव्ययानामने कार्थत्वात्। ननु विद्यमानकन्दमूलादिश्वविद्यमानत्वं कुतो वितर्क्य- तइत्यत आह - यद्यस्मात्प्रसभमत्यन्तम् - अपगतप्रश्रयाणां विनय - शून्यानां। खलानां दुरीशानां दुःखाप्तमतिक्लेशेन प्राप्तं - तदपि स्वल्पं यद्वित्तं धनं तेन यः - स्मयो गर्वस्स एव पवनः - स्मयः पवन इव च - तद्वशादानर्तिताश्चलिताः - भ्रूव एव लताः भ्रुवोलता इव च येषां तानि-सविकाराणीत्यर्थः-स्मयपवनेत्यत्र भ्रूलता इत्यत्र च उपमारूपकयोस्साधकवाधकप्रमाणाभावात्संदेहसंकरः । मुखानि । वीक्ष्यन्ते-दृश्यन्ते याचकजनैरिति शेषः; कन्दमूलादीनां विनष्टत्वादेव जनैर्दुरीश्वरपरिचर्यातत्परैर्भूयते जीवनोपायार्थमतस्तदभाववितर्क - स्यावकाश इति भावः। यद्वा • जीवनोपायान्तराभावप्रश्नद्वारा निन्दति - किं कन्दा इति । किं वा शब्दौ प्रश्ने । अत एवं प्रश्नः क्रियत इत्यत आह - यस्मात्कारणाद्दुर्विनीतदुरीश्वरमुखान्यवलो - क्यन्ते युष्माभिस्तस्मादभावप्रश्नो युज्यत इति भावः। शेषं समानम् ; अत्रायमभिसंधिः- परमनैच्यावहं शास्त्रनिषिद्धं च दुर्विनीतसेवनोप- जीवनं परित्यक्तव्यम् ॥ स्रग्धरा ।।

पुण्यैर्मूलफलैः तथा प्रणयिनी वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणे रुत्तिष्ठ यावो वनम् ।
क्षुद्राणामविवेक गूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते॥ २६

 16  व्या..-अथ खलानां मुखानि दृश्यन्त इत्यनेन सूचि- तनिन्दनां प्रकटयितुं चिरकालदुरीशसेवास्विन्नस्य कस्यचिन्निर्वेद वचनमभिनीयाह - पुण्यैरिति.----अधुनेदानीं । पुण्यैः पवित्रैः। मूलैः : कन्दमूलैः। फलैः कदळीरसालपनसादिफलैश्च अपवि- त्ररक्तमूलक कलिङ्ग फलादि भक्षणनिषेधस्मरणात्पुण्यै रित्युक्तं। तथा अनिर्वाच्यतया। 'प्रियप्रणयिनी मि' ति पाठे - हा प्रियसखे इत्यर्थः। प्रणयिनीं परमसुखावहतया प्रियतमां- विशिष्टकन्दमू- लाद्यशनस्यानशनप्रायत्वात्तस्यापि 'तपो नानशनात्पर मि' ति तपः पर्यवसानत्वात्तस्य च तपसा कल्मषं हन्ती' ति सकलकर्मनिवर्त - नद्वारा परमसुखावहत्वादिति भावः । वृत्तिं जीविकां - नि. 'वृत्ति- र्वर्तन जीवन' इत्यमरः । कुरुष्व विधेहि । तथा । अकृपणैरम्लानैः नवपल्लवै र्भुवि शय्यां च कुरुष्व । अतः । उत्तिष्ठ उत्थितो भव - विलम्बं माकुर्वित्यर्थः। वनं प्रति - यावो गच्छावः - यास्याव इत्यर्थः - किमनेन नीचसेवनेनेति शेषः के वर्तमानसामीप्ये वर्तमान प्रत्ययः । 'यामो वनमिति न साधीयान्पाठः । गमने अभ्युच्छ्रय फल माह-यत्र वने क्षुद्राणां दीनानां। कुतः अविवेकनाज्ञानेन-मूढानि कर्त- व्याकर्तव्यविचारशून्यानि - मनांसि येषां तेषां। तथा । सदा सर्वदा - वित्तमेव व्याधिस्सन्निपातादिरोगस्तेन यो विकारः विप - रीतभावस्तेन विह्वला विकला - अविस्पष्टा इति यावत् । तथाभूता- गिरो येषां तेषामीश्वराणां राज्ञां। नामाऽपि नामधेयमपि । न श्रूयते नाकर्ण्यते - किमुत . दर्शनसेवनादिकथेति भावः। तस्मादैहिकामुष्मिकफललेशसंबन्धशून्यं नीचसेवनं परित्यज्य सकल श्रेयस्संपादकं वनं ब्रज ; वनवास एवावश्यं कर्तव्य इति तात्पर्यम्॥ शार्दूल वित्रीडितम् ॥

फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयस्स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २७

 व्या...---अथ च पुनस्सत्यामपि निरवधिक निरातङ्कजीवन - साधनसामग्र्यां कृपणाः स्वकार्पण्य मत्यजन्तः परयाच्ञादैन्येन क्लिश्यन्ति । किं कर्तव्यमित्याह - फलमिति.-वने वने प्रतिवनं-वने वने न त्वेकत्रैवः क्लृप्तमित्यर्थः अव्ययं विनक्ती' त्यादिना यथार्थेs व्ययीभावः । न विद्यते खेदो यस्मिन्कर्मणि तद्यथा तथा अखेद मक्लेशं। स्वेच्छया स्वच्छन्देन - लभ्यं प्राप्यं - न तु परप्रेष्यमिति भावः । क्षिप्रा रोहन्तीति क्षितिरुहः क्लिप्। तेषां कदलीरसालपनसादि- तरूणां फलमस्तीति शेषः उदरपूरणपर्याप्तमिति भावः । तथा। स्थाने स्थाने प्रतिस्थानं * वीप्सायां द्विरुक्तिः । शिशिर - मधुरं - व्याख्यातमेतत् पिबति सलिलं शीतमधुरमि' त्यत्र । पुण्यसरितां - गङ्गागोदावर्यादिपुण्यनदीनां । पयस्तीर्थ । अस्तीति शेषः - स्नानपानाभ्यां बाह्याभ्यन्तरपङ्कप्रक्षालनद्वारा तृष्णापेशान्ति - करमिति भावः । एतेनोभयेषामपि शास्त्रसिद्धं परोपकारकत्वं सूचितं- तदुक्तं - 'परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्य' इति । तथा । मृदुः अकठिन: - कोमल इति यावत् - स्पर्शो यस्या- स्सा हंसतूलिकातल्पकल्पेत्यर्थः । कुतः सुललितान्यतिकोमलानियानि लतापल्लवानि -- तन्मयी तत्प्र ;रा - तैनिर्मितेत्यर्थः - अथवा- तन्मयी तद्विकारा * 'प्राचुर्ये विकारार्थे मयडि ' ति ङीप् । शय्या चास्तीति शेषः - सुखस्वापोचितेति भावः। तदपि तथाऽपि धनिनां धनाढयानां। द्वारि प्रतीहारप्रदेशे-नि. स्त्रीद्वार्द्वारं प्रतीहार' इत्यमरः । कृपणाः धनलिप्सापरतन्त्राः । संतापं । तदनुवर्तनाद्यायास- परितापं सहन्ते मृष्यन्ति । श्रेयोर्थिनां किं तत्रास्माकं कर्तव्यमिति भावः ।। अतः फललाभसंबन्धशून्यां प्रत्युत बलवदनिष्टानुबन्धिनीं दुरन्तसंतापकारिणीं परमकार्षण्यकर्णेजपा मिहामुत्र च कीर्तिप्रतिष्ठा- भञ्जनीं याच्ञादैन्यपरमनीचत्वाद्दूषणीयां पापिष्ठामिमां दुरीश्वर द्वारा बहिर्वितर्दिका दुराकारडाकिनीं विवेकोच्चाटनमन्त्रोणोत्सार्याने- कश्रेयस्संपादिकां वनवासजीविकां श्रियमेव समाश्रयेद्विद्वानिति तात्पर्यम् । तदुक्तं श्रीभागवते .

'चीराणि किं पथि न सन्ति ? दिशन्ति भिक्षा ?
नोवांङ्घ्रिपाः परभृतः ? सरितोऽप्यशुष्यन् ?
शुद्धा गुहाः किमु न सन्ति ? महानुभावा
यस्माद्भजन्ति यतयो धनदुर्मदान्धान् ।।इति शिखरिणीवृत्तम्।।

ये वर्तन्ते धनपतिपुरः प्रार्थना दुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः।
तेषामन्तस्स्फुरितहसितं वासराणी सरेय
ध्यानच्छेदे शिखरिकहरग्रावशय्यानिषण्णः॥ २८

 व्या.-----इदानी दुरीश्वरसेवनयाच्यादैन्यतत्परविषयाक्षिप्त- चित्तनिन्दावशेन स्वस्थ सिद्धवद्भाविश्रेयोदशां सूचयन्नाहा--य इति. धनपतेः धनाढयस्य - पुरः अग्रे । प्रार्थनादुःखं याच्ञादैन्यं - भज - न्तीति तथोक्ताः सन्तः * भजोण्विः' । ये पुरुषाः । वर्तन्ते । तथा। ये च पुरुषाः । विषयाक्षेपे भोगसंग्रहे - पर्याप्ता तावन्मात्र एव पर्यवसिता न तु तत्त्वविचार इत्यर्थः - तादृशी या बुद्धिः तस्याः · पर्यस्त' इति पाठे - विषयाक्षेपेण भोगासक्त्या - पर्यस्ता विपरीता - यद्वा - विषयाक्षेपेण विषयकृतोपप्लवेन - पर्यस्ता विक्षिप्ता- या बृद्धिः - तस्याः हेतोः अल्पत्वं नीचत्वं । दधति । तेषां पुरुषाणां वासराणि दिवसान् - तदनुभूतदुर्दिनानीत्यर्थः - नि. 'वातुक्लीवे दिक्सवासरौ' इत्यमरः - अभिमतदेवतायां चित्तस्थिरीकरणं ध्यान- तस्य - च्छेदे अवसाने - ब्रह्मध्यानव्युत्थानसमय इत्यर्थः । शिखरि - कुहरे गिरिगह्वरे- यो ग्रांवा पाषाणस्स एव शय्या - तस्यां - निषण्ण: विश्रमार्थ शयितस्सन्नित्यर्थः । अन्तरन्तः करण एव - स्फुरितं समु- त्पन्नं - हसितं हासो - यस्मिन् कर्मणि तद्यथा तथा - तदानीं तेषा मपहास्यत्वात्तदनुभावत्वेनोत्पन्नहासगर्भितमित्यर्थः - स्मरेयं सदृशा दृष्टिचिन्ताद्याः स्मृतिबीजस्य बोधका' इति वचनात्कुतश्चिचिन्ताव - शाद्दष्टिवशाद्वा समुद्बुद्धसंस्कारस्तदीयदुर्दिनानि स्मृतिविषयाणि कुर्यामित्यर्थः -- वासराणां स्मरेयमिति वा पाठः - तथा अधी - गर्थदयेशां कर्मणी 'ति कर्मणि षष्ठी-अधीगर्थानां च शेषाधिकारात्- अशेषत्वविवक्षायां तु द्वितीयैव स्मर्यते - संभावनाया मुत्तमपुरुषैक - वचनं। यथाऽहं याच्यादुःखाभिसंतप्त विषयाक्षिप्तचित्तजनदुर्दशादर्श- नात्संजातनिर्वेदः केनचिद्भाग्योदयेन परमेश्वरानुगृहीतस्तद्ध्यानोत्थाने तदीयदुर्दिनस्मरणतत्परो भवेयम् -- तथा विवेकिभिः श्रेयार्थिभिः भवितव्यं - न तु तद्वद्दुर्दशाभाग्भिरिति निगूढोपदेश स्तात्पर्यार्थवि - षयीकृत इत्यवधेयम् ।। मन्दाक्रान्तावृत्तम् ।।

ये सन्तोषनिरन्तरप्रमुदिता स्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसंकुलधियस्तेषां न तृष्णा हता।
इत्थं कस्य कृतेः कृत स्सविधिना कीदृक्पदं स-पदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्नमे रोचते ॥ २९

 व्या.- अथ तृष्णाया यावताऽप्युपसंहाराभावात्किं याच्या दैन्येनेत्याह - य इति...~ये पुंमांसः । दैवाल्लब्धेन वस्तुना जनितो मनोविलासस्संतोष-स्तेन निरन्तरं सततं - प्रमुदिताः परितुष्ठाः .. तृप्ता इति यावत् । तेषां मुदः आनन्दा न भिन्नाः - किंतु प्रवृद्धा एवेत्यर्थः । तथाऽन्ये इतरे ये पुमांसः। धने लुब्धा गार्द्ध्यवती - अतएव संकुलाधीर्येषां ते तथोक्ता । स्तेषां । तृष्णा वस्तुस्पृहा । न हता न विरतेत्यर्थः-धनलोभस्येयत्ताभावादिति भावः । इत्थमेवं व्यवस्थिते- सतीति शेषः - सः प्रसिद्धः। संपदा रत्नादिसमृद्धीनां । तादृगित्थ- मिति वक्तु मशक्यं। पदं स्थानमनिर्वाच्यधनसंपदास्पदमित्यर्थः । तथा। स्वात्मन्येव स्वस्मिन्नेव समाप्तः पर्यवसितः - न तु परोपकार- पर्याप्त इत्यर्थः । तादृशो। हेममहिमा काञ्चनसंपत्ति र्यस्य तथोक्तो । मेरु र्विधिना ब्रह्मणा । कस्य कृते कस्य पुंसः प्रयोजनार्थ । कृतो निर्मितः - नित्यसंतोषसंपन्नानामनपेक्षितत्वादर्थलुब्धाना मपर्याप्तत्वा- च्चानुपयोगादिति भावः । अतो निरर्थकत्वात् - मे मह्यं । न रोचते- रुचिगोचरो न भवति-न सम्मत इत्यर्थः * रुच्यर्थानां प्रीयमाणः' इति चतुर्थी - तस्मात्सुमेरुतुल्यधनलाभेऽपि सृष्णाधनपिशाच्याः परितोषाभावात्तत्प्रयुक्तयाच्ञादैन्यविभ्रान्तिं तत्त्वविचारेण निरस्य संतुष्टान्तःकरणे र्भवितव्यमायुष्मद्भिरिति तात्पर्यम् ॥

 शार्दूलविक्रीडितम् ॥

भिक्षाहारमदैन्यमप्रतिसुखं भौतिच्छिदं सर्वतो
दुर्मात्सर्य मदाभिमानमथनं दुःखौघविध्वंसनम् ।
सर्वत्रान्वहमप्रयत्नसुलभ साधुप्रियं पावनं
शम्भो स्सत्रमवार्यमक्षयनिधिं शंसन्ति योगीश्रराः॥ ३०

 व्या.—तर्हि कथं जीवनमित्याशङ्कय तदुपायं सपरिकरं निवेदयन्निगमयति - भिक्षति.--योगीश्वराः परमार्थतत्त्वज्ञाः महा योगिनः । भिक्षाहारं भैक्षाशनं कर्म । न विद्यते याच्ञादैन्यं याच्ञा- कार्पण्यं यस्मिस्तत्तथोक्तं। देहात्युच्चारणानन्तरमेव सद्गृहस्थै - र्बहुमानपूर्वकं दीयमानत्वादिति भावः - यद्वा-व्यावहारिकदैन्यसंभ - वेऽपि पारमार्थिकदैन्याभावादिति भावः। न विद्यते प्रतिसुखं यस्य तत्तथोक्तं - स्वयमेव निरतिशयसुखं - न तु स्वस्य प्रतिभटभूतं सुखा न्तरमस्तीत्यर्थः । सर्वतस्सर्वत्राऽपि । भोतिच्छिदं भयविनाशकं - भिक्षाशनतत्परस्याकुतोभयत्वादिति भावः । दुष्टानां दुस्वभावानां - मात्सर्यमदाभिमानानामसहिष्णुत्वदर्पाहंकाराणां - मथनं निरासकं । दुःखौघविध्वसनं सांसारिकाशेषबाधानिवर्तकं - यद्वा - दुःखौघस्य भएकविंशतिमहादुःखसमुदायस्य - विध्वंसनं विच्छेदकं - एका ि- शतिमहादुःखध्वंसरूपमोक्षनिदानमित्यर्थः - 'आत्यन्तिकदुःख - ध्वंसो मोक्ष' इति वैशेषिकास्तार्किकाश्च । अत्र यत्किंचि वक्तव्य मस्ति - विस्तरभयानोच्यते । सर्वत्र सर्वेष्वपि देशेष्वित्यर्थः । तत्राऽप्यन्वहं प्रतिदिनं। तत्रापि चाप्रयत्नं यत्नं विनैव - सुलभं सुखलभ्य- मित्यर्थः । साधूनामनहंकारिणां - प्रियमिष्टं - पावनं पवित्र शंभो- शिशवस्य। सत्त्रं तृप्तिसाधनमित्यर्थः - रुद्रो येन कपालपाणिपुटके भिक्षाटन सेवते' इत्यनेनैवोक्तत्वात् - यद्वा शंभोस्सत्त्रं शंभुभक्ति- निरतान्नसत्त्रमित्यर्थः - खण्डमण्डलाधिपतिसत्त्रं तु नश्वरं इदं तु सकलभुवनाधीश्वरप्रवर्तितस्त्राच्छाश्वतमिति भावः । अत एवावार्यं न केनाऽपि निवारयितुं शक्यम्। अक्षयनिधिविनाशि निधानं च - नित्योपयोगेऽपिक्षयाभावादिति भावः । शंसन्ति कथयन्ति अनुभव- सिद्धत्वादित्थं वर्णयन्तीत्यर्थः ; अतोऽनर्थपरम्पराजनितदैन्यं या- च़्ञादैन्यं विहायोक्तरीत्या समस्त सद्गुण विचित्रं शंभुसत्त्रं प्रामाणि- कोक्तं समाश्रयणीयमिति भावः ॥ वृत्तं पूर्ववत् ॥

इति वैराग्यशतके याच्ञादैन्यदूषणं सम्पूर्णम् ।।

॥ भोगास्थैर्यवर्णनम् ॥

भोगे रोगभये कुले च्युतिमयं वित्ते नृपालाद्भयं
माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं,
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ।। ३१

 व्या...--अथ भोगानामस्थैर्याकथने याच्ञादैन्यमदूषितप्राय मेवेति मनसि निधाय तद्दूषणानन्तरं भोगास्थैर्यमाह - भोगइति- भोगे स्रक्चन्दनवनितासंभोगसुखानुभवे - नि. : भोगस्सुखेस्च्यादि- भृत्वहेश्च फणकाययोरि'त्यमरः । रोगाद्वात्तपित्ताद्यामयाद्भयमस्तीति

शेषः - तस्य तदन्तरायत्वादिति भावः । कुले सद्वंशे च्युतेराधारभ्रं-

शायं - तरयास्तदप्रतिष्ठावहत्वादिति भावः - अथवा च्युतेस्सन्ता- नविछेदाद्भयं तस्यास्संप्रदायोपहतिहेतुत्वादिति भावः । वित्ते द्रव्यस- मृद्धौ। नृपालाद्राजोभयं - तस्य तदपहरीत्वादिति भावः। माने अभि- माने। दैन्यात्कार्पण्याद्भयं - तस्य तद्भङ्गहेतुत्वादिति भावः। बले सामर्थ्य । रिपोश्शनोभयं - तस्य तदमनशीलत्वादिति भावः। रूपे सौन्दर्थे । जराया वार्धकावस्थायाः भयं - तस्यास्तद्विलोपित्वादिति भावः । शास्त्रे वेदान्तादिशामकलापे वादिभ्यः शुष्कतर्ककलहकण्ट- केभ्यः । भयं - तेषां तदपरोक्षकत्वादिति भावः। गुणे विद्याविनया - दिगुणगणे। खलाह जनाद्भयं - तस्य तदपकत्वादिति भावः। काये देहे। कृतान्तामाद्भयं - तस्य तदन्तकरत्वादिति भावः - नि- 'कायो देहः क्लीपपुंसोः' - 'कृतान्तौ यमासिद्धान्तावि 'ति चामर:- सर्वत्र के भीत्रार्थानां भयहेतु' रित्यपादानत्वात्पञ्चमी । अतः भुवि नृणां संबन्धि । सर्व वस्तु - भोगाद्यशेषार्थजातं । भयान्वितमुक्तरीत्या भयसहितं - सान्तकत्वात्सापायमित्यर्थः । किंतु। विगतो रागो विषयाभिलाषो - येषां ते विरागास्तेषां भावो वैराग्यं - तदेकमेव । न विधते भयं यस्य तदभयं भयहेतुत्वाभावान्निर्भय निरातङ्कत्वाभिरपाय - मित्यर्थः - यहा - विरागाः अस्थिरभोगा - स्तेषां भावो वैराग्यं - सद्रेकमेव न विद्यते भयं यस्य तदभयं । भयहेतुत्वाद्यभिनिवेशं परि- त्यज्य सुस्थिरवैराग्यमेवाश्रयणीयं श्रेयस्कामैरिति भावः ; इत्थं भोग इत्यादिष्वधिकरणसप्तम्याश्रयणन व्याख्यातं • सति सप्तम्याश्रयणे स्वेवं व्याख्येयम्---अतस्सर्व भुवि नृणां भयान्वितं भयाकरमि त्यर्थः । किंतु वेराग्यमेव न विद्यते भयं यस्मान्तत् अभयं भयानवा - रणमित्यर्थः । सति वैराग्ये सर्वस्यापि मिथ्यात्वेन प्रतीयमानतया द्वितीयाभावात् ; अतः भयावह भोगादिकं परित्यज्य भयापहं वैरा -- ग्यमेवाश्रयणीयमिति तात्पर्यम् ; शेष समानम् ॥

 एतदाद्यापश्चमात् शार्दूलविक्रीडितम् ॥

आक्रान्तं मरणेन जन्न जरसा चात्युज्जलं यौवनं
सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।
लोकर्मत्सरिभिर्गुणा वनभुवो व्याळेच्या दुर्जनै-
रस्थैर्येण विभूतयोऽयुपहताग्रस्तं न कि केन वा।। ३२

 व्या.....उपक्रान्तं भोगास्थैर्य तत्तद्भग्यन्तरेण नवभिर्वर्ण - . यति - आक्रान्तमित्यादिभिः - आक्रान्तमिति.---जन्म उत्पत्तिः। मरणेन स्वरूपनाशकेन मृत्युना । आक्रान्तं प्रस्तं -

जातस्य हि ध्रुवो मृत्युर्धवं जन्म मृतस्य च ।
अद्य वाऽब्दशतान्ते वा मृत्यु प्राणिनां ध्रुवः' ॥

इत्यादिवचनादिति भावः । अत्युजलमतिशयेन भास्वरं। यौवनं नूत- नवयः तारुण्यमिति यावत् । जरसा जरया - अपायहेतुभूतया । आक्रान्त * ' जराया जरसन्यतरस्यामि 'ति जरसादेशः । संतोषः देवशालब्धवस्तुजनितपरितोषः । धनलिप्सया तदुपद्रवकारिण्या धनवाञ्छया। आक्रान्तः * लभे स्सन्नन्तात् स्त्रियामप्रत्यये टाप शमसुख मिन्द्रियव्यापारोपरमापादितानन्दः प्रौढामानानां प्रगल्भवि. लासिनीना - विभ्रमैस्तदुपमर्दकैः कटाक्षविक्षेपकर्ण कण्डूयनेन - कोमलकुचमर्दनादि विलासैराकान्तं । गुणा: । विद्याविनयादयः। भोगास्थैर्यवर्णनम् २५१ मत्सरिभिः परोत्कर्षासहिष्णुभि लोकजैनैस्तदपवादकरित्यर्थः । उप- हताः अस्ता इति यावत् । वनभुवः पुण्यारण्यप्रदेशाः । व्याळे दुष्ट गजैः सर्या-तत्प्रवेशानवकाशप्रदैरिति भावः । उपहताः प्रस्ताः । नृपा राजानः। दुर्जनैर्दुमन्त्रोपदेशेन तद्बुद्धिविपर्यासकारिभिः पिशुनै रुपहतास्समाक्रान्ता इत्यर्थः। विभूतयस्संपदोऽप्यस्थैर्येण तदप्रति - ठावहेनास्थिरत्वेन । उपहताः दूषिताः । अतः किं वस्तु। केन वा उपद्रवंश । न प्रस्तमुक्तरीत्या सर्वमपि प्रस्तमेवेत्यर्थः ; अतस्सर्व - स्याप्यस्थिरत्वान्न कुत्रापि विस्रम्भः कर्तव्य इति भावः ।।

आधिव्याधिशतैर्जेनस्य विविधैरो यमुन्मूल्यते
लक्ष्मीयंत्र पतन्ति तत्र विकृतद्वारा इत्र व्यापदः।
जातं जातमवश्वनाशु विवशं मृत्युः करोत्यात्मसा-
त्तरिक तेन निरङ्कशेन विधिना यन्निर्मितं सुस्थिरम् ।। ३३

