भर्तृहरिसुभाशितम्.pdf/शृङ्गारशतकम्

               




   

॥ शृङ्गारशतकम् ॥


॥ स्त्रीप्रशंसा ।।

शम्भुस्वयम्भुहरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकर्मदासाः ।
वाचामगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥ १ ॥

 व्या...-शंभ्विति--अत्र खयंभुशब्दस्य शम्भुशब्दवदौणादि- कडप्रत्ययान्तत्वमवगन्तव्यम् - न तु ॐ भुवस्संज्ञान्तरयोः क्वि'बिति 'क्विप्प्रत्ययान्तत्वम् - अन्यथा 'स्वयंभू देवोऽसा' वित्यादाविव दीर्घप्रसङ्गात् । तथाच । येन मकरध्वजेन । शम्भुस्वयम्भुहरयः हर - विरिञ्चिमुरारयः संहारसृष्टिस्थितिकर्तृत्वेन सकलभवनाधीश्वरा अपीति भाव:-हरिणेक्षणानां हरिणवन्मनोहरलोचनानां पार्वती सरस्वती श्रीदे- वीनां। सततम् * 'समो वा हिततयोरिति वचनात् समो मकारस्थ लोपः । गृहे कुम्भदासाः जलकुम्भभारवाहकभृत्याः । अक्रियन्त तासु तादृङ्मोहमुत्पाद्य तथा विधेयीकृता इत्यर्थः - किमुतान्य इति भावः * कृञः कर्मणि लङ् तङ्र - अर्धनारीश्वरत्वाच्छम्भोः । स्वयम्भुवश्च सर- स्वतीनिकेतनीकृतमुखत्वात्। हरेर्वक्षःस्थलस्थापितलक्ष्मीकत्वाच्चैव - मुक्तमित्यवगन्तव्यम्। अत एव । वाचामगोचरमवा्ङ्मानसगोचरं- यश्चरित्रं माहात्म्यम् । तेन विचित्रवत्कृतो विचित्रितः - तस्मै अत्य- न्ताश्चर्यकारकायेत्यर्थः - नि. विस्मयोऽद्भुतमाश्चर्य चित्रमित्यमरः . विचित्रशब्दा'त्तत्करोती'ति ण्यन्तात्कर्मणि क्त: • णाविष्टवद्भावे - विन्मतोर्लुक् । भगवते सकललोकाराध्याय - यद्वा • चतुर्व्यूहमध्य- प्रविष्टत्वात्प्रद्युम्नरूपेण भगवत्पुत्रत्वाद्वा तद्दूपायेत्यर्थः ।।

' आत्मावै पुत्रनामासि'
 । पतिर्जायां प्रविशति गर्भो भूत्वा स्वमातरम् ।

 तस्यां पुनर्नवो भूत्वा दशमे मासि जायत'इत्यादि श्रुतेः ।। तस्मै मकरध्वजाय मकरकेतनाय कामदेवसार्वभौमाय । नमः * 'नम- स्वस्ती'त्यादिना चतुर्थी ।। वसन्ततिलकावृत्तम् ।।

स्मितेन भावेन च लज्जया भिया
पराङ्मुखैरर्धकटाक्षवीक्षणैः ।
वचोमिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बन्धनं स्त्रियः ॥ २ ॥

 व्या..--तत्र आलम्बनविभावयोः स्त्रीपुरुषयोमध्ये स्त्रीणां - प्रशस्तत्वादेकोनविंशत्याश्लोकैः प्रथमं स्त्रीप्रशंसां चिकीर्षुस्तत्रादौ - तावत्तासां बन्धनहेतुत्वमाह - स्मितेनेति-स्मितेन यौवनादिमदवि- कारजनिताकस्मिकमन्दहासन - 'आकस्मिकं तु हसितं यौवनादिवि कारजमिति वचनात् - बाल्ययौवनसंधावुत्पन्नः शृङ्गारविषयः प्रथमा- न्तःकरणविकारो भावस्तेन च तदुक्तं - चित्तस्य विकृते कारणे सति 'ततोऽर्वाङ्विकृतिर्भावो बीजस्यादिविकारवत्' इति ।। 'हविने'ति पाठे 'ईषद्दृष्टविकारस्स्याद्धावो हावः प्रकीर्तित' इत्युक्तलक्षणेन चेष्टा विशेषेण च - लज्जया कुचकुम्भदोर्मूलाच्छादनवदनविनमन दर निमीलित नयन त्वानुभावकमन्त्संकोचनरूप व्रीडयाच - 'चेतस्संकोचनं व्रीडासङ्गराग स्तनादिभि'रिति लक्षणात्। भिया । आकस्मिकभयजनितत्रासेनेत्यर्थः- । तदुक्तम् - 'आकस्मिकभयाश्चित्तक्षोभस्त्रासः प्रकीर्तितः' इति - 'लजया गुणैरि'ति पाठे आसामेवालम्बनभूतानां रूपयौवनादिगुणैरि- त्यर्थः . ' आलम्बनगुणो रूपयौवनादिरुदाहृतः' इत्युक्तत्वात् । पराङ्- मुखैः ह्रियार्धास्फुटप्रसारिभिरित्यर्थः। अर्धकटाक्षवीक्षणैः असमग्रापाङ्- गावलाकनैश्च - कटाक्षलक्षणं तु - संगीतरत्नाकरे.

' यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम् ।
 तारकायाः कळाभिज्ञास्तत् कटाक्षं प्रचक्षते.' इति,

वचोभिश्शुककोकिल मधुरतरमृदुलाळापैश्च । ईष्यया परोत्कर्षासहन- रूपासूयया-य:कलहस्तेन च 'परोत्कर्षासहिष्णुत्वमीयां प्राहुर्मनीषिणः' इति लक्षणात्-यद्वा ईर्ष्य॑या कलहेन प्रणयकलहन चेति द्वन्द्वैकवद्भावः। 'सर्वोद्वन्द्वो विभाषैकवद्भवती'त्यनुशासनात्। लीलया वागादिभिः प्रियानुकरणरूपविलासविशेषेण च-'लीला प्रियानुकरणं वाग्भिर्गत्याs थचेष्ठये'ति लक्षणात्, किं बहुना समस्तभावैः स्तम्भरोमाञ्चस्वेदादिसा- विकभावः हर्षौत्सुक्यावहित्थादिसञ्चारिभावैश्वेत्यर्थः । स्त्रियः बन्धनं- खलु । पुंसां संसारबन्धहेतवः खल्वित्यर्थः । लिङ्गवचनव्यत्ययो नित्यनपुंसकत्वेन जात्यभिप्रायेण च - 'वेदाः प्रमाणम्' इति वद्द्र्ष्टव्य: ;-


 अत्र स्मितकटाक्षालापाः अनुभावाः - कार्यभूतोऽनुभावस्स्यात्क- टाक्षादिश्शरीरज' इत्युक्तत्वातू; लजाभयेर्ष्याः संचारिभावाः ।

भावलीले शृङ्गारचेष्टाविशेषा । इति द्रष्टव्यम् - तदुक्तम

'भावो हावश्व हेला व माधुर्यं धैर्यमित्यपि ।
लीला विलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम् ।।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।
कुतूहलं च चकितं विहृतं हास इत्यपि ।।
एवं शृङ्गारचेष्टास्स्युरष्टादशविधा मताः.' इति.

ईदृक्साधनसंपन्नानां स्त्रीणां बन्धहेतुत्वं किं वक्तव्यमिति भावः ॥
तथा चैतासां शृङ्गारनायिकानां मध्ये भावलजाभयवत्यो मध्यमाः ।
ईर्ष्याकलह लीलावत्यः प्रौढा श्वेति - विवेकः ।।

' उदयद्यौवना मुग्धा ललाविजितमन्मथा ।
लज्जामन्मथमध्यस्था मध्यमोदितयौवना ।
स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवने'ति ॥
वंशस्थवृत्तम् ।।

भ्रूचातुर्यात् कुञ्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लञ्जितान्ताश्च हासाः।
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणामेतद्भूषणं चायुधं च ।। ३ ।।

 व्या.-उक्तमर्थं प्रकारान्तरेणाह - भूचातुर्यादिति.--- भ्रूवो - श्वातुर्याल्ललिताक्षेपवैचित्य्रात्कुञ्चितानि कुणीकृतान्यक्षीणि येषां ते तथोक्ताः 8 'बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात्वच्'इति वच्।

कटाक्षाः अपाङ्गेक्षणानि च। एतेन रेचितभ्रुकुट्याख्यो व्यापारविशेषावुक्तौ । तदुक्तम् ॥

" स्याद्भ्रुवोललिताक्षेप एकस्या एकरेचितम् ।
द्वयोर्मूलसमक्षेपकौटिल्याद्भ्रुकुटिं विदुः ॥” इति ।

. स्निग्धाः स्नेहपरिप्लुता वाचश्च - स्नेहलक्षणं तु -

"विस्रम्मे परमां काष्ठामारूढे दर्शनादिभिः ।
येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते ॥” इति।

लज्जितमन्तं येषान्ते लज्जितान्ता लज्जावसाना हासाश्च । तथा- भूतहासानामेव मोहनत्वात् - अन्यथा हास्यरसापर्यवसानादिति भावः। लीलामन्दं लीलामधुरं। प्रस्थितं प्रस्थानं गमनमिति यावत् । स्थितं अवस्थानं चेत्युभयत्रापि * भावे क्तः । इत्येतत्सर्वं स्त्रीणां भूषणं. च चातुर्यातिशयहेतुत्वात् । आयुधं शस्त्रं च युवजनविषयसाधनत्वादिति भावः ॥

 अत्र कटाक्षादीनां लक्षणानि प्रागेवोक्तानि। संचारिलीला शृङ्गारचेष्टा। भ्रुकुट्यादयोऽन्ये अनुभावा इति ज्ञेयम् ; तथा लीला- मन्थरगमनस्य पद्मिनीनियतलक्षणात्प्रायेणैतासां लज्जातिशयत्वं सूच्यते - तदुक्तं रतिरहस्ये ॥

"व्रजति मृदु सलीलं राजहंसीव तन्वी
त्रिवळिललितमध्या हंसवाणी सुवेषा ।
मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा
धवळकुसुमवासो वल्लभा पद्मिनी स्यात् ॥”

 अत्र भ्रुकुट्यादिसमुदाये भूषणत्वायुधत्वरूपणाद्रूपकालंकारः॥

शालिनीवृत्तम् ॥

क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ।
कुमारीगाभेतैर्मदनसुभंगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः॥ ४ ॥

 व्या.--अथ शृङ्गारानुभावदृग्विलासान्सपरिकरं वर्ण- यति - क्वचिदिति ॥ क्वचित् कुत्रचित् । सभ्रूभङ्गैः भ्रुकुटिरे- चिताख्यभ्रूव्यापारसहितैः । क्वचिदपि च । लज्जया। परिगतैः प्रत्यावृत्तैश्च । स्वानुकूल्यप्रकाशकैरित्यर्थः। तदुक्तम् - 'सव्रीडा लोकनेनैव स्वानुकूल्यप्रकाशन'मिति। क्वचिद्भूरित्रस्तैः बहुळभय- सम्भ्रान्तैः। क्वचिदपि च । लीलाभिर्गतप्रत्यागतविलासविशेषैर्हेतुना - विलसितैः कमनीयः उज्वलैर्वा । तथा मदनेन - सुभगैर्मनोहरैः-विर- क्तस्यापि चित्तक्षोभकरैरित्यर्थः - 'यद्दर्शनाद्विरक्तोऽपि क्षुभ्यते तत्स- मन्मथ'मिति लक्षणात् । एतैरक्तप्रकारैः। कुमारीणां तरुणीनाम् । उत्पलाक्षणामिति भावः -बयसि प्रथमे इति ङीप्। नेत्रवलितै- र्नयनविलासैर्दिशः। स्फुरतां विकसितानां नीलाब्जानां। नीलोत्प- लानां - प्रकरैनिकुरुम्बैः। परिकीर्णा इव व्याक्षिप्ता इव। लक्ष्यन्त इति शेषः, प्रसिद्धक्रियाध्याहारो न दोष इत्याह वामनः - लिङ्गा- ध्याहारा वित्यत्र ॥

 अत्र नयनविलासानां प्रियजनादिरम्यवस्तुदर्शनचापलं विना आलम्बनात्कुतूहलं नाम शृङ्गारचेष्टितं सूच्यते - 'कुतूहलं रम्य- दृष्टौ चापलं परिकीर्तित'मिति लक्षणात् . भृकुट्यादीनां लक्षणं प्रागेवोक्तम् ;तथा नयनवलनक्रियया विकीर्णत्वक्रियोत्प्रेक्षणात् ।
गुणक्रियानिमित्तक्रियास्वरूपोत्प्रेश्ना ॥

" यत्रान्यदपि संबन्धादन्यत्वेनोपकीर्तितम् ।
प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥"

इति लक्षणात्; तथा च नयनानां नीलोत्पलसाम्यं गम्यते. तेन
चोपमाव्यज्यत इत्यलंकारेणालंकारध्वनिः ।।

 शिखरिणीवृत्तम् ॥

वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने
वर्णः: स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः।
वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली
वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ ५ ॥

 व्या ---अथ यदुक्तमुद्दीपनविभावश्चतुर्विध इति । तत्र प्रथ- मोद्दिष्टालम्बनगुण कथनमुत्तरत्र करिष्यत इत्युपेक्ष्य 'स्मितेन' इत्यादिश्लोकत्रयेण काश्विच्छृङ्गारचेष्टाः केचिदनुभावाः संचारिणश्च वर्णिताः॥ इदानीं तु तदलंकरणं विवक्षुस्तस्य नैसर्गिकाहार्यभेदेन द्वैवि- ध्यादाहार्यकमनुपदमेव लक्ष्यत इति मनसि कृत्वा संप्रति नैसर्गिकं मण्डनमाह - वक्त्रमिति.-चन्द्रवद्विकसति ताच्छील्येनेति चन्द्र- विकासि सुन्दरमित्यर्थः ताच्छील्ये णिनिः। वक्त्रं वदनं च। पङ्क- जानां - पद्मानां - परिहासक्षमे अवहेलनसमर्थे। तत्सदृशी इति यावत्। लोचने । नयने। परिहासेत्यत्र * 'उपसर्गस्य धन्यमनुष्ये बहुलम्' इति दीर्घः। स्वर्गमपाकरिष्णुः। स्वर्णम् " पुष्पमूलेषु बहुलम्" इति लुक् - तदपाकरिष्णुः तत्सदृश इत्यर्थः - एतेन पद्मिनीत्वं - सूच्यते - 'काऽपि चाम्पेयगैरी'ति लक्षणात् । वर्णो देहकान्तिश्च । तथा अलिनीनां भृङ्गाइनानां जिष्णुर्जयशीलः - तत्सन्निभ इत्यर्थः * 'ग्लाजिस्थश्चक्रनु'रिति कस्नुप्रत्ययः । कचानां चयः केशपाशश्च । इभकुम्भयोर्विभ्रमहरौ विलासहारिणौ । करिवरशिरः पिण्डकल्पावि-. त्यर्थः । 'कुम्भौ तु शिरसः पिण्डौ इत्यमरः । वक्षोजौ कुछ- कुम्भी ध। गुर्वी दुर्भरा 'वोतो गुणवचना'दिति ङिप् । नितम्बस्थली कटिपश्चाद्भागश्च - नि.- पश्चान्नितम्बः स्वीकट्याः: इत्यमरः * - जानपदे' त्यादिना अकृत्रिमार्थे ङीप् । - हरतीति हारि मनोहरं * पूर्ववण्णिनिः । वाचां । मार्दवं वाङमाधुर्यं मधुरकोमलालापश्चेत्यर्थः । एतत्सर्वं। युवतिषु तरुणीपषु। स्वाभाविकं स्वभावसिद्धं * 'तत आगत' इति ठक् । मण्डनं । तरुणी- नामेतन्नैसर्गिकालंकरणमित्यर्थः॥

 अत्र चन्द्रविकासीत्यादिशब्दाः प्रायशस्सादृश्यवाचकाः।
अत एवोपमालंकारः - तदुक्तमाचार्यदाण्डिना -

 स्पर्धते जयति द्वेष्टि हसतीर्ष्य॑त्यसूयति ।
 तदन्त्यनुबध्नाति तच्छीळति निषेधति ।
 तच्चैवाऽनुकरोतीति शब्दास्सादृश्यवाचकाः'

स्मितं किञ्चिन्मुग्धं सरळतरको दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ।
गतानामारम्भः किसलयितलीलापरिकरः ।
स्पृशन्त्यास्तारुण्यं किमिव हिनं न रम्यं मृगदृशः ॥ ६ ॥

 व्या... -अथालम्बनगुणं यौवनमाह - स्मितमिति..-स्मितं -

मन्दहासः किंचिदीषन्मुग्धं सुन्दरं भवतीति यथायोगमध्याहार्यम् - नि. 'मुग्धः सन्दरमूढयोः' इत्यमरः। बाल्ययौवनमध्यस्थत्वेन तरूण्याः प्रागल्भ्याभावात् स्मितस्येषन्मुग्धत्वमुक्तमित्यवगन्तव्यम् । दृष्टि - विभवो विलोकनसंपत्तिः । सरलं अकुटिलं यथा तथा तरळश्वञ्चलो - भवति । वाचां परिस्पन्दो वाग्व्यापारोऽपि अभिनवा नूतना- विलासा यासां ता या - उक्तयो वचनानि - ताभिः सरसो - रसयुक्तः रुचिर इति यावत् । भवति । गतानां गतीनाम् ? कर्तरिक्तः । आरम्भ उपक्रमः । किसलयितः पल्लवितः * तारकादिवादितच - लीलापरिकरो विलाससमृद्धियस्य तथोक्तः - विलास - संबन्धवन्धुरो भवतीत्यर्थः । अतस्तारुण्यं यौवनं स्पृशन्त्या मृगदृश स्तरुण्याः सम्बन्धि । किमिव किं वा । रम्यं मनोहरं । नहिमवत्ति- सर्वमपि रम्यमेव भवतीत्यर्थः । इयं मुग्धा नायिका • 'उदयद्यौवना मुग्धा लज्जाविजितमन्मथा' इति लक्षणात् ।।

 अत्र श्लोकद्वयेऽपि श्लाध्यविशेषणयोगादुदात्तता नाम गुणः -
'श्लाघ्यैर्विशेणैर्योगो यस्याश्च स्यादुदात्तता' इति लक्षणात् ।।

 शिखरिणीवृत्तम्.

द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातव्येष्वपि किं तदास्यपवनः ? श्राव्येषु किं ? तद्वचः ।
किं स्वाद्येषु ? तदोष्ठपल्लवरसः स्पृश्येषु किं तद्वपुः र्ध्येयं किं?
नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः॥ ७ ॥

 व्या. अथ चक्षुःप्रभृतिषडिन्द्रियाणामत्रैव लोकोत्तरप्रतिनियत

विषयान्वर्णयति - द्रष्टव्येष्विति. --~-अत्र प्रश्नोत्तरमालिकयाऽन्यः कार्य:. द्रष्टुं योग्यानि द्रष्टव्यानि - तेषु दर्शनीयेषु वस्तुपु । योग्यार्थे । तव्यप्रत्ययः । उत्तमं श्रेष्ठं वस्तु किमिति प्रश्नः । प्रेमप्रसन्नं अनु- रागविकसितं प्रेमदायीत्यर्थः 'द्रवीभूतं मनो यत्र दर्शन प्रेमदायिनि ' इति लक्षणात्.' मृगदृशस्तरुण्या । मुखं वदनभिर्थः - एवमुत्तर - त्रापि - चक्षुःप्रीतिकरत्वादिति भावः । घ्रातव्येषु आघ्रातव्येषु किमु - त्तममिति प्रश्नः । तदास्यपवन - स्तस्याः तरुण्याः - आस्यपवनो - मुखमारुतः - तस्यैव घ्राणतर्पणत्वादिति भावः । यद्यपि घ्राणेन्द्रि - यविषयो गन्धः न तु पवन: - तथाऽपि तस्याः पद्मनी जातित्वा- त्तदास्यपवने तस्य सङ्कमणात् 'वीणाः श्रूयन्ते - मेर्यः श्रूयन्ते - पुष्पाण्याघ्रायन्ते' इत्यादिवद्गन्धसम्बन्धिनि पवने तद्धर्मस्योपरि . तत्वान्न विरोधः । श्राव्येषु - श्रोतव्येषु अत्र के योग्यार्थे यत्प्रत्ययः- एवमुत्तरत्रापि । उत्तम किम् । तद्वचस्तस्यास्तरुण्या- वचः मृदुमधुरभा- षणम् - तस्यैव श्रवणानन्दकरत्वादिति भावः । स्वाद्येषु अनुभवयोग्षु उत्तम किम् । तस्या ओष्ठः पल्लव इव तस्य - रसः अधरामृत - मित्यर्थः - तस्यैव रसनेन्द्रिय तृप्तिहेतुत्वादिति भावः । स्पृश्येषु स्पर्श- नयोग्येषु वस्तुषु उत्तमं किम् । तस्या वपुः कुसुमसुकुमारशरीरमित्यर्थः । -तस्यैव निरुपमत्वमिन्द्रियसैख्यावहत्वादिति भावः । उक्तमं ध्येयं ध्यानार्हं किम् - ध्यातव्येष्वित्वर्थः । नवयौवनं तरुणीनवतारुण्यमेव - तस्यैवात्यन्तमनोरञ्जकत्वादितिभावः । अथ सर्वथा - मुख्यं ध्येयमाह • सहृदयैर्हृदयालुभिः - रसिकजनैरित्यर्थः । सर्वत्र सर्वदेशेषु सकलकालेषु वा । तस्यास्तरुण्या विभ्रमा विलासाः । ध्येयो इति शेषः । अत्र तत्तत्प्रसिद्धविपयाणामेकत्र समष्टिवर्णनान्म- हान् शृङ्गारपरिपोषातिशय उक्तः । एतेनास्या लोकोत्तरमाभिरूप्यं - सूच्यते। तथा चोत्तमविषयाकांक्षिभिर्विशिष्टतरुणीसम्भोग एव - कर्तव्य इति फलितार्थः, तत्र प्रश्नोत्तरयोश्चातुर्यातिशयार्थमसकृ न्निबन्धनादुदात्तालङ्कारभेदः -

 उत्तरात् प्रश्न उन्नेयो यत्न प्रश्नोत्तरे तथा ।
 बहुधा च निब्ध्येते तदुत्तरमुदीर्यते.'