 व्या.—पुनः श्रोतृजनस्य विश्वासदाार्थमुक्तमेवार्थ भ - ङ्ग यन्तरेणाह - आधीति.-विविधैः नानाप्रकारैः। आधीनां मनो- व्यथानां - व्याधीनां पित्तादिशारीररोगाणां च - शतैरनेकैराधिव्या - धिभिरित्यर्थः - नि. ' पुंस्याधि मानसी व्यथा' - ' रोगव्याधिगदा- मया' इति चामरः । जनस्यारोग्यं देहस्वास्थ्यमन्मूल्यते निर्मू लीक्रियते तथा यत्र यस्मिन् पुरुषे । लक्ष्मीरैश्वर्यसमृद्धिस्तिष्ठतीति . शेषः । तत्र तस्मिन् पुरुषे। व्यापदः महोपद्रवाः - विवृतान्युद्धाटित- कवाटानि द्वाराणि कवाटानि यास तास्तथोक्ताइव पतन्ति तद्विघटनार्थ मप्रतिबन्धं प्रविशन्तत्यिर्थः । तथा । मृत्युरन्तकः जातं जातं प्रारब्ध - कर्मवशात्पुनः पुनरुत्पन्न * वीप्सायां द्विर्भावः । अत एव विवशं । २५२ वैराग्यशतके विह्वलं। जन्तुमिति शेषः। अवश्यं नियत माशु शीघ्रमेवात्म - सात आत्माधीनं करोति-मारयतीत्यर्थः * ' तदधनिवचने साति - रिति सातिप्रत्ययः । अतस्तेन प्रसिद्धेन । निरङ्कशेन निरर्गन - अप्रतिहतव्यापारणेत्यर्थः । विधिना ब्रह्मणा । यद्वस्तु निर्मितं तरिक वासुस्थिरं - न किमपीत्यर्थः ; अतोऽस्थिरभोगाशंसनं न कर्तव्य • मिति भावः ॥

भोगास्तुङ्गतरङ्गभङ्गतरळाः प्राणाः क्षणध्वंसिनः स्तोकानेय्व दिनानि यौवनसुखस्फूर्तिः प्रियासु स्थिता। तत्संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम्॥ ३४

 व्या.–तर्हि किं कर्तव्यमित्याशङ्कायां तेषामस्थैर्यकथन - पूर्वकं कर्तव्यं तावत् त्रिमिरुपदिशति - भोगा इति.---भोगाः सक्वन्दनादिविषयाः । तुङ्गतरङ्गाः कलोलाः - भङ्गाः अल्पतरङ्गाः त इव - तरळाश्चपलाः - अतिसूक्ष्माइत्यर्थः - न तु कतिपयेष्वपि दिवसेषु स्थायिन इति भावः । प्राणा: । क्षणध्वंसिनः - क्षणे क्षण- काल एव - ध्वंसो विनाशः - एषा मस्तीति तथोक्ताः - अस्थिरा - इति यावत् । यौवने - या सुखस्फूतिर्वेषयिकसुखाभिव्यक्तिस्सा- तोकान्येव दिनान्यल्पेष्वेव दिवसेष्वित्यर्थः * अत्यन्तसंयोग द्विती या। प्रियासु कान्तासु ! स्थिता स्थायिनी * कतरिक्तः । न तु यावजीवभाविनी - वार्धकदशायां तदपायादिति भावः । सत्तस्मा - स्कारणात् । बोधका हितोपदेष्टारः। हे बुधाविद्वांसः । निखिलं। संसारं भोगादिरूपम् । असारमस्थिरमेव बुद्धा आलोच्य लोका नुग्रहपेशलेन मनसा यत्नः समाधीयताम् परमदयाळुत्वप्रयुक्तानुग्रह- तया युष्माभिज्ञानोपदेशादिना संसारार्णवनिमग्नाज्ञजनास्तारयितव्याः - न तूपेश्याः - तथाविधजनाद्धरणे महाफलश्रवणादिति भावः। यद्वा - लोकानुग्रहे - लोकसंग्रहे - पेशलेनानुरक्तन - मनसा यनः ब्रह्मध्यानप्रयत्नस्समाधीयतां - कृतार्थत्वेऽपि युष्माभिरयं यत्नः कर्त- ब्यः । यतः - युप्मत्कृतप्रयत्न तात्पर्यण जना अपि कृतार्थी भवि- व्यन्ति-

'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ इति ॥ भगवद्वचनात् इति भावः ; समाधीयतामिति विध्यर्थे विहितोऽयं लोदप्रयोगः। परमपुरुषार्थसाधकब्रह्मध्यानप्रयत्नस्यावश्यविधेयता वि- वक्षया विपक्षे अनर्थप्राप्तिं च ज्ञापयतीत्यवधेयम् ॥

भोगा मेघवितानमध्यविलस सौदामिनीचञ्चला
आयुवायुविघट्टिताजपटलीलीनाम्बुवद्भङ्गरम् ।
लोला यौचनलालसा स्तनुभृतामित्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विधध्वं बुधाः ॥३५

\

 व्या.---पुनः प्रत्ययदायार्थं युक्त्यन्तरलाभाच उपदिष्टमे - वार्थ भङ्ग्यन्तरेणोपदिशति द्वाभ्यां - भोगा इति.-तनुभृतां शरीरिणां भोगाः पूर्वोक्ताः । मेघवितानस्याभ्रवृन्दस्य - मध्ये - विलसन्त्यः परिस्फुरन्त्यो - यास्सौदामिन्यः तटितस्ता इव- चञ्चलाः क्षणिका इत्यर्थः - नि. 'तटित्सौदामिनी विशुदि' त्यमरः सुदाना अद्रिणा एकदिक् सौदामिनीति विग्रहः * तेनैकदिगि' त्यण । तथा आयुर्जीवितं च । वायुना - विघट्टितं तरळितं - यदब्जपटली लीनाम्बु पनपत्रप्रान्तसंश्लिष्टजलबिन्दुः तद्वद्भङ्गरं भङ्गली - लावन्नश्वरमित्यर्थः । तथा । यौधने - लालसा: महाभोगामिला - षाः - नि. कामाऽभिलाषस्तर्षश्च स महान् लालसा द्वयोरि' त्य मरः । लोला अस्थिरा। इत्येवमाकलय्य आलोच्य । हे बुधाः । द्रुतं शीघ्रमेव - विलम्बस्यानवकाशादिति भावः । धैर्य धीरत्वं . समाधिश्चित्तस्थैर्य • तयोस्सिद्ध्या निष्पत्त्या - सुलभे सुखलभ्ये । योगे ब्रह्मध्याने । बुद्धिं निश्चयात्मिको मनीषां विधद्धं कुरुत - ब्रह्म - ज्ञाननिष्ठा भवतेत्यर्थः ॥

आयुः कल्लोललोले कतिपयदिवसस्थायिनी यौवनश्री-
राः संकल्पकल्पा धनसमयतटिद्विभ्रमा भोगपूगाः ।
कण्ठाले गोपगूढं तदपि च न चिरं यत्प्रियामिः प्रणीत
ब्रह्मण्यासक्तचित्ता भवत भवभया भोधिपार तरीतुम् ।।३६

 व्या.---आयुरिति---आयुः। कल्लोललोलं - कल्लोलवल्लोल - मतिभङ्गरं - न त्वाचन्द्रार्कस्थायीत्यर्थः. यौवनश्रीस्वनसंपत् । कति- पयेष्वल्पेषु - दिवसेषु तिष्ठतीति तथोक्ता - न तु यावजीवं वर्तिनी - त्यर्थः । अर्थाः धनधान्यग्रामपश्वादिवस्तु विभवास्संकल्पकल्पाः मनोरथतुल्या इत्यर्थः -- तेऽपि न चिरस्थायिन इति भावः * 'ईषदसमाप्तौ कल्पब्देश्य देशीयर' इति कल्पप् प्रत्ययः। भोग- पूगाः विषयपरम्पराः । घनसमये वर्षाकाले। यास्तटित - स्तासा - मिव-विभ्रमाः स्फुरणानि येषां ते तथोक्ता: - क्षणभङ्गुरा इत्यर्थः । तथा प्रियाभिः प्रौढाङ्गनाभिर्यत्कण्ठाश्लेषेण कण्ठग्रहेणोपगूढमुपगृहन मालिङ्गन मिति यावत् * भावेक्तः। प्रणीतं रचितं । तदपि प्रौढा. गनालिङ्गनमणि । न चिरं चिरकालावस्थायि न भवतीत्यर्थः । अतः हे बुधाः भवात्संसाराधद्धयं - तदेवाम्भोधि - स्तस्य पारं। तरीतुं संसारसागरमुल्लवितुमित्यर्थः । ब्रह्मण्यासक्तचित्ता भवत ब्रह्म- ध्यानकतत्परा भवतेत्यर्थः - न ह्येतव्यतिरेकेण तरणोपायं किंचिदपि पश्यामीति भावः । त्रिवारशुद्ध्या दृढतरविश्वासोत्पादनार्थ त्रिभि - इश्लोकैः परमार्थपर्यवसायिनी ब्रह्मध्याननिष्ठोपदिष्टा - न त्वनर्थ - पर्यवसायिनी संसारासक्तिः - यदत्र युक्तं तद्गाह्य तत्त्वविचारपारा - वारपाणैिरिति श्लोकत्रयतात्पर्यम् ॥ स्रग्धरावृत्तम् ।।

कृच्छ्रेणामध्यमध्ये नियमिततनुभिस्स्थीयते गर्भवासे
कान्त्ताविश्लेषदुःखव्यतिकरविषमो यौचने चोपभोगः ।
वामाक्षीणामवज्ञाविहसितवसति वृद्धभावोऽप्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यारीत किञ्चित
।।

 व्या.-ननु लोके प्रायशस्संसारसुखतत्परा एव दृश्यन्ते - अतः कथमयं निषिध्यत इत्याशझ्यादित आरभ्य विधार्यमाणेन . तत्र सुखलेशोऽप्यस्तीत्याह - कृच्छेणेति. ---गर्भवासे गर्भावस्थान - दशायाम् अमेध्यमध्ये मूत्रपुरीषमध्ये। नियमिततनुमिस्संकुचित - हात्रैः - प्राणिभिरिति शेषः। कुच्छ्रेगातिकष्टेन स्वीयते । तथा यौवने । उपभोगस्संभोगश्च । कान्ताविश्लेषेण प्रियतमावियोगेन - यो दुःखव्यतिकरो दुःखसंपर्क - स्तेन - विषमः विकलः । भवतीति शेषः। तथा। वामाक्षीणां मनोहरनयनानामवज्ञाविहसितानामय - मानपूर्वकपरिहासानां - वसतिः स्थानं - तासां तस्य हेतुत्वात्परिहा सास्पद मित्यर्थः । वृद्धभावो वृद्धत्वमायसाधुरसमीधीनः - अप - हसास्पदीभूतस्य कुतस्साधुत्वमिति भावः । अतः । रे मनुष्या: - रे इति नीचसंबोधने - नीचत्वं च सांसारिकत्वादिति द्रष्टव्यं - नि. 'नीचसंहबोधने तु रे' इत्यमरः । संसारे गर्भवासजन्मजरादिरूपे। स्वल्पं तुच्छं। किंचिदीषदपि । सुखमास्ति यदि वर्तते चेत् । तर्हि । तद्वदत ब्रूत ; अतः किमर्थ क्लिश्यत गर्भनिरयवासादिसांसारिक - दुःखैः । पुनरावृत्तिरहितनित्यनिरतिशयानन्दबन्धुरब्रह्मपदप्राप्त्यर्थ - मेव प्रयतध्वमित्यर्थः॥

व्याद्रिव तिष्ठति जरा परितर्जयन्ती
रोगाथ शत्रय इव प्रहरन्ति देहम् ।
आयुः परिषवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम्
।।

 व्या.....अथ स्वविनिपातहेतौ सन्निहिते लोका न कुशला भवन्ति महदेतदाचामत्याह - व्याघ्रीति.--जरा वार्धकावस्था । व्याघी व्याघ्राङ्गनेव * 'जातेरखीविषयादयोपधादि' ति डीप् । परितर्जयन्ती भीषयन्ती सतीतिष्ठति कळेबरकबळनाभिनिवेशेन वर्त- माना मृत्योः प्रत्यासत्ति मभिनिवेदयतीत्यर्थः । रोगाः वातपित्तश्ले - मादिम्याधयश्च । शत्रवो वैरिण । इव । देहं । प्रहरन्ति ताडयन्ति - परिपडियन्तीत्यर्थः। आयुश्च भिन्नघटात सच्छिद्रकलशात् अमन इव परिस्रवति प्रतिक्षणं नश्यतीत्यर्थः। तथाऽपि लोको जनः । अहितं । परापकारमाधरतीति चित्रमाश्चर्यम् । परापकारा- दन्यत्किमकुशलमिति भावः . यद्वा - अहितं स्वस्यानिष्ट माच रति स्वविनिपातहेतुभूतमेव कर्म करोति - न त्वात्मोद्धरणार्थं ब्रह्म - ध्यानादि करतीत्यर्थः । चित्रमाश्चर्य - तदुक्तं गीतासु -

'उद्धरेदात्मनाऽऽत्मानं नात्मान मवसादयेत् ।
आत्मैव ह्यात्मनो बन्धु रात्मैव रिपुरात्मनः
॥ इति

  • तर्जयन्तीत्यत्र तर्जयतेः परस्मैपदं - तर्जयन्निव केतुभि-

रि' त्यादिमहाकविप्रयोगासिद्धं - तर्जयते रनुदात्तेक्वेऽपि चक्षिको डित्करणेन अनुदात्तेवनिमित्तस्यात्मनेपदस्थानित्यत्वज्ञापनास्परस्मै पदमिति । उपमा वसन्ततिलकावृत्तम् ।।

भागा भङ्गरवृत्तयो बहुविधास्तैरेव चाय भव-
स्तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितः ।
आशापाशशतोपशान्तिविशदं चेतस्साधीयता

कामोत्पत्तिवशात् स्वधामनि यदि श्रद्धेय मस्मद्वचः}}।।३९

 व्या.---अथ सर्वथा यद्यस्मदुपदेशे विश्वासस्तहात्मन्येव । मनस्समाधेय न त्वन्यत्रेत्याह - भोगा इति.–भोगाः । विषयाः भङ्गरा भङ्गशीला वृत्तिर्येषां ते तथोक्ताः आगमापायित्वादस्थिरा इत्यर्थः। बहुविधाः नानाप्रकाराश्च • कारणवैचित्र्यपूर्वकत्वात्कार्य - वैचित्र्या इति भावः । अस्तु ततः किं ? तबाह - तै गैरेवायं परि . वर्तमानो। भवः । शरीरधारणादिसंसारः । कल्पित इति शेषः - जन्मान्तरीयकत्वान्तस्येति भावः-'भोगायतनं शरीरमिति वैशेषिका:- तत्तस्मात्कारणात् । रे लोका जनाः । इहान भवे । कस्य कृते - कस्य भोगस्य प्राप्त्यर्थमित्यर्थः - अर्थ कृते च शब्दो द्वौ तादयेंs 17 व्ययसंज्ञकाविति वचनात् । परिभ्रमत संचरत - न परिभ्रमितव्य - मित्यर्थः । संचितकर्मवशास्वत एव तेषां संभाव्यमानत्वादिति भावः । अतश्चेष्ठितैगसंग्रहव्यापारैः । कृतं तत्संग्रहव्यापारा न कर्तव्या इत्यर्थः - कृतमिति निषेधार्थकमव्ययं चादिषु पक्ष्यते - ' कृतमिति निवारणातिनिषधयोरिति गणव्याख्याने। तहि किमतः परं कर्त- व्यमुपदिश्यत इत्यतआह-अस्मद्वधः अस्मदीय मुपदेशवचनं । श्रद्धेयं यदि विश्वसनीयं चेत्-युष्माभिरिति शेषः । आशा अतितृष्णातस्याः- पाशा रजवइव-बन्धहेतुत्वात - नि. 'आशादिगति तृष्णयो रिति वैजयन्ती-तेषां शतानि-अनेकआशापाशा इत्यर्थ:-तेषा मुपशान्योप- शमनेन - विशदं निर्मलं चेतश्चित्तं कामोत्पत्तिवशात् अनुरागोदय: वशात् - अनुरागमुत्पावेत्यर्थः । स्वरूपमात्मा तद्रूपं - धाम स्थान - तस्मिन् - नि. 'खो ज्ञातावात्मनि स्वमि' त्यमरः । समाधीयतां स्थिरीक्रियताम् - अन्तरात्मप्रवणमेव क्रियतां - नबाह्यविषयासक्त - मित्यर्थः • अन्यथा तु महाननर्थस्स्यादिति भावः - यद्वा-स्वशब्देन । जीव उच्यते - तस्य धामनि निलयस्थाने परब्रह्मणि - अथवा - स्वधामनि स्वयंज्योतिषि - खरूपभूततेजसीति वा - इहात्यन्त विप्र - कृष्टार्था बहवः परिस्फुरन्ति - विस्तरभयान्न लिख्यन्ते। समा - धीयतां समाहितं क्रियतामित्यर्थः ; अयमेव हितोपदेष्ट्रवान्मुख्यगु- रूणामस्माकं परमोपदेशः - एतद्विश्वासेनान्यासङ्गं परित्यज्य मनो ब्रह्मणि कृत्वा तदाज्ञया श्रेयस्संपादनीयम् -

सत्संप्रदायसंयुक्तब्रह्मविद्याविशारदः ।
एवमादिगुणोपेतो देशिकोऽशेषवन्दितः

भोगास्थैर्यवर्णनम् २५९

इत्युक्तलक्षणदेशिकाचार्योपदेशवचनश्रद्धाभक्ति युक्तस्य श्रेयोलाभाव - श्यंभ'वात् ।

य्स्य देवे परा भक्तियथा देवे तथा गुरौ ।
तस्यैते कथिता ह्या प्रकाशन्ते महात्मनः ।।
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादशी भावना यत्र सिद्धिर्भवति तादशी
'।

इत्यादि श्रतिस्मृतिसहस्त्रेभ्योऽयमों निश्चीयत इत्यलमति प्रसङ्गेन। शार्दूलविक्रीडितम् ॥

ब्ब्ह्मेन्द्रादिमरुद्गगां स्तुणकणान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवन्ति विभवस्त्रैलोक्याज्यादयः ।
भोगः कोऽपि स एक एव् परमो नित्योदितो जम्भते
भोस्साधो क्षणभङ्गरे तदितरे भोगे रति मा कृथाः
।। ४०

 व्या.--ननु यदि ते सर्वथा भोग एव स्पृहा तयस्मदुपदिष्ट एवाभिरतिं कुरु नान्यत्रेत्युपसंहरति - ब्रह्मेति.-यत्र यस्मिन् निरतिशयैकनित्यभोगसाम्राज्ये । स्थितो वर्तमानस्सन् पुमानिति शेषः । ब्रह्मेन्द्रावादी येषां ते तथोक्ता ये मरुद्गणास्सुरसंघाः - तान- पि-किमुतान्यानिति भावः - नि. 'मरुतौ पवनामरा विति. जयन्ती। तृणकणान् तृणलेशान् - अत्यन्तनिस्सारान् परमनीचा - निति यावत् । मन्यते अवबुध्यते - पारमेट पवाराज्ययोरप्येतादृश- भोगसाम्राज्यसहस्रांशसादृश्यस्याप्यनहत्वादिति भावः * ' मन्य कर्म- ण्यनादरे विभाषाप्राणिवि'ति विकल्पादितीया। तथा। यस्य विशि- टमोगसाम्राज्यस्य - स्वादात रुच्यनुभवात् । यो लोकाः त्रैलोक्यं * ब्राह्मणादित्वात् व्यङ् • तत्र यद्राज्यमाधिपत्यं - तदादिर्येषां ते तथोक्ताः विभवास्संपदो। विरसाः अनभिमताः - हया इति यावत्। भवन्ति - तेषु तथाविधरुच्यतिशयाभावादिति भावः - यद्वा यस्य ब्रह्मानन्दरूपभोगस्य - स्वादात् - त्रैलोक्यराज्यमादिः कारणं - येषां ते तथोक्ताः - सकल भुवनाधिपत्यसंभवा इत्यर्थः - विभवास्सु- खसंपदः - विरसाः रसहीनाः - निकृष्टा इति यावत् - भवन्ति - ब्रह्मानन्दे क्षुद्रानन्दानामन्तर्भूतत्वात् - 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतरिति भावः। कोऽप्यनिर्वाच्यः । कुतः परमस्सर्वोत्कृष्टः - निरतिशय इति यावत्। तत्कुतः - नित्यो- दितः नित्याभ्युदयसंपन्नः इत्यर्थः। स एक एव भोगो ब्रह्मानन्दरू पो जम्भते महाराजश्रेत्रियाद्यानन्दानामुत्तरोत्तरतारतम्यमुलवाऽस्य सर्वोत्कृष्टत्वस्य श्रुत्युक्तत्वादिति भावः। अतः भोस्साधो सजनेत्युप- देशश्रवणाभिमुखीकरणार्थ स्तुतिः - अत्रैकवचनं समुदायाभिप्राय- मत एव रे लोका इति न पूर्वश्लोकोक्तबहुवचनविरोधः - अत्रास्मदु- पदेशं ये न शृण्वन्सि त एव नीचाः - यस्तु शृणोति स एव साधु- रिति संबोधनद्वयतात्पर्य। क्षणभङ्गुरे अनित्ये उपलक्षणमेतत् - परमनीच इत्यर्थः। तदितरे तस्माद्विशिष्टभोगादितरस्मिन् * अत्रा- स्मिन्नादेशाभावश्चिन्त्यः। भोगे सांसारिक सुखानुभवे। रति राग प्रीतिमिति यावत् - नि.-'रतिस्मरप्रियायां च रागेऽपि सुरतेऽपि घेति विश्वः। माकृथाः मा कार्षीः - किंतु पूर्वोक्त एव तस्मिन् भोगे रतिं कुरु - तस्यैव परमश्रेयस्करत्वादिति भावः * कृञो लुङि 'न मङयोग' इत्यडागमप्रतिषेधः ॥ वृत्तं पूर्ववत् ।।

इति वैराग्यशतके भोगास्थवर्णनं सम्पूर्णम् ।।

 ॥ कालमहिमानुवर्णनम्

सा रम्या नगरी महान्स नृपतिस्सामन्तचक्रं च त-
त्पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः।
उद्वृत्तस्स च राजपुत्रनिवहस्ते वन्दिन स्ताः कथा-
स्सर्वं यस्य वशादगात् स्मृतिपथं कालाय तस्मै नमः
॥ ४१

  व्या.- अथ सर्वस्यापि कालनियम्यत्वात्तन्महिमानं दश- भिर्वर्णयति-तत्रादौ तस्य नियामकत्वं प्रकटयन्नमस्करोति - सेति अत्र सर्वत्राऽपि तच्छब्दः पूर्वानुभूतविषयः - अत एव न यच्छ- ब्दापेक्षा - तदुक्तं काव्यप्रकाशे - ‘प्रक्रान्त प्रसिद्धानुभूतार्थ गोचर- स्तच्छब्दो न यच्छन्दमपेक्षत' इति । तथा च। सा पूर्वानुभूता। रन्तुं योग्या रम्या - मनोहरा नगरी राजधानी च। तत्र स महान् साम्राज्यभारधौरेयतया पूज्यः। नृपतिः राजा च। * तस्येति संब न्धसामान्ये षष्ठी सर्वत्र संबध्यते • तस्य नपृत्तेस्तत् सामन्तचक्रं प्रत्यर्थिराजमण्डलं - यद्वा - सेवार्थं समागताखण्डमण्डलाधिपत्तिपरि- पवारश्च - तस्य पार्श्वे स्थितमिति शेषः । सा विदग्धपरिषत् विद्वत्समा च अथवा - विदग्धानां कर्तव्यार्थचतुराणां - परिषत् समुदायश्च- ‘कृत्यवस्तुषु चातुर्यं वैदग्ध्यं परिकीर्तितम्' लक्षणात्। तस्य ताश्चन्द्र- बिम्बमिवाननं यासां तास्सुन्दर्यश्च । यस्य स । उद्धृत्तः उत्पथगतः उद्दण्ड इति यावत् । राजपुत्त्रनिवहः राजकुमारवर्गश्च। तस्य ते। वन्दिनस्तुतिपाठकाश्च - नि.- वन्दिनः स्तुतिपाठका' इत्यमरः । यस्य ताः कथाश्च । श्रव्यवाचश्चेति । सर्वमशेषमपि। यस्य कालस्य । वशादायत्तत्वात् - नि.- वश आयत्ततायां चे' त्यमरः। स्मृतिपथं स्मरणमार्गं * कारि'त्यादिना समासान्तोऽत्प्रत्ययः। अगात् प्रापत्त् - कालमहिम्ना सर्वमपि नष्टमभूदित्यर्थः - सर्वसंहतुः कालस्य महिमा वर्ण्यत इति भावः 'इणो गालुङी 'ति इणो लुङि गादेशः। तस्मै कालाय । नमः ग्रहीभावः - कालः कलयतामहमिति भगवद्वचनात्कालो भगवानेव । तथा च तन्नमस्काररूपमङ्गलाचरणं युज्यत इति भावः * 'नमस्स्वस्ती'त्यादिना चतुर्थी ।।

 शार्दूलविक्रीडितम् ।।

यत्रानेकः कचिदपि गृहे तत्र तिष्ठत्यर्थैको
यत्राप्येकस्तदनु बहवस्तत्र नैको पि चान्ते ।
इत्थं नेयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ
काल: कल्यो भुवनफलके क्रीडति प्राणिशारैः
॥ ४२

 व्या..-अथास्यामधूर्तसाम्येन सर्वप्राणिनियन्तृत्वमाह-यत्रे- ति.-----यत्र यस्मिन् गृहे - वेश्मनि कोष्ठे च । क्वचिदपि कदाचित् - यद्वा - यत्र कचिदपि यस्मिन् कास्मिंश्चिगृहे। अनेकः बहुळः । प्राणी शारश्च तिष्ठति - अथानन्तरं तत्र तस्मिन्नेव गृहे। कदाचि! देकस्तिष्ठति - एकत्र कालभेदवशादन्यत्र परिणामवशाच्चेति भावः । तथा - यत्र यस्मिन् गृहे कदाचिदेकस्तिष्ठति तदनु तदनन्तरं - बह वश्च तिष्ठन्तीति शेषः। तत्र तस्मिन् गृहे। अन्ते अवसानकाले द्यूतसमाप्तौ च । एकोऽपि च न तिष्ठति। इत्थमुक्तरीत्या। भुवनं फलकमिव शारप्रवर्तनोचित कोष्टयन्त्रमिव - तस्मिन् । नेयैः प्रवर्त- नीयैरिति यावत्। प्राणिनः शारा: - द्यूतगूढा इव अक्षोपकरणानी- वेति यावत् - तैस्साधनैः - नि.-'पल्याणेऽस्त्रीविहङ्गे ना (शारो) द्यूतगूढे नपुंसकमि 'ति वैजयन्ती। कल्यः कलनासमर्थः देवनचतु- रश्च । कालः कर्ता अक्षधूर्तश्च गम्यते। रजनिदिवसौ रात्र्यहनी कर्मणी। द्वावक्षौ पाशकाविव - नि.-'पणोऽक्षेषु गृहोऽक्षास्तु देव- काः पाशकाश्च त' इत्यमरः । लोलयन् पौनःपुन्येन गृह्णन् विसृजं- श्वेत्यर्थः। क्रीडति दीव्यति . प्राणिसंयोग वियोगयोः वृद्धिक्षयादीनां काल एवं कर्तेत्ति भावः ।। -  अत्राक्षाबिवेति स्पष्टोपमालिङ्गात्सर्वत्रोपमितिसमासः - अत एवोपमालंकारः। यदि चाक्षक्रीडनोपयोगित्वाद्रूपकमेवाश्रयणीय . मित्यभिमानस्तदैकदेशवर्तिरूपकमुपमात्वङ्गमिति संक्षेपः ।।

 मन्दाक्रान्तावृत्तम् ॥

आदित्यस्य गतागतैरह रहस्संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत्
॥ ४३

 व व्या.--अथ नित्यप्रमत्तोऽयं लोको नैतन्महिमानं ज्ञातुं शक्नोतीत्याह - आदित्यस्येति.--आदित्यस्य सूर्यस्य गतागतैरुदया- स्तमयैरिति यावत् । अहरहः प्रत्यहम् - अहन्यहनीत्यर्थः वीप्सा यां द्विरुक्तिः * अत्यन्त संयोगे द्वितीया । जीवित मायु स्संक्षीयतेवैराग्यशतकेविनश्यति । कालक्रमेणायुः क्षयो भवतीत्यर्थः ॐ क्षि क्षय' इत्य- स्माद्धातोः कर्तरि लट् । तथापि । सोऽयं न ज्ञायत इत्याह - बह - वोऽनेके - ये कार्यभाराः देहगेहादिनिमित्तकर्तव्यार्थपरम्परा: - तैर्गुरुभिर्गरिष्ठै ; र्व्यापारैर्जीवनोपायोद्योगैः । कालोऽपि जीवितक्ष- यकरसमयोऽपि । न ज्ञायते कार्यशतपर्याकुलव्यापारपारवश्यान्नाव - बुध्यत इत्यर्थः । तथा । जन्मजराविपत्तिमरणम् - उत्पत्ति जराव - स्थाविपन्निधनानीत्यर्थः 'सर्वो द्वन्द्वो विमाषैकवद्भवती' त्येकव . द्भावः । दृष्ट्वा । त्रासो भीतिश्च नोत्पद्यते नोदेति । किंतु जगत्स - र्वोऽपि लोकः। मोहमयीमज्ञानप्रचुरो बुद्धिविपर्यासकारिणीमिति यावत्, * प्राचुर्य मयट् - ट्त्त्वात् ङीप् - नि. ' प्रमादोऽनवधान - ते ' त्यमरः । मदिरा मधं-तां । पीत्वा निषेव्य । उन्मत्तभूतं क्षीब- कल्पं - विवेकशून्यमिति यावत् । भवतीति शेषः : कालेनैव प्रमादं प्रापितोऽयं लोकः कथंकार मेतन्महिमानं ज्ञास्यतीति भावः ।।

 एतदादि श्लोकपञ्चकं शार्दूलविक्रीडितम् ॥

रात्रिस्सैव पुनस्सएव दिवसो मत्वा मुधा जन्तवो
धावन्स्युद्यमिन स्तथैव निभृतप्रारब्धतत्तत्क्रिया ।
व्यापारैः पुनरुक्तमुक्तविषयैरेवंविधेनामुना
संसारेण कदर्थिता वयमहो मोहान्न लजामहे
।। ४४

 व्या.-उक्तमेवार्थं भङ्गयन्तरेणाह - रात्रिरिति..--रात्रि रियं प्रवर्तमाना रजनी । सैव पुनः गतरात्रिसदृश्येवेत्यर्थः - पुनश्शब्दो वाक्यालङ्कारे - अथवा रात्रिः पुनः भूयोऽपि। सैव गतरात्रिरेव - नैतद्भेदो विज्ञायत इति भावः। तथा दिवसः अहस्स पुनस्स एव गतदिवससदृश एवेत्यर्थः - पूर्ववद्विकल्पोऽत्राऽप्युन्नेयः। इति मत्वा बुद्धाऽपि। जन्तवः प्राणिनः उद्यमिनः तत्तदर्थसाधनोद्योगवन्तः । तथैव, निभृतं निगूढं परेषामप्रकाशमिति यावत् - प्रारब्धा उपक्रा- न्तास्तत्तक्रियास्तत्तदर्थसाधककर्माणि - येषां ते तथोक्ताश्च सन्तः । पुनरुक्तभूताः पुनःपुनरनुभूतकल्पाश्चर्वितचर्वण प्राया इति यावत् - तथाभूता विपया; जन्धियब्ध्यादिभोगा येषु तै र्व्यापारैश्वेटामिः । मुधा व्यर्थ । धावन्ति - पृथाप्रयासमन्तरेण फलान्तरसंभवादिति भावः । किं त्वित्थं विधेनैवं प्रकारेणामुना परिवर्तमानेन। संसारेण कुत्सितोऽर्थः कदर्थः ? को: कत्तत्पुरुषेचे 'ति कुशब्दस्य कदादेशः कदर्थवन्तः कृताः कदर्थीकृताः हीना कृता अपि * कदर्थशब्दा- 'त्तत्करोतीति ण्यन्ताकर्मणि क्तः ॐ णाविष्टद्भावे विन्मतोर्लुक् । वयं । मोहादज्ञानान्न लजामहा न जिह्रीमः। अहो एवं कालमहिम्ना निस्सार्य तिरस्कृता अपि लज्जां न प्राप्नुम इत्याश्चर्यमित्यर्थः ।।

न ध्यातं पदवीधरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकवाटपाटनपटु र्धर्मोऽपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गिन्तं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम्
॥ ४५

 व्या..-अथ लोके तावत्पुरुषाणां धर्मार्थकाममोक्षरूपचतु- र्विधपुरुषार्थसंपादनसाधनीभूततया परमेश्वरपदध्यानेज्याध्ययनयशो- वित्तार्जन गुरुशुश्रूषाङ्गनालिङ्गनादयो यथायोगं विधेयाः। अस्मा- भिस्तु तेषां मध्ये न कश्चिदपि विरचितः। अतोऽस्मजन्मनिरर्थक- मिव जातमिति वारं वारं शोचतां वचनमभिनीयाह - न ध्यातमि त्यादिभिः त्रिभिः - न ध्यातमिति.-संसारविच्छित्तये संसारोच्छे- दार्थ मोक्षप्राप्त्यर्थमित्यर्थः। ईश्वरस्य शंभोः * 'स्थेशभासे' त्या- दिना वरम्। पदं पादारविन्दयुगळमित्यर्थः। विधिवत् विध्यहं . यथाशास्त्रमित्यर्थः * 'तदर्हमिति बतिप्रत्ययः। न ध्यातम् एकाग्र- चित्ततया न ध्यानविषयीकृतं - यतः “ शम्भुपादाम्बुजध्यानं साक्षा- न्मोक्षैकसाधनिमै 'त्यनेक पुराणेतिहाससंहितावचनैस्साक्षान्मोक्षसा- धनतया विधेय मित्यभिहितं शम्भुपदध्यानं न विहितमितस्तत्साध्य- मोक्षपुरुषार्थो न संपादित इति भावः । तथा धर्मार्थासंपादनानुशो- चनं कथयन्ति- 'अत्र अथातो धर्मजिज्ञासे' त्युपक्रममाणस्सूत्रकृन्म- हर्षिधर्मस्य प्राधान्येन स्वतस्सिद्धं पुरुषार्थत्वं मन्यते - फलं स्वानुष- ङ्गिकम् - अन्ये पुनस्साक्षात्परम्परया च स्वर्गापवर्गपुरुषार्थद्वयसाधन- तया सुखहेतौ चन्दने सुखत्ववदौपचारिकं मन्यते तत्र च द्वितीयं पक्षमाश्रित्याह - स्वर्गेति - अत्र स्वर्गशब्दोऽपवर्गस्याप्युपलक्षकः - तथा च स्वर्गापवर्गयोः कवाटयोः पाटने विदलने पटुः समर्थः । स्वर्गापवर्गसाधक इत्यर्थः। धर्मो ज्योतिष्टोमादिरपि नोपा- र्जितः न संपादितः। यतः - ज्योतिष्टोमेन स्वर्गकामो यजेत' --- 'धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्ष मवाप्नुयादि'त्यादिश्रुतिस्मृतिभिः पुरुषार्थद्वयसाधकत्वेनावश्यमनुष्ठेय इति बोधितो धर्मोऽपि नानु- ष्ठितः - अतस्तत्साध्य पुरुषार्थद्वयमपि न सिद्धमिति भावः। अत्र देहळीदीपन्यायेन स्वर्गापवर्गसाधकत्त्रकथनं धर्मस्य कश्चिदतिशयं द्योतयति - ततो न पौनरुक्तयमित्यनुसंधेयं। तथा नारीणां पीनौ पीवरौ यो पयोधरौ स्तनौ तयोः उरु दुर्भरं यद्युगळं पीवरदुर्भरकुचकालमहिमानुवर्णनम् २६७. कुम्भयुग्ममित्यर्थः - यद्वा पयोधरयोरूर्वाश्च युगलं पयोधरयुगळमू- रुयुगळं चेत्यर्थ: - तत् । स्वप्नेऽपि स्वप्नावस्थायामपि किमुत जाग्रद- वस्थायामिति भावः । नालिङ्गित नाश्लिष्टं

“संसारे पटलान्ततोयतरळे सारं यदेकं परं
यस्यायं च समग्र एष विषयग्रामप्रपन्नो जनः ।
तत्सौख्यं परतत्त्ववेदनमहानन्दोपमं मन्दधीः
को वा निन्दति सूक्ष्ममन्मथकलावैचित्र्यमूढो जनः
१ ॥

इत्यादिकामशास्त्रोक्त्तया कामपुरुषार्थस्याप्युपादेयत्वात्तनिष्पादकत्वे . नाधिगतमङ्गनाकुचकुम्भालिङ्गनाधरचुम्बनादिकमपि न कृतमतस्तन्नि- ष्पाद्यकामपुरुषार्थोऽपि न समर्थित इति भावः - अयमेव भावः उत्तरपद्यद्वयेऽप्यनुसंधेयः अत्र बाह्यसुरते पयोधरालिङ्गनं सुरतप्रयो- ज्यग्राम्यकरणे डोलायित्तबन्धे उरुयुगळालिङ्गनमिति विवेकः - अत्र वात्स्यायनीया:---

" बाह्यमाभ्यन्तरं चेति द्विविधं रतमुच्यते ।
__ तत्राद्यं चुम्बनाश्शेषनखदन्तक्षतादिकम् ।।
द्वितीयं सुरतं साक्षान्नानाकरणकल्पितम्
॥” इति-

किं तु केवलमत्यन्तं मातुर्जनन्या । यौवनं तारुण्यमेव - वनं सुपुष्पि- तोधानं - तस्य च्छेदे विदारणे। वयं कुठाराः परशव एव । यौवनस्य पुत्त्रोत्पत्त्यवधिकत्वात्तदुच्छेदनसाधनभूता एव - न त्वर्थान्तरसाधका अतो निरर्थकमस्मज्जन्मेति भावः ॥

नाभ्यस्ता प्रति वादिवृन्ददमनी विद्या विनीतचित्ता
खड्गाग्रैः करिकुम्भपीठदळनैर्नाकं न नीतं यशः

कान्ताकोमलपल्लयाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत्
॥ ४६

 व्या.-नेति.-~-दम्यते भज्यते अनयेति दमनी भञ्जनी - प्रतिवादिबृन्दानां प्रतिभटवादीश्वरनिवहानां - दमनी - अथवा - प्रतिवादिना बृन्दानि दमयतीति तथोक्ता - संप्रदायशुद्धदेशिकाचा - र्यशिक्षानिबन्धननिष्कृष्टवक्तृप्रयुक्त वीर्यातिशयवर्धमानप्रतिवादिपा . ण्डित्यगर्वनिर्वापणसमर्थेत्यर्थः * ' कृत्यल्युटो बहुळमि' त्युभय - त्रापि कर्मकर्तरि ल्युट - टित्त्वात् ङीप् । तथा। विनीतानां साधूना मुचिता सहृदयहृदयाह्रादिनीत्यर्थः-यद्वा-विनीतानां विनयविधेयत्वा- दिगुणोपेतानां-शिक्षितानामिति यावत् - उचिता - अभ्यासार्हा-नि, ' अभ्यासेऽप्युचितं न्याय्य मि' त्यमरः । विद्या वेदशास्त्रपुराणादि- रूपा ): नाभ्यस्ता नाभ्यासविषयीकृता - सम्यक् न परिशीलितेति यावत् - अधीताऽपि विद्या' सम्यक्परिशीलनाभावे फलवदर्थावबो धकापर्यवसायित्वादनधीतप्रायैव भवतीति भयात्-'आवृत्तिरसकृदुप- देशादिति न्यायेन तत्परिशीलनस्य कल्पोक्तेश्च सर्वथा परिशीलनस्यैव प्रथमतः अनधीतैव चेन्न-तत्र प्रत्युत्तरावकाशः - एवं व्यवस्थायां सत्यां : विद्यानामनरस्य रूपमधिक मि' त्यादिवचनेन कीर्तिप्रति . ठाविज्ञानादिफलसाधनतया अध्ययन पूर्वक मभ्यसनीयेति बोधिता। विद्या नाधीता नाभ्यस्ता च - तत स्तत्साध्यफलजातमपि न संगृ.. हीतमिति भावः । तथा करिकुम्भाः पीठानीव तेषां दळतैर्विदारकैः। अथवाकरिकुम्भपीठानि दळयन्तीति तथोक्तानि - तैः * शत्रसे - नासंरम्भ विजम्ममाण करिकुम्भस्थलपाटननिराघाटपाटवैरित्यर्थः * 'दळविदळन'इति धातोः पूर्ववल्ल्युट् । खङ्गाग्रैः । यशः कीर्तिः । नाकं स्वर्गं - नि. 'स्वर्गान्तरिक्षयो र्नाक इ' त्यमरः । न नीतं न प्रापितं क्षत्रधर्मेण लोकान्तरश्लाघनीयकीर्तिरपि न संपादितेत्यर्थः - यथा लोके प्रासादाद्यन्नतस्थानं प्रापणीयं वस्तु वेणुदण्डाग्रादिना प्रापयन्ति तद्वदिति ध्वनिः • अथवा - खगाग्रैः । खड्गधाराभिस्साधने । र्यानि करिकुम्भपीठानां दळनानि विदारणानि - तैर्हेतुभिः - शत्रुसे - नादन्तिनिवहारुन्तुदखड्गप्रहारैरित्यर्थः । यशः नाकं न नीतं - “कीर्तिं स्वर्गफलामाहुरासंसारं विपश्चित ' इत्यादिवचनैः स्वर्गसाध- नत्वेन निवेदिताऽपि कीर्तिर्न संपादिता - ततस्तत्साध्यफललामो न जात इति भावः । अत्र क्षितितले ' किं जन्मकीर्ति विने' ति वध- 'नाजन्मसाफल्यार्थम् । कीर्तेः पृथमुख्यत्वेन संपादनीयत्वादानुषङ्गि- कफलकत्वात्साधनाम्तरत्वात्स्वर्ग मात्रसाधकत्वाच्च स्वर्गद्वारकवाट - पाटनपटु र्धर्मोऽपि नोपार्जित ' इत्यनेन नपौनरुक्त्यमित्यवगन्तव्यं । नाकं न नीतं यशः' इत्यत्र के नीवह्योर्न 'इति वचनाद्दिकर्मकान्न- यतेः कर्मणि क्तप्रत्ययः - अत एव यशसः प्रथमान्तस्य प्रधानकर्म - त्वम् - अन्यत्र · अकथितं ' चेति -

प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणां।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः
' in

 इति वचनात् । तथा चन्द्रोदये चन्द्रोदयसमये। कान्तायाः प्रिय - तमायाः - कोमलो मृदुलो - यः - पल्लवाधरः किसलयकल्पाघरोष्ठः - तस्य - रसः अधरामृतमित्यर्थः । न पीतः नास्वादितः - नि. तिक्तादौ चामृते चैव निर्यासे पारदे ध्वनौ - रस ' इति शब्दार्णवे पल्लवाधरसुधा पीते ति पाठे स्पष्टोऽर्थः । अतो न तृतीयपुरुषा - र्थोऽपि सम्पादित इति भावः- तटस्थोद्दीपनविभावश्व चन्द्रस्य शृङ्गा- ररसनिमित्तकारणत्वात्तदुदयोक्तिः - तदुक्तं शृङ्गारतिलके - ' मल - यानिलचन्द्राद्यास्तटस्थाः परिकीर्तिता' इति । अतस्तारुण्यं यौवन । शून्यालये निर्जनगेहे । दीपेन तुल्यं दीपवत् * - * तेन तुल्यं क्रिया नेद्वतिरिति वतिप्रत्ययः । निष्फलं निरर्थकमेव । गतं यथा शून्यगृह- दीपस्य कस्यचिदप्यनुपयोगानिरर्थकत्वं तथा तारुण्यस्यापि कस्यचिद- प्यर्थस्यासाधकत्वान्निरर्थकत्वमित्यर्थः । अहो इत्याश्चर्ये विषादेवा ॥

 तद्धितगतेयमुपमा ॥

विद्या नाधिगता कळङ्करहिता वित्तं च नोपार्जितं
शुश्रयापि समाहितेन मनसा पित्रोर्न सम्पादिता ।
आलोलायतलोचनाः प्रियतमास्वोऽपि नालिङ्गिन्ताः
कालोऽयं परपिण्डलोलुपतया काकैरिप्रेरितः
॥ ४७

 व्या.----विधेति.-कळकरहिता निष्कलङ्का - सप्रमाणे - त्यर्थः । विद्या । नाधिगता नाभ्यस्ता नाधीतेति यावत् - ' नाभ्य - स्ताप्रतिवादिवृन्दमनी' त्यत्र उक्तभाव एवात्राप्यनुसंधेयः । वित्तं त्यागभोगपर्याप्तं धनं च नोपार्जितम् -

'  यस्यास्ति वित्तं स नरः कुलीनस्सपण्डितस्सश्रुतवान् गुणज्ञः॥ स एव वक्ता स च दर्शनीयस्सर्वे गुणाः काञ्चनमाश्रयन्ते' । . इत्युक्तः -

धनमार्जय काकुत्स्थ धनमूलमिदं जगत । अन्तरं नाभिजानामि निर्धनस्य मृतस्य च ॥ इत्यादिवचनेन च बहुफलसाधनतया अर्जनीयमित्युपदिष्टं वित्तं नार्जितं - ततस्तत्साध्यफलमपि न साधितमिति भावः । ननु -

अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
रक्षितानां व्यये दुःखं धिगर्थं दुःखभाजनम्
' ॥

इति निषेधोक्तः कथं तदुपार्जनाभावानुशोचनमिति चेत्सत्यं तस्याप्य- वहिताविसंवाद्यैहिकामुष्मिकफलजनकत्वेनाभ्यर्हितत्वात्पुरुषार्थपर्य - बसानाच्च न दोष इति मन्तव्यं । तथा समाहितेन सावधानेन प्रसन्नेनेत्यर्थः। मनसा अन्तःकरणेन - अन्तः करणशुद्धिपूर्वकं विहितस्य कर्मणः फलजनकत्वनियमादिति भावः । पित्रोर्मातापि - त्रोरित्यर्थः - नि. 'मातापितरौ पितरावि' त्यमरः * · पितामात्रे' त्येकशेषः । शुश्रूषा परिचर्या सेवेति यावत् - नि. ' शुश्रूषा श्रोतु - मिच्छायां परिचयर्यावधानयो' रिति विश्वः - न संपादिता न कृता-

'मातापितृसमं देवं सर्वेषां न हि विद्यते ।
तस्मात्समर्चयेन्नित्यं पितरौ देवरूपिणो'
।।

इत्यादिवचनैः सर्वेश्वराराधनकल्पतया बहुफलदायकत्वेन कर्तव्येति बोधिता पितृसेवा न कृता - ततस्तत्साध्यफलमपि न सम्पादित - मिति भावः। आलोले चञ्चले तरले - आयते कर्णान्तविश्रान्ते - च लोचने यासां ताः - जगन्मोहननयनविलासवत्य इत्यर्थः । प्रिय- त्तमा अत्यन्तमनोविनोदकारिण्यः संभोगयोग्यास्समानुरागिण्यस्तरु- 'ण्य इत्यर्थः-अन्यथा रसाभासप्रसङ्गात् । स्वप्नेऽपि नालिङ्गिताः । एते- नात्यन्तमिथ्याभूतस्वप्नालिङ्गनाद्यभावानुशोचनेन जाग्रद्दशायां तस्या- त्यन्तासंभाविसत्वं सूच्यते । ननु कामनिष्पत्यर्थमङ्गनालिङ्गानाधर चुम्बनादिकमावश्यकं - तत्र पूर्वश्लोके अधरचुम्बनमुक्तं - किं तु पूर्वतर श्लोकोक्तमेव आलिङ्गनं पुनरत्राप्युक्तम् - अतः पौनरुक्त्यदो- षः प्रसक्त इति चेन्न - तत्र कतिपयालिङ्गनाभावमात्रानुशोचनमत्र तु सर्वाङ्गनालिङ्गनाभावानुशोचनमिति न दोषप्रसक्तिरिति वेदि - तव्यम् । कि त्वयं परिवर्तमानः । काल: । काकैर्वलि बुग्भिरिव अस्मा मिरिति शेषः। परपिण्डेषु परान्नेषु - लोलुपतया लालसतया - सावमानपरपिण्डादनकुक्षिम्भरितयेत्यर्थः। ते प्रेर्यते याप्यते- न स्वर्थ साधकतयेति भावः - नि. ' परान्नः परपिण्डाद' इत्यमरः * प्रपू- र्वादीरयतेः कर्मणि लट'। एतत्सर्वं कालविलसितमेवेति तात्पर्यम् । यद्यप्यन्त्र वैराग्यप्रकरणे धर्मार्थपितृशुश्रूषाविद्यायशोऽधिगमानां यथाकथञ्चित्पुरुषार्थोपयोगितया तदभावानुशोचनं वक्तुंयुक्तं - न त्वङ्गनालिङ्गनादिसंभोगाभावानुशोचनं - तदपि श्लोकत्रयेण त्रिवार - सिद्ध्यर्थं कथयितुमत्यन्तायुक्तं-ननु विद्याध्ययनाभावे द्विवारानुशो - चनं युक्तमिति चेत् न तस्य उपादेयत्वेन शतकृत्यम्तदभावानु- शोचनेऽप्यनौचित्याभावात्। अन्यस्य त्वनुपादेयत्वादेतदनुशोचन- मनुचितमिव प्रतिभाति • तथाऽपि तस्यापि पुरुषार्थमध्यपरि - गणनया संपातापातत्वात् - प्रसूतिभाजो विश्वस्य स्त्रिपुंसाभ्यामेव निष्पन्नत्वात्कामस्य पुरुषार्थत्वेन च पितृऋणविमोचनहेतुभूततया च सादृशशास्त्रस्य महापुरुषप्रणीतत्वात् - “ धर्माविरुद्धो भूतेषु कामोड स्मिभरतर्षभेति भगवद्वचनान्तद्विरुद्धस्यैवानुपादेयत्वात् - अत्र तद- विरुद्धस्यैतत्कामस्य विवक्षितत्वेनोपादेयत्वाच्च तदेवानुशोचितुमु - चितं। यद्वा लोके तावदुत्तमयस्त्वलाभे अधमवस्त्वपेक्षा - तस्याप्य लाभे तदनुशोचनं प्रायशः प्रसिद्धं - यथा पिपासितस्यालब्धशर्क - रापानकस्यारनाळापेक्षायां नदलाभे अनुशोचनं - उद्यत्कालविप्रलब्ध - स्याधिगतपरमार्थानामपेक्षायां तदलामेऽनुशोचनमुचितमेव अत एवं श्लोकत्रयेऽपि प्रतिश्लोकं पूर्वार्धे उत्तममध्यभेदेन पक्षद्वयाभावानु शोचनमुक्ता अधमत्वातिशयेन तृतीयपक्षे तदभावानुशोचनमुक्तमि - त्यलमतिप्रपञ्चेन ॥