एताश्चलद्वलयसंहति मेखलोत्थ
झङ्कारनूपुरपराजितराजहंस्यः।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणी सदृशैः कटाक्षैः॥ ८ ॥

 व्या-अथा सां मुखाद्यलङ्करणवर्णनद्वारा सकललोकसम्मोह- कत्वमाह - एता इति.--चलन्त्यौ गतिवैचित्र्याद्वालमाने - ये वलय- संहतिमेखले-वलयसंहतिः कङ्कणश्रेणिः - मेखलाशब्देन काञ्चीवाचि- ना तन्निबद्धाः किङ्किण्यो लक्ष्यन्ते - तदुत्यस्तदुत्पन्नो यो - झंकारो- झणज्ञणस्तेन • नूपुराभ्यां मञ्जलनिनादमञ्जीराभ्यां च पराजिताः तिरस्कृता - राजहंस्यः कलहंसाङ्गना - याभिस्ताः । कलनादसुन्दरम- न्दगमनराजहंसरमणीया इत्यर्थः - नि. 'राजहंसो नृपश्रेष्ठे कादम्ब - कलहंसयोः' इति विश्वः । 'जातेरस्त्रीविषयादयोपघात्' इति ङीप् शैषिकस्य कपो वैभाषिकत्वान्न प्रयोगः । एताः पूर्वोक्तास्तरुण्य: किंचिदूनविंशतिवार्षिकाः स्त्रिय इत्यर्थः। वित्रस्ता चकिता-मुग्धा - प्रौढाच-या हरिणी कुरङ्गी - तत्सदृशैः-तद्विलोकननिभैरित्यर्थः। कटाक्षै- रपाङ्गवीक्षणैः । एतेनैतासां पद्मिनीत्वं सूच्यते – 'चकितमृगदृगाभे प्रान्तरक्ते च नेत्रे' इति लक्षणात् । कस्य मनो । विवशं सम्मोहितं । न कुर्वन्ति। सर्वस्यापि कुर्वन्त्येवेत्यर्थः. तरुणीलक्षणमुक्तं रतिरहस्ये

 

"बाला स्यात् षोडशाब्दा तदुपरि तरुणी विंशतेर्यावदूर्ध्वं
प्रौढा स्यात् पञ्चपञ्चाशदवधि परतो वृद्धतामेति नारी ॥"

क्योलक्षण मुक्तम् -

 निदाघशरदोर्बाला पथ्या विषयिणो भवेत् ।
 हेमन्ते तरुणी योग्या प्रौढा वर्षावसन्तयोः ।
 सन्ततं सेव्यमानापि बाला प्रथयते बलम् ॥” इति.

अत्र राजहंसीपराजयस्य सादृश्यपर्यवसानादेका उपमा । हरिणीसदृशैरित्यत्र चान्या। अनयोः परस्परनैरपेक्ष्यात्सजातीयसंसृष्टिः एताश्चमध्यमानायिकाः । लज्जामन्मथमध्यस्था मध्यमोदितयौवना' इति लक्षणात् ॥ वसन्ततिलकावृत्तम् ॥

कुकुकुमपङ्ककळङ्कितदेहा गौरपयोधरकम्पितहारा ।
नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि रामा ॥ ९ ॥

व्या.---कुङ्कुमेति.---कुङ्कुमपङ्केन काश्मीरजकर्दमेन.-नि. 'अथ कुङ्कुमं । काश्मीरजन्माग्निशिखम्' - 'पङ्कोऽस्त्री शादकर्दमौ' इत्यु- भयत्राप्यमरः - अथवा घुसृणापरपर्यायकुङ्कुमकुसुमर्चञ्त्तचन्दनपङ्केन- नि. 'कुङ्कुमं घुसृणम्' इत्यभिधानरत्नमालायाम् - यद्वा कुङ्कुमेन पङ्केन - सिन्दूर परनामशृङ्गारभूषणाख्यद्रवद्रव्यविशेषेण च - नि. . 'सिन्दूरं नागसम्भवम्। चीनपिष्टं च गान्धारं पङ्कं शृङ्गारभूषणम्' इत्यमरः - कलङ्कितश्चिह्नितो देहो यस्यास्सा - कुङ्कमसिन्दूरादि- रञ्जकद्रव्यशृङ्गारिताकारेत्यर्थः। अत एव गौरयो ररुणयोः - यद्वा पद्मिनीत्वात् श्रीफलसच्छाययोः - स्तनयुगळमनिन्द्यश्रीफलश्रीवि- डन्बि' इतिलक्षणात् - पयोधरयोः - कुचकुम्भयोः कम्पिताश्चलिता - हारा मुक्तावलयो - यस्यास्सा तथोक्ता । नूपुरौ मञ्जीरावेव हंसौ - हंसाविव नूपुरौ वा - ताभ्यां रणती शब्दायमाने - पदे एव पद्मे पझे इव पदे वा - यस्या स्सा। अत एव रूपकोपमयोः साधकबाधक- प्रमाणाभावात्सन्देह सङ्करः। रामा सुन्दरी भुवि कं पुरुषं । न वशी- कुरुते न स्वायत्तीकुरुते । जितेन्द्रियमपि स्वायत्तीकुरुत इत्यर्थः - नि. 'वश आयत्ततायां च' इति विश्वः * अभूततद्भावे च्विः' - 'ऊर्यादिच्षडाचश्च' इति गतिसंज्ञायाम् - 'कुगतिप्रादयः' इति समासः। अत्र सुटसुपेत्यननुवृत्तेः ।।

 अत्र हाराणां कम्पितत्वविशेषणेन पयोधरयोरत्यन्तपटुत्वं सूच्यते । अन्यथा कम्पनायोगात्। तेन चात्युत्कटयौवनसम्पत्तिश्च गम्यते। पयोधरयोश्च गौरत्वविशेषगेन रूपसमृद्धिर्व्य॑ज्यते; एतेना- लम्बनगुणलाभ उक्तः. एवं कुङ्कमपङ्केत्यनेन तटस्थोद्दीपनभावः कथितः ; तथा हारनूपुरात्मकालम्बनालङ्करणमभ्युट्टङ्कितम् ; रणत्पद- पद्मेत्यनेन सूचितो लीलागतिविशेषरूपानुभावश्च ; तथा चैवंविध- सामग्रीसमुल्लसितेन-

'आभिरूप्यमकाठिन्यमङ्गानां चातिमार्दवम् ।

एवमादिगुणावस्था प्रथमे यौवने भवेत् ' इत्युक्त्वा-
कृताधराङ्गसंस्कारा सखीकेळिषु लालसा' ॥

इत्युक्तचेष्टाविशिष्टयौवनपरिपूर्णेन रमयतीति रामेति व्युत्पत्त्या लोकोत्तरलावण्यसम्पन्नेनालम्बनविभावेनोदिते शृङ्गाररसार्णवे को वा न निमज्जतीति भावः, अत्र श्लाध्यविशेषणयोगादुदात्तता नामा गुण: । लक्षणं तूक्तम्। तथात्यन्तसुकुमारार्थसन्दर्भितत्वात्कैशिकी. वृत्तिः - 'अत्यन्तसुकुमारार्थसन्दर्भा कैशिकी मता' इति लक्षणात् दोधकवृत्तम् - 'दोधकवृत्तमिदं भभभा गौ' इति लक्षणात् ।।

नूनं हि ते कविवरा विपरीतवाचो
ये नित्यमाहुरबला इति कामिनीस्ताः ।
यामि विलोलतरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः॥ १० ॥

 व्या.---अथैतासां प्रागल्भ्यं वर्णयति - नूनमिति.--ते . कविवराः कवीश्वराः । विपरीतवाचो व्यत्यस्तवचनाः । नूनं सत्यं हि । ते क इत्याशङ्कायामाह - ये कविवरा स्ताः प्रसिद्धाः। कामि- नीः । अबलाः दुबैला। इति नित्यमाहुः ब्रुवते । वर्णयन्तीत्यर्थः - त इति संबन्धः * । ब्रुवः पञ्चानामादित आहो ब्रुवः'। इति उसा देशः - ब्रुव आहादेशश्च । कथं विपरीतवाच इत्याशङ्कय तासां प्राग- ल्भ्यं साधयति - याभिः कामिनीभि । र्विलोलतरा आतितरळा - स्तारकाः कनीनिका येषु ते तथोक्ता ये- दृष्टिपाता लोचनप्रसारास्तैर्दृक्प्रे- रणैः। कर्तृकरणयोस्तृतीया' इति तृतीया - 'तारकाक्ष्णः कनीनिकों' इत्यमरः । शक्रादय इन्द्रादयोऽपि किमुतान्य इति भावः । विजिता - निजिीता: - स्वायत्तीकृता इत्यर्थः । तास्तु कामिन्यः - कथमबलाः कुतो दुर्बला: - किं तु प्रबलाएवेत्यर्थः । वीक्षणमात्रेणैवेन्द्राद्युज्जयिनी- नां बलिष्ठत्वं किं वक्तव्यम् - अत एतासां दौर्बल्यप्रतिपादकाः कवय एव दुर्बलवाचां न तु ता इतिभावः ॥

___ अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थसमर्थकत्वाद्वाक्यार्थहेतुकं
काव्यलिङ्गमलङ्कारः - ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' -
इति लक्षणात् - वसन्ततिलकावृत्तम् ।।

नून माज्ञाकरस्तस्याः सुभ्रवो मकरध्वजः ।
यतस्तन्नेत्र संचारसूचितेषु प्रवर्तते ।। ११ ।।

 व्या.--अथ कामदेवस्य कामिनीकिंकरत्वमुत्प्रेक्षते - नून - मिति.---मकरध्वजः कामदेवस्तस्याः प्रसिद्धायाः पूर्वोक्ताया वा। सुभ्रुवः कामिन्याः • जातावेकवचनम् - सुभ्रवामित्यर्थः। आज्ञां करोतीत्याज्ञाकरः किंकरः * 'कृञो हेतु-' इत्यादिना टप्रत्ययः। नून मित्युत्प्रेक्षायाम् : कुतः - यतः कारणात्तस्याः सुभ्रुवो - नेव- संचारेण दृष्टिप्रसारेण - सूचितेषु संज्ञापितेषु । प्रवर्तते तद्वदित्यर्थः - अतः कामिनीनां नूनमयं किंकिर इत्ति भावः: कामिनीकटाक्षमा- त्रेणैव जनस्य मन्मथावेशसम्भवादियमुत्प्रेक्षा : सा च नूनमिति व्यञ्जकसद्भावाद्वाच्या - तदुक्तम्-

" मन्ये शङ्के ध्रुवं नूनं प्राय इत्येवमादिभिः ।।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥” इति ।

एतेन तासामप्रतिहतजगद्वशीकरणसामर्थ्यं व्यज्यते अनुष्टुप् ॥

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रं अपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्माविमावित्थं
तन्वि वपुः प्रशान्तमपि ते रागं करात्येव नः ॥ १२

 व्या.----अथ रागिणः शेषवैचित्र्यात्कामिनीप्रशंसापरं वच- न सम्बोधनमभिधायाह द्वाम्याम् - केशा इति - केशाः शिरो - रूहाः । संयमिनः संयताः सम्यङ्नियमभवन्तश्च । लोचेन अपि श्रुतेः परं पारं कर्मान्तविश्रान्तत्वं वेदान्तपरिशीलनतात्पर्य च गते । अन्तर् वक्त्रं वक्त्नाभ्यन्तरमपि । स्वभावतः निसर्गा-च्छुचिभिः शुभ्रैः पवि- त्रैश्च । द्विजानां दन्तानां विप्राणां च । नि. 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । गणैः । कीर्णं व्याप्तम् । इमौ एतौ इति हस्तनिर्देशः । पक्षोजकुम्भी कुचकुम्भौ । मुक्तानां मौक्तिकहाराणां जीवन्मुक्तानां च । सतताधिवासेन निरन्तरावस्थानेन सन्ततनिवासेन च। रुचिरौ-नि. 'मुक्तातु मौक्तिके मुक्त:'-"प्राप्तमुक्तौ तु मोचितः' इत्युभयत्रापि विश्वः। अतः हे तन्धि -- इत्यमुक्तप्रकारेण! ते वपुः शरीरं। प्रशान्तं प्रसन्नम् - वैराग्यसाधनसंपत्तिमदपीति यावत् * 'वादान्त' इत्यादिना निपा- तः । नोऽस्माकं । रागमनुरक्तिम् - सम्भोगाभिलाषमेवेति यावत् - करोति उत्पादयति - न तु वैराग्यमिति विरोधः - स चोक्तरीत्या आभासितत्वाद्विरोधाभासोऽलङ्कारः - ' आभासत्वे विरोधस्य विरो- धाभास इष्यते' इति लक्षणात् । स च श्लेषप्रतिभोत्थापित इति - तयोरङ्गाङ्गिभावेन संकरः ; लोचने अन्तर्वक्त्रमित्यत्र १ प्रगृह्यत्वा त्प्रकृतिभावः * 'ईदूदेद्विवचनं प्रगृह्यम्' इति प्रगृह्यसंज्ञा. शार्दू - लविक्रीडितम् ।।

मुग्धे धानुष्कता केय मपूर्वा त्वयि दृश्यते।
यया विष्यसि चेतांसि गुणैरेव न सायकैः ॥ १३

___ व्या.---मुग्ध इति.-धनुः प्रहरणमस्य धानुष्कः धन्वी 'प्रहरणम्' इति ठक् * 'इसुसुक्तान्तात्कः' - नि. 'धन्वी धनुष्- मान्धानुष्कः' इत्यमरः - तस्य भावस्तत्ता। हेमुग्धे सुन्दरि - नि. 'मुग्धस्सुन्दरमूढयोः' इत्यमरः - यद्वा हेउदयद्यौवनभावे। त्वय्य- पूर्वा अदृष्टचरा - असाधारणीति यावत् - धानुष्कता दृश्यते । इयं धानुष्कता। का कीदृशी - न ज्ञायत इत्यर्थः। कुतः - यया धानुष् कतया हेतुना। चेतांसि युवजनमनांसि - दुर्लक्ष्याणीति भावः । गुणा मौर्व्यो - रूपयौवनादयश्च - तैरेव। विध्यसि। सम्प्रहरसि। सायकैः बाणैस्तु न विध्यसि। यतः लोके धानुष्काः प्रौढा एव सुलक्ष्याण्येव लक्ष्याणि बाणैरेव विध्यन्ति । त्वं तु मुग्धाऽऽपि दुर्लक्ष्याण्यपि लक्ष्याणि मौर्वीभिरेव विध्यसीति कृत्वा त्वदीयधानु- कताया अपूर्ववादज्ञेयत्वमिति भावः ; स्त्रीणां रूपयौवनगुणसम्प- त्तिरेव परप्रहरणसाधनमिति फलितार्थः ॥

 अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थसमर्थितत्वाद्वाक्यार्थहेतुकं

  • काव्यलिङ्गम् ; तच्च गुणयोः श्लेषभित्तिकाभेदाध्यवसायमूलातिश-

योक्तिनिर्व्यूढमित्यनयोरङ्गाङ्गिभावेन संकरः : तेन च प्रसिद्धाद्धा- नुष्कादुपमानादुपमेयभूतमुग्धाया आधिक्यप्रतीतेर्व्य॑तिरेको व्यज्यत-

इत्यलङ्कारेणालङ्कारध्वनिः. अनुष्टुप् .

सति प्रदीपे सत्यग्नौ सत्सु तारावीन्दुषु ।
विना में मृगशाबाक्ष्या तमो भूत मिदं जगत ॥ १४

 व्या.---अथ विंशतिसमाप्तिकामिन्युद्देशेनोक्तान्यत्यन्तानु - रागिणां प्रशंसावचनान्याह-सतीति.-प्रदीपे अर्थप्रकाशदीप्तार्चिषि। सति विद्यमानेऽपि । अग्नौ तथा भूते वह्नौ। घ सत्यपि। 'सत्यर्के' इति पाठे त्रिलोकप्रकाशके सूर्ये । सत्यपि। तथा तारामणीन्दुषु तिमिर- निरासकत्वेन प्रसिद्धेषु नक्षत्रपद्मरागादिमाणिक्यचन्द्रेषु। सत्स्वपि । तया। प्रसिद्धया पूर्वानुभूतया वा। मृगशाबस्य बालहरिणस्येवा- क्षिणी यस्यास्तया। प्रियतमया विना 'बहुब्रीही सक्थ्यक्ष्णोः स्वाङ्गात्षच्' । 'षिद्गौरादिभ्यश्च' इति ङीप - इदं जगन्मे मम । तमोभूतमन्धकारमयम्। लक्ष्यत इति शेषः । तस्या एवं मम नयन- ज्योतिष्ट्वादिति भावः.

 अत्रान्धकारनिराकरणसमर्थत्वेन प्रसिद्धे प्रदीपादिकारण- समुदाये सत्यपि तन्निरासरूपकार्यानुत्थानाद्विशेषोक्तिरलंकारः - 'त- त्सामग्रयामनुत्पत्तिर्विशेषोक्तिर्निगद्यते' इति लक्षणात् ; तथा प्रदी- पादिसद्भावेऽपि तमोभूतत्वमिति विरोधश्च व्यज्यते ; तेन चास्य महामोहान्धत्वं वस्तु गम्यत इत्यलंकारेण वस्तुध्वनिः. वृत्तं पूर्ववत् .

उद्वृत्तः स्तनभार एव तरळे नेत्रे चले भ्रूलते
रागाधिष्ठित ओष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थस्याऽपि करोति तापमधिकं रोमावलिः केनसा ॥१५

 व्या.. -उद्वृत्त इति.---उद्वृत्तोऽत्यन्तवर्तुल: उत्पथगतश्च। एष

इति पुरोवर्तिनो हस्तनिर्देशः। स्तनभारश्च । तरले लीलाविलोले - घपले चेति गम्यते। नेत्रे। चले रोचितादिविलासचञ्चले स्थिरत्व- विहीने च। भ्रूलते च । रागेण लौहित्येन मात्सर्येण - घाधिष्ठितम् - तद्भूयिष्ठमित्यर्थः - नि 'रागश्च रक्ते मात्सर्ये क्लेशादौ लोहितेषु च इत्युभयत्रापि विश्वः शाश्वतश्च । इदमिति निर्देशः । ओष्टपल्लवं अधर- किसलयं । चेत्येतानीति शेषः । व्यथां मनःपीडां। कुर्वन्तु। नामेति कुत्सायाम्। खलानां परपीडाकरणस्य स्वाभाविकत्वादिति भाव: किंतु पुष्पायुधेन कामदेवेन। स्वयं स्वहस्तेन । लिखिता। सौभाग्या- क्षरमालिका सौभाग्यव्यञ्जकपुण्यवर्ण पङ्क्तिरिव स्थितेत्युप्रेक्षा। तथा- मध्यस्था अवलग्नप्रदेशविलग्ना तटस्थाऽपि। सा रोमावलिः रोम- राजिः । केन ना हेतुना। अधिकं । तापं करोति मनस्संताप यति । विशिष्टतटस्थस्य परसंतापकरणानौचित्यादिति भावः ।

 अत्र पूर्वार्धे उद्वृत्तवादिपदार्थानां श्लेषभङ्ग्या स्वाभाव्येन च विशेषणगत्या पीडाकरणं पदार्थं प्रति हेतुत्वकथनात्पदार्थहेतुक- मेकं काव्यलिङ्गम् ; उत्तरार्धे तु तटस्थपदार्थस्य श्लेषभङ्ग्यैव केन संतापयतीत्याक्षेपपदार्थ प्रति हेतुत्वकथनादपरं च : तश्चोक्तोत्प्रेक्षया । सापेक्षितत्वात्संकीर्णम् ; तत्पूर्ववाक्यकाव्यलिङ्गेन नैरपेक्ष्यात्संसृज्यत इत्यनयोः सजातीयसंसृष्टिः : एतेन स्तनभारादेर्लोकोत्तरलावण्य- संपन्नत्वमत्यन्तजनसम्मोहत्येन सूच्यते ॥

शार्दूलविक्रीडितं वृत्तम् ।।

मुखेन चंद्रकान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा॥ १६

 व्या.--मुखेन इति.----चन्द्रकान्तेन इन्दुसुन्दरेण चन्द्रका- न्तमणिरूपेण चेति गम्यते । मुखेन छ । महानीलैरतिमेषकैः सिंह- लद्वीपसंभवेन्द्रनीलैश्च - शिरोरुहः कुन्तलैश्च - ' सिंहलस्याकरोद्भूता महानीलास्तु ते स्मृताः' इति भगवानगस्त्यः । तथा पद्मस्य राग इव रागो ययोस्तौ ताभ्यां पद्मराग रूपाभ्यां च। कराभ्याम् । सा सुन्दरी । रत्नमयी रत्नरूपेव। रेजे । ' तत् प्रकृतवचने मयट्'

  • 'टिढ्डाणञ्' - इत्यादिना ङीप ॥ अनुष्टुप ।।

गुरुणा स्तनमारेग मुखचन्द्रेण भास्वता ।
शनैश्चराम्यां पादाभ्यां रेजे ग्रहमयीव सा ।। १७

 व्या.--गुरुणेति.---गुरुणा दुर्भरेण गोपतिरूपेण च - नि. "गुरुस्तु गीष्पती श्रेष्ठे गुरौ पितरि दुर्भरे' इत्युभयत्रापि शब्दार्णवे। स्तनभारेण च । भास्वता प्रकाशवता भास्करेण च नि. 'भास्वान् - भास्करसूर्ययोः' इति विश्वः । मुखमेव चन्द्र स्तेन च -- शनैश्च - राभ्यां मन्दगमनाभ्यां शनैश्चराख्यग्रहाभ्यां च । पादाभ्यां च सा ग्रहमयीव रेजे । प्रक्रियातु पूर्ववत् ॥ अत्र श्लोकद्वयेऽपि श्लेषमहिम्ना रत्नमयत्वग्रहमयत्वोत्प्रेक्षणात् श्लेषसकोणेयमुत्प्रेक्षा ; तया चास्या लोकोत्तराकाररूपलावण्य- . सौन्दर्यकान्तिविशेषभाग्यसौभाग्यादि सकलकल्याणगुणाभिरामत्वं . गम्यते; एतच्च मदीयशृङ्गारशृङ्गाटके रुक्मिणीवल्लभव्याख्याने 'निधि-

मयीग्रहमयी' इत्यत्र विस्तरेण प्रपञ्चितमितीहोपरम्यते ॥ अनुष्टुप् ॥

तस्याः स्तनौ यदि घना जघनं च हारि
वक्त्रं च चारु तव चित्तं किमाकुलत्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पण्यैर्विना न हि भवन्ति समीहितार्थाः ।। १८

 व्या.-तस्या इति.--तस्यास्तरुण्याः स्तनौ । घनौ निबिडौं- यद्यपि । जघनं कटिपुरोभागश्च । हारि मनोहारि यद्यपि - नि. 'स्त्री - कट्याः क्लीवे तु जघनं पुरः' इत्यमरः । वक्तुं च चारु मनोज्ञं - यद्यपि। हे चित्त । तव । आकुलत्वं लोलुपत्वं किं । किमर्थम् . मास्त्वित्यर्थः - तावन्मात्रेणासंभवादिति भावः । तर्हि किं कर्तव्य- मित्यत आह - तेषु स्तनादिषु । तव । वाञ्छा सम्भोगामिलाषोऽस्ति. यदि वर्तते चेत् । तईि। पुण्यं सत्कर्म । कुरुष्व समाचर । कुतः . पुण्यैर्विना समीहितार्था । न भवन्ति हि खलु । ज्योतिष्ठोमादि सत्क मचिरणेन रम्भासंभोगवत्केनचित्पुण्यविशेषेण तवापि तत्संभोगः संभ विष्यतीति भावः. अर्थान्तरन्यासालंकारः ॥ वसन्ततिलका ॥

इमे तारुण्यश्रीनवपरिमळाः प्रौढसुरत
प्रतापप्रारंभाः स्मरविजयदानप्रतिभुवः।
चिरं चेतश्चोरा अभिनवधिकारैकगुरवो
विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ १९

 व्या.--अथ विलासवर्णनं निगमयति.-इमे इति..--तारु- ण्याश्रियो यौवनसंपदो - नवपरिमला नूतनपरिमलप्रायाः - तद्वदभि - व्यञ्जका इत्यर्थः-यद्वा तारुण्यश्रियो - नवोऽपूर्वः - परिमलः सौभाग्यविशेषो - येषां ते तथोक्ताः । प्रौढसुरतं प्रचण्डरति-स्तत्र यः प्रता- पः सामर्थ्यम् - तस्य - प्रारम्भा उपक्रमाः । स्मरस्य जगजित्वरस्य - मन्मथस्य - विजयदाने - प्रतिभुवः लग्नकाः - नि.--'स्युर्लग्नकाः प्रतिभुवः' इत्यमरः - तथा प्रतिभुवः अधमर्णात् - धनमुद्धृत्य उत्तमर्णाय दातुं समर्थास्तथा इमेऽपि दिग्विजयमाकृष्य स्मराय दातुं समर्था इत्यर्थः । चिरं चिरकालमारभ्य । चेतश्चोराः चित्ता- कर्षकाः मनोहरा इति यावत् । अभिनवविकारैराकस्मिकभय - कम्पानुकरणादिप्रत्यग्रयौवनविकारै - रेकगुरवोऽत्यन्तभूयिष्टा मृग- दृशां तरुणीनां संबन्धिन ! इमे पूर्वोपवर्णिता विलासव्यापाराः . शृङ्गारचेष्टा विशेषाः । किमपि अनिर्वाच्यतया । विजयन्ते सर्वोत्कर्षेण वर्तन्ते । विपराभ्यां जेः' इत्यात्मनेपदम्. शिखरिणीवृत्तम्.