वयं येभ्यो जाता चिरपरिमता एव खलु ते
समं यै संवृद्धास्स्मृतिविषयतां तेऽपि गभिताः ।
इदानी मेते स्मः प्रतिदिवसमासन्नपतना
गतास्तुल्यावस्थां सिकतिलदीतीरतरुभिः
॥ ४८

 .-अथ कालविकलनाविपाकवचनमाह - वयमिति.- वयं येभ्यो मातापितृभ्यो जाता उत्पन्नास्ते चिरपरिचिता एव चिर- कालपरिचयवन्त एव विनष्टा इत्यर्थः। खलु शब्दोऽत्र निश्चये वाक्यालंकारे वा। तथा यैर्जनैस्समं। संवृद्धास्सम्यग्वृद्धिं गताः - संवृत्ता' इति पाठे प्रवृत्ता इत्यर्थः। तेऽपि। स्मृतिविषयतां स्मरण- गोचरत्वं । गमिताः प्रापिताः। कालेनेति शेषः - तेऽपि नष्टा इत्यर्थः

  • गमेर्ण्य॑न्तात्कर्मणिक्तः * गतिबुद्धी'त्यादिना अणि कर्तुः

कर्मणि ण्यन्ते कर्तुश्च कर्मण' इति वचनात् - अथवा गमिता 'गता इत्यर्थः - स्वार्थे णिच् 'रामो राज्यमकारयदिति वत् । इदा- नी वार्धकावस्थायामेते वयं। प्रतिदिवसं प्रत्यहं * यथार्थेऽव्ययी- भावः। आसन्नं समीपवर्ति - पतनं निधनं - येषां ते तथोक्ताः । अत एव । सिकतास्मिन्नस्तीति सिकतिलं सैकतप्राय * *देशे लुबि- 18 लचौ चे' त्यनेन तदस्त्यस्मिन्नित्यर्थे इलच् प्रत्ययः - यन्नदीतीरं नदी- तटप्रदेशः - तत्र ये - तरवः वृक्षा • स्तै - स्तुल्यावस्थां गताः सम - दशां प्राप्तास्स्मः । क्षिप्रमेव यास्याम इत्यर्थः। एतत्सर्वं कालकृत - मेव अन्यथा कथमन्यस्यदृक्सामर्थमिति भावः ।।

 अत्र तरङ्गभङ्ग्याघातै स्सिकतापनये अविलम्बेन तरूणां निर्मूलोन्मूलः - तद्द्द्योतनार्थ नदीतीरस्य सिकतिलविशेषणं-

 नि. 'स्त्री शर्करा शर्करिलश्शार्करावति ।  देश एवादिमावेव मुन्नेयौ सिकतावति । इत्यमरः ॥  शिखरिणीवृत्तम् ॥

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषे व्याधिवियोगदुःस्वसहितं सेवादिभिर्मनीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतःप्राणिनाम्
॥ ४९

व्या.....अथप्राणिनां विचार्यमाणे सुखलेशस्याप्यवकाशो - नास्तीत्याह - आयुरिति.----नृणां मर्त्याना मायुर्जीवितावधिकालो वर्षशतं शतसंवत्सरात्मकं । परिमितं कृतं - ब्रह्मणेति शेषः - नि. 'विंशत्याद्यास्सदैकत्वे सर्वा संख्येयसंख्ययोरि'त्यमरः । तदर्धं तस्य वर्षशतस्यार्धं - पञ्चाशद्वत्सरात्मकं । रात्रौ गतं-इन्द्रियव्यापारोपरम, रूप निद्रावस्थया गलितं भवतीत्यर्थः । परस्य । तस्य जागरूकेण वर्तमानस्यार्धस्य पञ्चाशद्वत्सरात्मकस्यापरमन्यदर्धं - पञ्चविंशति - संवत्सरात्मकं । बालत्ववृद्धत्वयोर्गतमज्ञानाशक्तत्वावस्थाविषयतया नष्ट मित्यर्थः - द्वादशसंवत्सरात्मक मेक मर्धं बालत्वे अन्यद्वृद्धत्वे कालमहिमानुवर्णनम् इति विवेकः । शेषं पञ्चविंशतिसंवत्सरात्मकमेतदवशिष्टार्धं व्याधिभिः रोगैः - वियोगदुःखैः पुत्रकळत्रावादिविरहप्रयुक्तदुःखै स्सहितं सत् - सेवादेभिः स्वजीवनार्थं वित्तवत्परिचर्यादिकष्टकर्मङि र्नीयते अतिवाह्यते। अत: वारितरङ्गवच्चञ्चलतरे अतिचञ्चले क्षणिक इत्यर्थः । जीवे जीवने प्राणिनां । सौख्यं सुखं । कुतः - न कुतोऽपीत्यर्थः । उक्तरीत्या विचार्यमाणे सुखलेशस्याप्यनवकाशादिति भावः ।।

क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः
क्षणे वित्तैर्हीनः क्षणमपिच सम्पूर्णविभवः ।
जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनु-
र्नरस्सारान्ते विशति यमधानीयवनिकाम्
॥ ५०

 व्या.-अथ कालत्रययुक्तबाल्याद्यवस्थाक्रमण मर्त्यः स- र्वोऽपि म्रियत इत्युपसंहरति - क्षणमिति..--क्षण क्षणमात्रमी - षत्कालमित्यर्थः अत्यन्तसंयोगे द्वितीया । बालः शिशुर्भूत्वा - तथा क्षणमपि। कामेन मन्मथेन - रसिकः शृङ्गाररसाभिनिविष्टः - यद्वा - काभ्यन्ते अभिलष्यन्त इति कामा: -- कामिनीसंभोगादिविषया - स्तेषु - रसिकः अनुरागवान् युवा तरुणश्च । भूत्वा । तथा क्षणं। वित्तैर्हीनो निर्धनो । भूत्वा । क्षणमपि संपूर्णविभवः परिपूर्णधनश्च - भूत्वा - नि. ' अर्थरै विभवा अपी' ति पर्यायेष्वमरः । तथा । क्षणं जरया - जीर्णैः शिथिलैः - विश्लिष्टसंधिबंधैरिति यावत् - अङगै - रूपलक्षितः। अत एव । वळीभिर्विश्लथचर्मभङ्गिभिर्मण्डिता भूषिता चिह्नितेति यावत् - के 'मडिभूषण' इति धातोः कर्मणि क्तः - तनुर्गात्रं - यस्य तथोक्तो । भूत्वा । नरस्सर्वोऽपीत्यर्थः ॥ नट • स्तत्तद्वेषधारी नर्तक इव - संसारस्य बाल्यौवनाद्यवस्थानुभवरूपसं- सारकपटनाटकस्य - नाट्यप्रसङ्गाडम्बरस्य च - अन्ते अवसाने । यमो धीयतेऽत्रेति यमधानी यमराजधानी संथमनीनाम्नी यमपुरी *

  • ' करणाधिकरणयो श्चे' ति ल्युट - टित्त्वात् ङीप् - सा यवनि-

का प्रतिसीरा तिरस्करणीव - तां विशति मृतो भवति - अन्यत्र प्रविष्टो भवतीत्यर्थः - नि. ' प्रतिसारा यवनिके' त्यमरः ; नटे विशे षणानि योज्यानि ॥

उपमालंकारः शिखरिणीवृत्तम् ॥  इति वैराग्यशतके कालमहिमानुवर्णर्नं सम्पूर्णम् ।।

॥ यतिनृपतिसंवादवर्णनम्

वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः

 व्या.----अथ इह कश्चित्कुतश्चिद्भाग्योदयादित्थं भूतकाल- वैषम्यं ज्ञात्वा वैराग्याद्यदि यतिर्भवेत्तदा नैरपेक्ष्यात्तृणमिव जगज्जा- लमालोकयन्नवर्धीरितानुवर्तनेच्छू राज्ञा सह संवादं कर्तुं शक्नुयान्ना- न्यथा। अतो निरङ्कुशत्वयतिभावोऽवश्यं संभाषनीय इति विवेकिनां. ज्ञापयितुं तत्संवादप्रकारमाह - त्वमिति.-त्वं। रञ्जयतीति राजा महोन्नत इत्यर्थः। वयमप्युपासितास्सेवितां गुरवः आचार्याः - यया सा तथोक्ता - 'आचार्यवान् पुरुषो वेदेति श्रुतेः - निरन्तर गुरुसेवातत्परेत्यर्थः - यद्वा - उपासिता - गुरूपासनावशात्संपादिता- | गुरुः श्रेष्ठा च - या प्रज्ञा त्रैकाल्यगोचरबुद्धिविशेषप्रवृत्तिस्तया '; योऽभिमान आग्रहस्तेनोन्नताः उत्कृष्टाः । त्वं। विभवैधनसंपद्भिः। ख्याता सर्वत्र प्रसिद्धः। तथा। कवयः विद्वांसः - यद्वा - विचित्र- प्रबन्धवचनरचनाचातुरीधुरीणप्रतिभासंपन्नाः कवयितारः। नोऽस्मा- कं। यशांसि कीर्तीः । दिक्षु दिगन्तराळेषु । प्रतन्वन्ति विस्तारयन्ति । एते महान्तस्संततपरिचर्याभिनन्दिताचार्यकृपाकटाक्षलब्ध प्रज्ञाभिमा- नमानसमहोत्सवशालिनः ज्ञानविज्ञानसंपन्ना मोक्षसाम्राज्यपट्ट- बद्धास्तृणीकृतब्रह्मपुरन्दरा इत्यस्मानपि कीर्तयन्तीत्यर्थः-तस्माद्वयमपि- ख्याता एवेति भावः। अतः इत्थमनेन प्रकारेण । त्वं चाहं चार्वा - तयोः - * 'त्यदादीनि सर्वैर्नित्यमित्येकशेष:-उभयोरप्यन्तरं । तार- तम्यं मानधनाभ्यां मतिदूरमत्यन्तविप्रकृष्टं-त्वं केवलधनवान् - वयं तु प्रज्ञापयुक्ताभिमानधनवन्तः - अतः तव चास्माकं च सुमेरुसर्षपयो- रिव महदन्तरमित्यर्थः । अतस्त्वमस्मासु विषये। पराङ्मुखः अना- दरपरोऽसि यदि - तर्हि। वयमप्येकान्ततो। निस्पृहाः निरपेक्षा:- अनादरपरा इत्यर्थः - त्वयीति शेषः। अनादरेऽप्यवस्थानेनास्माक- मत्र प्रयोजनमस्ति . तवामास्वादरश्चेेदस्माकमपि त्वय्यादर - स्तद्वशादत्र स्थास्यामः - अन्यथान्यत्र गमिध्याम इति भावः - अत्र 'त्वं राजा वयमि 'त्युपक्रमे 'वयमप्येकान्ततो निस्पृहा' इत्युपसं - हारे च बहुवचनं प्रयुज्य आवयोरिति द्विवचनप्रयोगः कथ मुपयुज्यत इति चेत्सर्वेषां समुदायविवक्षया वा आत्मसंभावनायां बहुवचन - प्रयोगेण वा युक्तत्वा न्न कोऽपि विरोधः - एवमुत्तरत्राऽपि द्रष्टव्यम् ॥  शार्दूलविक्रीडितं वृत्तम् ॥

अर्थानामीशिषे त्वं वयमपि च गिरा मीश्महे यावदर्थं
शूरस्त्वं वादिदयेव्युपशमनविधावक्षयं पाटवं नः !
सेवन्ते त्वां धनाढ्या मतिमलहतये मामपि श्रोतुकामा-
मय्यप्यास्था न ते चेत्त्वयि मम नितरामेष राजन्ननास्था

 व्या...---उक्तमेवार्थं भङ्ग्यन्तरेणाह - अर्थानामिति.-त्व मर्थानां धनाना मीशिषे ईश्वरो भवसि तथा वयमपि । च यावा - नर्थो यावदर्थं । यावदभिधेयं यथा तथेत्यर्थः यावदवधारण' इत्य व्ययीभावः - नि. ' अर्थोऽभिधैयरैवस्तुप्रयोजननिवृत्तिष्वि' त्यमरः । गिरां शास्त्रवचनाना मीश्महे - अशेषशास्त्रविशेषार्थानां प्रभवाम इत्यर्थः । 'विग्रहे 'इति पाठे गिरां यावदर्थ मशेषविशेषार्थानित्यर्थः- विद्महे जानीमहे । तथा । त्वं । शूरः शौर्यवान्-रिपुदमन इति शेषः । तथा । नोऽस्माकं। वादिदर्पव्युपशमनविधौ प्रतिवादि गर्व निर्वापण- विधाने - नि. 'विधिर्विधाने दैवे चे'त्यमरः। अक्षयमविनाशि। पाटवं सामर्थ्यमस्तीति शेषः। त्वां। धनाढ्या धनस्वामिनः - नि. ' इभ्य आढचो धनी स्वामी ' त्यमरः । सेवन्ते भजन्ते- तदविना - शार्थं तदभिवृद्ध्यर्थं चेति भावः - यद्वा धनाढ्या धनाढ्यत्वाभि - लाषिन: - राजसेवया धनसंपादनेच्छव इत्यर्थः - स्वां सेवन्ते। माम प्यस्मानपीत्यर्थः । मतिमलहत्तये बुद्धिजाडयनिवृत्त्यर्थे ।

। यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान् ।
। तस्य विस्तारिता बुद्धि स्तैलबिन्दुरिवाम्भसि

इति वचनादिति भावः । यद्वा - मतिमलानि रागद्वेषादयः - तेषां हतये प्रक्षाळनार्थं - बुद्धिशुद्धिद्वारा झानावाप्त्यर्थमित्यर्थः । श्रोतुं | कामोऽभिलाषो येषां ते श्रोतुकामाः - शुश्रूषवः - 'गुरुमुखाच्छ्रो -

तव्यमिति न्यायेनास्मन्मुखाच्छास्त्रार्थश्रवणेच्छवः - गुरुशुश्रषया

पिथे' त्युपदेशवचनविश्वासवन्तश्शिष्या इत्यर्थः - सेवन्ते इति संबं- न्धः * 'तुं काममनसो रपीति तुमुनो मकारलोपः । अतः हे राजन् । ते मय्यपि। आस्था न चेदनादरो यदि । तदा ममत्वय्यपि । नितरामत्यन्तं * अव्ययादांप्रत्ययः। अनास्था निरपेक्षत्वादिति - भावः । एष राजन् गतोऽस्मि ' इति पाठे अन्यत्र गमिष्यामी - त्यर्थः वर्तमानसामीप्ये वर्तमानप्रत्ययः ; स्वस्य निरङ्कुशत्वद्योत - नार्थमेतच्छब्दप्रयोगः ; पूर्वश्लोकोक्तभाव एवात्राप्यनुसंधेयः ।।

 स्रग्धरावृत्तम् ॥

वयमिह परितुष्टा वल्कलैस्त्वं दुकलै-
स्सम इह परितोषो निर्विशेषो विशेषः।
स तु भवतु दरिद्रो यस्य तृणा विशाला
मनसि च परितुष्टे कोऽर्थवान् कोदरिद्रः

 व्या.---'अथ कथमन्यत्र गमिध्यसीत्याशङ्कायामस्माकं नित्यसंतुष्टान्तःकरणत्वान्न किञ्चिदपि कृच्छ्रमित्याह - वयमिति - हे राजन् । वयभिहेदानीं । वल्कलेर्दारुत्वनिर्मितचीवरैः। परितुष्टा स्सन्तुष्टाः। त्वं । दुकूलैः क्षोमैर्विचित्रचीनाम्बरैरित्यर्थः। परितुष्ट इति वचनपरिणामेन संबन्धः । परितोषः संतोषः । अस्माकं तव च। सम इव तुल्य एव - इव शब्दोऽत्रावधारणार्थकः। विशेष: अन्यतरोत्कर्षस्तु । निर्विशेषो विशेषरहित: - मामक तावक परि तोषयोरन्तरं न किञ्चिदम्यस्तीत्यर्थः - ‘सम इव परितोषो जायते को विशेष' इति वापाठः। किंतु यस्य पुंस स्तृष्णा धनलिप्सा। विशाला अत्यायता स पुमान् । दरिद्रोऽकिञ्चिनो । भवतु न त्वन्य इत्यर्थः * सम्भावनायाम् लोट् । कथनेतदित्याशङ्कयोक्त मर्थ मर्था- न्तरन्यासन द्रढयति - मनसि च परितुष्टे चित्ते येन केनचित्सन्तुष्टे सति । कः पुमानर्थवान् द्रव्यसम्पन्नः । कश्चवा। दरिद्रः द्रव्य - हीना-न कोऽपीत्यर्थः - मनः परितोषे लामालाभयोरकिञ्चित्करत्वा - दितिभावः। अतो न किञ्चिदप्यस्माकं कृच्छ्रमिति वेदितव्यम् ।।   मालिनीवृत्तम् - 'ननमययुतेयं मालिनी भोगिलोकैरि 'ति लक्षणात् ।।

फलमलमशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च।
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणा-
मविनयमनुमन्तुं नोत्सहे दुर्जनानाम्

 व्या.----तथाऽपि शरीरयात्राया अन्यथा संभाव्यमानत्वान्न- दुर्जनाविनयं सोढुं शक्नोमीत्याह - फलमिति.-फलम् । अश - नाय भोजनाय क्षुन्निवारणार्थमित्यर्थः । अलं पर्याप्तं * अलमिति पर्याप्त्यर्थग्रहणात् ‘नमस्स्वस्ती' त्यादिना चतुर्थी - एवमुत्तरत्रापि द्रष्टव्यम् । तथा स्वादु मधुरं-नि. 'त्रिविष्टेस्वादु मधुरे' इत्यमरः। सोयमुदकं। पानाय तृष्णोपशान्त्यर्थ मित्यर्थः । अलं । तथा । क्षिति रपि शयनार्थं संवेशनाय । अलं। तथा वल्कलं च । वाससे आच्छा- दनार्थम् । अलम् । अतः । नवं सद्यस्संभावितं - यद्धनं - तदेव मधु पानं मद्यपान - तेन भ्रान्तान्यमार्गवर्तीनि - सर्वाणीन्द्रियाणि येषां - । तेषां - धनमधुपानस्य चितविकाराविवेकादिकारित्वेन यथाकथंचि द्विवेकलेशसंभवे तन्निवृत्त्यर्थं धनविशेषणम् । अतस्तस्य दुर्जनानां दुर्गार्गशालिना मविनयं दुर्विनयमनादर मिति यावत् । अनु- गन्तुमङ्गीकर्तु नोत्सहे न मृष्यामि। सति गत्यन्तरे किमर्थं सोढ- व्यमिति भावः॥

अश्नीमहि वयं मिक्षामाशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः

 .--.एनमेवार्थं भङ्ग्यन्तरेगाह - अश्नीमहीति.--वयं भिक्षान्नमश्नीमहि भोक्ष्यामहे * ' अश भोजन' इति धातोर्लिङ् - आत्मनेपदोत्तमपुरुषबहुवचनम् - एवमुत्तरत्रापि द्रष्टव्यं । तथा आशादिशएव वासो । वसीमहि आच्छादयिष्यामः-दिगम्बरा भवि- ष्याम इत्यर्थः । महीपृष्ठे भूतले शयीमहि स्वस्यामः। अतः । ईश्वरैः राजभिः । किं कुर्वीमहि किं करिष्यामः • न किमपीत्यर्थः । शरीर. यात्राया अन्यथैव संभाव्यमानात्वादिति भावः । इत्थं स्थितित्वमेव ब्रह्मनिष्ठयतिलक्षणं - तदुक्तं महाभारते उद्योगपर्वणि धृतराष्ट्रं प्रति सनत्सुजातेन .

 येन केनचिदाच्छन्नो येन केनचिदाशितः ।.  यत्र कचन शायी स्यात्तं देवा ब्राह्मणं विदुः ।' इति - उक्त च श्रीमद्भागवते -  'चीराणि किं पथि न सन्ति दिशन्ति भिक्षा  नोवाङ्घिपाः १ परभृत सरितोऽयशुष्यन् ? रद्धा गुहाः कि १ मञ्जितोऽवति नोपपन्नान् ? कस्माद्भजन्ति यतयो धनदुर्मदान्धान् ?' इति ॥ तथाचोक्तं शिवगीतायां -

संवीतो येन केनाश्नन्भक्ष्ये वाऽभक्ष्य मेववा।।
शयानो यत्र कुत्राऽपि सर्वात्मा मुच्यतेऽत्र सः' ॥ इति.

न नटा न विटा न गायका न च सभ्येतरवादचुञ्चवः ।
नृपमीक्षितुमत्र के बयं स्तनभारानमिता न योक्तिः

 व्या..---अथ स्वस्य राजदर्शनायोग्यतायाः प्रकटनापदेशेन तं निन्दति- नेति. वयं । नटाः विविधवेषधारिणो विचित्रनाट्य - निपुणाः । न न भवाम इत्यर्थः - येन नयनानन्दो भवेदिति भावः । विटा एकविद्याः नायकानुकूलनचतुराः। न नभवामः - येन तत्तन्नायिकानुकूल्यप्रयोजनं सिध्येदिति भावः - सदुक्तगलंकारशास्त्रे - 'नायकानां नायिकानुकूलेन सहायाः पीठमर्दविटचेटविदूषकादय' इति - तल्लक्षणं च तत्रैव -

किंचिदूनः पीठमर्द एकविद्यो विटः स्मृतः ।
संधानकुशलश्चेटो हास्यप्रायो विदूषकः ॥ इति ।।

गायन्तीति गायकारसङ्गीतकुशलाः । तेन नभवामः-येन श्रवणानन्दो भवेदिति भावः। सभायां साधवस्सभ्या: 'तत्र साधुः इति यत्प्रत्ययः) तेभ्य इतरे ये वादचुञ्चयः अशिष्टगर्ह्यालापा:-साधारण जनमनोविनोद मात्रपर्यवसायिनो न तु शास्त्रसंवादिन इत्यर्थः - यद्वा • सभ्या: विद्वांसः - तदितरे साधारणजना-स्तेषां - वादास्तदनयोग्यवाक्यानि- तैर्वित्ताश्चुञ्चवः वित्ता-हास्यकारिण इत्यर्थः । न न भवामः । येन मनो विनोदो भवतीति भावः * ' तेन वित्तश्चुञ्चुप्चणपाविति चुञ्चु - प्रत्ययः । तथा । स्तनमारैः कुचकुम्भभारै-रानमिता ईषनम्राङ्गयः । • योषितोऽपि । न न भवामः - येन ससंरभ्भसंभोगौत्सुक्यं भवे - दिति भावः । अतो नृपं राजान मीक्षितुं द्रष्टुम् । अत्र नटादिषु । वयं के न केचित्यर्थः । एतेषामन्यतरत्वे योग्यता स्यादिति भावः; एतेन असमानामेवावकाशप्रदो न तु सभ्यानामिति नृपस्य निन्दा- गम्यते ; ' नृप वीक्षितु मिति पाठः - तदा - हेनृपेत्यामन्त्रणं .. त्वामिति शेषः - अन्यदुक्तार्थम् ।। वैताणीयाख्यमर्धसमवृत्तं- 'षड्विषमेऽष्टौसमे कला ष्षट्च समे स्यु निरन्तराः । न समाऽत्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः' । इति लक्षणात् ॥

विपुलह्रदयैराशै रतज्जगज्जनितं पुरा
विधतमपरैर्दत्तं चान्यै र्विजित्य तृर्णं यथा।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क ए.. मदज्वरः
।।

 व्या..-निन्दामेव चतुर्भिः प्रपञ्चयति - विपुलेति..--पुरा- (पूर्वकाले । विपुलहदयैर्महामानसैरुदारबुद्धिमिरित्यर्थः। ईशैर्ह - रिश्चन्द्रादिसार्वभौमै । एतत्परिदृश्यमानं । जगद्भूमण्डलं । जनित • मुत्पादितं • समग्रधर्माचरणेनसंस्थापितमित्यर्थः। तथाऽपरै र्ययाति- प्रभृतिभिरीश्वरै विधृतं विशेषेण धृतं सम्यकपरिपालित मित्यर्थः । तथाऽन्यैर्बलिप्रभृतिभिः विजित्य शत्रुजयेन खवशं कृत्वा । तृणं यथा तृणमिव । दत्तमर्थिसात्कृतम् - एतेनैतेषां महौदार्य सूच्यते। इह हि इदानीमपि । अन्ये । धीराः धैर्यशालिनः । चतुर्दशभुवनानि - भूरादीनि चतुर्दश विष्टपानि । भुञ्जते अनुभवन्ति - ताहक्साम - र्थ्यसंपन्नास्तिष्ठन्तीत्यर्थः के भुजपालनाभ्यवहारयो रि' ति धातोर्लट् ॐ भुजोऽनवन' इत्यात्मनेपदम् । अतः । कतिपयानि च तानि पुराणि च तेषां द्वित्राणां पञ्चषाणां वा पुराणामित्यर्थः - स्वाम्ये आधिपत्ये सति। पुंसा मेष परिदृश्यमानो। मदो दर्ष- एव - ज्वरः सन्निपातः बुद्धिभ्रंशहेतुत्वात् । कः किमर्थमित्यर्थः अतः पुरातनमहाराजचरितानुस्मरणाल्लजितव्यं - न तून्मत्तेन भवि. त्तव्यमिति भावः ॥ हरिणीवृत्तम् ॥

अभुक्तायां यस्यां क्षणमपि न यातं नृपशतै-
र्भुवस्तस्यालाभे क इव बहुमानः क्षितिभृताम् ।
तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो ।
विवादे कर्तव्ये विदधति जडाः प्रत्युत मुदम्
॥ ५८