प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमृदुला मुग्धप्रायाः प्रकाशितसम्मदाः।
प्रकृतिसुभगा विस्त्रम्भार्द्राः स्मरोदयदायिनी
रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ २०

व्या.–प्रणय इति.--

" विस्रम्भे परमां काष्ठामारूढे दर्शनादिभिः ।
येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते ॥"

इत्युक्तलक्षणः स्नेहः प्रणयशब्देन विवक्षितः - तेन - प्रणयेन मधुराः संतापहराः - शीतलीक्रियते तापो येन तन्मधुरं स्मृतम्' इति लक्षणात्। प्रेम्णा अनुरागविशेषेण - उदारा रम्या: - मनोहरा इति यावत् । रसाश्रयतां शृङ्गारास्पदत्वं गताः - शृङ्गाररसप्रसरो- ल्लसिता इत्यर्थः। फणित्या संदर्भविशेषेण - मधुराः माधुर्यगुण- युक्ताः - अमृतप्राया इत्यर्थः - मुग्धप्रायाः सौकुमार्यभरिताः - श्रुति- रञ्जका इत्यर्थः - प्रकाशितोऽभिव्यज्जितः - सम्मदः संभोगौत्सुक्यं . यैस्ते तथोक्ताः। प्रकृतिसुभगाः स्वभावरुचिराः। विस्रम्भाद्रो विश्वासपरिप्लुताः। अत एव। स्मरोदयदायिनो जितेन्द्रियस्यापि मन्मथोद्रेकावहाः। मृगीदृशां संबन्धिनः खैरालापाः नर्मोक्तय इति यावत्। रहसि किमपि हरन्ति। यद्वा रहसि स्वरालापा इत्य- न्वयः। किमपि हरन्ति । यद्वा अनिर्वाच्यतया मनोहरा भवन्तीत्यर्थः।।

 अत्र श्लोकद्वयेऽपि समर्थसहिष्णोः शृङ्गारस्य पाठसमयेऽ- प्यास्वाद्यमानत्वादन्तर्बहिःस्फुरणेन द्राक्षापाकोऽनुसंधेयः - 'द्राक्षा- पाकः सकथितो बहिरन्तः स्फुरद्रसः' इति लक्षणात् ; तथा श्लेष- प्रसादादयो दण्ड्याचार्योक्ता दश प्राणाश्च प्रायेणात्र सन्ति । ते निपुणैरुन्नेया इति संक्षेपः ; प्रकरणेऽस्मिन्प्रायशो नायका अनुकूला दक्षिणाश्चाऽनुसंधेया: - 'एकायतोऽनुकूल: स्यात्तुल्योऽनेकत्र दक्षिणः' इति लक्षणात्. हरिणीवृत्तम् .

इति शृङ्गारशतके स्त्रीप्रशंसा सम्पूर्णा ॥


॥ संभोगवर्णनम् ॥

विश्रम्य विश्रम्य वने द्रुमाणां छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥२१

 व्या.-अथ संभोगविप्रलम्भभेदविभिन्नयोः शृङ्गारयो -

मध्ये संभोग शृङ्गारं सप्रपञ्च मुत्तरत्र वर्णयिष्यन्नादौ विप्रलम्भशृङ्गा- रमेकेनाह.----विश्रभ्य इति - काचित्तन्धी कृशाङ्गी । वनद्रुमाणां । छायासु चन्द्रातपरहिताधःप्रदेशेषु - विश्रम्य विश्रभ्य पुनः पुनः श्रममपनीय * वीप्सायां द्विर्भावः नि, 'छाया त्वनातपे कान्तौ'- इति विश्वः। विचचार संचचार - केलीवनसंचारस्य विरहिजन' विनोदोपायत्वादिति भावः । कथं भूता सती ? करोद्धतेन हस्तो- त्क्षिप्तेन । स्तनोत्तरीयेण कुचकुम्भाच्छादनपटाञ्चलेन । शशिनश्चन्द्रस्य. मयूखान्किरणान् - आतपानिति यावत् । निवारयन्ती निराकुर्वन्ती- ग्रीष्मोष्मणो व्यजनेनेवेति भावः ; चन्द्रकिरणानां विरहिणीजनस- न्तापकरत्वात्तन्निवारणोक्तिः ; एतेन दशावस्थापक्षे षष्ठी मन्मथावस्था - तथा च चतुर्थी जागरावस्था - तथा उत्तरीयण शशिमयूखाना मनि- वारणीयत्वविवेकाभावाञ्चित्तविभ्रमप्रतीतेः कामशास्त्रोक्त द्वादशाव - स्थापक्षे दशमी उन्मा दावस्था सूच्यते - तन्वीत्यनेन कार्श्यावस्था च कार्थता - तदुक्तम्.--

" दृङ्मनस्सङ्ग संकल्पा जागरः कृशताऽरतिः।
हीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दश" ॥ इति ;

कामशास्त्रोक्तास्तु-

"चक्षुः प्रीतिर्मनस्सङ्गः संकल्पोऽथ प्रलापिता ।
जागरः कार्श्य मरतिर्ळज्जात्यागोऽथ संज्वरः ।
उन्मादो मूर्छनं चैव मरणं चरमं विदुः"॥ इति ;

इयं च विरहोत्कण्ठिता--- 'चिर?त्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः ॥' इति लक्ष- णातू ।।  उपजातिवृत्तम् ॥

अदर्शने दर्शनमात्रकामा दृष्ट्वा परिष्वङ्गरसैकलोला ।
आलिङ्गितायां पुन रायताक्ष्या माशास्महे विग्रहयोरभेदम् ॥

 व्या.-अथ संभोगशृङ्गार:-स च बाह्याभ्यन्तर भेदेन द्विविधः। वात्स्यायनेनाप्यस्य द्विविधस्याऽपि प्रकारान्तरेण द्विधि- धत्व मुक्तम्-

"बाह्यमाभ्यन्तरं घेति सुरतं द्विविधं स्मृतम् ।
तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकम् ।।
द्वितीयं सुरतं साक्षान्नानाकरणकल्पितम् ॥” इति ।

तत्र प्रथममालिङ्गनरूपं सोपस्कारमाह द्वाभ्याम्-

 अदर्शन इति.---अत्र यत्तच्छब्दाध्याहारेणान्वयः कार्यः । अदर्शने प्रियतम विषयकदर्शनाभावे सति । क्वचित्प्रसज्य प्रति- षेधेऽपि नसमास इष्यते - यथा अदर्शनमश्रवणमभाषणमनु- चारण मित्याद्याभियुक्तोक्तेः। दर्शनमात्र एव कामोऽभिलाषो यस्याः सा तथोक्ता-तावन्मात्राभिलाषिणीत्यर्थः। ततो दृष्ट्वा । प्रियतममिति शेषः। परिष्वङ्गसुखे आलिङ्गनजनितसुखे - एकं मुख्यं यथा तथा - लोला सतृष्णा-नि. 'लोलश्चलसतृष्णयोः' इत्यमरः - था - आयताक्षीति शेषः। तस्यामायताक्ष्यां कर्णान्तविश्रान्तलोच- नायां प्रियतमायां। पुनरालिङ्गित्तायां संपरिष्वक्तायां सत्याम् । विग्रहयोः शरीरयो:-नि. 'शरीरं वर्ष्म विग्रहः' इत्यमरः । अभेदम् ऐक्यम् । आशास्महे - तादृग्गाढालिङ्गनसुखमनुभवितु- मभिलषामहे इत्यर्थः। तद्यथा---'प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः' इत्यादि श्रुतेः। प्रियतम गाढालिङ्गनपरिष्वङ्गे विगलित वेद्यान्तरत्वेन ब्रह्मानन्द सब्रह्मचारि सुखविशेषसंभवात्तथाविधालिङ्गानाशंसनं युक्तमेवेति भावः - तदुक्तं रतिरहस्य----

“तत्सौख्यं परतत्ववेदन महाऽऽनन्दोपमं मूढधीः
को वा निन्दति सूक्ष्ममन्मथकला वैचित्र्यमूढो जनः ॥"

इति; अन्यत्राप्युक्तम्--  'प्रौढालिङ्गनचुम्बनामितसुखं प्रच्छन्न वेद्यान्तरम् ' इति ; वृत्तं पूर्ववत् ॥

मालती शिरसि जम्भणोन्मुखी चन्दनं वपुषि कुङ्कुमाविलम् ।
वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट आगमः ॥२३

 व्या.---एवं परमानन्दानुसंधायकत्वेन परिष्वङ्गस्यापवर्गत्व- मुक्त्वा संप्रति स्वर्गरूपत्वमाह.--मालती ति.--शिरसि मालती जातीकुसुममालिकेत्यर्थः-नि. 'सुमनामालती जातिः'-'पुष्पे जाती प्रभृतयः' इत्युभयत्राप्यमरः * *पुष्पमूलेषु बहुलम्' इति लुक् ।। मुखे । जृम्भणं मदनमदजनितजृम्भश्च - नि. 'जृम्भस्तु त्रिषु जृम्भणम्' इत्यमरः - यद्वा संभोगौत्सक्यसूचकरागविलासस्फूर्ति श्च। वपुषि। कुङ्कुमाविलं काश्मीरजमिश्रितं घुसृणरसमसृणितं

वा। चन्दनं पाटीरपङ्कं च। वक्षसि। मदालसा मदेन मन्थरा। प्रियतमा गाढालिङ्गितमत्तकाशिनी च। इत्येपोऽयं समुदायः । स्वर्गः स्वर्गशब्दवाच्यः। आगमः एतद्ध्यतिरिक्त स्वर्गाभिधायक शास्त्रं तु। 'परिशिष्टः सदानभिज्ञत्वा दमुख्यः । स्वर्गपदवाच्यमुख्यार्थबोध- शून्य इत्यर्थः । अन्यथैतत्स्वर्गत्वेनैव वदेदिति भावः । स्वर्ग- समान सौख्यप्रदोऽय मेवेति परमार्थः. रथोद्धतावृत्तम्--- रात्रारा- विह रथोद्धता लगौ' इति लक्षणात ॥

प्राङ्मामेति मनागनागतरसं जाताभिलाषं ततः
सवीडं तदनु श्लधीकृततनु प्रत्यस्तधैर्य पुनः ।
प्रेमा स्पृहणीय निर्भर रहः क्रीडा प्रगल्भं ततो
निशंकाङ्ग विकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ २४

 व्या.--- अथाभ्यन्तरसंभोगं वर्णयितु मुपक्रमते--प्रागिति. -प्राक् प्रारम्भ। मनाक् अल्पं। मा मेति मास्तु मास्त्विति निषेध वचनेन । अनागतः अनुत्पन्नः रसोऽनुराग विशेषो यस्मि स्तत्। मौग्ध्यादिति भावः • ततो निषेधानन्तरं जातोऽ- ङ्कुरितोऽभिलाषो वाञ्छा यस्मि स्तत्तथोक्तम् । तदन्वभिलाषा- नन्तरं * अनुर्लक्षणे' इति कर्मप्रवचनीयवाहितीया। नीवी- विस्त्रंसनादिषु मन्दोद्यमनभावो व्रीडा तया सहसबीडम् - * : तेन- सह -' इति तुल्ययोगे बहुव्रीहिः । ॐ वोपसर्जनस्य' इति सह- भावस्य सत्वम् । अथ ब्रीडानन्तरं। श्लथोद्यम निराकरणे शिथिल- प्रयत्नम् । पुनरुद्यमनाभावानन्तरम् - पुनः शब्दोऽत्रानन्तर्यार्थकः। प्रध्वस्तं विगलितं - धैर्य प्रातिलोम्यलक्षणम् यस्मि स्तत्तथोक्तम् । अङ्गीकृताभिमुख्यमित्यर्थः । ततः प्रेमार्द्रं प्रणयरसपरिप्तुतम् । ततः स्पृहणीया अन्योन्य मभिलषणीया - निर्भरा उद्वेलाश्च-या रहःक्रीडा एकान्तकेलयः विस्त्रम्भविहारा इत्यर्थः - ताभिः प्रगल्भं प्रौढम्। ततो निस्सङ्गेनाप्रतिबन्धेन - अङ्गविकर्षणेन कुचायवयव मर्दनेन - अधिकं सुखं परमानन्दो-यस्मि स्त तथोक्तम्। कुलस्त्रीरतं स्वस्त्रीसंभोगः रम्यं सुन्दरम् - अत्यन्तमनोहरमिति यावत् ; एतच्च प्रथमसमागमपरत्वेन द्रष्टव्यम् । अन्यथोक्तव्यवहारासं- भावादिति भावः-कुलशब्दव्यावृत्तिसंभोगत्वादित आरभ्य प्रागल्भ्य- घटितत्वेनोक्तविलक्षणत्वादन्यादृशो द्रष्टव्यः ।। ___ नायिका तु मुग्धा। नायक स्तूत्तमोऽनुकूल: कामतन्त्रेषु निपुणः। अन्यथोक्तक्रमसंभोगासंभवादिति मन्तव्यम् ॥ संभोग. लक्षण मुक्तं रतिरहस्ये ॥

"अनुकूलौ निषेवेते यत्राऽन्योन्यं विलासिनौ ।
दर्शन स्पर्शनादीनि स संभोग उदाहृतः ॥”

  इति ।।

 अत्र मा मेति वागारम्भसूचितैः रनुभावै र्जाताभिलाष मित्युक्तेन रत्याख्यस्थायीभावेन सव्रीड मित्यनेनोपलक्षितैः संचा- रिभावैः अवशिष्ठै र्विशेषणौर्थायथं प्रतीयमानै रनुभावादि- विशेषैः कुलस्त्री इत्युक्तेनालम्बनविभावेन प्रतीयमानो रससार्वः भौमः शृङ्गारो निस्सङ्गाऽङ्गविकर्षणाऽधिकसुख मित्यनेन परिषो- पातिशयं प्राप्नोतीति वेदितव्यम् ।।

 शार्दूलविक्रीडितम् ॥

उरसि नि तितानां स्त्रस्तधम्मिल्लकानां
मुकुलित नयनानां किंचि दुन्मीलितानाम् ।
उपरि सुरतखेद खिन्न गंडस्थलानां
अधरमधु वधूनां भाग्यवन्तः पिबंति ॥२५

 व्या.----अथ यदुक्तम् नानाकरण कल्पितम्' इति । तत्र- नानाकरणानि धैनुकादि बन्धविशपाः तेषां मध्ये एक बन्धविशेषम् विविक्षु स्तदनुकूल मुपरि सुरतमाह- उरसीति.-उरसि निपतितानां पुरुषायित वन्धवशा द्वक्षःस्थलमधिष्ठितानाम् । अत एव स्त्रस्तधम्मिल्ल- कानां रति रभस विश्लथकचप्रचयानाम-नि, 'धम्मिल्लः संयताः कचा:' इत्यमरः । मुकुलित नयनानां मुखपारवश्यालज्जानुभावानुकरणा द्वा विनिमीलि तलोचनानाम्। तथाऽपि किञ्चिदुल्मीलितानां ईषन्मुकुलि- तलोचनानाम् - अन्यथा अनौचित्यादिति भावः । अत एव उपरिसुरते यः-खेदः श्रम-स्तेन स्विन्नानि स्वदाद्रीणि - गण्डस्थलानि यासा तासाम् - ' श्रमः खेदो हि रत्यादे जर्जातः खेदादिभूमिकृत्' इति लक्षणात् । वधूनां प्रियतमानां संबन्धि । अधरमधु अधरामृतं । भाग्यवन्तः भाग्यशालिनः । पिबन्ति । स्त्रीमुखस्य निजमुखसाम्मु - ख्यादलेशेनाधरं चुम्बन्तीत्यर्थः । एतच पुण्यकृतामेव संभवति - न त्वन्येषा मत एव भाग्यवन्त इत्युक्तम् ; तथा बाह्यसुरतविशेष- रूपमपि चुम्बन मारभ्यान्तराङ्गतया कथित मित्यवगन्तव्यम् ।।  पुरुषायितलक्षणमुक्तं रतिरहस्ये.---  स्वेच्छया श्रमिणि वल्लभे तथा योषि दाधरति पूरुषायितम्' इति ॥  नायिकास्तु प्रगल्भा:.-'स्मरमन्दी कृत व्रीडा प्रौढा संपूर्ण यौवना' इति लक्षणात्।। नायिकाः कामतन्त्र कुशलाः अनुकूलाच. स्वभावोक्ति रलंकार:--, ' स्वभावोक्ति रसौ चारु यथावद्वस्तुवर्णनम् ' इति लक्षणात् ।। मालिनीवृत्तम्,--

आमीलितनयनानां यः सुरतरसोऽनु संविदं भाति
मिथुनै भियोऽवधारित मवितथ मिदमेव कामनिर्वहणम् ॥

 व्या-- अथ ज्ञानपूर्वक एव सुरतानुभव: सार्थकः । न त्वन्य इत्याह---आमीलित इति.-आमीलितनयनानां सुखपार - वश्यादरमुकुळितनयनानां । यूनां यः सुरतरसः सुरतास्वादः । संविदं अनु ज्ञानमनुसृत्य भाति - अयमेतादृश इति ज्ञानगोचर - तया प्रतिभातीत्यर्थः । इदमेव ज्ञानपूर्वक सुरतानुभव प्रतिभान - मेव । अवितथं अव्यर्थम् - सार्थक मित्यर्थः - कामभ्य मन्मथस्य- कामपुरुषार्थस्य वा - निर्वहणं प्रतिष्ठापनम् - उज्जीवन मिति यावत्। न त्वन्यदाभासत्वादिति भावः - मिथुनैः रसज्ञैः स्त्रीपुरुषैः - नि. ' स्त्रीपुंसौ मिथुनं द्वन्द्वमि' त्यमरः । मिथोऽन्योन्यं । अक्धारितं निश्चितम् - अनुभविनामेवार्थनिश्चयसंभवादिति भावः - ज्ञान - पूर्वक सुरतानुभव एव कामपुरुषार्थ इति फलितार्थः । अत इत्थं भूत- सुरत मेव कर्तव्यम् - न स्वन्यादृशम् । तस्य क्लेशमात्रफलकवा : दिति तात्पर्यम् ॥   आर्यावृत्तभेदः ।।

इद मनुचित मक्रमश्च फंसा
यदिह जरास्वपि मान्मथा विकाराः।

तदपि च न कृतं नितम्बिनीनां
स्तनपतनावंधि जीवितं रतं वा ॥२७

व्या.---अथ सुरतविधि कथय न्निगमयति.-इद मिति.. इहास्मिलोके । पुंसा मिद मनुचितं अन्याय्यम् । अक्रमो निर्म . र्यादिश्च । कि मिद मित्याशङ्काया माह - जरासु वार्धकावस्थास्वपी - त्यर्थः । मान्मथा विकाराः सुरतव्यासङ्गाः कृता इति यत् । इद मिति संबन्धः। किं तु यौवनावधिक सुरत मेव न्याय्य मर्यादागोचरं चे त्यर्थः - तदुपरितन सुरतस्याभासत्वादिति भावः। तथा नितम्बिनी- नां स्त्रीणां च तदनुचितम् ; किं तदित्यत आह- स्तनपतनम् अवधिः मर्यादा यस्य तत्तथोक्तं । जीवितं जीवनं वा रतं वा सुरत - वा । न कृतमिति यत् । ब्राह्मणेति शेषः । तदिति संबन्धः । स्त्रीणां तावत् स्तनपत्तनावधिक मेव जीवनं कर्तव्यं । सुरतमपि तदव - धिक मेवा अन्यथा तारुण्यं पञ्चपञ्चाशदवधि परतो वृद्धता मेतिनारी' इति कामशास्त्रोक्त र्वृद्धानां संभोगानहत्वात् - ' सजे दन्त्यकुलो

द्भूत्तां वृद्धी कन्यकां त्यजेत् ' हति निषेधस्मरणातू - ' आलिङ्गनं

लम्बपयोधराणां स्त्रीणां च दुःखत्रय मेव भूमौ' इति लम्बस्तननि- तम्बिनी संभोगस्य दुःखरूपत्वा चेति भावः - यथाह माध:-

" अय मपि जरठाः प्रकामगुर्वी
रलघुविलम्बिपयोधरोपरुद्धाः ।
सतत मसुमता मगम्यरूपाः
परिणतिदिक्करिका स्तटी बिभर्ति "॥  इति ॥