  व्या...~-अभुक्ताया मिति,-नृपशतैः अनेकभूपालकैः । यस्यां भुवि । अभुक्तायामननुभूतायां सत्यां । क्षणं क्षणमात्रमपि । न जातं किंतु क्षणमात्रव्यवधानरहितमेवानुभूयते इत्यर्थः । तस्या भुवो। लाभ प्राप्तौ । क्षितिभृतां राज्ञां । क इव - इवशब्दो वाक्यालंकारे ' इवेतीषदर्थोपमा वाक्यालंकारेष्वि' ति गणव्याख्याने • बहु - मान उत्कर्षों - न कोऽपीत्यर्थः - सर्वसाधारण्यादिति भावः। किं तु तस्याः भुवोऽशस्यापि-अंशे भागे च तथा तस्यांशस्य- योऽवयवः एकदश स्तस्य-लेशे अत्यल्पकोणेऽपि चेत्यर्थः । पतयः ईश्वराः जडामन्दाः विषादे स्वल्पतमभूखण्डाधिपतयो वयं जाता इति विषादे दुःखे । कर्तव्ये सति । प्रत्युत वैपरीत्येन । मुदं संतोष । विदधति कुर्वन्ति मोदन्त इत्यर्थः । अहो महानयमेतेषामविवेक इत्यर्थः । १५ प्रत्युतेत्युक्तवैपरीत्य' इति गणव्याख्याने ।

मृत्पिण्डो जलरेखया क्लयितस्सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य स एव संगरशतैराज्ञां गणाभुञ्जते ।
तेदद्युर्ददतोऽथवा कि मपरं क्षुद्रा दरिद्रा भृशं
धिन्धिक्तान् पुरुषाधमान् धनकगान् वाञ्छन्ति तेभ्योऽपि ये।

 |व्या.-आस्तां तावत् क्षुद्रनृपवार्ता - तद्याच्ञापरास्तु ततोऽ प्यत्यन्त क्षुद्रा इत्याह - मृत्पिण्ड इति.--जलरेखया समुद्राकारेण जलरेखया जलधारया ध। बलयितो वेष्टितः - पुञ्जीकृतश्च । योऽयं परिदृश्यमान सर्वः अशेषोऽपि मृत्पिण्डश्च । अणुर्ननु । तं तादृश मृत्पिण्डमेव । संगरशतैः युद्धशतैः। स्वांशीकृत्य स्वभागीकृत्य। ये राज्ञां गणाः। भुञ्जते अनुभवन्ति । तेराजगणा । दद्यर्हि अर्थ वितरेयुर्वा * दधातेर्भविष्यति लिङ । अथवेति पक्षान्तरे। ददतः वितरन्तो वा ददातेर्वतमाने शतप्रत्ययः नाभ्यस्ताच्छतु रि' ति नुमभावः . ' ददतेऽथवेति वा पाठः । अपरमन्यदुष्करं। किमपि नास्त्येवेत्यर्थः । भृशमत्यर्थं क्षुद्रा हीनाः । दरिद्रा दीनाश्च - अनेक संयुगक्लेशार्जितमृत्पिण्डभोक्तृत्वात् क्षुद्रत्वं - तत्राप्यंशभ - गित्याद्दरिद्रत्वं चावगन्तव्यं। ततस्तेभ्यः क्षुद्रदरिद्रयो राजग. णेभ्यो ये पुरुषाधमाः धनकणान् धनलेशान् वान्छन्त्यभिलषन्ति । तान् पुरुषाधमान् • मानुषापशदान् । धिग्धिक कूर्पराधःप्रसृतजल पातवत्तथाविधक्षुद्रयाच्ञायाः परमनैच्यावहत्वात्तद्याचितारस्ततोऽपि नीचास्ते नराधमाः पौनःपुन्येन निन्धा इत्यर्थः - नि. 'धिङ्निर्भ- र्त्सननिन्दयोरि' त्यमरः ॥

उभसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु।
द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥

इति वचनात्पुरुषाधमानिति द्वितीया वीप्सायां द्विर्भावः । स्वदग्ध- कुक्षिकुण्डपूरणकप्रयोजनायाः पुरुषाधमत्वजनन्याः क्षुद्रयाच्ञायाः धिकारं विधाय स्वतस्सिद्धानन्दनिर्व्याकुलस्य पुरुषोत्तमत्वजनकस्य - यतिभावस्यैव जीवातोर्मार्गणं विधेयमिति तात्पर्यम् ।।

स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवळं
कपालं यस्योच्चैर्विनिहितमलङ्कारविधये ।
नृभिः प्राणत्राणप्रवणमतिमिः कैश्चिदधुना
नमद्भिः कः पुंसामय तुलदर्पज्वरभरः ।। ३०

 व्या.---किं बहुना स एव सफलजन्मेति निगमयति - स इति स पुमान् । कोऽपि कश्चिदेव। जातः सफलजन्माऽसति-न सर्व इत्यर्थः । कोऽसावित्यत आह - यस्य पुंसः धवळं शुभ्रं । कपालं शिरोऽस्थि । मदनरिपुणा शंभुना। उच्चैरुन्नते - सर्वोपरिवर्तमान इत्यर्थः । मूर्ध्नि निजमस्तके। अलंकारविधये भूषणविधानाय । विनि हितं निक्षिप्तं। स एक एवेति संबन्धः - सकलसुरासुरमौलिखचि- तमणिप्रभादीपित्तपादारविन्दस्य कैलासमेरुगिरीश्वरस्य भगवतशम्भोः कपालशेखरस्वादिति भावः। किं त्वधुनेदानीं । प्राणत्राणे तुरःप्रा - •णसंरक्षणे - प्रवणा सक्ता - मतिर्येषां तैस्तथोक्तैः । अत एत्र न द्भि र्नमस्कुर्वाणैः कैश्चित्कतिपयैरेव नृभिर्मनुष्यैः * हेतौ तृतीया-अथवा- नमाद्भिःपुंसां नरवरमन्यानां राज्ञामयं परिदृश्यमानः। अतुलो निस्सीमो - यो दपों मद - स्स एव ज्वरभरो ज्वरोद्रेक: - अपभ्रं - शहेतुत्वात् । कः किमर्थमित्यर्थः । मरणानन्तरेऽपि यस्य शिरः आदरपूर्वकं महदुपादेयं भवति स एव सफलजन्मा पुरुषोत्तमश्च - अन्य स्सर्वोऽपि निष्फलजन्मा पुरुषाधमश्चेति भावः ।।

 इति वैराग्यशतके यतिनृपतिसंवादवर्णनं संपूर्णम् ।।

 ॥ मनस्संबोधननियमनम् ॥

परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदयक्लेश कलितम् ।
प्रसन्ने वन्यन्तस्स्वयमुदितचिन्तामणिगणों
विविक्तस्संकल्पः किनभिलषितं पुष्यति न ते॥ ६१

 व्या..~~-अथ मनोनियमनदक्षस्यैव यतित्वात्तत्प्रसङ्गानन्तरं मनस्संबोधनपूर्वकं तन्नियमनप्रकारमाह - परेषाभिति..---हे हृदय । प्रतिदिवसमनुदिनं । बहुधा बहुप्रकारैः प्रकारवचनेथाल् (१)। परेषां चेतांसि आराध्य प्रसाद्य - तत्कालोचितानुवर्तनै रून्मुखीकृत्ये- त्यर्थः । क्लेशेनातिप्रयासेन । कलितं संपादितं । प्रसादमनुग्रहं नेतुं

  • प्रापयितुं - मनांस्येवेत्यर्थः * नयतेः द्विकर्मकात्तुमुन् प्रत्ययः।

विशसि किं प्रवर्तसे किमित्यर्थः। अथ यथा कथंचित्परचित्तप्रसादने नाभिलषितं साधयिष्यामि - अतः किमर्थमेवं निषिध्यत इत्यत आह - प्रसन्न इति.--त्वयि । अन्तरभ्यन्तरे । प्रसन्ने समाहिते सति - बहिर्मुखत्ववैमुख्येन स्वस्थान एष स्थिते सतीत्यर्थः । स्वयं स्वप्रयत्नं विनैवेत्यर्थः । उदितः आविर्भूत - श्चिन्तामाणि गणः चिन्ता रत्ननिचयरूप हत्यर्थः-एवमेव चिन्तामणिरशेषाभिलषितदानसमर्थ . स्तद्गुणच किं वक्तव्य इतिभावः। विविक्तो निष्कलङ्कः । सङ्कल्पः इच्छाविशेषः। ते तवाभिलषितं वाञ्छितं न पुष्यति किं - न पूरयति किं - पूरयत्येवेत्यर्थः - अथवा किं वाऽभिलषितं न पुष्यति सर्वमपि पुष्यत्येवेत्यर्थः । अतः आत्मप्रसत्त्यैवाभिलषितप्राप्तौ किमन्य- प्रसादनायासेनेत्यर्थः। अन्यथा सर्वक्षेत्रं विहायारण्यकर्षणन्यायः प्रसज्येतेति तात्पर्यम् ।।

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा।
अतीतमननुस्मरन्नपि च भाव्यसङ्कल्पय-
न्नतर्कितसमागमाननुभवामि भोगानह्वम् ॥

 व्या.----एवं मनः प्रसादे गुणमुक्त्वा तस्यागुणत्वमाह । परि - भ्रमसीति. हे चित्त । मुधा व्यर्थं । किं किमर्थं । परिभ्रमसि संचर- सि-न संचरितव्यमित्यर्थः - प्रयोजनाभावादिति भावः । तर्हि किं कर्तव्यमत आह - कचन कुत्रचित् - स्थले । विश्राम्यतां स्थीयतां - खस्थान एव स्वैरं वर्ततामित्यर्थः । नन्वेवंचेत्कथं कार्यसिद्धिरित्यत आह - यत्कार्यं। यथा येन प्रकारेण भवति तत् । तथा । स्वयमप्रय' - न्नेनैव भवंति अन्यथा वैपरीत्येन। न भवति - ‘यद्भावि तद्भवत्येवे ' त्यादिवचनात्सर्वमेतत् दैवायत्तमिति भावः - अतो विश्रम्य - तामिति सम्बन्धः । विश्रमे किं फलमित्यत आह - अहम् । अती तमतिक्रान्तमर्थमननुस्मरन्नचिन्तयन्नननुशोचयन्नित्यर्थः । तथा भावि चापि भविष्यदर्थमपि घ वस्तु सामस्त्ये नपुंसकत्वनिर्देशः। असङ्कल्पयन्ननाकाङ्क्षन् अतर्कितोऽनभ्यूहितस्समागमो येषां ता नचिन्तितोपनतानित्यर्थः । भोगाविषयाननुभवामि दैववशात्सं भाषितार्थान् भोक्ष्यामि * वर्तमानसामीप्ये वर्तमानप्रत्ययः - यद्वा- अनुभवामि मुञ्चे अतो मदर्थं न परिभ्रमितव्यमिति भावः; एवं चेत्सर्वेश्वरस्याप्यवश्यं प्रियो भवेयमिति तात्पर्यम् - तदुक्तं भगवता.

'यो न हृष्यति न द्वेष्टि न शोचति न कामक्षति। शुभाशुभपरित्यागी भक्तिमान्यस्स मे प्रियः ।। अन्यत्राप्युक्तं -

गतार्थान्नानुशोचन्ति नार्थयन्ते मनोरथान् । वर्तमानेन वर्तन्ते तेन मे पाण्डवाः प्रियाः '॥ इति ।

पृथ्वीवृत्तं - ' जसौं जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति लक्षणात् ॥

एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् । स्वात्मीभावमुपैहि सन्त्यज निजां कल्लोललोलां गतिं ५ मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना॥ ६३

  व्या...-अथ विशिष्यसंबोधनप्रकारमेवाह - एतस्मादिति.-- हे चेतः। एतस्मात् परिदृश्यमानात् । आयासयतीत्यायासकात् दुःख- जनकात्। इन्द्रियार्थाशब्दादिविषया एव गहनमरण्यं - तस्मात् 19

दुर्विगाहत्वादेतद्रूपणं। विरम - विरामं प्राप्नुहि - अत्यन्तदुःखवि - षयासक्तिं माकुर्वित्यर्थः * 'जुगुप्सा विरामे' त्यादिना पञ्चमी -

  • व्याङ्परिभ्यो रमः' इति परस्मैपदं। किंतु क्षणात् क्षणमात्रे -

गैव। अशेषदुःखशमनमेकविंशतिमहादुःखविध्वंसनमेव - व्यापार- स्तत्र दक्षं समर्थं । श्रेयोमार्ग ज्ञानमार्गम् । आश्रय अनुसर - तत्र प्रवर्तस्वेत्यर्थः । तथा स्वात्मीभावं स्वरूपानुसधानतत्परत्वम् । उपैहि - प्राप्नुहि। तथा। निजां स्वकीयां . 'चञ्चलं हि मनः कृष्णे' त्यादौ प्रसिद्धामित्यर्थः । कल्लोलवल्लोला मतिचलां । गतिं व्यापारं ; संत्यज सम्यग्विसृज्य सुस्थिरं भवेत्यर्थः। भूयः पुनरपि भङ्गुरा भङ्ग - शीलामशाश्वतीं। भवरति संसारासक्तिं मा भज मा सेवस्व । किं- स्वधुनेदानीं । प्रसीद प्रसन्नं भत्र । चित्तप्रसादमन्तरा पुण्यशतैरपि - श्रेयः प्राप्त्यसम्भवादिति भावः ॥

मोहं मार्जय ता मुपार्जय रति चन्द्रार्धचूडामणौ
चेतस्स्वर्गतरङ्गिगीतटभुवामासङ्गमङ्गीकुरु।
को वा वीचिषु बुद्बुदेषु च तटिल्लेखासु च श्रीषु च
ज्वालाग्रेबु च पन्नगेषु च सरिद्वेगेषु च प्रत्ययः॥ ६४

 गव्या.---अथ विश्वसनीयष्वेव विश्वासं कुरु नान्यत्रेत्याह - मोहमिति. हे चेतः । मोहं पुत्रमित्राद्यासक्तिजनकाज्ञानं । मार्जय, शोधय - त्यजेति यावत् - तत्र विश्वासं माकुर्वित्यर्थः । किं तु चन्द्रा- र्धं चूडामणिर्यस्य तस्मिन् चन्द्रशेखरे शंभौ। तां तथाभूतामनिर्वा- च्यामित्यर्थः । रतिमनुरक्तिमुपार्जय संपादय । तथास्वर्गतरङ्गिण्या - मन्दाकिन्याः यास्तटभुवस्तीरप्रदेशास्तासामासाङ्गं तत्र नवा . सासक्तिम् । अङ्गीकुरु अनुमन्यस्व - उभयत्रैव विश्वासं कुर्वित्यर्थः - एतस्यैव श्रेयस्करस्वादिति भावः। कुत एतदित्याशक्यान्यत्राविश्वासो- त्पादनार्थः मस्वरसमुद्भावयति - वीचिषु वारितरङ्गेषु च। बुद्बुदेषु जलस्फोटेषु च। तटितो लेखा इव तासु च विद्युल्लतासु च श्रीषु संपत्सु च-तटिल्लेखामतल्लीषुचे' ति पाठे, प्रशस्तास्तटिल्लेखास्तटिल्लेखामत - ङ्कयः - तासु च * 'प्रशंसावचनैश्चेति नित्यसमासः - 'मतल्लिका - मचर्चिका प्रकाण्डमुद्धतल्लजावि' त्यमरः । ज्वालाग्रेश्वग्निशिखा . मुखेषु च । पन्नगेषु सर्पेषु च सुदृद्वर्गेषु च बन्धुजनसमुदायेषु च । को वा प्रत्ययः - उसरोत्तरं तारतम्येन नश्वरतया प्रत्यक्षसिद्धेषु विचि त्रसंस्थितिषु चतुर्षु । गृहदीप इति — चुम्बनकरणे श्मश्रुदाह' इति लोकन्यायेन च प्रत्यक्षेण च दाहहेतुतया प्रसिद्धषु ज्वालाग्रेषु च। स्पृष्ट- तया प्राणहर्तेषु पन्नगेषु च। विपत्सु परित्यागशीलेषु बन्धुजनेषु च। को वा विश्वासः न कोऽपी त्यर्थः - उत्तरोत्तरमविश्वसनीयत्वादिति- भावः - नि. 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतु ष्वि' त्यमरः ॥

  अत्र प्रस्तुतानां स्वबन्धुजनानामप्रस्तुतानां वीचीप्रभृतीनां ष यथाकथञ्चिदौपम्यस्य गम्यमानत्वाहीपकालंकारभेदः - तदुक्तं - विद्यानाथेन -

'प्रस्तुताप्रस्तुतानां च सामस्त्ये तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते' ।। इति ॥


चेतश्चिन्तय मा रमां सकृतिनामस्थायिनीमास्थया
भूपाल भ्रूकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।

कन्याकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसी-
रथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे ।। ३५

 व्या.---अथ प्रकारान्तरेण सम्बोधयति - चेत इति-हे चेतः । अस्थायिनीमास्थिरां। कुतः - भूपालानां राज्ञां - भ्रुकुटी भ्रूभङ्ग एवं कुटी कुटीरं - तत्र विहरणं विहारो यस्य तथोक्तो यो व्यापारस्तेन - पण्याङ्गनां व्यभिचारिणीमिति यावत् - भ्रूसंज्ञयानरवरणशीला - मित्यर्थः । तदायत्तत्वात्तस्या इति भावः - यद्वा - भूपालभ्रुकुटी - कुटीरे विहरणमेव व्यापारो यस्यास्सा तथोक्ता सा च - पण्याङ्गना वारविलासिनी - तां तथाभूतां तदधीनत्वात्तत्प्रयुक्तप्रवृत्तिनिवृत्ति कामित्यर्थः । अत्रपण्याङ्गनारूपणं विहारे विशृङ्गलस्वद्योतनार्थं नैय - त्येन व्यभिचरणशीलस्वप्रकटनार्थ च - यथा वारवनिता कुत्रचित् कंचित् कालं विहृत्यानन्तरमन्यत्र गच्छति तद्वदिति ध्वनिः। इह कानि- चिदर्थान्तराणि स्फुरन्ति बुद्धिमद्भिरुन्नेयानि - ग्रन्थगौरवभयान्नलि- ख्यन्ते। तामिमां परिदृश्यमानां। रमां संपत्तिम्। आस्थया आदरेण । सकृत्कदाचिदपि माचिन्तय माकाङ्क्षय - तत्संपादनप्रयत्नं माकु र्वित्यर्थः। तर्हि कथं जीविकेत्याशङ्कायामाह - कन्थैव कञ्चुकमेषा- मस्तीति कन्थाकञ्चुकिन: - कन्थावर्मितगात्रास्सन्तः । अन्न यद्यपि बहुव्रीहिणैव विवक्षितार्थलाभात्पुनः प्रत्ययान्तरग्रहणे प्रक्रियागौरवं न कर्मधारयान्मत्वर्थीय' इति निषेधात् - तथाऽपि त्वगुत्तरास ङ्गवती' कोकप्रीतिचकोरपारणपटुज्योतिष्मतीलोचने' इत्यादिमहा' कविप्रयोगश्च वर्तते इति वैयाकरणाः कथयन्ति - यद्वा · कन्थया कश्चुकिनः कञ्चुकवन्तः कन्थाच्छादितगात्रास्सन्त इत्यर्थः । वय मिति शेषः । वाराणस्याः काशीपट्टणस्य - नि. 'काशी वाराणस्य - वन्ती' त्यमरः - रथ्यापङ्क्तिषु राजमार्गश्रेणिषु नि. रथ्याप्रतो- निर्विशिखेति मार्ग पर्यायष्वमरः । भवनद्वाराणि गृहप्रतिहारत्र - देशाम् । प्रविश्य । पाणिरेव पात्रं तत्र - पतितां निक्षिप्ताम् - एते नाया बापूर्वकत्वं सूच्यते। भिक्षामपेक्षामहे स्पृहयामहे 'पाणिपात्रं उदरमात्रपात्रे पतित मश्नीया दित्यादि ते रनायाससिद्धभिक्षाss- हारेण शरीरयात्रां निवर्तयन्तः पुण्यक्षेत्रेषु सुखेन निवत्स्याम इत्यर्थः। तदुक्तं -

'भिक्षाहारो निराहारो भिक्षान्नेन प्रतिग्रहः ।
असतो वा सतोवाऽपि सोमपानं दिने दिने' ॥ इति ॥

अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं
नोचेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ३६

 व्या.---'अथ तव यदि सर्वदा संसाररसानुभवेऽभिनिवेश स्तावदित्थं भूतसामग्रयां तत्राभिरतिं कुरु । अन्यथा ध्याननिष्टो भवे- त्याह - अग्र इति.---अत्र गीतशब्देन गायकजनो लक्ष्यते । तथा प में चेतः इत्यध्याहारः। अग्रे पुरस्ता ग्दीतं वीणावादनप्रवीणगायकं समुदायश्च । तथा । पार्श्वयो स्पीत्यर्थः । दाक्षिणात्याः दक्षिणदेशो - द्भवाः - तेषामेव विचित्रप्रबन्धनिर्माण कौशलसंभवादिति भाव: 'दक्षिणापश्चात्पुरसस्त्यगिति त्यक्प्रत्ययः सिरसा रसोल्लसितशब्दा र्वसंघटनधतुरा ये कवयः कवयितारस्ते च । तथा । पश्चात् पृष्ठभागे चामराणि प्रकीर्णकानि - गृहन्तीति चामरग्राहिण्यः - तासां वाल- व्यजनवीजनतत्पराणां - रमणीनां - नि. 'चामरं तु प्रकीर्णक मित्य मरः । लीलया वीजनवैचित्र्यविलासेन - यद्वलयरणितं माणिकङ्कण । झणत्कार स्तश्चेत्येतत्सर्व * नपुंसक मनपुंसकमि' त्यादिना नपुं- सकैकशेषः । एवमुक्तप्रकारेणास्ति यदि वर्तते चेतर्हि । भवे संसारे यो रसस्तस्यास्वादने अनुभवे - लम्पटत्वं लोलुपत्वं कुरु। तदा - सक्तं भवेत्यर्थः - नि. - लोलुपो लोलुभो लोलो लालसो लम्पटश्च- स' इति यादवः । नो चेदेवं नास्ति चेत्सहसा अविलम्बेनैव * 'स्वरादिपाठादव्ययत्वमिति शाकटायनः। निर्विकल्पे निरातङ्के। समाधो ध्याने प्रविश ब्रह्मध्याननिष्ठं भवेत्यर्थः। किमन्यथोम, यभ्रंशहेतुना वृथादैन्येनेति भावः ।। मन्दाक्रान्तावृत्तम् ।।

प्राप्ताः श्रियस्सकलकामदुधास्ततः किं
न्यस्त पदं शिरसि विद्विषतां ततः किम् ।
संपादिताः प्रणयिनो विभवै स्ततः किं
कल्पं स्थिताः तनुभृतां तनवस्ततः किम् ॥ ६७

 व्या.---अथ विचार्यमाणे संपत्तिलाभशत्रुजयादीनामप्य - किंचित्करत्वमेवेत्याह - प्राप्ता हति. ---हे चेतः तनुभृतां शरीरिणां । सकलकामान् दुहन्तीति सकलकामदुघाः अशेषमनोरथपरिपूरकः इत्यर्थः। श्रियः प्राप्ताः । ततः किम् । तथा विद्विषताममित्राणां के 'द्विषोऽमित्र' इति शतृप्रत्ययः। शिरसि पदं । न्यस्तं निक्षिप्तम् - परा- क्रमातिशयेन सर्वे शत्रवः पादाक्रान्तीकृता इत्यर्थः। ततः किम् ? विभ वैर्धनैः। प्रणयिनस्सुहृद संपादिताः संगृहीताः - वशंवदीकता इत्यर्थः। 'सम्मानिता' इति पाठे बहुमानिता। ततः तथा कल्पस्थिताः कल्पान्तरस्थायिन्यइत्यर्थः । तनवः शरीराणि। संपादिता इति संबन्धः। केनचिद्योगेन संगृहीताः। ततः किम् ? तेषां श्रेयस्सा- वनत्वनिषेधादिति भावः ॥ एतदादिश्लोकचतुष्टयं वसन्ततिलका - वृत्तम् ॥

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
संसर्गदोषरहिता विजना वनान्ता
वैराग्यमस्ति क्रिमितः परमर्थनीयन् ।।६८

 व्या.--नन्वेवं श्रेयस्साधनत्वेन व्यवह्रतानामेतेषां निषेधे किमन्यच्छ्रेयस्साधनमित्यत आह - भक्तिरिति.हे चेतः । भवे शम्भौ । भक्तिभजनानुरागः कार्य इति शेषः । किं च मरणजन्म - भ्यां महोपद्रवकारिम्यां निधनोत्पत्तिभ्यां - भयं - - हृदि तिष्ठतीति ह्रदिस्थं कर्तव्यमिति शेषः - न तु विस्मर्तव्यमिति भावः । बन्धुषु पुत्रमित्रकळत्रादिषु विषये । स्नेहोऽनुरागो न न कार्यः तथा । मन्मथाजायन्त इति तथोक्ता विकाराः स्त्रीपरतन्त्रत्वादयः । न न कार्याः - श्रेयोन्तरायत्वादिति भावः । इत्थं श्रेयस्साधनत्वेन कर्त - 'व्यद्वयं तदसाध्यत्वेनाकर्तव्यद्वयं चोपदिश्येदानीं पुनर्मुख्यं कर्तव्या - न्तरमुपदिशति - संसर्गदोषैरसङ्गन्दोषैः - रहिताः कामक्रोधादिप्रस - ङ्गवर्जिता इत्यर्थः - “सङ्गात्संजायते काम ' इत्यादिभगवद्वचनेन सङ्गजनितकामादि दोषपरम्पराया अनर्थहेतुत्वादिति भावः। कुतः . विजनाः विविक्ताः । बनान्ता वनप्रदेशा स्सेव्या इति शेषः । तन्न किमस्तीत्याशङ्कायामाह बैराग्यात्परमन्य त्किमर्थनीयमभिलषणीय न किमपीत्यर्थः। तस्यैव परमश्रेयस्साधनत्वादिति भावः ॥

तस्मादनन्तमजरं परमं विकासि
तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः ।
यस्यानुषङ्गिण इमे भुवनाधिपत्य-
भोगादयः कृपणलोकमता भवन्ति ।६९

 व्या.-अथ ब्रह्मविचारतत्परस्य ते सर्वेऽपि भुवनाधिपत्या- दयस्तुच्छा एव प्रतिभान्तीत्युपसंहरति - तस्मादिति--तस्मात् यस्माद्वैराग्यमेवार्थनीयं तस्मादित्यर्थः । हे चेतः। अनन्तमपरिच्छिन्नं त्रिविधपरिच्छेदशून्यं । तथा अजरं जन्मजरामरणवर्जितम् । अत एव । परमं सर्वोत्कृष्टं । तथा । विकासि विकस्वरं सर्वव्यापीत्यर्थ:- यद्वा - विकासि भास्वरं । तद्ब्रह्म । चिन्तय विचारय । एभिः क्रिय • माणै रसद्विकल्पैरसद्विरसाधुभिः - असत्यैर्वा - विकल्पै स्वत्तद्भोग प्राप्त्यप्राप्तिगोचरविचारैः किं - विकल्पसाध्यं नास्तीत्यर्थः * गम्य मानसाधनक्रियापेक्षयाकरणत्वात्तृतीया न केवलं अयमाणैव क्रियानिमितं कारकभावस्य • अपि तु गम्यमाना पीति वचनात् यत्तदोर्नित्यसंबन्धात्तच्छब्दस्य यच्छन्दाकाक्षायामाह - यस्व ब्रह्मणः -- अनुषङ्गिणः सम्बन्धवन्तः यद्ब्रह्मविचार इत्यर्थः । तवेति। शेषः । इमे काम्यमानाः । भुवनाधिपत्यं लोकाधिपत्यं - भोगः स्वर्गादिसत्यान्तलोकसमुदायस्थः - तावादी येषां ते तदादयो भोगाः। कृपणलोकानां ब्रह्मविचारहीनजनानां - मताइष्टा योग्या इति यावत् भवन्ति प्रतिभान्ति । तेषामेव योग्या: तेन मादृशनामिति प्रती- यन्त इत्यर्थः। भुवनाधिपत्यादीनामेवं प्रतीयमानत्वे किमुतान्येषा - मिति भावः - तदानीं तव तृणीकृतब्रह्मपुरन्दरस्वात्सर्वेऽपि तुच्छा - एव प्रतिभान्तीति परमार्थः - यद्वा ननु सर्वथा भोगजातमेव ममा - भिलषितं नान्यदिति यदि मन्यसे तदा इत्थंभूतस्य तव सर्वे भुवना- धिपत्यादिभोगाअनुषङ्गात्स्वयमेव सम्भवन्तीति समाधानमभिप्रेत्याह- हे चेतः । तत् सकलवेदान्तप्रसिद्ध - यद्वा - तच्छब्दलक्ष्यार्थभूत - मित्यर्थः । तत्वमसी'ति महावाक्ये तथा व्याख्यानादिति भावः । ब्रह्मचिन्तया चिन्तनफलमाह-यस्य ब्रह्मचिन्तनतत्परस्य। ते कृपणलोक- मता इमे भुवनाधिपत्यभोगादयः । अनुषङ्गिणः भवन्ति अनुषङ्गा - स्वयमेव सम्भवन्तीत्यर्थः - ब्रह्मध्याननिष्ठासाम्राज्यलक्ष्मीपतेः किं ते दुर्लभमिति भावः-शेषं समानम् - यद्वा यस्य ब्रह्मचिन्तनस्य इमे भुव नाधिपत्यादयः अनुषङ्गिणः अनुबन्धिनः भवन्ति - तथाच सति ब्रह्मचिन्तने तदनुबन्धवशात्सर्वेऽपि स्वयमेव सम्भवन्तीति भावः ; अत्र · शिखाते वर्धते नूनं गुळूचीं पिबशाबके ' ति शास्त्रवचन मनु- सृत्य तात्पर्यान्तरेणैवं समाहितनित्यनुसन्धेयम् ; कृपणलोकमता इत्यत्र यद्यपि * मतिबुद्धी त्यादिना वर्तमानार्थेक्तप्रत्यये क्तस्य च वर्तमान' इति षष्ठीसमासनिषेधः - तथाऽपि निरङ्कुशाः कवयः इत्यलम् ॥

पातालमाविशसि यासि नभो विलङ्घ्य
दिङमंडलं भ्रमसि मानस चापलेन।

भ्रान्त्याऽपि जातु विमलं कथमात्मनीनं
नब्रह्म संस्मरसि निवृतिमेषि येन ॥ ७०

 व्या---एनमेवार्थं पुनः प्रकारान्तरेणोपदिशन्निगमयति - पाताळमिति... हे मानस । चापलेन तत्तद्विषयासक्तिजनितचापल्ये- नयुवादित्वादण् * हेतो तृतीया। पाताळमाविशसि अत्यन्ताधः प्रदेशमपि गच्छसीत्यर्थः । तथा नभोऽन्तरिक्ष : विलङ्घ्य। यासि । अत्यूर्द्वधप्रदेशमपि गच्छसीत्यर्थः । तथा दिङ्मण्डलं दिक्चक्रवाळं । भ्रमसि अतिदूरदेशमपि धावसीत्यर्थः - सर्वत्रापि मनोगतेर्निरर्ग - ळत्वादिति भावः । किं तु। भ्रान्त्या भ्रमवशेनापि - मास्तुविवेकेने - त्यपि शब्दार्थः - तथापि - जातु कदाचिदपि। विमलं निर्मलम् - अविद्याकार्यसबन्धशून्यमित्यर्थः । किन्तु आत्महितमात्मनीनं सुख - स्वरूपत्वात् * आत्मन्विश्वजन भोगोत्तरपदात्ख' इति खप्रत्ययः - • आत्मलीनमि' ति पाठे- आत्मन्यन्तरात्मनि - लीनं निलीय स्थितं - सर्वान्तर्यामित्वात् । ब्रह्म । कथं । न संस्मरसि न ध्यायसि - सर्वथा स्मर्तव्यमित्यर्थः। कुतः • येन संस्मरणेन। निर्वृतिमानन्दमेषि प्राप्नोषि । अतः - यथाकथंचित्स्मरणऽप्यानन्दजनकत्वादवश्यं स्मर्त - व्यमेव-

‘हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥

इत्यादिवचनादिति भावः ॥

  ॥ इति वैराग्यशतके मनस्संबोधननियमनं संपूर्णम् ।।

किं वेदैः स्मृतिभिः पुराणपठनैश्शास्त्रै र्महाविस्तरै
स्वर्गग्रामकुटीनिवास फलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेषैर्वणिग्वृत्तिभिः ॥ ७१

 व्या..-अथ वेदाध्ययनस्मृतिपर्यालोचनशास्त्रपठनपुराण - श्रवणादिभिर्न कोऽपि लामः - किंतु विचारात् श्रवणमनननिदिध्या- न्मनादिभिरात्मानुभव एव लाभ इति मत्वा जनानुद्दिश्य बोधयति - ' किं वैदै' रिति श्लोकेन - किमिति..--वैदैः ऋग्यजुस्सामाथर्वण - संक्षकैः चतुर्भिर्वेदैः । किं किं प्रयोजनं? न किमपि प्रयोजनमित्यर्थः । स्मृतिभिः मन्वाद्याष्टादश स्मृतिभि रुपस्मृतिभिश्च । किं प्रयोजनं? न किमपीत्यर्थः । पुराणपठनैः ब्रह्माण्डपुराणाद्यष्टादशपुराणोपपुराणपठ नैश्च। न किमपीत्यर्थः । महाविस्तरैः अतिविस्तृतैः । शास्त्रैः तर्कव्या करणादिषड्दर्शनैः किम् ? न किमपीत्यर्थः । स्वर्ग सर्वपुण्यकृन्निवासे नाकलोके च -ग्रामेषु ब्राह्मणप्रधानवर्णानां निवासेषु-कुटीषु पर्णगृहेषु- वः निवासः तेन फलदैः फलप्रदैः कर्मणां स्नानसंध्यावन्दनौपासन- यज्ञादीनां - क्रियाभिः व्यापारैः - विभ्रभैश्च । न किमपि प्रयोजन - मित्यर्थः । भवात् जननमरणरूपसंसारात् यद्दुःखं दारिद्रयभार्या- पुत्रादिनाशादि-तस्य - भारः असह्यातिशयः तस्य रचना कलना - तस्याः - विध्वंसः नाशः तस्य कालानलं प्रळयाग्रिरूपं । स्वस्य- आत्मानन्दः आत्मसुखानुभवः तस्य पदं स्थानं तस्मिन प्रवेश: - तस्य - कलने एक केवलं - नि. एके मुख्यान्यकेवलाः' इत्यमरः । मुक्ता विहाय। शेषैः उक्तेभ्यः अन्यैः वणिग्वृतिभिः वर्तकव्यापारसदृशैः न किमपि प्रयोजनम्। आत्मज्ञानं विना उक्तानां वेदादीनामध्ययनादिभिरपि फलं नास्ती त्यर्थः । सर्वेषां' वेदान्तवाक्यानां ब्रह्मणि तात्पर्य मित्युक्तरीत्या ब्रह्मज्ञानमेव संपाद- नीयं नत्वितरदित्याशयः ;

यतो मेरुश्रीमान्निपतति युगान्ताग्निवलितः
समुद्राश्शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छत्यन्तं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ।। ७२

  व्या...---अथातिरिक्तस्यानित्यत्वमेव प्रपञ्चयति-यत इति---- यतो यस्मात्कारणात्। श्रीमान् मणिहिरण्यादि सकलवस्तुसमृद्धिमान् । मेरुः मेरुगिरिरपि। युगान्ताग्निना प्रळयकालानलेन - वळितस्सं - वेष्टित स्सनिपतति विशिष्ठाग्निसंपर्कान्निलीनो भवतीत्यर्थः। तथा प्रचुराः प्रभूताः - मकरानक्राः - ग्राहा जलग्राहाश्च तेषां - निलया: समाश्रयासमुद्रास्सप्तसागराश्च । शुष्यन्ति शोषं प्राप्नुवन्ति । तथा । घरन्तीति धरा! * पचाद्यच्-धरण्याः धराः महेन्द्रादि सप्तकुला - चला स्तेषां - पादैः प्रत्सन्तपर्वतैः - नि. पादाः प्रत्यन्तपर्वता' इत्यमरः। धृता सम्यगवष्टब्धा । धरा भूमिश्च । अन्तं नाशं पाता। लं वा। गच्छति प्राप्नोति - उभयत्रापि प्रळयाग्निमेळनादेवेति भावः। तस्मात् कारणात् * यत्तदोर्नित्यसंबन्धात् । करिकलभस्य करिपो. तस्थ - कर्णाग्रं कर्णाञ्चलं - तद्वच्चपले । शीर्यत इति शरीरे । का वार्ता का कथा न काऽपीत्यर्थः ; यतोऽत्यन्तस्थिरतराणामपि ईदृश्यवस्था किमुतक्षणभङ्गुराणां शरीराणां - 'गजा यत्र न गण्यन्ते मशकानां तु कावथे ति न्यायादिति भावः। सर्वेऽपि नश्वरा एव ततोऽप्यति - 'नश्वरं शरीरमिति तात्पर्यम् ; करिकलभेत्यन्न करिशब्दस्य विशेषप्रति- पत्तिहेतोर्वैशेष्यप्रतीत्यर्थत्वादपौनरुक्त्यम् ; अत ए वैकार्थं पदप्रयो- ज्यमि' त्युक्त्वा करिकलभकर्णावतंसादिषु प्रतिपत्तिविशेषकरेषु न दोष' इत्याह वामनः ॥

गात्रं संकुचितं गतिर्विगळिता भ्रष्टा च दन्तावळि-
र्दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च च लालायते ।
' वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते.
हा ! कष्टं ! पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ ७३

 व्या.--अथ शरीरिणो जरया दुरवस्थामाह - द्वाभ्यां गात्र- मिति.---गात्रं शरीरं । सङ्कुचितं भुग्नमभूदिति शेषः । गतिसंचा- रोऽपि गळितः संचारशक्तिरपि नष्टेत्यर्थः । दन्तावळिर्दन्तपक्ति श्व । भ्रष्टा पतिता । दृष्टिश्चक्षुरिन्द्रियं च । नश्यति अर्थग्रहणापटु - भवतीत्यर्थः । बधिरता श्रोत्रेन्द्रियापाटवं। वर्धते वृद्धि प्राप्नोति । वक्त्रं च लाला दन्तान्तर्गतजलं - लालेवाचरति लालायते - लालामयं भवतीत्यर्थः - नि, 'सृणिका स्यन्दिनीलाले' त्यमरः। तथा बन्धव एव बान्धवाः स्वार्थेऽण्प्रत्ययः - त एव जनो बन्धुवर्गश्च । वाक्यं - वचनं । नाद्रियते न रोचयत इत्यर्थः । कि बहुना । भार्याऽपि । न सेवते - यद्वा - सेवितुं नेच्छति - सेवा दूरापास्तेति भावः । अतः । जीर्णवयसो जरावस्थासंपन्नस्य पुरुषस्य । हेति विषादे । कष्ट कृच्छ्रं। कुतः - पुत्रोऽप्यात्मसंभवोऽपि। अमित्रायते अमित्रं शत्रुमिवाच - रति - प्रतिकूलाचरणतत्परो भवतीत्यर्थः ; लालायत इत्यत्र * • कर्तुः क्यङ्सलोप श्चे ' ति क्यङ् - अत्रतु * · उपमानादाचार' इति क्यच् - उभयत्रापि * • अकृत्सार्वधातुकयो दीर्घ' इति दीर्घः॥

वर्ण सितं शिरसि वीक्ष्य शिरोरुहागां
स्थान जरापरिभवस्य तदा पुमांसम् ।
आरोपितास्थिशतकं परिहत्य यान्ति
चण्डालकूपमिव दूरतरं तरुण्यः ॥ ७४

 व्या.-वर्णमिति.---तरुण्यो युवतयः कर्त्र्यः * 'वयसि 'प्रथम' इति ङीप् । शिरसि रोहन्तीति शिरोरुहा श्चिकुराः तेषाम्

  • इगुपधलक्षणः कप्रत्ययः। सितं वर्णं धावळ्यगुणं - पलितत्वमि ति यावत् । झडित्यञ्जसा । वीक्ष्य दृष्ट्वा - नि. 'द्राग्झडित्यञ्जसा -ह्वाये' त्यमरः । तदा तस्मिन् समये दर्शनसमनन्तरकालएवेत्यर्थः। जरया वार्धकावस्थया - यः परिभवः अवमानस्तस्य - स्थानमा- स्पदं । तथ।। आरोपितं बहिः स्फुटलक्ष्यत्वादारोपितप्रायमस्थि - "शतकं यस्य तं तथोक्तं - अन्यत्रारोपितं निक्षिप्तं-अस्थिशतकं यस्मिन् तं - 'आरोपितास्थिशकल' मिति पाठे - एकत्रारोपितप्रायकीकस - खण्डं अन्यत्र निक्षिप्तकीकसखण्ड मित्यर्थः । पुमांसं पुरुषं।

चण्डालकूप चण्डालसंबन्धि जलाशयमिव । परिहत्य परित्यज्य । दूरतर - मतिविप्रकृष्टं । यान्ति हेयत्वाद्विहायान्यत्र गच्छन्तीत्यर्थः । अतः कष्टं जीर्णवयसोऽपि जीवनमिति भावः ।।

यावत्स्वस्थमिदं शरीरमरुजं यावच्च दूरे जरा
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः॥ ७५

 व्या...-अतः दुरवस्थाक्रान्तेः पूर्वमेव श्रेयस्संपादनार्थ यत्न: कर्तव्यः नान्यथेति सदृष्टान्तमाह - यावदिति.---यावत् यावत्पर्यन्त मिदमेतच्छरीरं। स्वस्थं पीडारहित। भवतीति शेषः - एवमुत्तर- त्रापि । तथा । यावत् न विद्यते रुजा रुग्यस्य तत्तथोक्तम् - आरो- ग्ययुक्तं भवति - नि. ' स्त्री रुग्रुजा चोपताप' इत्यमरः - यद्वा - अरुजं सत् - स्वस्थमविकलं - भवति । तथा। यावज्जरा दूरतः - दूरे भवति - वार्धकदशा यावत्पर्यन्तं नाक्रामतीत्यर्थः । तथा यावदि- न्द्रियशक्तिश्चक्षुरादीन्द्रियपाटवं च । अप्रतिहता अखण्डिता भवति। यावदायुषः क्षयो नाशो न भवति। तावत्तावत्पर्यन्तमेव तन्म - ध्यकाल एवेत्यर्थः। वेत्तीति विद्वान् - तेन विदुषा अभिज्ञेन * विदेश्शतुर्वसु' रिति वसुप्रत्ययः। आत्मनः - श्रेयसि विषये - मोक्षप्राप्तावित्यर्थः। महान् फलजननपर्याप्तत्वेन पूज्यः । प्रयत्नः ज्ञान वैराग्यतपस्सम्पादनोद्योगः। कार्य:; ननु कोऽयं नियमः १ अवसा - नेऽपि प्रयत्नस्य कर्तुं युक्तवादित्याशङ्कयावकाशाभावान्न युक्त 'इति व्यतिरेकदृष्टान्तमाह - भवने गृहे संदीप्ते अग्निना दह्यमाने सति। कूपखननं प्रति कूपनिर्माणं प्रति उद्यमः प्रयत्नः । कीदृशः कीदृग्वि- धः - न युुक्त इत्यर्थः - अवकाशाभावादिति भावः । गृहदाहवेळायां कूपखननप्रयत्न इव अवसानकाले श्रेयःप्राप्त्यर्थोद्यमोऽपि न युज्यत इति भावः ; तस्मात्स्वस्थावस्थायामेव श्रेयस्साधनसंपादनतत्परेण भवितव्यमवश्यं बुद्धिमतेति तात्पर्यम् ॥

तपस्यन्त स्सन्तः किमधिनिवसाम स्सुरनदीं
गुणोदारान्दारानुत परिचरामस्सविनयम्।
पिबामश्शास्त्रोघानुत विविधकाव्यामृतरसा-
न्न विद्मः किं कुर्मः कतिपय निमेषायुषि जने ॥ ७६

 व्या.---अथ तपश्चरणादीन् बहून् कर्तव्यतया विकल्प्यानन्तर मवश्यं तप एव संपादनीयमिति केषांचिन्निश्चयमनुसंधायाह - तपस्यन्त इति द्वाभ्यां - तपस्यन्त इति..--तपस्यन्तः तपश्चरन्तस्सन्तः । केव लमिति शेषः * 'कर्मणो रोसन्यतपोभ्यां वर्तिचरोरि' ति क्यप्- प्रत्ययः । सुरनदीं मन्दाकिनीम् । अधिनिवसामः कि अधितिष्ठामो - वा-वैराग्येणेति भावः - किंशब्द उत्तरत्राप्यनुवर्तनीयः उपान्व ध्यास' इति सुरनद्याः कर्मत्वम् । उत अथवा । विनयेनानुकूल्येन सहिवं यस्मिन् कर्मणि तद्यथा। तथा गुणैस्सौभाग्यसौशील्यादिभि - रूदारान् रम्यान् । दारान् जायां । परिचरामः किं अनुसरामो वा- सांसारिकधर्मेणेति भावः - नि. भार्या जायाथ पुंभूम्नि दारा' इत्यभिधानाहारशब्दस्य पुंस्त्वं बहुत्वं च । लया। शाखौघान् शाख कलापान् । पिबामः किं अद्यैव कीर्तिप्रतिष्ठाविज्ञानार्थमित्यर्थः । 'पाध्राष्मे ' त्यादिना पातेः पिबादेशः। उत यद्वा । विविधानि काव्यानि काव्यनाटकालंकारा एवामृतरसास्सुधाद्रवाः - अथवा - विविधेषु काव्येषु ये अमृतरसास्तान् । पिबाम: - सकलकलाकौश - लार्थमिति भावः । जनशब्देनात्र तत्समुदायो विवक्षितः • तथा च - जने जनसमुदाये । कतिपये कियन्तः - ये निमेषास्तावन्मात्रकाल- परिच्छिन्नमायुर्यस्य तस्मिन् सतत्यिर्थः - जात्येकवचनविवक्षायां तु जनेष्वस्मासु कतिपयनिमेषायुःषु सत्स्वित्यर्थः । किम् उक्ततपश्च - रणादिषु किं वा कुर्मः । सर्वेषामाचरणे अवकाशाभावादिति भावः। न विद्मः न जानीमः - निश्चयाभावादिति भावः ।।

दुराराध्याश्वामी तुरगचलचित्ताः क्षितिभुजो
वयं तु स्थूलेच्छास्सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितमिदं
सखे ! नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ७७

 व्या.—ततः किमित्याशङ्कय ततो निश्चयमाह - दुराराध्या इति.-तुरगाः उत्तमाश्वा: - तद्वञ्चलानि चित्तानि येषां ते अस्थिर- हृदया इत्यर्थः । अमी परिदृश्यमानाः । क्षितिभुजो राजानः । दुरा- राध्याः आराधयितुंः प्रसादयितुमशक्या: - प्रसादोन्मुखीकरणाशक्या इत्यर्थः । तथा स्थूलेच्छाअधिकाशातत्पराः । वयं च । सुमहति बहुले। फले धने । बद्धं मनो येषां ते तथोक्ताः - बहुधनाकाङक्षिण इत्य - र्थः - आकाक्षामात्रमेवास्माकं न तु ते दास्यन्तीति भावः । तथा। जरा वार्धकदशा । देहं । हरति क्षिणोति। मृत्युरन्तकश्च । दयितं । प्रियतममिदं जीवितम् इमान् प्राणानित्यर्थः। हरति । अत: हे सखे। जगत्यस्मिन् लोके । विदुषस्तत्वज्ञस्य पुंसः। तपसोऽन्य- त्रान्यत् इतरदित्यर्थः । अन्यदसाधारण मुत्तमं । श्रेयः मोक्षसाधनं । नास्ति ततोऽन्यत्परमं श्रेयोन्तरं नास्ति । अतस्सर्वथा तदेव संपादनी- यमिति भावः ।।

20

माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलमेतदेव सुधियां यज्जह्नु कन्यापय:
पूतग्रावगिरीन्द्रकन्दरतटीकुञ्जे निवासः कचित् ॥ ७८

 व्या.---अथ तपसः श्रेयोहेतुत्वे तदाचरणस्य किंवा योग्य - स्थानमित्याशङ्कायामाह - मान इति.-माने अभिमाने म्लायिनि भग्ने सति । तथा । वसुनि धने च । खण्डिते विनष्ठे सति. - नि. 'देवभेदेऽनले रश्मौ वसू रत्ने धने वस्वि'ति विश्वः । अत एवार्थिनि याचके ! व्यर्थे अलब्धमनोरथत्वान्निरर्थके प्रयाते सति वाञ्छितार्था लाभाद्वैमुख्यं गते सतीत्यर्थः । बन्धुजने पुत्रमित्रादि बन्धुजनसमूहे। क्षीणे अन्नाद्यलाभात्कृशे सति । परिजने भृत्यवर्गे । गते वेतनदाना- ' भावादन्यत्र गते सति । तथा। शनैर्मन्दं। यौवने तारुण्ये नष्टे गळिते सति । अनित्यत्वस्वाभाव्यात्सर्वस्मिन्विपन्ने सतीत्यर्थः । सुधियां शुद्धिसंपन्नानामेतदेव इदमेवैकं केवलमत्यन्तम् । युक्त- मुचितं किमेतदित्यत आह - क्वचित् कस्मिंश्चित् । जह्नुकन्यापयः पूताः गङ्गाजल पवित्राः - ग्रावाणः पाषाणा: यस्मिन् स तथोक्तो यो गिरीन्द्रः तस्य हिमवद्गिरेः कन्दरतट्यां गुहाबहिः स्थल्यां - निकुञ्जो लतामण्टपः तस्मिन्निवास इति यत् तदेतद्युक्तमिति संबन्धः । तस्यैव श्रेयस्साधनभूत्ततपोयोग्यस्थलत्वादिति भावः - नि. 'निकुञ्ज कुञ्जौ वा क्लीवे लतादिपिहितोदरे' इत्यमरः ॥

रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली
रम्यं साधुसभागमागतसुखं काव्येषु रम्याः कथाः ।

कोपोपाहितबाष्पविन्दुतरळं रम्यं प्रियाया मुखं
सर्वं रम्य मनित्यतामुपगते चित्ते न किंचित्पुनः॥ ७९