अन स्त्रीणां पुरुषाणां च यौवनकृतसुरत मेव रमणीय मिति- तात्पर्यम् ॥  पुष्पिताम्रा वृत्तम्-'अयुजि नयुग रेफतो यकारो युजि च । नजौ जरगाश्च पुष्पितामा' ॥ इतिलक्षणात् ॥

राजं स्तृष्णाम्बुराशे र्नहि जगति गतः कश्चि देवावसानं
कोपार्थोऽधैः प्रभूतैः स्ववपुषि गळिते यौवने सानुरागे ।
गच्छामः सम याच द्विकसितनयनेन्दीवरालोकिनीना
माक्रम्याक्रम्य रूपं झडिति न जरयालुप्यते प्रेयसीनाम् ।।

 व्या.--यदुक्तं सुरतानुगुण्येन यौवनस्यात्यन्तावश्यकत्वं त्रिभिर्वर्णयति. तत्रादौ चिरप्रवासनिर्विण्गानां राजसेवा तत्पराणां यूनां वचन मेतत् - राजन्निति. हे राजन् । जगति अस्मिन् लोके। कश्चिदेव कश्चिदपि पुमान् । तृष्णा धनलिप्सा सा एवाम्बुराशिः समुद्रस्तस्य अवसानं पारं न गतो हि न प्राप्तः खलु - किन्तु मग्न एवे त्यर्थः - तृष्णाया अपरिच्छिन्नत्वा दम्बुराशिवरूपणम् । अथ यावत्काइक्षितार्थलाभेऽपि न तैः प्रयोजनसिद्धिरित्याहुः - प्रभूतैः प्रचुरैः -- नि, 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः - अर्धधनैः । को - वार्थः किं प्रयोजनम् - न किमपीत्यर्थः - अकिंचित्करत्वादिति - भावः . नि 'अर्थोऽभिधेयरैवस्तुप्रयोजन निवृत्तिषु' इत्यमरः । कस्मिन् कथं भूते सति? वपुषि निजशरीरे (अधिकरण)। सानु : रागे संभोगेच्छा जनके अनुरागसहिते वा यौवने । गलित सति-कोऽर्थ इति संबन्धः, धनलाभादपि यौवनमेवास्माकं बलीय इत्यर्थः। अतस्तावत्तत्पूर्व मेव । सह्म स्वगृहं प्रति । गच्छामो यास्यामः । यावत् यदा। विकसितानि उत्फुल्लानि - कुमुदानि कैरवाणि - इन्दीव- राणि नीलोत्पलानि च-तत्सदृशा आलोका नेत्राणि-असां सन्ती - । ति तथोक्तानाम् - सितासिताब्जदलमनोहर नयनानामित्यर्थः - नि. 'सिते कुमुदकैरवे' - 'इन्दीवरं च नीलेऽस्मिन् ' इत्युभयत्राप्य - मरः । प्रेयसीनां प्रियतमानां संबन्धि । रूपं यौवनप्रयुक्त सौन्दर्य । जरया । आक्रम्याक्रम्य अभीक्ष्ण माक्रम्य । ज्ञडिति अञ्जसा--नि. ' स्त्रान्झडित्यञ्जसाहाय' इत्यमरः । न लुप्यते न ह्रियते । ताव दिति संबन्धः - अन्यथा शशकापाये बिलखननव द्गमननैष्फल्या द्वृद्ध स्त्रीगमन निषेधाचेति भावः - नि. ' यावत्तावच साकल्येऽवधौ - मानेऽवधारणे' इत्यमरः ॥

रागस्यागार मेकं नरकशत महादुःखसंप्राप्तिहेतु
महिस्योत्पनिवी जलधरपटलं झानताराधिपस्य ।
कन्दर्पस्यैका प्रकटितविविधस्पष्टदोषप्रबन्धम्
लोकेऽस्मिन द्यनर्थन जकुलभवनं यौवना दन्य दस्ति ।। २९

 व्या.---अथानर्थमूल माह - रागस्यति.--रागस्य मात्स- र्यस्य । एकम् अगारं मुख्यायतनम् अनुरागैकस्थानमिति वा। तथा नरकशतेषु निरय परम्परासु. यानि महादुःखानि तीव्रयातना - । स्तेषां संप्राप्तिहेतुः प्राप्तिसाधनम् - अगम्यागमनादि दुष्कर्म प्रवर्त - केत्वादिति भावः। मोहस्य स्त्र्यन्तरासक्तिरूपस्य । उत्पत्तिबीजं जन्मकारणम् - नि. ' हेतु नी कारणं बीजम् ' इत्यमरः । ज्ञानता- राधिपस्य प्रबोध चन्द्रस्य । जलधरपटलम् अभ्रवृन्दं - झानप्रकाश प्रतिबन्धकमित्यर्थः । कन्दर्पस्य कामदेवस्य । एकं मित्रं मुख्य बन्धुः। तदुद्रेकमित्यर्थः: प्रकटितो-विविधो नानाविधः-स्पष्टः प्रकाशश्व- दोषप्रबन्धः पातकसंबन्धो - यस्य तत्तथोक्तम् , यौवनमिति शेषः । अतोऽस्मिन् लोके । तस्मा द्यौवना दन्यत् इतरत् । अनर्थाना मुक्तवि.. धानां - ब्रजस्य समूहस्य - कुलभवनम् उत्पत्तिनिकेतनं । नास्ति हि; इदमेवात्यन्तानर्थमूलमित्यर्थः । तदुक्तम्.---

  

यौवनं धनसंपत्तिः प्रभुत्व मविवेकिता ।
 एकैकमप्यनीय किमु यत्र चतुष्टयम् ?'॥  इति

शृङ्गारदुमनीरदे प्रसारक्रीडारसस्रोतसि
प्रद्युम्न प्रियवान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोर पार्वगविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयते प्राप्ते नवे यौवने ॥ ३०."

व्या.---इत्थं भूते यौवने कश्चिदेव निर्विक्रिय इत्याह - शृङ्गार इति.-शृङ्गारः संभोग विप्रलम्भ रूप शृङ्गाररस एव द्रुमो वृक्ष- स्तस्य नीरदे अम्बुवाहे - अङ्करितत्व कन्दलितत्व पल्लवितत्य पुष्पितत्व रूपावस्थाभिः परिपोषावह इत्यर्थः । प्रस्मृमरो व्यापनशीलो यः क्रीडारसो मन्मथ केलिरसस्तस्य स्रोतसि प्रवाहे - अविच्छेदेन प्रवर्तक इत्यर्थ:-अथवा प्रमृमरक्रीडानां रसस्रोनसि रसप्रवाहे - यथेच्छावि- हारान्वित इत्यर्थः - प्रसृमरे त्यत्र " सृघस्यदः कमरच् " प्रद्यु- म्नस्य कन्दर्पस्य - प्रियवान्धवे आप्तबन्धौकस्वार्थेऽण् प्रत्ययः - नि. 'प्रद्युम्नो मीनकेत्तनः । कन्दर्पो दर्पकोऽनङ्गः' इत्यमरः. धतुर - वाघो निपुणवाक्यान्येव - मुक्ताफलानि मौक्तिकमणयः - तेषा मुद. न्वति समुद्रे - सरससंलापोत्पत्तिनिकेतनभूत इत्यर्थः - । उदन्या नुदधौच' इति निपातनात्साधुः । समुद्रस्य मुक्ताकरत्व मुक्तं रन - शास्त्रो‌--  करीक्षु जीमूत वराहशङ्ख मत्स्याहिशुक्णव वेणुजानि ।  मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भव मेव भूरि।।' इति, तन्वीनां विलासिनीनां नेत्राण्येव - चकोराः चन्द्रिकापायिपक्षि - विशेषास्तेषां पार्वणविधौ पूर्णचन्द्रे-तद्व दुल्लासक इत्यर्थः क पर्वणि भवः पार्वण इति विग्रहः - नि. विधु विष्णौ चन्द्रमसि' इत्यमरः । सौभाग्यलक्ष्म्याः सौन्दर्यसम्पदो निधौ निधाने कदाचिदपि स्वाव- स्थानन्ददशायां सौन्दर्यलक्ष्मी: न क्षीयत इत्यर्थः । नवे यौवने नूतने वयसि । प्राप्ते सति कोऽपि धन्यः कश्चिदेव सुकृती । विक्रि - यां मन्मथ बिकारं । न कलयते न प्राप्नोति ; ईदृशस्तु विरल इति- भावः ॥  श्लोकद्वयेऽपि निरवयव रूपकालंकारः ॥ शार्दूल विक्रीडितम् ।।

संसारेऽस्मि न्नसारे कुनृपतिभवनद्वारसेवाकळङ्क
व्यासङ्ग व्यस्तधैर्यं कथ ममलधियो मानसं संनिदध्युः ।
यधेताः प्रोद्यदिन्दुधतिनिचयभृतोनस्थु रम्भोजनेत्राः
प्रेसत्काञ्ची कलापाःस्तनभरविनमन्मध्यभाज स्तरुण्यः ॥३१

 'व्या.---यदुक्तं यौवनस्यानर्थमूलत्वं तत् कामिनीपरित्यागे त्यन्त दुरापास्त मित्याशङ्कय तासामपरित्याज्यतां त्रिभि वर्णयति.- संसार इति.-अमलधियो निर्मलमतयो महान्तः । मानसं निजम् मनः । असारे निस्सारे । आस्मन् परिवर्तमाने संसारे कलत्रादि पोषण व्यासङ्गरूपे कुनृपतिभवनद्वारस्य कुत्सित राजमनदिरस्य प्रतिहा- रस्य सेवा अनुवर्तन मेव - कलङ्कोऽपवादः - तत्र यो व्यासङ्गः - अत्यासक्ति स्तेन व्यस्तं - धैर्यं धीरत्वं यस्य तत्तथोक्तम् । ईदृक्कष्ट - कर्मासक्तत्वान्मलिन मित्यर्थः । कथं संनिध्युः कुर्युः न कथंचिदपी- त्यर्थः। किं न स्या चेदित्यत आह - प्रोद्यन् उदित्वरो-य इन्दुः तस्य द्युति रिव द्युति र्येषां तानि चन्द्रधवलानि माञ्चिष्ठानि वा - उद्यद्विशेषण सामर्थ्यात् - तानि निघयानि अंकुशानि - बिभ्रतीति तथोक्ताः । अम्भोजे इव नेत्रे यासां ताः पद्मपलाशविशाललोचना इत्यर्थः । प्रेङ्खत्काञ्च यः क्वणद्रशना एव - कलापा भूषणानि - यासां ताः - यद्वा काञ्च योभूषणानि यासां ताः नि. कलापो भूषणे बेहे' इत्यमरः स्तनभरेण कुचकुम्भगौरवेण - विनमन्ति अवनतानि - मध्यानि बलग्नानि - भजन्ती ति तथोक्ताः - पीवरकुघाः कृशो - दर्य श्च इत्यर्थः - एतेन सौन्दर्यातिशय उक्तः । एताः प्रसिद्धा - स्तरुण्यो युवतयः - न स्युर्यदि न भवेयु र्यदि-तर्हि कथं संनिध्यु रिति संवन्धः ; अतो विशिष्टतरुणीनां विद्यमानत्वादेव सुधियोऽ प्येवंभूता भवन्तीत्यर्थः। तस्मा तरुण्यो दुष्परिहरा इति भावः । तदुक्तम् ।।

" असाधा विह संसारे दुारे मकरध्वजे ।
कुले च कामिनीमूले कावास्यात्परिकल्पना?" ॥ इति ।।

अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थसमर्थकहेतुत्वाकाव्यलिङ्गभेदः ।।

म्नग्धरा ॥

सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुम्णद्रुमे
गङ्गाधौतशिलातले हिमवतः सानौ स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाम मलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ ३२

 व्या.--सिद्धति • सिद्धैर्योगिभिः-अध्यासिता अधिष्ठिता- कन्दरा गुहा-यस्मिंस्तत्तथोक्ते-एतेन तपस्सिद्धि हेतुत्वं सूच्यते । हरस्य नित्यसन्निहितस्य - योवृषो वाहनभूतो महोक्षस्तस्य स्कन्धेन अंसपी- ठेन - ककुदेति यावत् - अवरुग्णाः भग्नाः - द्रुमा यस्मिन् तत्तथो- क्तम् * ' रुजो भङ्गे' कर्मणि क्तः ‘ओदितश्च' इति निष्ठानत्वेणत्वम् - एतेनाखिलश्रेयःप्रदशिवसानिध्य मुक्तम् । गङ्गाधौतानि गङ्गाप्रक्षालितानि - शिलातलानि । यस्मिन् तत्तथोक्ते - एतेनाऽत्यन्तपवित्रत्वमुक्तम् । अत एव श्रेयसि श्रेष्टे - श्रेयस्करे - वा हिमवतो गिरेः । संबन्धिनि स्थाने प्रदेशे स्थिते सनि । कोवा मनस्वी सुमेधाः धीरो जनः * प्रशंसायामिनिः । शिरो निजोतमाझं प्रणामेन कुनृपतिपादवन्दनेन • मलिनं कलङ्कितम् । अत एवम्लानं उत्कर्षहीनं । कुर्वीत । 'मलिनं मानम् ' इति पाठे - मानं निजाभिमानं (कर्म) - शिरः प्रणामेन निजोत्तमाङ्गविनमनेन - मलिनं प्रतिष्ठाहीनं - कुर्वीत । न कोऽपीत्यर्थः । कुतः - यद्यस्मात्कारणात् । वित्रस्तकुरङ्गशाबनयनाः पद्मनीजातित्वाञ्चकितवालहरिणेक्षणाः । अत एव । स्मरास्त्रं महावीरस्य स्मरस्य जगद्विजयसाधन - भूतबाण इत्यर्थः * लिङ्गवचनव्यत्ययो नित्यनपुंसकत्वेन जात्यभि- प्रायेणवा वेदाः प्रमाणम्' इत्यादिव इष्टव्यः इत्युक्तं प्राक् । स्त्रियः नस्यु श्चेत् अतः अमोघ मदनशस्त्र भूतस्त्रीणामपरित्याज्यतया विध- मानत्वा देव मनस्विना मपीदृग्दुरवस्थापत्तिरिति भावः ।।

 वृत्तमुक्तम् ।।

संसार ! तब पर्यन्तपदवी न दवीयसी।
अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाः ॥  ३३

 व्या.--संसार इति.---- हे संसार । तव । पर्यन्तपदवी अवसानसीमा न दवीयसी न दविष्ठा भवति - न दूरतरेति यावत् - किन्तु नेदीयस्येवेत्यर्थः। * दूरशब्दा दीयसुनि · उगितश्च' इति डीप् । स्थूलदूर -' इत्यादिना यणादि परलोप पूर्वगुणौ। कुतः - ते तव अन्तरामध्ये ! दुस्तरा महानद्य इव तरितु मशक्याः । 'ईषद्दु:--' इत्यादिना खल्प्रत्ययः । मदिरेक्षणाः स्त्रियः । न स्यु - र्यदि नसंभाविता श्चेत् । न दवीयसीति सम्बन्धः । सम्भावितत्वादेव दवीयसी त्यर्थः। एतेन संसारपारपार गमन प्रतिबन्धिन्यः स्त्रिय इत्युक्तम् । तत्परित्यागे तु श्रेयस्संभव इति भावः, पूर्वश्लोकेऽप्यत्रा- पिच पूर्वतरलोकवत्कार्य मुन्नेयम् ।।  अनुष्टुप् ॥            इति शृङ्गारशतके संभोगवर्णनं सम्पूर्णम् ।।


          ॥ पक्षद्वयनिरूपणम् ॥

दिश वनहरिणेभ्यो वंशकाण्डच्छवीनां
कबळमुपलकोटिच्छिन्नमूलं कुशानाम् ।

शकयुवतिकपोलापाण्डुताम्बूलवल्लीदळम्
अरुणनखात्रैः पाटितं वा वधूभ्यः ॥ ३४

  व्या.---इत्थं स्त्रीणां परिहर्तु मशक्यत्वे तदासक्तस्य कुतः श्रेयः प्राप्तिरित्याशङ्कायां तदत्यन्तात्याज्ययोरप्यैहिकामुष्मिकफलसा - धनत्व मेवेति मनसि कृत्वा तदुभयमिदानीं तावन्निरूपयितुं प्रति- जानीते - 'अथ पक्षद्वयनिरूपणमिति' - अथ स्त्रीणां परित्याज्यत्व- कथनानन्तरं पक्षयोः विरक्त्यनुरक्तिरूपपक्षयोः द्वयस्य निरूपणं क्रियते । तत्प्रकारमाविंशतिसमाप्ते वर्णयति.--दिशेति. हे जने त्यध्याहार्यम् । वने पुण्यारण्ये । हरिणेभ्यः कुरङ्गेम्यः - तपः प्रस- क्त्या निर्भीकत्वेन तेषां समीपवर्तित्वादितिभावः । उपलकोट्या निशितपाषाणप्रान्तेनच्छिन्नानि लूनानि मूलानि - यस्य तथोक्तम् - तत्र लवित्रादिसाधनान्तरासंभवान्मूलानामुपलकोटिच्छिन्नत्वमुक्तम् । वंशकाण्डस्य वंशकरीरस्य - छविरिव छवियेषां तेषाम् सरसानामित्यर्थः । कुशानां । कबलं प्रासं वा - दिश । तपश्चरणसमय इति शेषः ; अथवा । वधूभ्यः प्रियतमाभ्योऽरुणनखानामग्रैः पाटितं शकलितं - शकयुवतीनां शकाख्यदेशीयतरुणीनां - कपोलव - दापाण्डु - आसमन्ताद्धवलं । यत्ताम्बूलवली दलं नागवल्लीपत्रं । तद्वा दिश। संसरणसमय इति शेषः ; उक्तोभयमेव पर - भूसौख्यनिदानम् उभयत्र । नान्यदिति भावः। एव मुत्तरत्रापि यथा योग मूहनीयम् ।।   अत्र नखानामारुण्यग्रहणं महाभाग्यलक्षणत्वेन सुखित्वद्यो-

तनार्थम् - तदुक्तम् सामुद्रिकैः

'पाणी पादतले रक्ते नेत्रान्तश्च नखस्तथा ।
तालुजिह्वाऽधरोष्ठं च सप्तरक्तस्सुखी भवेत् ॥  इति.

मालिनी.

असाराः सन्त्वेते वोरतिवोरसा वाथ विषया
जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदमिति ।
तथाऽप्येतद्भूमौ न हि परहितात्पुण्यमधिकं
न चास्मिन् संसारे कुवलयदृशो रम्य मपरम् ॥  ३५

 व्या--असारा इति. ते प्रसिद्धाः । सर्वे । पापहेतुत्वात्- पापा:-विषयाः शब्दादयः-स्रक्चन्दन वनितादयो वा । असारा. अस्थिराः - निस्सारा इति वा- नि. ' सारो बले स्थिरां शेष' इत्य- भिधानात् तथा। विरतौ परिणतिसमये - विरसाः अनर्थकरा इति - वा। यद्वा सकलदोषास्पदम् राग द्वेष मोहाद्यशेषदोषदोषा इति वा । आस्पदं प्रतिष्ठायाम् ' इति निपातनात्सुडागमः - लिङ्ग वचनव्यत्ययस्तु पूर्ववदृष्टव्यः । जुगुप्स्यन्तां परित्यज्यन्ताम् परित्यागे- परमसुखलाभादिति भावः । तथा च वक्ष्यति----- ' स्वयं त्यक्ता ह्येते शमसुख्मनन्तं विदधति' इति । ' गुपेर्निन्दायाम् ' इति सन्नन्तात् कर्मणि यकि विधौ लोटि तङ् ; तथाऽयुक्तप्रकारे विषयाणां जुगुप्स्यत्वेऽप्येतद्भूमौ अस्यां भुवि । परहितात् परोपकारकरणात्। अधिकं अतिरिक्तं । पुण्यं । न हि नास्तिखलु ॥

" श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
परोपकारः पुण्याय पापाय परपीडनम् " ।

इति वचनान्देदमेवात्यन्तपुण्यमित्यर्थः । अथास्मिन्संसारे च ।

कुघलयदृश उत्पलाक्ष्याः क । "अन्यारादितरतें". इत्यादिना पञ्चमी । अपरं अन्यत् । रम्यं वस्तु नास्ति - इयमेवात्यन्तं मनोहरेत्यर्थः; अतो दोषदृष्ट्या विषयान्परित्यज्य शमसुखानुभवतात्पर्येण स्थात- व्यम् । अन्यथा परहिताचरण तत्परेण सांसारिकतया या वर्तित- व्यम् । न तु प्रकारान्तरेणेति भावः ॥  शिखरिणी ॥

मात्सर्यमुत्सार्य विचार्य कार्य
मार्याः समर्यादमिदं वदन्तु ।
सेव्या नितम्बाः किमु भूधराणा
मुत स्मरस्मेरविलासिनीनाम् ॥ ३६

  व्या --मात्सर्यमिति.-~-आर्याः पण्डिताः ‘मात्सर्यं असू - यां - पक्षपातमिति यावत् । उत्सार्य निराकृत्य - तस्य यथार्थकथन प्रतिबन्धकत्वादिति भावः। कार्यं कर्तुं योग्यं-विधेयमित्यर्थः। विचार्य ऊहापोहाभ्यां सम्यगालोच्य । ततः । समर्यादं मर्यादया सन्मार्गानतिक्रमणेन सहितं यथा भवनि तथा । इदं एतत् । वदन्तु कथयन्तु । किमिदमित्यत आह - धरन्तीति धराः पचाद्यच् - भुवोधरा भूधरास्तेषां भूधराणां । नितम्बाः कटकप्रदेशाः । सेव्याः किमु आश्रयणीया वा। उत अथवा स्मरस्मेराः स्मरोल्लसिताः-मदनम- दोत्कटा इत्यर्थः - यद्वा स्मरेण मन्मथावेशन हेतुना - स्मेराः संभोगौ- त्सुक्यसूचक मन्दस्मित सुन्दरवदनारविन्दा इत्यर्थः । 'ष्मिङ्ईषद्धसने ' इति धातोः । नमिकम्पि - ' इत्यादिना रप्रत्ययः - 10 अथवा विषयमात्र विश्रान्तिविरहेण विशृङ्खलवृत्तित्वमदमन्धर - स्वादिगुणविशिष्टकटाक्ष वीक्षणानि स्मेरशब्दविवक्षितानि - तदुक्तं भावप्रकाशे----

'अपरिच्छिन्नविषयं मदमन्थरमीलितम् ।
स्फुरद्भ्रूपक्षानायुक्तं सत्स्मेरमिति कथ्यते ' ।। इति

तानि च स्मरपधानानि बाला तासां स्मरस्मेरमेराणां - विलासिनीनां विलसनशीलानां तरुणीनाम। वौ कलषलस -' इत्यादिना घिनु- प्रत्ययः । नितम्बा: कटिप्रदेशाः आश्रयणीयावा । इदं वदन्त्विति सम्बन्धः ; यदि चैराग्यं स्यात्तर्हि गिरिनितम्बाः सेव्याः। अन्यथा- विलासिनीनितम्बा इति त्वदीयपश्नस्येदमुत्तरं न त्वन्यदस्तीति भावः - नि.-'कटकोऽत्री नितम्बोऽद्रे: ’पश्चान्नित्तम्बः स्त्रीकट्याः' इति चोभवत्राप्यमरः. अत्र पूर्वार्धे एकवर्गम्य पुनः पुनरावृत्तेर्वृत्त्यनुप्रासः शब्दालं- कार:---

 एक्द्वि प्रवृत्तीनां च वर्णानां तु बदा भवेत् ।
पुनरुक्तिरसौ नाम वृत्त्यनुवास इप्यते.' इतिलक्षणात्.