 व्या.----अथ चित्तस्य नित्यानित्यवस्तुविवेके सति रम्यमपि सर्वमरम्यमेव प्रतिभातीत्याह द्वाभ्याम् - रम्या इति.-चन्द्रमरी - चयश्चन्द्रकिरणारम्याः रमणीयाः - उद्दीपकत्वादिति भावः । तथा। तृणवती शाद्वलप्राया। वनान्तः स्थली वनमध्यभूमिः । रम्या रन्तुं योग्या * ' जानपदे' त्यादिना अकृत्रिमार्थे क्लीप्। तथा। साधु - समागमात् सञ्जनसहवासादागतं प्राप्तं - यत्सुखं । तदपि । रम्यं कवयति वर्णयतीति कविः . तस्य कर्म काव्यं - * ब्राह्मणादित्वात् ष्यञ् - तस्य पङ्कजादिवद्रूढत्वाद्रसोल्लसितशब्दार्थसंघटनमर्थः न कर्ममात्रं - तथा च काव्येदूक्तप्रकारेषु काव्यनाटकादिषु । कथा: श्रव्यवाचः उपाख्यानानि वा। रम्या मनोहराः । तथा! कोपोपा • हिताः प्रणयकलहादिषु क्रोधवशादुत्पन्ना - ये - बाप्पबिन्दवः अश्रु- कणास्तैः - तरळम् आविलं प्रियाया मुखं रम्यम् । अतस्सर्व - मपि रम्यमुक्तरीत्या सकलमपि मनोहरमेव । किंतु । चित्ते मनसि। अनित्यतां नित्यानित्यवस्तुविचारतत्परतामित्यर्थः । उपगते सति । किंचिदपि । रम्यं न भवति - ब्रह्मानन्दं विनेति शेषः ॥

रम्यं हर्म्यंतल न किं वसतये श्राव्यं न गेयादिकं
'किं वा प्राणसमागमागमसुखं नैवाधिकप्रीतये ।
किं तु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपांकुर-
च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥ ८०

 व्या.----उक्तमेवार्थं विवृण्वन्निगमयति - रम्यमिति.--हर्म्य तलं प्रासादोपरिप्रदेशः । वसतये निवासाय । न रम्यं किं - रम्यमे- वेत्यर्थः । तथा। गेयं गानं * भव्य गेये ' त्यादिना कतरि निपातः, - तदादिः यस्य तत्तथोक्तं - आदिशब्देन वीणावादनादिकमपि । संगृह्यते * 'शेषाद्विभाषे' ति कप्प्रत्ययः । न श्राव्यं किं श्रोत्रसुखा वहं न किं - श्राव्यमेवेत्यर्थः । तथा। प्राणसमायाः प्राणप्रियनायि - कायास्समागमेन संभोगेन - यत्सुखं तच्च । अधिकपीतये अत्य - न्तसंतोषाय । नैव भवति कि? भवत्येवेत्यर्थः । किंतु । सन्तः वस्तुविचा- रतत्परपुरुषाः । सकलमशेषं - हर्म्यतलनिवासादिकमपि । भ्रान्तः पतनेच्छया परिभ्रमन् - यः - पतङ्गशलभः - नि. पतङ्गशलभे भाना विति विश्वः - तस्य - पक्षयोः पवनेन गरुतोः वायुना - 1 व्यालोलोऽतिचञ्चलो - यो दीपाङ्कुरो दीपकलिका - तस्य • छाया कान्तिस्तद्वचञ्चलं तरळं नश्वरमित्यर्थः । आकलय्यालोच्य । वनान्तं वनमध्यं । गताः शाश्वतब्रह्मानन्दसाधनतपश्चर्यार्थमिति भावः ॥

॥ इति वैराग्यशतके नित्यानित्यवस्तुविचारः संपूर्ण: ।।

॥ शिवार्चनम् ॥
आसंसारं त्रिभुवनमिदं चिन्वतां तात ! तादृ-
ङ्नैवास्माकं नयनपदवीं श्रोत्रमार्गं गतो वा।
योऽयं धत्ते विषयकरिणी गाढगूढाभिमान-
क्षीवस्यान्तःकरणकरिणस्संयमालानलीलाम् ॥ ८१

 व्या.---ननु वस्तुविचारप्रसक्तत्या तपसोऽत्यन्तावश्यकत्व मुक्तंं तत्किंविध मित्याशङ्कायां शिवार्चनव्यतिरेकेणान्यन्नकिंचिदप्य- । स्तीति नसि कृत्वेदानीं तावच्छिवार्चनं वर्णयति - तञ्चार्चनं र्वण - ति - तञ्चार्चनं द्विविधं बाह्यमाभ्यन्तरं चेति - तत्राधं बहूपकरण - साध्यं बहिर्मुखविषयत्वादमुख्यं चेत्यभिप्रेत्यादौ तदुपेक्ष्य मुख्य माभ्य- न्तरपूजनप्रकारमेवाभिनीयाह - आसंसारादिति.----अत्र तातेत्याश्चर्यं श्रवणाभिमुखीकरणार्थ मादरातिशयद्योतकं पृथग्जनं प्रति संबोधन - वचनम् - हे तात जनक - नि. - ' तातस्तु जनकः पिते' त्यम- र: - आ संसारात् अनादिसंसार मारभ्येत्यर्थः * पदद्वय मेतत् * विकल्पादसमासः । इदं प्रसिद्धं। त्रयाणां भुवनानां समाहारत्रि - भुवनं - भुवनत्रयमपि - तद्धितार्थे ' त्यादिना समाहारसमासे पात्राद्यदन्तत्वान्न स्त्रीत्वं। चिन्वतां मार्गमाणानां - कर्मवशात्तत्र प्रवे- शलाभादिति भावः - अथवा - चिन्वतां परामृशताम् । अस्माकं । नयनपदवीं लोचनमार्गं वा। श्रोत्रमार्गं श्रवणपथं वा। तादृक्तथा - विधः पुमान्। न गतो न प्राप्त एव - तादक्पुमान् - न श्रुतो न दृष्ट- श्चेत्यर्थः । कोऽसावित्यतआह - योऽयं पुमान् प्रतीयमानतया भोग- साधनानि स्रकचन्दनवनितादीनि विषया स्त एवं करिण्यः इभ्य:- तासु गाढोऽतिदृढो गूढः अप्रकाशश्च योऽभिमानः अत्यन्ता- सक्तित्वाग्रहः तेन क्षीबस्य मत्तस्य नि. “मतेशौण्डोत्कटक्षीबा' इत्यमरः * ' क्षीवृमद' इत्यस्य धातो रनुपसर्गात् ' फुल्लक्षीव - कृशोल्लाघा' इति निष्टान्तो निपातः। अन्त:करणमेव करी तस्य चित्तमत्तेभस्य । संयमे सम्यनियमने । आनायस्य रज्जुनिर्मितजाल स्थ - नि आनायः पुंसि जालं स्यादि' त्यमरः - आलाने ' ति पाठे आलानस्य बन्धनस्तम्भस्य - लीला । धत्ते दुर्दममनोनियमन - समर्थो भवतीत्यर्थः । तादृगिति संबन्धः ।।

 अत्रेदृक्पुरुषस्य नयनश्रोत्रपथविषयसंबन्धेऽप्यसंबन्धोक्त्या - संबन्धे असंबन्धरूपातिशयोक्तिः । तथा च मनोनियमनस्यात्यन्ताश- क्यत्वरूपं वस्तु व्यज्यते इत्यलंकारेण वस्तुध्वनिः; तथाच केनचिद्यो- गेन मनो नियम्य तत्र ब्रह्मानन्दसाधनभूतान्तरङ्गशिवार्चनतपोड वश्यं कर्तव्यमिति गूढोऽय मभिप्रायः ; तथा अन्यधर्मस्यान्यत्र संब- न्धासंभवादानायलीलामिव लीलामित्यौपम्यपर्यवसानादसंभवद्वस्तु- संबन्धरूपो निदर्शनालंकार: ; स चोक्तरूपकेणाङ्गाङ्गिभावेन संकीर्यते. मन्दाक्रान्तावृत्तम् ॥


यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं
स हार्यै संवासश्श्रुत मुपशमैक वृतफलम् ।
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृश-
न्न जाने कस्यैषा परिणति रुदारस्य तपसः॥ ८२

 व्या.-अथ तपः प्रवृत्ति मेवाह-यदिति.----स्वच्छन्दं यथे - च्छम् अपराधीनमिति यावत् । विहरणं विहारश्च । न विद्यते कार्प - ण्यं दैन्यं यस्मिं स्तत्तथोक्त मशनं भिक्षान्न भोजनं कन्दमूलाद्याहारो वा । तथा आर्यैर्विज्ञानसंपन्नैः । सह संवासस्समागमश्च । तथा उपशमो विषयभोगविरतिरेव - एक मुख्यं - व्रतफलं यस्मिं स्त थोक्तं । शान्तिफलकतपश्चरणबोधकमित्यर्थः। श्रुतं वेदान्तशास्त्रश्र- बणं च - नि, श्रुतं शाखायधृतयो रिति विश्वः । तथा। बहिः बाह्यदेशे मन्दस्पन्दं मन्दप्रसारम् - अन्तर्मुखत्वादिति भावः। मनो- ऽप्यन्तः करणं चेति यदेतत्सर्वं वर्तत इति शेषः * ' नपुंसक मन- पुंसके नैकवच्चे' त्यादिना एकशेषः * एषेति विधेयप्राधान्यात् - स्त्रिलिङ्गता - शैत्यं हि यत्सा प्रकृति र्जलस्ये'ति वत्। कस्योदा रस्य महतस्तपसः परिणतिः परिपाको वा न जाने न वेद्मीत्यर्थः - यद्वा- परिणतिः परिणामो वा न जाने - किंवा तपः एवंरूपेण परिणतं तन्न जानामीत्यर्थः । कथंभूतस्सन्नपि - चिरस्य चिरकालमित्यर्थः । विमृ- शन् परामृशन्नपि - नि. चिराय चिररात्राय चिरस्याद्याश्चिरार्थका' इत्यमरः विभक्तिप्रतिरूपकमव्ययं; तञ्च तपश्शिवपूजनमेव - कथ मन्यथाऽस्येदृक्फलसाधने एवंविधपरिणमने वा सामर्थ्यं संभवेदिति भावः॥

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हन्ताङ्गेषु गुणाश्च बन्ध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाऽभ्युपैति बलवान्कालः कृतान्तोऽक्षमी
हा ! ज्ञातं मदनान्तकाङ्घ्रियुगळं मुक्त्वाऽस्ति नान्या गतिः॥

 व्या------अथ शिवचरणमेव शरणमिति स्मरणमभिनीयाह - जीर्णा इति - मनोरथा विषयाभिलाषाश्च हृदये अन्तरङ्ग एव। जीर्णाः नष्टाः - वाञ्छामात्रमेव न त्वनुभूता इत्यर्थः । तथाऽङ्गेषु । स अवयवेषु तत्तथाभूतं - कामिनीसंभोगोपयुक्तमित्यर्थः । यौवनं । यातं इत्यगलितं । हन्तेति विषादे। तथा । गुणज्ञागुणग्राहिणस्सहृदया इति कत्यावत् - तै र्विना * 'पृथग्वि ने' त्यादिना तृतीया। गुणा विद्या विनयादयश्च । वन्ध्यफलतां निष्फलतां याता गताः - अनुभावका भावान्निरर्थका जाता इत्यर्थः । तथा बलवान् बलिष्ठः-दुर्जयइत्यर्थः । काल̠ कालस्वरूप अपरावर्त्य इति यावत् । अक्षमी असहनश्च । कृतान्तो यम स्सहसाऽभ्युपैति अभियुङ्क्ते - प्राणापहरणार्थमिति - भावः - नि. 'कृतान्तौ यमसिद्धान्तावि' त्यमरः अतः किं । युक्त - मुचित्तम् - ईदग्दशायां किं कर्तव्यमित्यर्थः । हा कष्टं - तथाऽपीद मेकं तरणसाधनमस्तीति स्मरण ममिनीयाह । ज्ञात मवगतं किं ज्ञात- मित्यत आह - मदनान्तकस्य शंभोः - अङ्घ्रियुगळं पादयुग्मं । मुक्त्वा विहायान्या गति श्शरणं। नास्ति । अतस्तदेव श्रयणीयमिति - भावः ॥

महेश्वरे वा जगता मधीश्वरे जनार्दने या जगदन्तरात्मनि ।
न वस्तुभेदप्रतिपत्ति रस्ति मे तथाऽपि भक्तिस्तरुणेन्दुशेखरे॥

व्या.----ननु -

'यत्पादनिस्मृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्नयधिकृतेन शिवः शिवोऽभूत् ।
ध्यातुर्मनश्च कुलशैलविसृष्टवज्रं
ध्यायेच्चिरं भगवत श्चरणारविन्दम् ।।

इत्यादिना शिवायशेषदेवताकल्याणप्रदे अखिललोकाराध्ये संसारा- र्णव तरणयानपात्रे भगवतश्चरणारविन्दे जाग्रति कथं शिवाङ्घ्रियुगळं विनाऽन्या गतिर्नास्तीति प्रलपसि इत्याशङ्कयाह - महेश्वर इति.-- जगतां चतुर्दशभुवनाना मधीश्वरे स्वामिनि । महेश्वरे शिवे वा । तथा जगता मन्तरात्मनि अन्तः करणसाक्षिणि - अन्तर्यामिणीति वा - अथवा अन्तर्भूतात्मनि जीवात्मस्वरूपे अविद्याप्रतिबिम्बित चैतन्यत्वेन तथाभूतत्वादिति भावः - यद्वा - जगन्त्यन्तरात्मनि यस्य- तस्मिन् तथेक्ते - कुक्षिस्थाखिलभुवन इत्यर्थः । जनानर्देयतीति जना- र्दने, विष्णौ वा । मे मम । वस्तुभेद प्रतिपत्तिः अयं महेश्वरोऽयं जना र्दन इति वस्तुगोचर भेदबुद्धि र्नास्ति - 'शिवाय विष्णुरूपा ये' स्यादिना तयोर्वस्तुतो भेदाभावा दिति भावः । तथापि भेदप्रतिपत्त्य भावेऽपि । तरुणेन्दु शेखरः शिरोभूषणं यस्य तस्मिन् शिवे । भक्तिः भजनानुरागोऽस्तीति शेषः - अतएव नान्या गतिरित्युक्तमिति • भावः। इदं च स्वभावो दुरतिक्रम' इति न्यायादि त्यवगन्तव्यम् । वंश - स्थवृत्तम् - 'जतौ तु वंशस्थ मुदीरितं जरा वि' ति लक्षणात् ।।

स्फुरत् स्फारज्योत्स्नाधवळिततले काऽपि पुलिने
सुखासीनाशान्तध्वनिषु रजनीषु धुसरितः ।
भवाभोगोद्विग्नाशिव शिव शिव शिवेत्युच्चवचसः
कदा यास्यामाऽन्तर्गतबहुलवाष्पाकुलदशाम् ॥ ८५

 व्या.-अथ स्थायिन श्शमस्योदयवशाच्छान्तरसाभिव्यञ्जकवा- क्यान्याह पञ्चभिः - स्फुरत् स्फारज्योत्स्नेति---शान्ता उपरता: - ध्वनयः पक्षिमृगादिकतानि-यासु तासु तथोक्तासु-एतेन चित्तविक्षेपहेतु राहित्यं सूच्यते। रजनीषु रात्रिषु । स्फुरन्ती प्रकाशमाना - स्फारा प्रवृद्धा च - या ज्योत्स्ना चन्द्रिका - तया - धवळितं पाण्डरीकृतं - तलं प्रेदेशो - यस्य तस्मिन् । काऽपि कस्मिंश्चित् । धुसरितो गङ्गायास्सं - बन्धिनि । पुलिने सैकते। सुखं यथा तथा - आसीना उपविष्टास्सन्तः भवाभोगात्संसारविस्तारादुद्विग्राः विह्वला: - दुःखजनकत्वादिति- भावः । वयमिति शेषः । अतश्शिवत्यादित्रिवार । मुच्चानि ताराणि वचांसि आक्रन्दवचनानि येषां ते तथोक्ताः - ' आर्तवचस' इति पाठे दैन्यवधनास्सन्तः । कदा कस्मिन्वा समये । अन्तरभ्यन्तरे - गताः नियमनवशादन्तर्लीना इति यावत् • बहुळाश्च - ये बाप्पा आनन्दा- श्रूणि • तैराकुला - या दशा अवस्था तां यास्यामः अन्तर्नियमिता - नन्दबाष्पपर्याकुलावस्था कदा गमिष्याम इत्यर्थः - 'दशमि' ति पाठे बाष्पाकुला था दृग्दृष्टिस्तां यास्याम - इत्यन्वयः - 'कदा स्यामा नन्दोद्गतबहुळबाष्पाकुलदृश' इति पाठे - आनन्दादुद्गता उत्पन्ना ये बहुळ बाष्पाः तैराकुला दृशो येषां ते तथोक्ताः कदा स्याम भवेम । तदनीं खलु वयं कृतकृत्या इति भावः ।।


वित्तीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरतस्संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणा-
स्त्रियाना नेष्यामो हरचरणचिन्तैकशरणाः ॥ ८३

 व्या.--वितीर्ण इति - सर्वस्वे निखिलधने। वितीर्ण दत्ते - अर्थिसात्कृते सति - नि. 'स्वो ज्ञातायात्मनि स्वे त्रिष्वात्मीय स्वो- स्त्रियां धन' इत्यमरः । ततस्तरुणा प्रत्यया - या करुणा भूतदया . तया - पूर्णानि पूरितानि - हृदयानि येषां ते तथोक्ताः। तथा । सं- सारे । विधिगतिं दैवप्रवृत्तिं । विगुणपरिणामां विषमपरिपाकाम् - अकुशलपर्यवसायिनीमिति यावत् । स्मरन्तस्सन्तः मनस्यनुसंदधाना - स्सन्तः वयं। पुण्यारण्य तपोवने। हरचरणचिन्ता शिवपादारवि - न्दद्ध्यानमेवैकं मुख्यं - शरणं रक्षणे - येषां ते तथोक्तास्सन्तः । परिणताः परितो व्याप्ताः शरश्चन्द्रकिरणाश्शारदेन्दुमयूखा यासु ता स्तथोक्ता स्त्रियामाः रात्रीः नेष्यामो गमयिष्यामः । कदेति शेषः। द्वयोः प्रथमवरमयामार्धयोर्दिनव्यवहारात् त्रयो यामा यस्यास्सा - त्रियाति स्वामी ॥

कदा वाराणस्थाममरतटिनीरोधसि वसन्
वसानः कौपीने शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ ! त्रिपुरहर ! शम्भो ! त्रिनयन !
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८७

 व्या.----कदेति.----कदा कस्मिन्वा काले । धाराणस्यां काश्याममरतटिनीरोघसि गङ्गातीरे । वसन् तिष्ठन् । तथा । कौपीनं गुह्याच्छादनचेलखण्डं । वसानः आच्छादयन् - लोकविरोधपरि - हारार्थं तावन्मात्रपरिग्रह एव न तु परिग्रहान्तरापेक्ष इत्यर्थः । 'वस आच्छादन' इति धातोश्शानच् । शिरस्यञ्जलिपुटं कर - संपुटं । निधानस्सन् । अये भोः । गौरीनाथ पार्वतीपते । त्रयाणां पुराणां समाहारस्त्रिपुरं पात्रादित्वान्न ङीप् - तस्य - हरतीति हर:- हे त्रिपुरहर त्रिपुरान्तक । शं सुखमस्माद्भवतीति शंभो । त्रिनयन हे त्र्यम्बक * क्षुभ्नादित्वान्न णत्वम् - एतदामन्त्रणचतुष्टयं परमेश्वरस्य लोकसंग्रहकारण त्याशक्यकार्यकरणसामर्थ्य भक्तजनसुखसंधायक- त्वासाधारण महिमास्पदत्वद्योतनार्थमित्यवगन्तव्यं । प्रसीद प्रसन्नो भवेति। आक्रोशनच्चैरटन् । दिवसाननेकान् । निमिषमिव क्षणमिव । नेष्यामि - अत्र भावितीव्रनरकयातनानुचिन्तनादिभिर्विभावैर्जनितः . कौपीनधारणशिरोञ्जलिपुटसंघटनादिभिरनुभावैरभिव्यक्तः - कदे ति पदसूचितेन चिन्ताख्येन संचारिभावेन च परिपुष्टः - स्वात्मावमान नलक्षणो निर्वेदस्थायी - शान्तरसः परिस्फुरतीत्यवगन्तव्यम् ।। एवमुत्तरत्रापि - योज्यम् ।।

स्नात्वा गाङ्गैः पयोभिश्शुचिकुसुमफलैरर्चयित्वाविभो ! त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रामपर्यङ्कमूले। .
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्य कदाऽहं समकरचरणे पुंसि सेवासमुत्थम् ।।

 व्या.–स्नात्वेति.--गङ्गाया इमानि गाङ्गानि * तस्येद - मित्यण् - तैः पयोभिर्गङ्गाजलैरित्यर्थः । स्नात्वा शुद्धो भूत्वा । हे। विभो शंभो । शुचिभिः शुद्धैश्शास्त्रसम्मतैरिति यावत् - कुसुमैः फलैश्च । त्वामर्चयित्वा समाराध्य - एतेन बाह्यपूजाया अप्यंशतः प्राधान्यमस्तीति सूचितं । ध्येये ध्यातुं योग्य वस्तुनि-त्वञ्चरणारविन्द - एवेत्यर्थः । ध्यानं निवेश्य एकाग्रचित्तो भूत्वेत्यर्थः । तथा। क्षिति - धरकुहरे - यो ग्रावा पाषाण - स्सएव पर्यङ्कः सुखशय्या - तस्य मूले। निषण्णस्सन्निति शेषः - समाधिव्युत्थानानन्तरं सुखसंवेश - योग्यताद्योतनार्थं ग्राव्णि पर्यङ्कत्वरूपणम् । आत्मन्येवारमत इत्यात्मा- रामो विषयान्तरासक्तिशून्यस्सन्नित्यर्थः - ' रमन्ते योगिनोऽनन्ते - नित्यानन्दे चिदात्म नी' ति स्मृतेः । तथा। फलाशी फलाहारः - शरीरधारणार्थमिति भावः । गुरुवचनरत: आचार्योपदिष्टकर्माचरण- तत्परस्सन् - अहम् - इत्थंभूतताया एव श्रेयोहेतुत्वादिति भावः । हे। स्मरारे मदनान्तक । त्वत्प्रसादात् त्वदनुग्रहात् । मकरेण मकराका - ररेखया सह वर्तत इति समकरश्चरणो यस्य तस्मिन् तथोक्ते । 'सि- महाभाग्यसंपन्ने पुरुषे विषये - राज्ञीत्यर्थः। सेवासमुत्थं परि चर्या समुत्पन्नं दुःखं । कदा मोक्ष्ये - तथा मामनुगृहाणेत्यर्थः - परमे - श्वरानुग्रहं विना श्रेयोलाभाभावादिति भावः-समकरचरणस्य महा- भाग्यसंपन्नत्वमुक्तं सामुद्रिके -

‘मकरो मत्स्यरेखा च पद्म शङ्खाकृतिः पदे ।
महाधनी महाभोगी दाता दीर्घायुरेव च '॥ इति ॥


एकाकी निस्पृहश्शान्तः पाणिपात्रो दिगम्बरः।
कदा शम्भो ! भविष्यामि कर्मनिर्मूलनक्षमः ।। ८९

 व्या.--एकाकीति.----एकाकी असहायः - सङ्गरहित इति. यावत् - ' सङ्गात्संजायते काम' इत्यादिसङ्गजनित कामादि - परम्पराया: अनर्थहेतुत्वादिति भावः एकादाकिनिच्चासहाये' इत्याकिनिय् प्रत्ययः। कुतः - निःस्पृहः विषयाभिलाषशून्यः । अतएव । शान्ता रागाद्यनुपहतचित्तः - शान्तो दान्त उपरतस्तितिक्षु- स्समाहितो भूत्वा' इति श्रुतेः । अतः पाणिरेव पात्रे यस्य स तथोक्तः । तथा दिश एवाम्बराणि यस्य स तथोक्तत्सन्नहमिति शेषः। हे शम्भो कर्मणां संचितप्रारब्धानां - निर्मूलने समूलविध्वंसने - क्षमस्समर्थः । कदा भविष्यामि कर्मबन्धात्कदा मोक्ष्ये इत्यर्थः -

'भिद्यते हृदयग्रन्थि श्छिद्यन्ते सर्वसंशयाः ।
श्रीयन्ते चास्य कर्माणि । तस्मिन् दृष्टे परावरे'। इति ।।

ईश्वरसाक्षात्कारमन्तरा कर्मक्षयाभावात्तदर्थं त्वं प्रत्यक्षो भवेति भावः ॥

पाणिं पात्रयतां निसर्गशुचिना भक्षेण संतुष्यतां
यत्र काऽपि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।

अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा-
मध्वा कोऽपि शिवप्रसादसुलभस्संपत्स्यते योगिनाम् ॥ ९०

 व्या..--अथैवंभूतानां शिवप्रसादान्मोक्षमागोंऽविलम्बेनैव . सुलभो भवतीति निगमयति - पाणिमिति - पाणि करतल मेव - पात्रं भोजनभाजनं कुर्वतां पात्रयतां के पात्रशब्दा त्तत्करोतीति ण्यन्ता- ल्लटश्शत्रादेशः । निसर्गशुचिना स्वभावपरिपूतेन । भैक्षेण भिक्षाकदम्ब केन। संतुष्यतां संतोषं प्राप्नुवतां * 'भिक्षादिभ्योऽण्' ।। -- भैक्षं भिक्षाकदम्बक मि' त्यमरः - यत्र क्वाऽपि यस्मिन् कस्मिन् प्रदेशे - इमशाने वने वेत्यर्थः । निषीदतामुपविशतां मुहुः पौनः पुन्येत् । विश्वं प्रपञ्चं। बहुतृणमीषदसमाप्तं तृणं - तृणकल्पमित्यर्थः 'विभाषा सुपो बहुच्पुरस्तात्तु' इति बहुप्रत्ययः * प्रकृतेः पूर्व भवति - ' स्यादीषदसमाप्तौ तु बहुच्प्रकृतिलिङ्गक' इति प्रकृति- वचनात्प्रकृतिलिङ्गता। पश्यतामाकलयतां । तथा। तनारत्यागेऽपि देहसंबन्धशून्यत्वाभावेऽपि । अखण्डोऽपरिच्छिन्नो - यः परमानन्दो- ब्रह्मानन्दस्तस्यावबोधमनुभवं - स्पृशन्ति अनुभवन्तीति तथोक्तानां - जीवन्मुक्तत्वादिति भावः * स्पृशोऽनुदके क्विन्प्रत्ययः । योगिनां ध्याननिष्ठानां । शिवप्रसादेन - सुलभस्सुलभ्यः - कोऽप्यनिर्वाच्यः । अध्वामोक्षमार्ग इत्यर्थः - संपत्स्यते संपन्नोभवति ॥

॥ इतिवैराग्यशतके शिवार्चनं संपूर्णम् ॥


|| अवधूतचर्या ।।

कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने बने ।

स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा स्थैर्यं गोगमहोत्सवेऽपिच यदि त्रैलोक्यराज्येन किम् ?