 अयं च नितम्बा इत्यत्र द्वयानामपि नितम्बानां प्रकृतत्वात्- केवलप्रकृतत्वगोचरेण एकनाळावलम्बिफलद्व्यवदेकशब्दादर्थद्वय : प्रतीतेः केवलार्थप्रवणेन विजातीयेनोत्तरवाक्थस्थेन श्लेषेण तिलत - ण्डुलवत् परस्परनैरपेक्ष्यात् संमृष्टः किंचिञ्चमत्कारातिशय मावह -

तीति काव्यस्य महानुत्कर्षः प्रतिपादित इति रहस्यम् । वृत्तमुपजातिः।।

सम्सारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भः प्लवललितधियां यातु कालः कथञ्चित् ।
नोचेन्मुधाङ्गनानां स्तनजघनघनाभोगसंभोगिनीनां
स्थूलोपस्थस्थली स्थगितकरतलस्पर्शलीलोदयमानाम् ॥ ३७

 व्या.----संसार इति.--स्वप्नस्य सार इव सारों यस्मिन स:- मियाभूत इत्यर्थः * * सप्तम्युपमाने' इत्यादिना बहुव्रीहिः। तथा परिणत्या परिणामावस्थायां - तरले अस्थिरे - अशाश्ववत इत्यर्थः - संसारे संसृतौ । पण्डितानां परिज्ञात्रॄणां द्वे गती अवस्थे । विद्यते इति शेषः । के द्वे इत्याशङ्कायामाह - तत्वज्ञानमेव - अमृताम्भः अमृतप्रायजलं - तत्र प्लव इव-ललिता रुचिरा - यद्वा तत्वज्ञानामृताम्भसि - प्लवः प्लवनम् - क्रीडेति यावत् - तत्र ललिता उल्लासवती - धीर्थेषां तत्वज्ञानोल्लसितयुद्धीनाम् सतामित्यर्थः । कथंचिदतिप्रयत्नेन । कालो यातु गच्छतु अनिक्रामात्वत्यर्थः। -- नि. कथमादि तथाप्यन्तः यनगौरवबाढयोः' इत्यमरः । 'काल: कदाचित् ' इत्यपपाठः । इयमेकावस्था ; नोचेदेयं न स्या च्चेत्त्तर्हि । स्तनयोर्घनजघने विपुलकटिपुरोभागे च - आभोगसभोगिनीनां विस्तृतसंभोगेच्छावतीनाम् - यद्वा स्तनयों र्घनजघनस्य निबिडतरजघ- नस्य च - य आभोगो विस्तार - स्तत्र संभोगनीनाम् कुचमर्दन निधु- वन रूपबाह्याभ्यन्तर संभोगाकाइक्षिणीनामित्यर्थः - एतेन समानुरा- ‘गित्वमुक्तम् । अन्यथा आभासप्रङ्गात् । तदुक्तम्-

एकत्रैवानुरागश्चेत्तिर्यङ्म्लेच्छगतोऽपि वा।
योषितो बहुसक्तिश्च रसाभास स्विधा मतः'॥ इति ॥

मुग्धाङ्गनानां सुन्दरस्त्रीणां नवयौवनानां वा · उदयद्यौवना मुग्धा'

इति लक्षणात् । स्थूलोपस्थस्थलीपु वर्तुलोच्छूनमदनसदनप्रदेशेषु।

  • 'जानपद - ' इत्यादिना अकृत्रिमार्थे ङीप् । स्थगित माच्छादितं . ।

यत्करतलं-तस्य स्पर्शः संपर्क:-एव लीला तन्त्र - उद्यम उद्योगो -येषां तेषां सताम् - कामिनीमोहनोपस्थस्पर्शसुस्वपनुभवतां सतामेवेत्यर्थः। कालो यातु। इयं चैकावस्था : इमे द्वे एवोत्तमे गती । न त्वेतद्वयति- रिक्तं गत्यन्रमस्तीत्यर्थः । सर्वदा ज्ञाननिया वा कामगोष्ठ्या वा पण्डितानां कालो यापवितव्यः । नत्वन्यथेति भावः. स्थूलोपस्थेत्य- नेन आसां चित्रिणीजातित्वं सूचितम् । तदुक्तं रतिरहस्ये--

'मदनसदनमस्यावर्तुलोच्छूनमन्तर्मृदु
मदनजलादृयं रोमभिर्नातिसान्द्रैः ।
प्रकृतिचपलदृष्टिर्बाह्यसंभोगसक्ता
रसयति मधुराल्पं चित्रिणी चिबरक्ता' ॥ इति॥

एतजात्यनुकूलसुरतनियतयामोऽपि तत्रैवोक्तः -

'व्रजति रतिसुखार्थी चित्रिणी मग्रयामे
भजति दिनरजन्योर्हस्तिनी ध द्वितीये ।
गमयति घ तृतीये शङ्खिनी मार्द्रभावां
रमयति रमणीयां पद्मिनी तुर्ययामे'। इति॥

मतान्तरे तु द्वितीययाम इत्युक्तम् -

घनकुचनखभेदैर्मुष्टिघातैश्च मध्ये
रतिनियतकरैश्च प्रीति युक्तैर्वचोभिः ।

अनृततरकथाभि स्तत्र यामे द्वितीये
सुगुणसहित मन्त श्चित्रिणीं संलभेत'॥  इति॥

स्रग्धरा ।।

आबासः क्रियतां गाङ्गे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ।। ३८

व्या.---आवास इति.--पापानि हरत्यभीक्ष्णमिति पापहारि-

'गाङ्गं वारि मनोहारि मुरारि चरणच्युतम् ।
त्रिपुरारिशिरश्चारि पापहारि पुनातु माम्' ।

 'पापापहारि दुरितारितरङ्गधारि दूरप्रसारि गिरिराजगुहा - विहारि।   झङ्कारकारि हरिपादरजोविहारि गाङ्गं पुनातु परित श्शुभ - कारि वारि' । इत्यादिना समस्तपापक्षयकर इत्यर्थः । 'बहुल माभीक्ष्ण्ये' णिनिः । गाङ्गे गङ्गासंबन्धनि । “ तस्येदम् ' इत्यण्प्रत्ययः। वारिणि । आवासः क्रियताम् । स्नानपानादिना बाह्याभ्य - न्तरशुद्धिसंपादनद्वारा स्वर्गापवर्गप्राप्त्यर्थे तत्र निवासो विधीयता मित्यर्थः - तथाच श्रुतिः -

सितासिते सरिते यत्र संगते तत्राप्लुतासो दिव मुत्पतन्ति ।
ये वै तन्वां विसृजन्ति धीरास्ते जनासो अमृततत्वं भजन्ते'।।

इति स्मृतिश्च---- • गङ्गा तुङ्गतरङ्गिणी भवभय क्लेशापहा सर्वदा  मर्त्याना मवगाहनात्सकृदपि स्वर्गेऽपि संस्थापिनी' इत्यादि- अथवा मनोहारिणि अत्यन्तमनोहरे । पूर्ववण्णिनिः । कुतः . हारिणि मुक्ताहारवति । अत्र मत्वर्थीय इनि प्रत्ययः । तरुण्या: नवयौवनायाः । स्तनद्वये आवासः परिशीलनतात्पर्यं क्रियताम् । तरु - णीस्तनाश्रयस्यैव निरतिशयसुखहेतुत्वादिति भावः ॥

 अत्र तरुणीग्रहणं स्तनद्वयस्य पतनाभावेन पाटवातिशयद्यो- तनार्थम् । अन्यथाऽभासप्रसङ्गात् : एतेन मणिहिरण्मय कङ्कणयोरिव स्तनद्वयहारयो रप्यन्योन्यरामणीयक प्रकाशपरिपोषावहत्वेन विशिष्ट स्तनद्वयस्याश्रयणयोग्यत्वं सूचितमित्यवगन्तव्यम् । यथाह श्रीहर्ष:- 'तरुणी स्तनएव दीप्यते मणिहारावलिरामणीयकम् ' इति ।।  अत्र पूर्वोत्तरवाक्यस्थयो रनुप्रासयमकयोः शब्दाऽलंकारयोः संसृष्टिः स्पष्टा || अनुष्टुप् ॥

किमिह बहुभीरुक्तैयुक्तिशून्यैः प्रलापै
र्द्वयमिह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ।। ३९

 व्या.---अथ द्वाभ्यां निगमयति - किमिति..--इहास्मि- न्नर्थे । बहुभि रपरिमितैर्युक्तिशून्यै निस्सारै रुक्तैरुदितैः । प्रलापै रनर्थकवचनैः किं फल मिति शेषः । वाचो विग्लापन विना न किञ्चि- त्फलमस्तीत्यर्थः - नि.-'प्रलापोऽनर्थकं वचः' इत्यमरः - किं त्विहास्मि लोके । पुरुषाणां द्वयं । सर्वदा निरन्तरम् - 'सर्वथा 'इति. या पाठः । सेवनीयम् । किं तद्द्वयमत आह - अभिनवा नूतना-या मदलीला मन्मथावेशजनितविलासास्तासु लालसं लोलुपम् । अत्यासक्तमित्यर्थः । स्तनभरेण कुचकलशभारेण - परिखिन्नं परि - श्रान्तम् । उभयत्राऽपि यौवनवतीधर्मो यौवन उपचर्यते । सुन्दरीणां यौवन वा । नत्वसुन्दरीणा मिति भावः । उत वनं पुण्यारण्यं वा । सेवनीयमिति संवन्धः । एतयोरेव परमसुखनिदानत्वादिति भावः ।। मालिनी ॥

सत्यं जनावच्मि न पक्षपाताल्लोकेषु सप्तस्वपि तथ्य मेतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्नच कश्चिदन्यः।।

 व्या..--इदानीं निष्कृष्टमर्थमाह-सत्यमिति,-किं बहुना। हेजनाः। सत्यं वच्मि यथार्थं ब्रवीमि । पक्षपातात् वैषम्या न्न वच्मि । सप्तसु लोकेष्वत्येतदेव तथ्यभित्यर्थः । कि मेतदित्यत आह - निताम्बनीभ्यस्तरुणी भ्यः । मनोहारि मनोहरं वस्तु। नास्ति । तथा ताभ्योऽन्य इतरः। दुःखानामेकहेतुर्मुख्यकारणं च नास्ति - को भोगो रमणीं विने' त्यादिना भोगैकसाधनत्वात्। - बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः' इत्यनर्थमूलत्वाच्च नितम्बिनीनामेव परम- सुखदुःखैकनिदानत्वादिति भावः ।।  अत्र सप्तश्लोक्या पक्षद्वयनिरूपणस्यायमभिप्रायः - 'अखण्ड - निरतिशयानन्दावाप्तिलक्षणत्वेनाभ्यर्हितत्वान्मुख्यो मोक्षः पुरुषार्थ इति सकलमतसिद्धान्तः । प्रसूतिभाजो विश्वस्य स्खीपुंसाभ्यामेव निष्पन्नत्वात्कामस्य पितृऋणविमोचन हेतुभूततया सततं महापुरुष - परिग्रहात्पुरुषार्थत्वमिति नन्दिकेश्वरश्वेतकेतु पाञ्चालवात्स्याय नादि

पूर्वसिद्धान्तः ; एवं च सति पूर्वालाभे परः पर' इति न्यायान्मुख्य

कल्पालाभेऽनुकल्पस्यापि विहितत्वान्मोक्षपुरुषार्थसाधनप्रवृत्यलाभे
कामपुरुषार्थसाधनेषु वा अवश्यं प्रवृत्तिः कर्तव्येत्यनुसंधायैव-
मुपन्यस्तमिति ॥

तत्र नितम्बिन्यतिरिक्तरम्यवस्त्वनर्थहेत्वो स्सत्यपि संबन्धेऽ प्यसंबन्धोक्ते रतिशयोक्तिभेदः । इन्द्रवज्रा - ' स्यादिन्द्रवत्रा यदितो- जगौ गः । उपेन्द्र वज्राजतजा स्ततो गो' इति लक्षणात् ।।                      इति शृङ्गारशतके पक्षद्वयनिरूपणं सम्पूर्णम् ॥


          ॥ कामिनीगर्हणम् ॥

कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नम
त्पीनोत्तुङ्गपयोधरेति समुखाम्भोजेति सुभ्रूरिति |
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियं अहो मोहस्य दुश्चेष्टितं ॥४१॥

व्या.-~-यदुक्तं 'दुःखैकहेतुर्नच कश्चिदन्य' इति तदेव प्रपञ्चयितु मिदानीं कामिनीगर्हणभारभेते - अथ कामिनीगर्हण मिति - अथ संभोगनिरूपणानन्तरं कामिनीविगहणं कामिनीनिन्दा आविंशतिसमाप्ति क्रियत इति शेषः । ननु शृङ्गारालम्बनत्वेन प्रसिद्धानां कामिनीनां गर्हणे शृङ्गारवर्णनप्रतिज्ञाभङ्गः प्रसज्यतेति चेन्न। शिशुपालादिकृतभगवद्गर्हणस्य पुरुषार्थपर्यवसानवत्कामिनीगर्हणस्यापि यथाकथंचिच्छृङ्गारवर्णन एव पर्यवसानान्न कोऽपि विरोध इति मन्तव्यम्। तत्प्रकारमेव विवृणोति.कान्तेति - वेत्तीति विद्वान् सारासारविचार चतुरः - ज्ञानवानपीत्यर्थः - किमुतान्य इति भावः। 'विदेश्शतर्वसुरि’ ति वस्वादेशः । प्रत्यक्षेणाशुचिभस्त्रिकां अपवित्रचर्मपुटं । स्वार्थे क; । प्रत्ययस्थात्कात्पूर्वस्ये'त्यादिना इकारादेशः । भस्त्रैषाजाज्ञे' त्यादिना वैकलपिकः . ' पुत्रिका' मिति पाठे - अशुचिपाञ्चालिकां अत्यन्तजुगुप्सितरूपा मित्यर्थः - तदुक्तं---

'हासोऽस्थिसंदर्शनमक्षियुग्ममत्युज्ज्वलं तत्कलुषावसायाः।
स्तनौ च पीनी पिशितास्त्रपिण्डौ स्थानान्तरे किं नरकेणयोषित् ॥
 इति ॥

इत्थं भूतां स्त्रियं । 'वाम्शसो’रिति विकल्पा दियङादेशः । दृष्ट्वा । कान्ता कमनीयेति मनोहरेति वा-नि। ‘कान्तं मनोहरं रुच्यमि'त्यमरः । उत्पले इन्दीवरे इव लोचने यस्यास्सा तथोक्तेति । विपुल श्रोणीभरा पृथुलंनितम्ब बिम्बेति । उन्नमन्ता दूर्ध्वमुत्पतन्ता विव- स्थितौ - कुतः - पीनौ पीवरौ उत्तुङ्गावुन्नतौ च - पयोधरौ स्तनौ- यस्यास्सा तथोक्तेति - नि । त्रीस्तनाब्दौ पयोधरा वि'त्यमरः । सुमुखाम्भोजा सुन्दरवदनारविन्देति । शोभने मदनकार्मुकरुधिरे । भ्रुवौ यस्यास्सा तथोक्तेति च माद्यति मत्तो भवति । मोदते हृष्यति- अभिरमते क्रीडति । अभिपूर्वा द्रमतर्लटि तड. । व्यापरिपूर्वस्यैव परस्मैपदित्वनियमान् । प्रस्तौति उक्तप्रकारेण प्रकारान्तरेण वा अभिष्टौति । अतः । मोहस्याविद्याया दुश्चेष्टितं दुर्विलसितं । अहो विद्वांसमपीदृगवस्थापन्नं करोतीत्याश्चर्यमित्यर्थः । एतत्सर्वं व्यामोहमूलमेव । तस्य दुरवच्छेदत्वादिति भावः ; यद्यपिअमेध्यपूर्णं क्रिमिजन्तुसंकुलं स्वभावदुर्गन्धमशौचमध्रुवम् । कळेबरे मूत्रपुरीषभाजने रमेत भुढो न रमेत पण्डितः ॥ इति वचनात्पण्डितस्येत्यं जुगुप्सितकामिनीकळेबरे रमणमेव नास्ति । तथाऽपि मोहस्यात्यन्तप्राबल्यप्रकटनार्थमित्थमुक्तमित्यवगन्तव्यम् ॥ अत्र क्रियाणां बह्वीनां समुचितत्वास्क्रियासमुच्चयालंकारः - एक विषयः - *गुणक्रियायौगपद्यमलंकारस्समुच्चयः' इति लक्षणाता। शार्दूलविक्रीडितम् - 'सूर्याश्वैर्मसजस्ततास्सगुरवः शार्दूल' विक्रीडितम् ॥

स्मृता भवति तापाय दृष्टा चोन्मादकारिणी।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ ४२

 व्या.-अथ त्रिभिरानुष्ठुभैः स्वरूपं दूषयति-स्मृतेति.-या स्मृता सदशदृष्टिचिन्तादिस्मृतिबीजोद्वोधकसद्भाववशात्प्रवासे कदा - चित्स्मरणविषयीकृता सती। तापाय भवतीत्यर्थः । ततः दृष्टा सती। उन्मादकारिणी चित्तभ्रमकरी भवति । स्पृष्टा । आलिङ्गिता सती। मोहाय भवति बहिः प्रपञ्चविस्मरणकारिणी भवति । अतस्सा वधूः । कथं नाम कुतो वा-दयिता प्रियतमा न कथंधिदपीत्यर्थः । किंतु उक्तबह्वनर्थहेतुभूतत्वात अप्रियतमैवेति भावः ॥  अत्र 'स्मृता भवति तापायेति पदार्थानां विशेषणगत्या तुरी- यपादस्यपदार्थं प्रति हेतुत्वाकाव्यलिङ्गभेदः ॥

तावदेवामृतमयी यावलोचनगोचरा।
चक्षुष्पथा दतीता तु विषादप्यतिरिच्यते ।।  ४३

 व्या.–तावदिति - तावदेव तावत्पर्यन्तमेवामृतमयी अमृ .

तोपमाना तद्वन्मधुरतरेत्यर्थः - वधूरिति शेषः । · तत्प्रकृतिवचने । मयट्'। 'टिड्ढाणञि त्यादिना डीप् ' कियत्पर्यन्तमित्यत आह - यावद्यावत्पर्यन्तं । लोचनगोचरा चक्षुर्विषया भवति तावदिति संबन्धः। व्यतिरेके तु नैवमित्याह - चक्षुष्पथात् लोचनमार्गात्। ऋक्पूरि’त्यादिना समासान्तः । अतीता तु अतिक्रान्ता चेद्विपात्काल - कूटादप्यतिरिच्यते अतिरिक्ता भवति - तद्वत्प्राणप्रयासकारिणी भवतीत्यर्थः ॥

 अत्र वध्वा अमृतमयत्वविषातिरिच्यमानत्वासंबन्धेऽपि तत्सं- बन्धाभिधानादसंबन्धे संबन्धरूपाऽतिशयोक्तिः ॥

 नामृतं न विषं किंचिदेतां मुक्त्वा नितन्बिनीम् ।
सैवामृतलता युक्ता विरक्ता विषवल्लरी ।। ४४

 व्या.---उक्तमेवार्थ भङ्ग्यन्तरेणाह - नेति.--एतां नित - म्बिनी मुक्त्वा विहाय । अमृतममृतशब्दवाच्यं । किंचिद्वस्तु . नास्ति । विषं विषशब्दवाच्यमपि किंचिन्नास्ति। इयमेवामृतप्राया विषप्राया चेत्यर्थः । कुत एतदित्याशङ्क्यतत्त्वं साधयति - रक्ताऽनुरागवती चेत् । सैव नितम्बिन्येव । अमृतलता संजीवनी भवती - इत्यर्थः । विरक्ता अनुरागरहिता चेद्विषवल्लरी विषलतामञ्जरी - नि। वल्लरी मञ्जरी स्त्रियामि' त्यमरः • प्राणापहारणी भवतात्यथः । अत्र नितम्बिनीव्यतिरेकेणामृतविषयोरस्तित्वसंबन्धेऽप्यसंब - न्धकथनात संबन्धे असंबन्धरूपातिशयोक्तिः । तथोत्तरार्धे तस्या मोहामृतलतात्वविषवल्लरीत्वरूपणाद्रूपकालंकारः। सच रक्तत्वविरक्तत्त्र ‘यदार्थहेतुक काव्यलिङ्गोत्थितः सन्पूर्वातिशयोक्तिमुज्जीवयतीति संकरः॥  प्रायेणैकार्थमप्यनेक लोकमुक्तिविशेषलोभाल्लिखन्ति कवयः- यथा नैषधे 'आदावेव निपीये'त्यादि श्लोकद्वयं। यथा च माघे-'प्रसाधि- तस्ये'त्यादि श्लोकद्वयमित्यादि ।

आवर्तः संशयानामविनयभवनं पट्टणं साहसानां
दोपाणां सन्निधानं कपटशतप्तयं क्षेत्रमप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरण्डं
स्त्रीयन्त्रं केन सृष्टं विषमपृतमयं प्राणिलोकस्य पाशः॥४५

 व्या.---अथ स्त्रीयन्त्रस्र्ष्टारं दूषयति - आवर्त इति.----संश यानां संदेहाना मावर्तः परिपाकः - सकलदेहास्पदीभूतमित्यर्थः । अविनयानां । भुवनं लोकः । साहसाना पट्टणं नगरं । दोषाणां रागद्वेषादीनां सन्निधानमक्षयनिधिः - कदाचिदाप्यत्र दोषा न क्षीयन्त इति भावः । कपटशतमयमनेककैतवप्रचुरं। बहुविध कैतवा- न्यत्रैव प्राचुर्येण वर्तन्त इति भावः । प्राचुर्ये मयट् । अप्रत्यया- नामविश्वासानां - नि! ' प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुष्वि'त्यमरः। क्षेत्रमुत्पतिभूमिः . अनेकाप्रत्ययोत्पादकमित्यर्थः । स्वर्गद्वारस्य स्वर्गलोकप्राप्तिसाधनस्य । विघ्नः प्रतिबन्धः । नरक- पुरमुखं यमलोकद्वारं - तत्प्रापकमित्यर्थः - नि । 'मुखं तु वदने मुख्ये ताम्रे द्वाराभ्युपाययो' रिति यादवः । सर्वमायाकरण्डमशेष- शाम्बरीविद्येन्द्रजालमहेन्द्रजालपेटिकेत्यर्थः । अमृतमय सुधारूप-विषं बहिरमृतवत्प्रतीयमानं विचार्यमाणे विषप्रायमित्यर्थः। लोकस्य जनसमुदायस्य । माशो बन्धनसाधनं । स्त्रीयन्त्रं स्त्रीरूपकीलकं । केन सृष्टं निर्मितं । ईदृगनर्थाशयन्त्रनिर्मातृत्वेन अस्य कुत्सितत्वमेवेत्यर्थः अत एव केनेत्युक्तं । यद्वा यद्यपि ब्रह्मणैव सृष्टं तथाऽपि ईदृग्दुर्यन्त्र- निर्मातृत्वेन तस्य नामोच्चारणमपि कर्तुं न बुज्यत इति केनेत्युक्तम् ।।   अत्र स्त्रीयन्त्रे पट्टणादिरूपणानिरवयवरूपकालंकारः - तदु - क्तम्

'आरोपविषयस्य स्यादत्तिरोहितरूपिणः।
उपरञ्जकमारोप्यमाणं तद्रूपकम् मतम् ॥ हति' ॥

        स्रग्धरावृत्तम् ।।

नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर
द्वन्द्वं लोचनतां गतं न कनकै रप्यङ्गयष्टिः कृता ।
कि त्वेवं कविभिः प्रतारितनास्तत्त्वं विजाननीय
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दोजनः सेवते॥ ४६

 व्या--इत्थमनर्थैकतन्त्रमपि स्त्रीयन्त्रं कविवाक्प्रपञ्चवञ्चित्तो भूढोऽनुवर्तत इत्याह-नो इति... एष परिदृश्यमानो मृगाकश्चन्द्र स्सत्येन यथार्थेन । अवदनं वदनं संपद्यमानो वदनीभूतः वदनत्वेन परिणत इत्यर्थः - नो न भवतीति शेषः * अभूततद्भावे च्विः * " ऊर्यादिच्चिडाचश्चे' ति गतिसंज्ञायां * · कुगतिप्रादय' इति समासः । तथा इन्दीवरद्वन्द्वं नीलोत्पलयुगलं * · द्वन्द्वं रहस्ये' 'त्यादिना निपातः। लोचनतां लोचनभावं च • न गतं * - तस्य भाव स्त्वतला विति तल् प्रत्ययः । तथा कनकैस्सुवर्णदलैः - यथा चाम्पे- यप्रसूनैरित्यर्थः - काऽपि चाम्पेयगौरीति पद्मिनीस्वरूपनिरूप णात् - नि. : अथ चाम्पेयश्चम्पको हेमपुष्पक' इत्यमरः * 'पुष्प . मूले बहुलमिति लुक | अङ्गयष्टिर्गात्रयष्टिरपि । न कृता न निर्मिता। किं त्वेवमुक्त प्रकारेण वदनं चन्द्र इत्याद्याकारेणेत्यर्थः । कविभिः प्रगल्भवचनै : कवीश्वरैः । प्रतारितमना वञ्चितचित्तः - विमोहि- तस्मन्निति यावत् । मन्दो मूढो जनः । तत्त्वं जानन्नपि नत्विदं चन्द्रः किं तु तत्साम्येन तथा व्यपदिश्यत इति विदन्नपीत्यर्थः। त्वङ्मां- सास्थियमत्यन्तजुगुप्सितमपीत्यर्थः। मृगद्दशा स्त्रीणां । वपुः कळेबरं सेवते संभोगार्थमाश्रयते । विद्वांस्तुनैवमिति भावः ॥   अत्र प्रसारितमनःपदार्थस्य जुगुप्सितवपुराश्रयणपदार्थं प्रति हेतुत्वात्काव्यलिङ्गभेदः । शार्दूलविक्रीडितम् ॥

श्रीमानस जादिलासा
स्त एव मूढस्य ह्रदि स्फुरन्ति ।
मोकिन्धा हि निसर्गसिद्ध
स्तत्र भ्रमत्येव मुधा षडङ्घ्रिः ॥  ४७

 व्या.---'अथ पुरुषाणां भ्रान्तिं सदृष्टान्तमाह - लीलावती - नाभिति.-लीलावतीनां विलासिनीनां । विलास विभ्रमा स्स- हजा नैसर्गिकाः अत एव । तेविलासाः। मूढस्याज्ञस्य । हृदि स्फुरन्ति आत्मगोचरा इमे विलासा इति बुद्धया सर्वदा हृदयपरिस्फुरितः भवन्तीत्यर्थः । एतच्च वृथैवेति भावः ; तथाहि - नलिन्या: । रागो रक्तिमा - अनुरागश्च । निसर्गसिद्धः। किंतु । पडङ्घ्रि- षट्पदः विटश्च ध्वन्यते। वृथा व्यर्थमेव । तत्र नलिन्यां । भ्रमति रागोऽयं मद्रोचर इति भ्रान्त्या पर्येटति - वस्तुतस्तु न तथा : अतो व्यर्थमस्य भ्रमण - मितिभावः ॥  अत्र वाक्यद्वये बिम्बप्रतिबिम्वभावेन साम्यनिर्देशादृष्टान्ता - लंकारः ॥

 'यत्र वाक्यद्वये बिम्बप्रतिबिम्बत्तयोच्यते।
सामान्यधर्मो वाक्यज्ञैस्स दृष्टान्तो निगद्यते' इति लक्षणात् ;

अयं च रागयोर्द्वयोर्भेदेऽपि श्लेषभितिकाभेदाध्यवसायमूलातिशयो - क्तिनिर्व्यूढभ्रान्तिमदुज्जीवितथा प्रस्तुतनलिनीषट्पदविशेषणसाम्या - दप्रस्तुतकामिनीविटप्रतीतिगोचरसमासोक्त्याङ्गेन संकीर्यते ॥     वृत्तमुपजातिः ॥

यदेतत्पूर्णेन्दुधृतिहरमुदाराकृति परं
मुखाब्जं तन्वङ्गाः किल वसति यत्राधरमधु ।
इदं तत्किपाकद्रुपलभिदानीमतिरसं
व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ ४८

 व्या.---अथापातरमणीयरमणीमुखावलोकनेन न विमोहि - तव्यमित्याह - यदिति.-यदेतद्वर्णनीयं तन्वयाः तरुण्या। मुख-

मब्जमिव मुखाब्जं बक्त्रपद्मं कर्तृ । पूर्णेन्दोः पूर्णचन्द्रस्य - द्युतिहरं

कान्तिचोरकं - तत्कल्पमित्यर्थः - अजस्य पूर्णेन्दुद्युतिहरत्वं - विरुद्ध मिति ध्वनिः । तथ।। परमत्यन्त मुदारा रम्या - आकृतिराकारो- यस्य तत्तथोक्तं । किं च यत्र मुखाब्जे । अधरमधरोष्ठसंबन्धि - मधु मकरन्दः - अमृतं वा वसति अस्ति किल - किलेति वार्तायां न तु कदाऽप्यनुभूतमित्यर्थः - प्रसिद्धाब्जे तु मकरन्दो वर्तते - मुखाब्जे तु वार्तामात्रमेव न तु वस्तुतस्तदस्तीति भावः । तदिदं वक्त्रपद्म - मिदानीं अस्मिन् समये प्रारंभकाल इत्यर्थः । अतिरसमतिशयित - माधुर्यगुणयुक्तं रूचिरतरमिति यावत् । किं किमप्यनिर्वाच्यमित्यर्थः - पाकद्रुमस्य बालरसालादिवृक्षस्य - फलम् - अतिरसबालवृक्षफलस्यै - वेत्येतन्निर्देशः - नि. पोतः पाके.ऽर्भको डिम्भ' इत्यमरः । यद्वापाक- द्रुमफलं पचेळिमवुक्षविशेषफलमित्यर्थः - तथाभूतस्यैवात्यन्तरस वत्वादिति भावः। यद्वा किम्पाकमीषत्पक्वं द्रुमफलं तथाभूतस्यैव रुचिविशेषास्पदत्वादिति भावः। अथवा किंपाकाख्यो द्रुमः यस्य फलमापातमधुरं परिणामविषमं च तस्य किं पाकद्रुमस्य - फलं तत्कल्पमित्यर्थः । किंपाकशब्दो निघण्टुन्तरेषु मृग्यः । तस्य । रसाला- दिवृक्षविशेष बाचकत्वे तु कविरेव प्रमाणं । अस्मिन् प्रवर्तमाने काले। व्यतीते अतिक्रान्ते सति विषमिव गरळमिव असुखदं स्वलावण्य- दर्शनजनित सम्मोहेन विवेकभ्रंशे विहिताकरणात्प्रत्यत्राये वाऽत्यन्त- दुःखप्रदमित्यर्थः। भविष्यति । तथा च कालान्तरेऽवश्यं दुःखजन- कत्वात्तादात्तिकसुखलोभेन तरुणीवदनपद्म न विश्वसनीयमिति भावः । शिखरिणीवृत्तम् ।। [किंपाकशब्दश्च विषमुष्टौ निरर्थक चेति शब्दरत्नेकोशे . वर्तते - तस्मात् रसालादिवृक्षान्तःपातित्वं न संभवतीति मन्तव्यम् ]

उन्मीलत्त्रिवळीतरङ्गनिलया प्रोत्तुङ्गपीनस्तन
द्वन्द्वेनोगतचक्रवाकयुगळा वक्त्रान्बुजोद्भासिनी ।

कान्ताकारधरा दीयमभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरण सन्त्यज्यताम् ॥ ४९

 व्या.--अथास्या अनर्थहेतुभूतनदीत्वनिरूपणेन परित्याज्य - त्वमाह - उन्मीलदिति.----तिस्रश्च ताः वळयश्च त्रिवळ्यः इति द्विगु- ‘समासः - यथाह वामनः - · त्रिवळीशब्द संज्ञाचे'ति सूत्रेण सप्तर्षय इतिव ‘दिक्संख्ये संज्ञायामि' ति संज्ञायां द्विगुः। उन्मीलन्त्य उत्पद्यमाना स्त्रिवळ्यो वळित्रयमेव तरङ्गाः - यद्वा त्रित्वसं- ख्यावळ्यस्त्रिवळयः * उत्तरपदलोपी समासः - ता एव तरङ्गा ऊर्म- यस्तेषां - निलया। प्रोत्तुङ्गावत्युन्नतौ - पीनौ पीवरौ च - यौ स्तनौ तयो- द्वन्द्वेन युगळेन हेतुना। उद्गतमुच्चलचक्रवाकयुगलं चक्रवाकाख्यपक्षि - विशेषयुग्मं - यस्याः - स्तनरूपचक्रवाकयुगलेत्यर्थः। वक्त्रमेवाम्बुज- तेनोद्भासते अभीक्ष्णमिति तदुद्भासिनी 'बहुलमाभीक्ष्ण्य मिति णिनिः अभितस्समन्तात् । क्रूरा कुटिलहृदया - नदीपक्षे क्रूरा वक्रगति प्रवाहा-अथवा - अभितस्सर्वतः प्रवर्तमानाः - क्रूरा नक्रादिक्रूरजन्तवो यस्यास्सा। कान्ताकारधरा - कान्तारूपधारिणी। इयं परिदृश्यमाना नदी। अत्रास्मिन् लोके। संसार एवार्णवः - तत्र मज्जनं - नापे - क्षते नाभिलष्यते यदि । तदा अनपेक्षापक्षे - दूरेण संत्यज्यतां दूर - तर एव विसृज्यतां * 'दूरान्तिकार्थेभ्यो द्वितीयाचे' ति विकल्पात्तृ - र्तीया। अन्यथा तत्समाश्रयेण अर्णवमज्जनमेव सिद्धं स्यादिति भावः।।    अत्र समस्तवस्तुवर्ति सावयवरूपकालंकारः ।।        शार्दूलविक्रीडितम् ॥

11

जल्पन्ति सार्ध मन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हद्गतं चिन्यन्त्यन्यं प्रियः को नाम योषिताम् ।। ५०

 व्या.---.इतोऽपि न विश्वासार्हाः स्त्रिय इत्याह द्वाभ्यां - जल्पपन्तीति - अन्येन सार्धमेकेन पुरुषेण सह । जल्पन्ति संलपन्ति । सविभ्रमास्सविलासा स्सत्यः । अन्यं पुरुषं । पश्यन्ति । ह्रद्गतं ह्रद - यस्थमन्वं चिन्तयन्ति । अतो योषितां स्त्रीणां। प्रियः प्रियतमः नियत इति शेषः । को नाम - न कोऽपीत्यर्थः ।।

अपसर सखे दूरा दस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्ट श्शक्य चिकित्सितुमौषधै
चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः॥ ५१ ।

 व्या.-अथ योपितस्सर्पस्वरूपेण सखायं भीषयन् दूरादप - सर्पणमुपदिशति . अपसरेति.---हे सखे बन्धो कटाक्षा अपाङ्ग- वीक्षणान्येव - विषानलो विषाग्निज्वाला - यस्य तस्मात् । प्रकृत्या विषमात् स्वभावत एव कुटिलात् 'प्रकृत्यादिभ्यस्तृतीयाचे 'ति तृतीयासमासः । विलासा विभ्रमा-एव फणाः स्फटा-स्ता बिभर्तीति तथोक्ताम् - नि. 'स्फटायां तु फणा द्वयोरि' त्यमरः। तस्माद्योषि- त्सर्पात्कामिनीरूपव्यालाद्दूरादपसर दूरं गच्छ - योषित्सर्पसमा गमं माकुर्वित्यर्थः । अन्यथा तत्समागमेन दंशनप्रसङ्गाच्चिकित्साय.] दुष्करत्वादिति भावः * 'दूरान्तिकार्थेभ्यो द्वितीया चेति चकारा- त्पञ्चमी । तदेव प्रकटयति-इतरेति . इतरफणिना प्रसिद्धसर्पेण । दुष्टः पुमान् । औषधैः मूलिकामणिमन्त्रादिभिरित्यर्थः ; चिकित्सितुं विषावरोपणेनेज्जिवयितुं शक्यः । चतुरवनिताभोगिना निपुणत - रुणीसर्पेण • ग्रस्तं दष्टं समाक्रान्तं च पुरुषं तु - मन्त्रिणो मान्त्रिकाः • विषवैद्या स्त्यजन्ति विसृजन्ति हि - तन्नासजनितोन्मादस्य दुरव • रोपणत्वादिति भावः ।।  अत्रापि समस्तवस्तुवर्ति सावयवरुपकालंकारः । तेन चोप . मानात्प्रसिद्धसर्पादुपमेयस्य योषित्सर्पस्याधिक्यप्रतीतर्व्यतिरेको व्य- ज्यत इत्यलंकारेणालंकारध्वनिः— हरिणीवृत्तम् - लक्षणं तूक्तम् ॥

विस्तारितं मकरकेतनधीपरेण ।
स्त्रीसंक्ज्ञितं बडिश मत्र भवाम्बुराशौ ।
येनाचिरात्तदधराभिषलोलमर्त्य
मत्स्यान्विकृष्य विषचत्यनुरागवह्नौ ।।  ५२

व्या...पुनः प्रकारान्तरेण भीषयति - विस्तारितमिति - मकरकेतनो मदन - एव धीवरः कैवर्तस्तेन कर्त्रा - नि. 'कैवर्ते दाश- धीवरावि' त्यमरः । अत्रास्मिन् । भवाम्बुराशौ संसारसागरे ; स्त्रीसंज्ञाऽस्यसंजाता स्त्रीसंज्ञितं-योषिद्रूपमित्यर्थ:- तारकादित्वादितच । बडिशं मत्स्यवेधनं - मत्स्यगळग्राहकसामिषवक्रायोयन्त्रमित्यर्थः- नि.---' बडिशं मत्स्यवेधन मित्यमरः । विस्तारितं प्रवर्तितं । येन स्त्रीबडिशेन । तस्य स्त्रीवडिशस्याधरमेवामिषं मांसखण्डं - तत्र लोला सतृष्णा - ये मर्त्या मनुजास्तएव - मत्स्या मीना स्तानचिराद्विकृष्य आकृष्यानुराग एव वह्निस्तत्र विषचति विशेषेण पक्वान् करोति - अत्यन्तं संतापयतीत्यर्थः । मन्मथधीवर एवेति शेषः। सोऽप्येतद्दवा- रैव मनुजान्परिपीडयतीति भावः ॥ अत्रापि पूर्ववद्रूपकालंकारः ॥ वसन्ततिलका॥

कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा सञ्चर मनःपान्थ ! तत्रास्ते स्मरतस्करः ॥  ५३॥

 व्या.----अथ मानसं भीषयति - कामिनीति---पन्थानं गच्छति नित्यमिति पान्थो नित्यपथिकः * 'पन्धो णनित्यमि' ति ण प्रत्ययः पन्थादेशश्च - मन एव पान्थः तस्य संबुद्धिः - हे मन:- पान्थ । कुचावेव पर्वतौ ताभ्यां - दुर्गमे गन्तुमशक्ये । कामिन्याः - कायो देहस्स एव कान्तारमरण्यं - तत्र मा संचर संचार मा कुरु - न प्रवर्तस्व इत्यर्थः । कुतस्तत्र कान्तारे स्मर एव तस्करः चोरः आस्ते वर्तते । स च मानसर्वस्वमपहरिष्यतीति भावः - नि.--'चौरैकागा- रिकस्तेनदस्युतस्करमोषका' इत्यमरः । * तद्वहतोः करपत्योश्चोर-" देवतयोस्सुट्तलोपश्चेति सुडागमतलोपौ ॥     अलंकारस्तु पूर्ववत् ॥

व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिवाहिना वरमहं दष्टो न तच्चक्षुषा ।
दष्टस्सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न वा प्यौषधम् ।।

  व्या...-~अथ त्रिभिः कस्यचिदनुभवमालक्ष्याह - व्यादीर्थे- णेति..-व्यादीर्घेण अत्यायतेन - अन्यत्र कर्णान्तविश्रान्तेन । चलेन चश्चलप्रकृतिना । वक्रगतिना निसर्गकुटिलसंचारेण । समानमेतद्विशे- षणद्वयं । तेजस्विना बलवता अत्युज्ज्वलेन च क प्रशंसायामिनिः । भोगिना फमवता - नि.- भोगस्सुखे स्त्र्यादिभृतावहे श्च फणकाय- योरि' त्यमरः - अन्यत्राभगिनेति च्छेदः - विशालेनेत्यर्थः । नीला- ब्जस्य नीलोत्पलस्य - द्युतिरिव द्युतिर्यस्य तेन - एकत्र तद्वर्णेन - अन्यत्र तत्सदृशेनेत्यर्थः । अहिना सर्पेण । परमत्यन्तम् - अहं दष्टः। किं तु । तच्चक्षुषा तस्याः कामिन्याः चक्षुषा उक्तविशेषणेन । न दष्ट इत्यर्थः । चिकित्सकाः वैद्या धर्मार्थिनः परोपकार एव प्रयोजनमेषा- मस्ति तथा भूतास्सन्तः । दिशि दिशि प्रतिदिशं * नित्यवीप्सयोरि' ति वीप्सायां द्विर्भावः। प्रायेण भूम्ना - सन्ति सर्वत्र सन्तीत्यर्थः। किं तु । मुग्धायाः मुग्धाङ्गनायाः - यदक्षि - यद्वा मुग्धाक्षिसुन्दरा- वलोकनं - तेन सर्परूपेण - क्षणं क्षणमात्रं - वीक्षितस्य दृष्टस्य प्रस्त स्येत्यर्थः - विक्षसस्येति पाठे दष्ट्रस्येत्यर्थः । मे मम तु। वैद्यो न हि चिकित्सको नास्ति हि । औषधं विषहरभेषजमपि च । नास्तीत्यर्थ:- अतो महामोहार्णवनिमज्जनमेव न तु तत्पारगमनमिति भावः ।।  अत्र प्रसिद्धाह्यपेक्षया चक्षूरूपाहेराधिक्यकथनाव्द्यतिरेकालं- कार: - ' उपमानाद्यदन्यस्य व्यतिरेकस्सएव स' इति लक्षणात्॥

इह हि मधुरगीतं नृत्तमेतद्रसोऽयं
स्फुरति परिमळोऽसौ स्पर्शएव स्तनानाम् ।
। इति हत्तपरमार्थैरिन्द्रियैर्भ्राम्यमाणः
स्वहितकरणतधूर्तैः पञ्चभिर्वञ्चितोऽस्मि ।। ५५

 व्या.---इहेति.---इह हि तरूणीष्वेवेत्यर्थः - हि रत्रावधार- णार्थक:- नि.-' हि र्हेताववधारण इ' त्यमरः । मधुरं संतापहरं श्रोत्रसुखावहामित्यर्थः । - शीतलीक्रियते तापो येन तन्मधुरं स्मृत्त मिति वचनात् - तत् - गीतं गानं स्फुरति । एतन्नयनानन्दकरं । नृत्तं नाट्यं । स्फुरति । अयं रसनेन्द्रियस्वादातिशयप्रदः रसः अधरामृतं । स्फुरति। असौ घ्राणतर्पणः । परिमळः पद्मिनीजातिनिमित्तगन्ध- विशेषः घनसारगन्धसारादिलेपनप्रयुक्तामोदविशेषो वा। स्फुरति । एष त्वगिन्द्रियसौख्यावह स्स्तनानां स्पर्शः। स्फुरति । * 'स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेणे ति वामनसूत्रे प्रायग्रहणाद्वहुवचनप्रयोगः। इत्येवंप्रकारेण । हतो विनष्टः - परमार्थस्तत्त्वार्थो - येषां तैः - विषय- परतन्त्ररित्यर्थः । अत एव । स्वहितकरणे - धूतैः कितवैः - आत्महिता- चरणतत्परैरिव स्थितैरित्यर्थः । पञ्चभिरिन्द्रियैः श्रोत्रादिभिः । भ्राम्य- माणस्तत्तद्विषयेष्वासज्यमानस्सन्वञ्चितः प्रतारितोऽस्मि । न चैत त्कैतवं प्रागेवाज्ञासिषमित्यर्थः॥   मालिनीवृत्तम्॥

नगम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशादङ्गे कमपि विदधद्धङ्गमसकृत्
स्मरापस्मारोऽयं भ्रमयति दृशै धूर्णयति च ॥