 व्या.-शिवार्चनस्य मोक्षोपयोग्यावधूतभाव फलकत्वा 'दत्या गेऽपि तमोरखण्डपरमानन्दावबोधस्पृशा मि' त्युपक्रान्तत्वाच्चेदानीं - तावदवधूतचर्यामाह - अथावधूतचर्येति.--अवधूनो नाम ब्रह्मात्मै . क्यानुसंधानतत्परः विस्मृतबहिः प्रपञ्चः जीवन्मुक्तशब्दवाच्यो मलिनो योगपुरुषस्तस्य चर्या आचारः - उच्यत इति शेषः॥ उपक्रान्तामवधूतचर्यां दशभिर्वर्णयति.----कौपीनमिति-शतखण्डे- रनेकशकलैः - जर्जरतरमतिविशीर्णं कौपीनं गुह्याच्छादनचीर - खण्डं । यदि अस्तिचेदित्यर्थः - एवमुत्तरत्रापि - नि, ' कौपीनं स्याद कार्ये च गुदचीरप्रदेशयोरि' ति विश्वः । तादृशी तथाभूतशतखण्ड जर्जरतरैवेत्यर्थः । कन्था पुनः कन्था च । अस्तियदि । नैश्चिन्त्यं विषयचिन्तारादित्यं च यदि । तथा निरपेक्षमनुवर्तनापेक्षारहितं - भैक्ष मशनं भोजनं यदि। श्मशाने प्रेतभूमौ । वने महारण्येवा । निद्रा च यदि । स्वातन्त्र्येण स्वाच्छन्द्येन । निरङ्कुशमप्रतिबन्धं । विह रणं विहारश्च । यदि सदा प्रशान्तं प्रसन्नं * 'वादान्ते' त्यादिना निपातः । स्वान्तं चित्तं यदि । योगमहोत्सवे - योगस्समाधिरव महो- त्सवस्तस्मिन् । स्थैर्य च। यदि अस्तिचेत्तर्हि त्रैलोक्यराज्येन त्रिलो काधिपत्येन । किं न किमपीत्यर्थः - तस्यैव परमसौख्यावहत्त्वादिति भावः यो लोकास्त्रैलोक्यं * चातुर्वर्णादित्वात्स्वार्थे ष्यञ् ।।

ब्रह्माण्डपण्डलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते ॥९२

 व्या.--नन्वत्यन्तसौख्यावहत्वेन प्रसिद्धं त्रैलोक्यराज्यं निषिध्य कौपीनादिसंपत्तेरेवोत्तमत्वं प्रतिपादितं - तदसत्-यतस्तस्यै - वात्यन्तप्रलोभकत्वादित्याशक्यं - मनस्विनस्तावदेवतादेवाप्रलो . भकं किंतु ब्रह्माण्डमपि तत्राकिंचित्करमेवेति सदृष्टान्त माह - ब्रह्मा- ण्डमिति.---मण्डलीमात्रं बिम्बमात्रं - घटादिवदियत्तया परिच्छिन्न- मित्यर्थः ' मण्डलीभूत मि' ति वा पाठः - तथा अमण्डलं मण्डलं संपद्यमानं मण्डलीभूतम् * अभूततद्भावे च्विः * ऊर्यादिच्विडा- चश्चेति गतिसंज्ञायां * 'कुगतिप्रादय' इति समासः - नि. 'बिम्बोऽस्त्री मण्डलं त्रिष्वि' त्यमरः । ब्रह्माण्डं धतुर्दशभुवनगर्भित- ब्रह्माण्डकटाहः । मनस्विनो धीरस्य । योगिन इत्यर्थः * प्रशंसाया- मिनिः । लोभाय चित्तप्रलोभनाय । किं भवतीति शेषः - न, भवत्ये - 4- किमुत तदेककोणे निलीनं त्रैलोक्यराज्यामिति भावः । तत्र दृष्टा- न्तमाह - अब्धिः समुद्रः शफरीस्कुरितेन मत्स्यविशेषोल्लुण्ठनेन । क्षुब्धः क्षोभितः मथित इति यावत् * क्षुब्धस्वान्ते' त्यादिना निपातः। न जायते खलु - नि. प्रोष्ठी तु शफरी द्वयोरि'त्यमरः - मत्स्योल्लुण्ठनेनाब्धिक्षोभणमिव त्रैलोक्यराज्येन मनस्विमनः प्रलोभन - मित्यर्थः । अतस्तदेवातिसौख्यावहमिति भावः ॥

मातर्लक्ष्मि ! भजस्व कंचिदपरं मत्काक्षिणी मास्म भू-
र्भोगेषु स्पृहयाळवस्तव वशे का निः स्पृहाणामसि । ।
सद्यस्स्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै-
र्भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ॥ ९३

व्या.---.अथ वैराग्यप्रकारमाह-मातरिति.-~-मातर्जननि. । हे लक्ष्मि * • अम्बार्थ नद्योरह्रस्व ' इति ह्रस्वः - अत्र मातृग्रहण - मेतावन्तं कालं त्वया रक्षिता वयमिति भक्त्यतिशयसूचनार्थमित्य - वगन्तव्यम् । अपरमन्यं कंचिद्भाग्यवन्तं पुरुषं । मजस्व सेवस्व । मत्काङ्क्षिणी मद्विषयाभिलाषिणी। मास्मभूर्माभवत्यर्थः * स्मोत्त- रेलङ्चे' ति. चकारादाशीरर्थै लुङ् न माइन्योग' इत्यडाग - मप्रतिषेधः । नन्विदानीं कुतएतद्वैराग्यामित्यत आहुः - भोगेषु स्रक्च न्दनादिविषयानुभवेषु । स्पृहयाळवः स्पृहावन्तः पुमांस: * स्पृही' त्यादिना चुरादीदन्तायन्तादाळुच्प्रत्ययः । तव वशे त्वदायत्त- तायां- वर्तन्त इति शेषः-स्वदधीना भवन्तीत्यर्थः-नि. वश आयत्त - •तायां चे' त्यमरः । तर्हि यूयं क इत्याशङ्कायामाहुः - नि:स्पृहाणां भोगाभिलाषशून्यांनां । काऽसि कीदृग्विधाऽसि न काऽप्यसीत्यर्थः । वयं च नि:स्पृहा इत्ति भावः - अतोऽस्माविहायान्यत्र गति संब न्ध: । नन्वेवं चाद्युष्माकं कथं जीविकेत्याशङ्कायामाहुः - वयं संप्र- तीदानीं सद्यस्तत्काल एव * ' सद्यः परुत्परारी' त्यादिना निपात - नात्साधुः - स्यूता विरचिता कर्मणि क्त: च्छवोः शूडनुना • सिके चे'ति ऊठि यणादेशः - पलाशपत्रपुटिका किंशुकपर्णपुटि - कैव - पात्रं भिक्षाहरणोचितभाजनं - तम्मिन् । पवित्रीकृतैः पावनी - भूतैरित्यर्थः * अभूततद्भावे च्विः ॐ अस्य च्वा वि' तीकार: - भिक्षावस्तुभिः - अन्नकवळरोपितशाकादिभिक्षाद्रव्यैरेव - 'भिक्षा- सक्तुभि रि'ति पाठेऽपि - भिक्षासक्तुविशेषैरित्यर्थः । वृत्ति जीवि कां। समीहामहे अभिलषामहे - विरक्ता भवामः इत्यर्थः । अत: किमर्थ त्वमस्माकमिति भावः । अत्रपलाशपत्रपुटिकायास्सद्यस्स्यूत - त्वकथनमविशदत्वद्योतनार्थम् अन्यथा भिक्षाहरणानुपयुक्ता स्यादिति वेदितव्यं - तथा-' पलाशं पद्मपत्रं चे' त्यादिवचनात्पवित्रीकरण- योग्येषु पलाशपत्रेषु निक्षिप्तसाधारणानादीनामपि पवित्रत्वं किमुत निसर्गशुचि भिक्षावस्तूनामिति चावगन्तव्यम् ।।

महाशय्या पृथ्वी विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः
सुखी शान्तश्शेते मुनिरतनुभूतिर्नृप इव ।।९४

व्या....अथ योगिनस्सार्वभौमसाम्यमाह - महाशय्येति.----. पृथ्वी भूमिः । महाशय्या विशङ्कटपर्यङ्कः मही शय्या पृथ्वी' ति पाठे • पृथ्वी पृथुः * 'वोत्तो गुणवचना' दिति ङीष् - मही- शय्या नि. गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मदिनी मही'त्यमरः भुजलता बाहुवल्ली विपुलं विस्तीर्ण मुपधानं 'उपधानं तूपवर्हमित्यमरः। आकाशं च । वितानमुल्लोचः - नि. 'अस्त्री वितानमुल्लोच 'इत्य - मरः । अयं प्रतिमानोऽनुकूलः । अनिलः पवनः । व्यजनं ताळवृन्त- कमित्यर्थः । “व्यजनं तालवृन्तकमि "समरः । शरच्चन्द्रो दीपः-शर- द्रहणं चन्द्रस्य प्रकाशातिशयद्योतनार्थं । इत्येतत्सर्वमयन्नसिद्धमप- रिच्छिन्नं चेत्यर्थः - प्रसिद्धं तु नैवभूतमिति भावः । स्वयं विरतिर्वि- रक्तिरेव वनिता - तस्यास्सङ्गेन-मुदितस्संतुष्टः। अत एव । सुखी आनन्दपूर्णः। शान्तश्शमशीलो मुनिः  'निवृत्तस्सर्वतत्त्वज्ञः कामक्रोधविवर्जितः।
 ध्यानस्थो निष्क्रियो दान्तस्तुल्यमृत्काञ्चनो मुनिः' ॥
इत्युक्तलक्षणः कश्चिद्योगीश्वरः । अतनुभूतिरखण्डितैश्वर्यसंपन्नो नृपस्सार्वभौम इव । शेते स्वपिति - निरातङ्कं निद्रातीत्यर्थः ।।

 रूपकसंकीर्णोऽय मुपमालंकारः ; तथा उपमानान्नृपादुपमे- यस्य मुनेरपरिच्छिन्नशय्यादिसंपन्नत्वेनाधिक्यप्रतीते व्यतिरेको व्य- ज्यत इत्यलंकारेणालंकारध्वनिः ॥

भिक्षाशी जनमध्यसङ्गरहितस्वायत्तचेष्ट स्सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्ण जीर्णवसनस्सम्प्राप्तकन्थासनो ।
निर्मानो निरहङ्कृतिश्शमसुखाभोगैकबद्धस्पृहः ॥ ९५

 व्या.- अथयोगिस्वरूपं निरूपयति - भिक्षेति.---भिक्षा- मश्नातीति भिक्षाशी भिक्षान्नमात्रभोजनेन शरीरधारणतत्पर इत्यर्थः । जनमध्ये-संगरहितः आसक्तिविहीनः-'सङ्गात्संजायते काम' इत्यादि- स्मृतेस्तस्य निदानत्वादिति भावः । किंतु । सदा सर्वदा । स्वायत्ता - स्वाधीना चेष्टा व्यापारो - यस्य स तथोक्तः - स्वच्छन्दविहारनि - रत इत्यर्थः - स्वाधीनात्मीयव्यापारो वा - नि. 'अधीनो निघ्न आयत्त' इत्यमरः। तथा हानादानयोस्त्यागस्वीकारयोः विरक्तः असंकीर्णः यो मार्ग स्तत्र - निरत आसक्तः - नियमेन हेयवस्तु - हानोपादेयोपादानतत्पर इत्यर्थः - यद्वा - हानम् इदं हेयमिति - त्यागः - आदानमिदमुपादेयमिति स्वीकारः . हेयोपादेयबुद्धिशून्य इत्यर्थः - निस्त्रैगुण्ये पथि विहरतां को विधिः को निषेध' इत्या

दिवचनात्तस्य विधिनिषेधातीतत्वादिति भावः । तथा। रथ्यायां वीथ्या माकीर्णम् अनुपयुक्तत्वाज्जनै विक्षिप्तः - कुतः - विशीर्णं विशकलितं - तत्कुतः - जीर्णं पुरातनं तथाभूतं वसनमाच्छादनं - यस्य रथ्याकी - र्मविशीर्णजीर्णवसनः - “ चीराणि किं पथि न सन्ति दिशन्ति भिक्षा' मित्यादिना तस्य तथाविधवसनधारणस्वाभाव्यादिति भावः * अर्श आदित्वान्मत्वर्थीयोऽप्रत्ययः ॐ अर्शआदिराकृतिगणः - यद्वा - रथ्यायां- कीर्णमनादरेण विक्षिप्तं विशीर्णं जीणं च वसनं निजाच्छा. दन येन स तथोक्तः संप्राप्तं समधिष्ठितं - कन्थैवासनं - येन स तथोक्तः - चतुर्गुणितकन्थोपर्युपविष्ट इत्यर्थः । अत एव । निर्मानोऽ भिमानशून्यः - संसाराध्यासरहित इत्यर्थः । निरहंकृति रहंकार - शून्यः । तदात्माध्यासरहित इत्यर्थः । शमो नाम वैराग्येण निर्वि- । कारचित्तत्वं - तेन यः सुखाभोगः आनन्दाऽतिशयः तत्र - एकं मुख्यं यथा तथा - बद्धा स्पृहा येन स तथोक्तः । ब्रह्मध्याननिष्ठ इत्य- र्थः - कश्चित्कोऽपि । तपस्वी महातपाः योगीश्वरः * प्रशंसाया- मिनिः । स्थितः निरातङ्कं वर्तत इत्यर्थः - रथ्याकीर्णेति संप्राप्तेति ध विशेषणद्वयेन बाह्यवैराग्यमुक्त - मन्यैरान्तरवैराग्यमित्यवगन्तव्यम् ।। स्वभावोक्तिरलंकारः - स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णन - मिति लक्षणात् ।।

चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः ।
किं वा तत्त्वविवेकपेशलमति र्योगीश्वरः कोऽपि किम् । ।
इत्युत्पन्न विकल्प जल्पमुखरैराभाष्यमाणा जनै
र्न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ ९६

 व्या.----अथ येगिनां मानावमानतुल्यतामाह-चण्डाल इति। अयं परिदृश्यमानः चण्डालः किं अन्त्यजो वा । अथवेति पक्षान्तरे। द्वे जाती शूद्रत्वब्राह्मण्यरूपे यस्य स तथोक्तः किं ब्राह्मणो वा - " जन्मना जायते शूद्रः कर्मणा जायते द्विज' इति वचनादिति भावः - यद्वा - द्वे जाती जन्मनी - गर्मनिर्गमसंस्काराभ्यां यस्य सः द्विजातिः किम् ? अथ यद्वा - शूद्रः किं वृषलो वा किं ? वा यद्वा - तापसः किं तपोनिष्ठो वा किं ? किं वा तत्त्वविवेक पेशला परमार्थ- पर्यालोचनतत्परा - मतिर्यस्य - स तथोक्तः कश्चित्कोऽपि । योगी- श्वरः किं ध्याननिष्ठो वा इत्यनेन - प्रकारेणोत्पन्नैरुदितैः विकल्पज- ल्पैर्विकल्पवाक्यैर्मुखरा वाचालास्तै रित्थं भूतानि वाक्यानि वदद्भिरित्यर्थः । जनैः । पार्थ मार्गे आभाष्यमाणा अधिक्षिप्यभाणा अपि । न क्रुद्धाः न कोपिताः चण्डालवाद्याक्षेपेणेति भावः । नैव तुष्टमनसः न संतुष्टान्तःकरणाश्च - द्विजातिवाद्याक्षेपणेतिभावः । योगिनो योगारूढाः । स्वयं यान्ति तूष्णीं गच्छन्ति - ब्रह्मनिष्ठत्वा- दिति भावः - तथा च गीतावचनं -

'न प्रह्रष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । .
स्थिरबुद्धि रसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः ।।
शीतोष्णसुखदुःखेषु तथा मानावमानयोः ।
ज्ञानविज्ञानतृप्तामा कूटस्थो विजितेन्द्रियः ॥
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥' इत्यादि ॥

हिंसाशून्यमयत्नलम्य मशनं धात्रा मरुत्कल्पितं
व्याळानां पशवस्तृणाङ्कुरभुजस्तुष्टास्स्थलीशायिनः।

संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां
तामन्वेषयता प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥ ९७

 व्या.--अथ हिंसादिराहित्यवृत्तिमाह - हिंसेति..--हिं - सया अन्योपतापकवधादिभिः - शून्यं रहितं । अयत्नेन यत्नं विना - लभ्यं प्राप्यम् । अशनमन्नं - नि. 'भिस्सा खी भक्तमन्धोऽन्न मि' त्यमरः । धात्रा चित्रविचित्रसृष्टिकर्त्रा ब्रह्मणा व्यालानां सर्पाणां - नि. 'व्यालो दुष्टगजे सर्पे' इति विश्वः । मरुता वायुना । कल्पितं निर्मितं । पशवः गोप्रभृतयः । तृणाङ्कुरान् बालतृणानि - भुञ्जन्तः "सन्तः । स्थलीशायिनः अकृत्रिमप्रदेशे शयनवन्त स्तुष्टा स्संतुष्टाः। संसारः पुत्रमित्रकळत्रादिधारावाहिरूपा संसृतिः - स एव अर्णवः - तस्य लङ्घने अतिक्रमणे - क्षमा - धीः येषां तेषां । नृणां जनानां । यथा तरणिद्वारा समुद्रं तरन्ति तथा ज्ञानद्वारा संसारं तरन्ती - त्यर्थः । सावृत्तिः पूर्वोक्तप्रसिद्धजीवनं। कृता निर्मिता - ब्रह्मणे - त्यर्थः । तां वृत्तिं । अन्वेषयतां मार्गमाणानां - निरस्तरजस्तमोजनि - तदोषाणां । सर्वे गुणाः सततं सर्वदा । समाप्तिं नाशं । प्रयान्ति - प्राप्नुवन्ति ।।

'यो मे गर्भगतस्यापि वृत्तिं कल्पितवान्प्रभुः।
शेषवृत्तिविधानाय सुप्तः किन्नु मृतोऽपि वा।

इति वचनरीत्या वृत्तिकल्पने जागरूकस्सन् भगवान वर्तत इति' मत्वा हिंसादिराहित्येन वृत्ति कुर्वन् यदृच्छया संप्राप्तद्रव्येण तुष्टस्सन् यत्र कुत्रवा वसन् रजस्तमोदोषैः अलिप्तस्सन् योगी सर्वदा आत्मा - नुसंधानं कुर्वन् स्थातव्य इत्याशयः ॥ .

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्माध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
कंडूयन्ते जरठहरिणास्वाङ्गमङ्गे मदीये ॥ ९८

 व्या.- अथ निर्वृतिप्रकारमाह - गङ्गेति.- गङ्गायाः सुरनधाः - तीरे कूले - नि. 'कूलं रोधश्च तीरं च प्रतीरं च सटं त्रिष्वि' त्यमरः - तीरग्रहणं तद्गतशीतत्वपावित्र्त्यादिसिद्ध्यर्थ । हिम- गिरेश्शीतनगस्य - शिलाया: पाषाणस्य उपरि - बद्धं पद्मासनं येन तस्य ! किंच । ब्रह्मणः - ध्यानमुपासनं - तस्य अभ्यसनमभ्यासः -- तस्य विधिः विधानं - तेन - नि- 'विधिर्विधाने दैवेऽपी'त्यमरः । योगनिद्रां । गतस्य प्राप्तस्य । योगिनः मम । तै स्सुदिवसैः पुण्य - दिनैः । भाज्यं किं । यत्र ते। जरठहरिणाः वृद्धकुरङ्गाः। निर्वि - शङ्काः निर्भीकास्सन्तः। स्वाङ्गं स्वशरीरं । मदीये अङ्गे शरीरे । कण्डू यन्ते । तैर्भाव्यं किमित्यभिप्रायः ; एवं च ग्रामनिवासं त्यक्त्वा गङ्गा तीरे हिमवत्पर्वतपाषाणोपरिपद्मासनासनवर्ती ब्रह्मध्यानाभ्यासविधा- नेन योगनिद्रां गतस्सन्नहं निर्विशङ्कैः जरठहरिणै स्साकं यदा स्थास्ये. तदा मे सुदिवसाजायन्त इत्यभिप्रायः ।।

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं
विस्तीर्णं वस्त्रमाशा दशक मचपलं तल्पगस्वल्पमुर्वी ।
येषां निस्सङ्गताङ्गीकरणपरिणतस्वान्तसन्तोषिण स्ते
धन्या संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ।।९९.

 व्या.-अथ केवलं सर्वसङ्गपरित्यागमाह.-पाणिः पात्र- मिति श्लोकेन • पाणिरिति-पवित्रं परिशुद्धं। पाणिः हस्त एव । पात्रं भाजनं - नि.- योग्यभाजनयोः पात्रमि' त्यमरः । भ्रमणेन संचारेण - परिगतं प्राप्तं भैक्षं भिक्षाकदम्बकम् । अक्षय्यं नाश - रहितम् । अन्नम् अशनम्। आशानां दिशा - दशकं । विस्तीर्ण विशा- लं। वस्त्रं वासः ऊर्वी भूमिः । अस्वल्पं महत्। अचपलम्। अच ञ्चलं । तल्पं शय्या । येषां निस्सङ्गतायाः सङ्गराहित्यस्य - अङ्गी- करणेन - परिणतं परिपाकं गतं यत् स्वान्तं तेन संतोषिणः संतुष्टा - ते धन्याः। सन्न यस्ता स्त्यक्ताः - दैन्यस्य व्यतिकरनिकराः यैस्ते - तथोक्तास्सन्तः। कर्म। निर्मूलयन्ति नाशयन्ति । एवं च यत्र कुत्र - वावसन् पाणिपात्रेण भैक्षान्नं भुक्त्वा दिगम्बरः उरवीशयनः निस्स - ङ्गपरिणतचित्तेन संतुष्टस्सन् त्यक्तदैन्यव्यतिकरनिकरः धन्यः धारा - वाहिकजन्मपरम्पराप्रदं कर्मनिलयन्तीत्यभिप्रायः ॥

मातर्मेदिनि ! तात मारुत ! सखे ! तेजः सुबन्धो जल !
भ्रातर्व्योभ ! निबद्ध एव भवतामन्त्यः प्रणामाञ्जलिः।
युष्मत्सङ्गवशोपजातसुकृतस्फारस्पुरन्निर्मल-
ज्ञानापास्तसमस्तमोह महिमा लीये परब्रह्मणि ॥ १००

 व्या.---अथ पञ्चभूतानि संबोध्याह - मातरिति.हेमातः जननि । मेदिनि वसुमति। हे तात जनक । मारुत वायो । हे सखे सुहृत् । तेजः । हे सुबन्धो शोभनबन्धो । हे जल उदक हे भ्रातः सहोदर | व्योम अम्बर । भवतां युष्माक मन्त्यः चरमः। प्रणा - माञ्जलि: नमस्कारपूर्वकाञ्जलिः । निबद्ध एव - नि.- 'पाणिनिकुञ्जः प्रसृतिस्तौ युतावञ्जलिः पुमानि' त्यमरः। युष्माकं - सङ्गस्य योगस्य - वशेन अधीनेन - उपजातं यत्सुकृतं - तेन - स्फारं विस्तारं स्फुरत् निर्मलं च यद् ज्ञान - तेन - अपास्तः दूरतस्त्यक्तः - समस्त - मोहमहिमा पुत्रमित्रकलत्राद्यभिनिवेशाज्ञानातिशयस्सन् अहं । परे ब्रह्मणि सचिदानन्दस्वरूपिणि निर्विकारे निष्कलङ्के निरञ्जने ब्रह्मणि लीये - एवं च दारैषण वित्तैषणा पुत्रैषण रहित स्सन् चिदा- नन्दस्वरूपः सन् विदेहकैवल्यपर्यन्तं जीवन्मुक्त स्सन् अहं वर्ते इत्याशय: ॥

॥ वैराग्यशतके अवधूतचर्या संपूर्णा ।।


इति श्रीभर्तृहरियोगीद्रविरचित सुभाषितत्रिशती
॥संपूर्णा ॥

printed by V. Ramaswamy Sastralu & Sons. It Vavilla' Press. Madras-29.