 व्या.--.अथाङ्गनाव्यामोहजनकं मन्मथं दूषयति-नेति..--- मन्त्राणां गम्यो मन्त्रसाध्यो। न भवति । भैषज्यविषयः औषधाद्य- पनेयश्च न भवति - भेषजमेव भैषज्यमिति विग्रहः स्वाथें ष्यञ्प्र- त्ययः - नि.- भैषजौषधभैषज्यानी' त्यमरः । तथा विविधैर्नाना- प्रकारैश्शान्तिकशतैरनेकशान्तिकर्मभिः। प्रध्वंसं विनाशं चापि । न ब्रजति न गच्छति-  " पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते ।  तच्छान्तिरौषधैर्दानै जपहोमार्चनादिभिः।।” इति स्मरणात् प्रसिद्धस्तु जपादिभिः शाम्यति न त्वयमिति भावः। किं तु भ्रमा- बेशान्मोहोत्पादनात् । अङ्गे शरीरे। कमप्यनिर्वाच्यं। मङ्गं जाट्यं । यद्वा। भ्रमावेशान्मतिभ्रंशापादनात् । अङ्गे करचरणाद्यवयवष्वित्यर्थः। कमपि भङ्गं विक्षेपादिविकारमसकृद्धहुवारं । विदधत्कुर्वन् * दधाते. र्विपूर्वाच्छतृ प्रत्ययः * 'नाभ्यस्ताच्छतु रिति नुमभावः। स्मरा- पस्मारः स्मरप्रयुक्ताङ्गनाव्यामोहरूपापस्माररोगः । दृशं मदीयदृष्टिं । भ्रमयति व्यत्यासयति - अतस्मिंस्तज्ज्ञानं करोतीत्यर्थः। तथा। चूर्णयति चक्रवद्धामयति ध। किमत्र करोमि कथमयं चिकित्स्य इति भावः । यदाहुर्नैदानिकाः - क्रद्वैर्धातुभिराहते च मनसि प्राणी तमस्संविशन दन्तान् खादति फेनमुद्वमति दोः पादौ क्षिपन् मूढधीः । पश्यन् रूपमसत्क्षितौ निपतति प्रायः करोति क्रिया बीभत्साः स्वयमेव शाम्यति गते वेगे त्वपस्माररुक ।।

व्यतिरेकालंकारः ॥ लक्षणं तूक्तम् ॥   शिखरिणीवृत्तम् ॥

जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गळत्कुष्ठाभिभूताय च ।
यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया
पप्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥ ५७

 व्या.----अथ त्रिभिः पण्याङ्गनागर्हणं कुर्वन्निगमयति.--जात्य- "न्धायेति-जात्यन्धाय जन्मप्रभृत्यवसन्नदृशे पुरुषाय च । दुष्कुलाय च । दुर्मुखाय मुखराय बहुगर्ह्यभाषणदूषितवदनायेत्यर्थः - नि.-- 'दुर्मुखे मुखराबद्धमुखा वित्यमरः। यद्वा-दुष्टं व्याध्यादिना जुगुप्सितं-दुर्ग- न्धयुक्तं वा-मुखं यस्य तस्मै । जरया विस्त्रसया - जीर्णानि शिथिलानि कृशानि विश्लथसन्धिबन्धानि च - अखिलाङ्गानि करचरणाद्यशेषाव- यवा - यस्य तस्मै च। ग्रामीणाय ग्रामान्तरादागताय - अज्ञातकुल. गोत्राय पान्थाय चेत्यर्थः । किंबहुना - गळत स्रंसमानं - कुष्ठं कुष्ठ- जनितपूयरक्तादि - तेनाभिभूताय - गर्हिताय च। लक्ष्मीलवश्रद्धया संपल्लेशप्राप्त्याशया। मनोहरमतिसुन्दरं । निजवपुः स्वशरीरं। यच्छ- न्तीष्वर्यन्तीषु - चुम्बनाश्लेषणदन्तनखक्रमादिसंभोगार्थ तदधीनं कुर्वतीष्वित्यर्थः ददाते र्दाण्दाने' इत्यस्माद्धातोश्शतरि उगि- तश्चे' ति ङीप् * 'पाघ्राध्मे' त्यादिना दागो यच्छादेशः । तथा। विवेकः कर्तव्याकर्तव्यविचारस्स एव कल्पलतिका - तस्या-श्शस्त्रीषु छुरिकासु-विवेकविच्छेदकरीष्वित्यर्थः- विवेकस्याप्यखिलार्थसंघटकत्वा- स्कल्पलतिकारूपणमवगन्तव्यं - नि स्याच्छस्त्री चासिपुत्ती च च्छुरिका चासिधेनुके' त्यमरः ॐ वह्मादिभ्यश्चे' ति ङीप्। पण्य- स्त्रीषु वेश्याङ्गनासु। कः पुमान् विवेकरहितोऽपीत्यर्थः । रज्येतानु- रक्तो भवेन्नकोऽपीत्यर्थः - नि.--' वारस्त्री गणिका वेश्या सुलावण्या- ङ्गनाऽपिचे' ति वैजयन्ती ॥ शार्दूलविक्रीडितम् ।।

वेश्यासौ मदनज्वाला रूपेन्धनसमेधिता।
कामिभि र्यत्रहूयन्ते यौवनानि धनानि च ॥

व्या...वेश्येति.---असौ वेश्यारूपं सौन्दर्यमेवेन्धनानि - तैः समिद्धिर्विवर्धिता प्रवर्धिता-मन्मथज्याला मन्मथाग्निज्वाला - नि.'इन्धनं त्वेध इध्ममेधस्समित्स्त्रियामि'त्यमरः। यत्र मदनज्वाला । रूपवेश्यायां। कामिभिः कामुकैः । यौवनानि नूतनवयांसि। * युवादित्वादण्प्रत्ययः । धनानि च। हूयन्ते हव्यरूपेण तत्सात्क्रियन्ते- विलुप्यन्तइत्यर्थः । स्वर्गादिफलकाक्षिभिराहवनीयाग्निज्वालायां ह- चीषीत्रेति भावः ।।  अत्र वेश्यायायारोप्यमाणस्य ज्वालात्वस्य प्रकृतहवनोपयोगि- त्वात्परिणामालंकारः - ' आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम' इति लक्षणात् । स च रूपेन्धनेति रूपकेण संकीर्यते ; रूपकत्वारो- पणस्योपरञ्जकमात्रमेवेति विवेकः॥   अनुष्टुप् ॥

कश्चुम्बति कुलपुरुषो वेश्याधर पल्लवं मनोज्ञमपि ।
चारभटचीरचटेक नटविटनिष्ठीवनशरावम् ॥  ५९

व्या...--क इति। मनोज्ञ सुन्दरमपि । वेश्याया-अधरः पल्लव- मिव इत्युपमितसमासो न त्वधरः पल्लवमिति रूपकं रूपके तूत्तरपद- प्राधान्येन तत्र चुम्बनायोगात् । कः कुलपुरुषः सत्कुलसंभवः पुमान् जातिनीतिकुलाचारधर्मज्ञ इत्यर्थः । चुम्बति न कोऽपीत्यर्थः । कुत एतदित्याशङ्कायामचुम्बनहेतुभूतं विशेषगमाह - जारा गूढपुरुषाः - भटा योधाः - चोरास्तस्कराः - चेटका स्त्रीपुरुषसंधानकुशलाः दौ - त्यकर्मनिरताः - विटाजारा - नटा भूमिकाधरास्तेषां पुरुषापशदानां- निष्ठीवनशरावमुच्छिष्टपात्रं - परमापवित्रमित्यर्थः - चुम्बनसमये तदुच्छिष्टस्य तत्र संक्रमणादिति भावः । अत्र यद्यपि · रतिकाले- मुखं स्त्रीणां शुद्धमाखेटके शुना मि' ति स्मरणात्सुरतसमये पवित्रमेव स्त्रीमुखं तथाऽप्युक्तरीत्या कश्मलसंपर्कात् हेयतया चुम्बनानर्हत्या न्नचुम्बनीयमिति तात्पर्यम् - नि.-'शरावो वर्धमानक' इत्यमरः ॥  अत्र रूपकोपमानुप्रासानां संसृष्टिः ।।

मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् ।
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताडयते ॥ ६०

 व्या.----स्त्रियः बाह्यमधुराः अन्तर्विषाः । अत एव सर्वथा त्याज्या एव न तु ग्राह्या इत्यभिप्रायेणाह - मध्विति.---योषितां स्त्रीणां । वाचि । मधु क्षौद्रं तिष्ठति हृदि हृदये । केवलं प्राधान्येन हालाहलमेव कालकूटविषमेव । अत एव अस्मात्कारणादेव। अधरः अधरोष्ठः । निपीयते अत्र मधु वर्तत इति मत्त्वैव सर्वजनैः आदृत्य नितरां पीयते हृदयं मुष्टिभिः- ताडयते अत्र विषं वर्तत इति मत्वैव सर्वजनैः ताडनं क्रियते । अतः स्त्रियः स्ववचनेषु केवलंमधुधारास्रा- विण्यः - हृदये विषतुल्याभिप्रायवत्यश्च - इति पूर्वार्धे प्रदर्शितम् । उत्तरार्धे तु प्रथमपादे मधुग्रहणं च द्वितीयपादे हालाहलस्थानहदय- ताड़नं चेति प्रदर्शित मित्यभिप्रायः अत्र उत्प्रेक्षातिशयोक्ति काव्यलिङ्ग ध्वनिभेदानां संसृष्टिः ॥                         इति शृङ्गारशतके कामिनीगहणं सम्पूर्णम् ।।


          ॥ सुविरक्तपद्धतिः ॥

धन्यास्तएव धवळायतलोचनानां
तारुण्यदर्पधनपीनपयोधराणाम् ।

क्षामोदरोपरि लसस्त्रिवळीलतानां
दृष्ट्वाऽऽकृति विकृतमेति मनो न येषाम् ॥६१

 व्या.-एवं तावत्कामिनीगहर्णं कृतं-किं विरक्तास्सन्ति वा नवेत्याशङ्कायां सन्त्येवेति मनसि निधाय तत्रापि सुविरक्तदुर्विरक्तभे- देन दॅद्ध्यं प्रतिपादयिष्यन्नादौ सुविरक्तपद्धति वर्णयितुमुपक्रमते - धन्या इत्यादिभिनवभिः - धन्याः इति.-त एव पुरुषा । धन्याः सुकृतशालिनः · सुविरक्ता इति यावत् - नि. 'सुकृतिः पुण्यवान् धन्य' इत्यमरः । ते क इत्याकाङ्क्षाया माह - धवळे पुण्डरीकदल - सदृशे - आयते कर्णान्तविक्षान्ते च - लोचने • यासां तासां । तारु- ण्यदर्पेण यौवनमदोद्रकेण - धनौ निबिदडॅः - पीनौ पीवरौ - पयो - धरौ स्तनौ : यासां तासां। क्षामोदरस्यातिकृशमध्यस्योपर्युपरिष्ट्रा- लल्सन्त्यः प्रकाशमानाः - यानिवळयः - तिस्रश्च ता वळ्यश्च - त्रिव- व्यः के 'दिक्संख्ये संख्यायामि' ति समासः संख्यापूर्वत्वेऽपि सप्तर्षयः' इत्यादिवत् ज्ञेयमित्युक्तं प्राक् । ता लता इव - यासां तासां- तेनैतासां पद्मिनीत्वं सूच्यते । तदुक्तं रतिरहस्ये - 'त्रिवलिललित - मध्याहंसवाणी सुवेषे' ति - सामेत्यत्र के क्षायो मः' इति मत्वं - तथा चेत्थंभूतरूपसंपन्नानां कामिनीना माकृतिमाकाराविशेषं - दृष्ट्वा 'इङ्गितं हृद्तो भावो बहिराकार आकृतिरिति सज्जनः । 'येषां पुरुषाणां मनो विकृति विकारं । तत्परतन्त्रत्वमिति यावत् । नैति न प्राप्नोति । अत एव धन्या इति संबन्धः । एवं निर्विकारचि - तत्त्वं शमसंपन्नानामेव नत्वन्येषामिति भावः । तदुक्तं शमो वैरा -

ग्येन निर्विकारचित्तत्व मिति ।। वसन्ततिलकावृत्तम् ।।

बाले ! लीलामुकुळितममी मन्थरा दृष्टिपाताः
किंक्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते ।
सम्प्रत्यन्ये वयमुपरतं बाल्यमास्था बनान्ते
क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः॥ ६२

 व्या.-अथ पूर्वोपभुक्तकामिनीसंबोधनव्याजेन सुविरक्त - तां प्रकटयति - बाले लीलामुकुलितमिति. हे बाले मुग्धे । लीलया विलासवैचित्र्या - मुकुळितान्यर्धमीलनानि-यस्मिन् कर्मणि तद्यथा तथा । मन्थरा अलसप्रायाः । अमी। दृष्टिपाता विलोकन- प्रसारा: । किं किमर्थ । क्षिप्यन्ते विकीर्यन्ते-नविक्षेप्या इत्यर्थः । किंतु । विरम विरम अभीक्ष्णं विरम - दृष्टिविक्षपादिति शेषः * आभीक्ष्ण्ये द्विर्भावः* व्यान्ड्परिभ्यो रम' इति परस्मैपदं । कुतः - एषोऽयं ते श्रमः कटाक्षविक्षेपजनितायासो व्यर्थो निरर्थकः - अभिमतफलानिष्पत्तेरिति भावः ; नन्वेतावत्पर्यन्तं मदायत्तचि - त्तेषु युष्मासु कथं फलासिद्धिरित्यत आहुः - संप्रतीदानी । वय - मन्ये परे - त्वद्विलासलालसत्वेन संमोहितास्तदानीतनाः इदानी न भवाम इत्यर्थः । कुतः । बाल्यमुपरतं नष्टं - बाल्यशब्देन यौवनं लक्ष्यते - त्वत्पारतन्त्र्यकारियॉवनमुपरतमित्यर्थः । यद्वा - बाल्यमवि- वेकित्वमुपरतं । कित्वास्था परिशीलनादरः । वनान्ते अरण्यमध्ये - वर्तत इति शेषः - किं तु त्वयि रागं परित्यज्य वैराग्येण वनवास - मपेक्षामह इत्यर्थः । तत्कुतः-मोहः अज्ञान। क्षीणो ध्वस्तः । त्वदा - सङ्गजननहेतुर्निर्मूलोऽभूदित्यर्थः । अतो जगज्जालमशेषप्रपञ्चं । तृणमिव निस्सारमालोकयामः - 'निस्पृहस्य तृणं जगदि' ति लक्ष णात्तथा पश्गामः । इदानी झानोदयवशाच मनस्सुखातिरिक्तं सर्व तुच्छमनुसंध्म इत्यर्थः। अतस्त्वया न प्रेक्षणीयमिति भावः ।।

 मन्दाक्रान्तावृनम् - लक्षणमुक्तं - मन्दकान्ता जलधिषड - गैर्मो भनौ तौ गुरूचेत्'।

इयं वाला मां प्रत्यनवरतमिन्दीवरदळ
प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मरकुसुमबाणव्यतिकर
ज्वरज्वाला शान्ता तदपि न वराकी पिरमति ॥ ६३

 व्या..---उक्तमेवार्थं भङ्ग भन्तरेणाह - इयमिति.----इयमेषा बाला - मुग्धा । मां प्रति मामुद्दिश्यानवरतमविच्छिन्नं यथा तथा । इन्दीवरदप्रभाचोमिन्दीवरपत्रकान्तिमोषकं - तत्कल्पमित्यर्थः । चक्षुः। क्षिपति प्रसारयति । अनया बालया । किमभिप्रेतमपेक्षि - तं - तन्नजानामीत्यर्थः । ननु तया त्वत्सङ्गएवापेक्षितस्तत् कुत्तो न जानासीत्याशङ्कायामाह - अस्माकं मोहो गतः उपरतः इदानीमिति शेषः । ननु पूर्वं मामित्येकवचनं प्रयुज्यास्माकमितीदानी बहुवचन - प्रयोगात्कथं सामानाधिकरण्यमुपपद्यत इति चेत्तथाऽपि निवृत्तिमा - गौत्सुकत्वप्रयुक्तात्मसंभावनया बहूकरणं न दोषायेति समाधेयं । यद्वाऽस्मानिति समुदायनिर्देशेन वा न दोषः। तथा स्मर एव-शबरः किरातस्तस्य - बाणव्यतिकरण शरसंपर्केण - यो - ज्वरस्संताप - स्तस्य ज्वाला शान्ता विरतेत्यर्थः । तदपि तथाऽपि । वराकी। न विर मति विरतिं न प्राप्नोति । पूर्व प्राणप्रियतया गरीयस्यां बालायां वरा कीशब्दप्रयोगेणास्यात्यन्तवैराग्यं सूच्यते * 'जल्पभिक्षकुट्टलुण्टे' त्यादिना पाकन्प्रत्यये पित्यान्डीष्प्रत्यये च वराकोति सिद्धम् ।। शिखरिणी वृत्तम् ।।

रे कन्दर्प करं कदर्थयसि कि कोदण्डटङ्कारितैः
रे कोकिल कोमलैः कलरवैः किंवा वृथा जल्पसि ।
मुग्धे स्रिग्घविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणघ्यानमृतं वर्तते ॥ ६४

व्या.--- संप्रति साटोपपरिवारकंदर्पनिराकरणवचनमाह - किमिति...--रे कंदर्प हे मदन - रे इति नीचसंबोधने - नि. 'नीच संबोधने तु रे' इत्यमरः । एवमुत्तरत्रापि । कोदण्डटंकारितं कोदण्ड- टंकारवत्कृतं-धनुर्गुणटंकारपूर्वकमित्यर्थः । तत्करोती ति णिचिणा- विष्ठवद्भावे विन्मतोर्लुक्।' शरं त्वदीयवाणं । किं किमर्थं । कुस्ति तोऽर्थः कदर्थः * - कोः कत्तत्पुरुषेऽची ति कुशब्दस्य कदादेशः - कदर्थं करोषि कदर्थयसि - व्यर्थयसीत्यथः * धात्वर्थे णिचि सिप् । तथा । रे रे कोकिल हे कलकण्ठ । अत्र असूया सम्मति कोप- कुत्सनभर्त्सनेष्वि' त्यसूयार्थे कोपाद्यर्थे द्विरुक्ति:- स्वरित माम्रेडित' इत्यादिना प्राप्तस्य प्लुतस्य * ' साहस मनिच्छता विभाषा वक्तव्य' इति पाक्षिकः प्रतिषेधः- शास्त्रत्यागस्साहसमिति हरदत्तः । कोम- लंरुचिरं । कलरवं मधुरस्वरं - नि. 'काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे कल' इत्यमरः। किं किमर्थ वा । वृथा व्यर्थ । जल्पसि कूजसि व्याहरसीति यावत् - न व्याहर्तव्यमित्यर्थः - प्रयोजनाभावादिति भावः। तथा मुग्धे हे सुन्दरि । स्निग्धा स्सान्द्रा: नि. स्निग्धं तु मसृणे सान्द्रे' इत्यमरः - विदग्धाः विविधविला. . सविशेष विवरणनिपुणाः - 'चारवः इन्दीवशरविन्दादिवत्स्वभावरम - । णीयाः - मधुरास्सुधाधारावन्मनोहराश्च - विशेषणानामपि मिथो - विशेषणविशेष्यभावविवक्षायां विशेषणं विशेष्येण बहुलमि' ति समासः - तै स्तथा । लोलैंर्निसर्गचञ्चलैः। कटाक्षैरपाङ्गावलोकनै रलं - यद्वा स्निग्धैः-

विस्रम्भे परमां काष्टामारूढे दर्शनादिभिः ।
येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते ॥

इत्युक्तलक्षणस्नेहपरिष्कृतैः - तथा - विदग्धैः विरक्तस्यापि मन्मथ- विकारोद्दीपनचतुरैरित्यर्थ:- 'यदर्शने विरक्तोऽपि क्षुभ्यते तत्समन्मथ- मिति लक्षणात्तथा - चारुभिः विषयमात्रविश्रान्तिविरहेण विश्रृ - ङ्खलवृतित्वममन्थरत्वादिगुणशीलत्वस्य विवक्षितत्वात् स्मिताकारैरि- त्यर्थः - तदुक्तं भावप्रकाशे -

अपरिच्छिन्नविषयं मदमन्थमीलितं ।
- स्फुरद्धूपक्षतायुक्तं तत् स्मेरमिति कथ्यते ॥” इति ॥

तथा - मधुरैस्संतापहरैः - 'शीतलीक्रियते तापो येन तन्मधुरं स्मृत मिति लक्षणात् । तथा । लोलैस्सतृष्णै - स्संभोगौत्सुक्यभावना- तत्परैरित्यर्थः । तदुक्तं.---' कटाक्षैर्हासगर्भ॑ैस्तु संभोगौत्सुक्यभावने' ति । कटाक्षः -

" यद्गतागतविश्रान्तिवैचित्र्येण प्रवर्तनं ।
तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ।।

इत्युक्तलक्षणै रलं इत्थंभूतकटाक्षा न प्रवर्तनीया इत्यर्थः * अत्र वारणार्थयोगात् पक्षे तृतीया । ननु कुत एवं निराक्रियत इति चेत्त . त्राह - चेतो - मदीयचित्तं कर्तृ। चुम्बितमास्वाद्यमानं - चन्द्र . चुडस्य चन्द्रशेखरस्य • चरणध्यानमेवामृतं - येन तत्तथोक्तं सत् । वर्तते तिष्ठति - स्मरहरचरणध्यानावधानसत्वर संजातपरमवैराग्योल्ल • सितचित्तं मामेते क्षुद्राः किं करिष्यन्तीत्येको भावः - अमृतपान - परितृप्तस्य किमारनाळेनेत्यपरो भावः - ब्रह्मानन्दभरितस्य किं वैष- यिकक्षुद्रानन्देनेत्यपरतरो भावः - नाहमिदानीं पूर्ववद्युष्मत्किंकरः किं तु शंकरकिंकरः - अतोऽसाध्यस्सिसाधयिषतां युष्माकं कोऽयमपस्मार इत्यपरतमो भावः - सर्वथा नास्माकं कामिन्यपेक्षाऽस्तीति परमों भावः ॥    शार्दूलविक्रीडितम् ।।

विरहेऽपि सङ्गतः खलु परस्परं सङ्गतं मनो येषाम् ।
हृदय मपि विघटितं चेत् सङ्गो विरहं विशेषयति ॥ ६५

 व्या.-अथ पञ्चविषयविरक्तिप्रकारमाह - विरह इति.--- येषां स्त्रीपुरुषाणां । मनः परस्परमन्योन्यं । संगतं अन्योन्यानुराग- बद्धमित्यर्थः । तेषां । विरहेऽपि वियोगावस्थायामपि। संगमः खलु समागम एष खलु 'हृदयसंगम एव सुसंगमो न तनुसंगम एव सुसंगम' इति वचनात् - अन्तरङ्गबलीयस्त्वन्यायाच्चेति भावः - मनोनियमने तु सङ्गः विरहहेतुक एव भवतीत्याह - हृदयमपि मनोऽपि । विघट्टितं सम्यक्षतं - वैराग्यप्रवणीकृतं चेत्यर्थः । सङ्ग स्समागमोऽपि विरहं वियोगमेव । विशेषयति विशिष्टं करोति - तमेवापेक्षाविषयं करोतीत्यर्थः - तदानीं तस्यैवाक्षतत्वादिति भावः अतः सर्वथा मनोनियमनमावश्यकं - तेन चेन्द्रियप्रवृत्त्युपरमे विषया- णामेकान्ततः पराहतिरिति कृत्वा पञ्चविषयविरक्तिर्नामेयमेवेति निगू- ढाभिसंधिः। परस्परेत्यत्र 'कर्मव्यतिहारे सर्वनाम्नो द्वे भवत' इति वक्तव्यात्परशब्दस्य द्विर्भावः समासवच्च बहुळं' - यथा न समा- सवत्प्रथमैकवचनं तथा पूर्वपदस्येति वक्तव्यं - प्रथमैकवचनम् द्विती- याद्येकवचनान्तत्वमपरपदस्येति ॥   आर्याभेदः ॥

किं गतेन यदि सा न जीवति प्राणिति प्रियतमातथाऽपिकिम्
इत्युदीक्ष्य नयमेधमाळिकां न प्रयाति पथिकः स्वमन्दिरम् ॥

व्या.--अथ कस्यचित्प्रवासिनो विरक्तस्य विचाररूपेण वैराग्यं प्रकटयन्नाह - किमिति.-सा मदीया । प्रियतमा प्रेयसी । न जीवति विरहवेदनया प्राणान्नधारयति यदि । तदा । गतेन गम- नेन भावेक्तः । किं ? न किंचिदपीत्यर्थः । यद्वा गतेन गृहमुपगतेन मयेति शेपः। किम् ? अथ प्राणिति केनचिद्विनोदोपायेन जीवति यदि । तथाऽपि प्राणनेऽपि । गतेन किम् ? उभयथाऽपि गमनं व्यर्थमेवेत्य- र्थः। इति विधायेति शेषः । इहैव गम्यमानार्थत्वादप्रयोगः - प्रयोगे वा पौनरुक्त्यमित्यालंकारिकाः। पन्थानं गच्छत्तीति पथिकः-कश्चि- त्पान्थः - ' पथः ष्कन्' इति ष्कन्प्रत्ययः । नवमेघमालिकां नवीन कादम्बिनी . विरहिनिवहसंहारकारिणीमिति भावः । उदीक्ष्य । मन्दिरं निजगृहं । न प्रयाति वैराग्यनिश्चलचित्तत्वादिति भावः - तदुक्तं -

यद्भावि तद्भवत्येव यदभावि न तद्भवेत् ।
इति निश्चितबुद्धीनां न चिन्ता बाधसे क्वचित् ॥” इति ।

 रथोद्धतावृत्तम् ।।

विरमत : बुधा योषित्सङ्गात्सुखात्क्षणभङगुरात्
कुरुत करुणामैत्री प्रज्ञा बधूजनसङ्गमम् ।
न खलु नरके ताराकान्तं धनस्तनमण्डलं
शरण अथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ ६७

 व्या.---- अथ बुधानां तत्र वैराग्यमुपदिशति - विरमतेति.--- हे बुधाः विद्वांसः । योषित्सङ्गाद्युवतिसमागमाद्यत्सुखं तस्मात् । कीदृग्विधात् - क्षणभङ्गुरात् क्षणिकान् क्षणिकसुखप्रदयोपित्सङ्गा - दित्यर्थः - भञ्ज भास भिदो धुरजि' नि धुरच्प्रत्ययः जुगु - प्सा विरामेत्यादिना पञ्चमी । विरमत उपरता भवत - तुच्छसु - खदं योषित्समागमं त्यजतेत्यर्थः व्यापरिभ्यो रम' इति परस्मै - पदं । किंतु करूणा दु:खिष्वनुकम्पा - मैत्री पुण्यकृत्सु मित्रता-प्रज्ञा बुद्धिविशेषः सुखित्वनुमोदितेति यावत् - एनेन पापियूपेक्षा च लक्ष्यते-पतासामेवान्तःकरणमलशोधकत्व वित्तपरिकर्माणीति वदन्ति सांख्या: - ता व वधूजनस्तस्य - संगमं परिशीलनतात्पर्यमिति यावत् । कुरुत । एतेनात्यूर्जितसुखं संभवति - किं क्षणिकसुखावल - म्बनेनेति भावः । विपक्षे बाधकमाह - नरके निरये हाराक्रान्तं मुक्ताहारोपशोभितं घनस्तनमण्डलं पटुतरकुचकलशभारो वा । अथेति वाक्यारम्भे । रणती - मणिमेखला मणिखचितरशना - यस्य तत्त थाक्ते - काञ्चीकलापरमणीयमित्यर्थः । श्रोणीबिम्बं नितम्बमण्डलं वा! शरणं रक्षकं न खलु - न भवति हि । करुणादिसमागमस्तु नैवं भवत्यतस्सएवावश्यं स्वीकर्तव्य इति भावः ॥  हरिणीवृत्तम् - लक्षणं तूक्तम् ॥

यदा योगाभ्यासव्यसनकृशयोरात्ममनसो
रविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमु तैः ।
प्रियागावालापैरधर मधुभिर्वक्त्रविधुभिः
सनिष्वासामोदैः सकुचकलशाश्लेषसुरतैः ।। ६८

 व्या.---.एवं सांख्यरीत्या वैराग्यमुक्त्वा संप्रति योगमतानु - सारेणाह - यदेति-यदा यस्मिन समये - यस्येत्यध्याहारः - उत्त - रत्र तच्छब्दसद्भावात् - तथा च यस्य संबन्धिनः। योगाभ्यास अष्टा ङ्गयोगपरिशीलने - यद्यमनमासक्ति-स्तेन कृशयोस्तत्परतन्त्रयोरित्यर्थः । आत्ममनसोः प्रत्यगात्माडन्तःकरणयोः मैत्री मित्रत्वं - मैत्री व्या- ख्याता । स्फुरति प्रकाशते - योगाभ्यासवशेनाशेषबाह्यविषयान्परि - त्यज्य यदात्माराममेव मनो भवतीत्यर्थः । तदा तस्य कृतिनो धन्य- स्य ? 'इष्टादिम्य श्वे' तीनिप्रत्ययः । तैः किमु - न किमपीत्यर्थः । ते क इत्याशङ्कायामाह - प्रियाणां प्रियतमानां सम्बन्धिभिरालापैः श्रोत्रसुखावह मृदुमधुरव्याहारैश्च । अधरमधुभिः रसनेन्द्रियप्री- तिजनकाऽधरामृतैश्च । तथा निश्वासामोदेन सह सनि- श्वासामोदैः पद्मिनीजातित्वान्निश्वासकघ्राणतर्पणगन्धसंबन्धबन्धुरै . रित्यर्थः । वक्त्रविधुभिर्नयनानन्दकरमुखचन्द्रैश्च - अत्र चन्द्रस्यैक - त्वेऽपि मुखबाहुळ्यात् बहुलत्वसिद्धिः। तथा सकुचकलशाश्लेषाणि कुचकुम्भालिङ्गनसहितानि - यानि सुरतानि त्वगुपस्थेन्द्रियामन्दाना दकरबाह्याभ्यन्तरसंभोगविशेषाः - तैश्च - एवमशेषेन्द्रियग्रामसंतर्पणैरपि तैः किमिति संबन्धः । आत्मानन्दानुभववेलायां तेषामति- तुच्छतया प्रतीयमानत्वादिति भावः ॥  शिखरिणी वृत्तम् ।।

यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदिति ।
इदानीमस्माकं पदुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ ६९

व्या.-अथ वेदान्तरीत्या वैराग्यवर्णनं निगमयति-यदेति.- यदा यस्मिन् काले । स्मरः कामएव - तिमिरं तिमिराख्यनेत्ररोगः - अन्धकारश्च गम्यते-नि । 'तिमिरं नेत्ररोगे स्यादन्धकारेऽपि च स्मृत' मित्यभिधानात् - तस्य - संचारेण व्याप्त्या - जनितमुत्पा - दित मज्ञानमविवेकः आसीत् तदा तस्मिन् काले । अशेषं सर्व - मिदं जगत् । नारीमयं योषिद्रूपमिति । दृष्टमाकलितं . अज्ञानवशा- त्तथाऽवबुद्धमित्यर्थः । इदानीमस्मिन् काले तु । पटुतरः अज्ञाननिर - सनदक्षः - अन्यत्र नेत्ररोगनिराकरणसमर्थश्च - यः विवेकस्तत्त्वज्ञान- मेवाञ्जनं - नेत्रकल्याणाख्यसिद्धाञ्जनं - तज्जुषां प्राप्तवता मस्माकं संबन्धिनी । दृष्ठिर्मतिः • दृक्च । असमा समा संपद्यमाना समी- भूता * अभूततद्भावे च्विः - निजप्रकृतिमापन्ना सतीत्यर्थः । त्रयाणां भुवनानां समाहारस्त्रिभुवनं के ' तद्धितार्थे' त्यादिना समा; सः - पात्राद्यन्तत्वान्न स्त्रीत्वं। बह्म ब्रह्ममयं मनुते - ज्ञानोदयवश द्रक्षस्वरूपमवबुध्यते । यथाऽञ्जनेन नेत्ररोगनिवृत्तौ घटाद्यर्थतत्वज्ञानं जायते - तथा तत्त्वज्ञानेन कामान्धकारप्रयुक्ताज्ञानावरणापाये पर- वस्तुसाक्षात्कारो भवति - ततस्सम्यग्दृष्टया सर्वमिदं ब्रह्माकारतया. पश्यति. अयमेव वेदान्त सिद्धान्त इति भावः । अतो विवेकस्य परश्रेयोहेतुत्वात्तदधिगमार्थमेवं यत्नःकर्तव्य इति तात्पर्यम् ।। रूपकालंकारः ॥ वृत्तं पूर्ववत् ।।     इति शृङ्गारशतके सुविरक्तपद्धतिः संपूर्णा ॥

        ॥दुर्विरक्तपद्धतिः ॥

तावदेव कृतिनामपि स्फुरत्येष निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षु ताडयते चटुललोचनाञ्चलैः ॥७०

 व्या.-- अथैतद्वैलक्षण्येन दुर्विरक्तपद्धतिमाह - तत्रादौ - यदुक्तं कृतिनो विवेकस्फुरणमिति तदेतदपवदति - तावदिति.- । कृतमेभिः कृतिनस्तेषां कुशलानामपि * · इष्टादिभ्यश्चे' तीनि - प्रत्ययः - एष पूर्वोक्तो । निर्मलो निष्कलङ्को विवेकस्तत्त्वावबोध एव दीपःस्वार्थे कः । तावत्तावत्पर्यन्तमेव । स्फुरत्ति दीप्यते । कियत्प- र्यन्तमित्याकांक्षायामाह - कुरङ्गचक्षुषां हरिणलोचनानां । चटुलानि - चञ्चलानि - लोचनाञ्चलानि कटाक्षवीक्षणानि - तै: • कलाप्रायै - रिति भावः। यावत् यावत्पर्यन्तमेव । न ताडयते न निहन्यते - नावलोक्यत इत्यर्थः - तावदेवेति संबन्धः । विवेककुशलोऽपि जन: कामिनीकटाक्षवीक्षितः को वा विवेकनिर्वहणदक्ष इति भावः। यद्यपि नि. ' अञ्चलं त्वंशुकान्तेस्यादि' त्यमरः - तथाऽपि अन्तिमत्वसा - म्यादौपचारिकोऽयं निर्देश इति मन्तव्यम् ।। रथोद्धता ।।

वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम् ।

जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहार्तुं समर्थः ।।७१

 व्या.---अथैषां दुर्विरक्तवाभिद्योतकानीदृशान्येव वचना - । न्याह-वचसीति.-श्रुतिमुखराण्यश्रान्तश्रुतिपाठतत्पराणि मुखानि - येषां तेषाम् - निरन्तरवेदाभ्यसनव्यसनरसनानां वेदान्तपारगाणाम - पीत्यर्थः । पण्डितानां विवकिना! वचसि केवलं वाङ्मात्र एव । सङ्ग- त्यागं वधूसंसर्गत्याग मुद्दिश्य । वार्ता गाथा भवति । नत्वन्तः - करण इति भावः । कुतः - अरुणरत्नग्रन्थिः पद्मरागमणिखचित; काञ्चयेव कलापो भूषणं यस्य तत्तथोक्तं - नि. 'शोणरत्नं लोहि - तकं पद्मरागोऽथ मौक्तिकं ' कलापो भूषणे बह' इति चोभयत्रा • प्यमरः । कुवलयनयनानामिन्दीवराक्षीणां । जघनंकटिपुरोभागं विहातुं त्यक्तुं कस्समर्थः ? न कोऽपीत्यर्थः । प्रायश ईदृशान्येव दुर्विरक्तानां वचनानीति भावः ॥   मालिनी ॥

स्वपरप्रतारकोऽसौ निन्दति योऽळीकपण्डितो युवतीः ।।
यस्मात्तपसोऽपि फल स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ ७२

 व्या.----स इति..----सोऽसावळीकपण्डितः अनृतभाषी - नि. अलीकं त्वप्रियेऽनृत' इत्यमरः । परप्रतारको लोकव़ञ्चकः । कोऽसावित्यत आह-य: अळीकपण्डितो । युवतीः तरुणी: * 'यूनस्तिरिति प्रत्ययः । निन्दति गर्हयति । स इति संबन्धः । नत्र निस्सङ्गत्वाद्युवतिनिन्दाकरणे कथं प्रतारकत्वमत आह-यस्मात्कारणा- त्तपसश्चान्द्रायणादेः व्रतोपवासादिरूपस्य वा । फलं स्वर्गः । तत्र स्वर्गेऽपि चाप्सरस उर्वशीप्रभृतय स्तत्रापि तत्सङ्गम एवेत्यर्थः अतः परप्रतारक इति भावः - नि. स्त्रियां बहुष्वप्सरसस्स्वर्वेश्या उर्वशीमुखा' इत्यमरः - स्वपरप्रतारक' इति पाठेऽध्ययमेवार्थः । योऽळीकपण्डितः पण्डितमानी - रहस्यानभिज्ञ इत्यर्थः । युवतीः निन्दति - असौ स्वस्य परेषां च प्रतारकः - आत्मवञ्चकः परवंचक- श्वेत्यर्थः - कुतः - यस्माविशेषसमान स्वपरफलवेदन बोधनयोः परिज्ञानाभावादुभयवञ्चक इत्यर्थः ॥ आर्याभेदः ।।

मत्तेभकुम्भदळने भुवि सन्ति धीराः
केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ।
किंतु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदळले बिरला मनुष्याः ॥ ७३

व्या-अथ मन्नथस्यात्यन्त दुर्जेयत्वमाह - मत्तेभेति.-- भुवि भूलोके मत्तेभानां मतमातङ्गानां - कुम्भदलने कुम्भस्थलविदा- रणे - समर्था इति शेषः - धीराः शूरास्सन्ति। तथा केचित्पुरुषाः प्रचण्डोऽत्यन्तकोपनः - यो मृगराजः सिंहस्तस्य बधे हिंसायां । दक्षास्समर्थास्सन्ति - गजघातिभ्योऽप्युत्तमाश्शूरास्सम्भवन्तीत्यर्थः । किन्तु बलिनां बलाढ्याना शूराणाम् - ज्ञानवलशालिमामिति च गम्यते । पुरतोऽग्रे । ब्रवीमि निश्शङ्कं करमुद्धृत्य सडिण्डिमघोषमुद्धो- पयामीत्यर्थः । किमुद्धोषयसीत्यत आह - प्रसह्य बलात् - भुजबलाद्बु- द्धिबलाच्चेत्यर्थः । कन्दर्पदलने मदनमदविदारणे ! समर्थाः मनुष्याः। विरळा मृग्याः - प्रायशो न सन्तीत्यर्थः - शंभुं तद्भक्तांश्च विना मद- नविजयिनो न सन्त्येवेति शिवभक्ताग्रेसरस्य कवेर्निगूढतराभिसन्धिः.  अत्र कन्दर्पदर्पेति सकृव्द्यञ्जनद्वयावृत्तेः छेकानुप्रासाख्यशब्दा- लङ्कारः ॥ वसन्ततिलकावृत्तम् ॥

सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते .
यावल्लीलावतीनां न हदि धृतिमुषो दृष्टिबाणाः पतन्ति ।।

व्या.=-अथ च पुनर्वचनवैचित्रीमेवाह - सदिति----नरः - विद्वानपीति भाषः - सन्मार्गे श्रुतिस्मृतिबोधिताचारे। तावत्तावत्प- र्यन्तमेवास्तं वर्तते इन्द्रियाणां चक्षुरादीनां च तावदेव प्रभवति समर्थो भवति - नियमन इति शेषः । लज्जां जुगुप्सितकर्माचरणाच्चे - तस्संकोचलक्षणां व्रीडां च। तावदेव। विधत्ते अनुवर्तते । विनयं नम्रत्वं च। तावदेव समालम्बते स्वीकुरुते। कियत्पर्यन्तमित्याशङ्का - यामाह- भ्रूरेव चापं कार्मुकं - तेनाकृष्टाश्च ते मुक्ताश्चेति विशेषणस - मासः - एकत्र भ्रमपूर्वकमपरत्र चापनमनपूर्वकं च प्रयुक्ता इत्यर्थ:- श्रवणपथगताः श्रोत्रमार्गगताः - एकत्रकर्णान्तविश्रान्तत्वादपरत्र तावत्पर्यन्तमाकर्षणाच्चेति भावः । नीलानि पक्ष्माणि लोमान्यन्यत्र गरु- तश्च येषां ते तथोक्ताः।धृति मुष्णन्तीति धृतिमुषो धैर्यभेदिन गते प्रसिद्धाः लीलावतीनां । विलासिनीनां । दृष्टय एव बाणा: । यावद्या- वत्पर्यन्तं । हदि मानसे वक्षसि । न पतन्ति तावदिति संबन्धः तदनन्तरं सन्मार्गप्रवर्तनादिकं निर्वोढुं कस्समर्थ इति भावः - उक्तं च प्रबोधचन्द्रोदये

'तावद्विवेकविभवस्तावत्सन्मार्गवर्तनं पुंसाम् ।
. निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥ इति ।।
• अत्र द्वितीयार्धंे समस्तवस्तुवर्तिसावयवरूपकालंकारः।
         स्रग्धरावृत्तम् ।।

उन्मत्तप्रेमसंरम्भादारमन्ते यदङ्गनाः ।।
तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ ७५

 व्या.-किं बहुना ब्रह्माऽप्यङ्गनोद्योगप्रत्यूहाचरणे न धीरो भवतीत्याह - उन्मत्तेति..-अङ्गनाः स्त्रियः । उन्मत्तोऽत्युत्कटो - यः प्रेमा अनुराग - स्तस्य संरम्भात्संभ्रमात् - नि. 'संरम्भस्संभ्रमे कोपे' इति विश्वः । यत्कर्म आरभन्ते विहितमविहितं वा कर्तुमुद्यु- ञ्जते तदित्यर्थः - तत्र कर्मणि। प्रत्यूहं विघ्नं - नि। विघ्नोऽन्त - रायः प्रत्यूहः इत्यमरः । आधातुं कर्तुं । ब्रह्माऽपि किमुताऽन्य इति भावः । कातरस्सभयः - असमर्थः - खल्वित्यर्थः - अनिवार्यनिश्च - यानामनावृतानामङ्गनानां को नाम निवारयितेति भावः ।। अनुष्टुप् .

तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता।।
यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः ॥ ७६

 व्या.----तावदिति - महत्त्वं महानुभावत्वं पाण्डित्यं प्राज्ञ - त्वम् । कुलीनत्वं'महाकुलप्रसूतत्वं क ' कुलात्खः ' इति खप्रत्ययः । विवेकिता कर्तव्याकर्तव्यविचारचतुरत्वं च । तावत्तावत्पर्यन्तमेव भवतीति शेषः । यावत् हतो नीचः अश्लाध्यतापादकत्वानिकृष्टः । पञ्च अरविन्दादय इषवो बाणा यस्य सः पञ्चेषुः मदन - स्स एव पावकोऽग्निः । अङ्गेषु । न ज्वलति नाविर्भवति • न सन्तापयती त्यर्थः । तावदिति संबन्धः । तदनन्तरं को वा महत्त्वादिगुणविशिष्ट इति भावः -

• अरविन्दशोकं च चूतं च नवमल्लिका।
नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥' इत्यमरः ।।
अत्र मदने अग्नित्वरूपणा देकदेशवर्ति रूपकम् ।। अनुष्टुप ।।

शास्त्रज्ञोऽपि प्रगुणितनयोप्यात्तबोधोऽपि बाढं
संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम् ।
येनेतस्मिन्निरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ ७७

 व्या.---अथ सांसारिकस्य सद्गतिः दुर्लभेति सहेतुकमाह - शास्त्रज्ञ इति..-शास्त्रज्ञः सकलशास्वरहस्याभिज्ञोऽपि * ' आतोs नुपसर्गेकः' इति कप्रत्ययः । तत्रापि प्रगुणितः प्रकर्षेणावृत्तिविष - यीकृतः - नयो नीतिशास्त्रं - येन स तथोक्तोऽपि - फलवदर्थावबोध - नपर्यन्तं सम्यकपरिशीलितनीतिशास्त्रोऽपीत्यर्थः - प्रगुणशब्दात् * 'तत्करोती ति ण्यन्तात्कर्मणि क्तःणा विध्वद्भावे विन्मतो र्लुक्- नि. 'गुणः स्याद्वृशिशब्दाख्ये ज्येन्द्रियेमुख्यतन्तुषु' इति वैज - यन्ती। तथा बाढं दृढ मात्तबोध उत्पन्नज्ञानोऽपि पुमानस्मिन् परिवर्तमाने । संसारे सद्गतीनां ।भाजनं पात्रम् -योग्य इति यावत् । विरलो मृग्यो। भवति - स्वर्गादिसद्गतिगामी यः कश्चिदेव भवति । न तु बहुळ इत्यर्थः । कुतः - येन कारणेन । एतस्मिन् संसारे । वामा क्षीणां मनोहरनयनानां' बहुव्रीहौ' इत्यादिना पचिषित्त्वात् ङीप्। कुटिळा वक्रा भूर्लतेय भ्रूलता भ्रूवल्ली । कु़ञ्चिकेव विष्कम्भविघटनसा धनवक्राग्रायोमयशलाकेव । निरयनगरस्य यमपुरस्य द्वारम् - लक्ष - णया द्वारपिधानवाटविष्कम्भमित्यर्थः - द्वारशब्देन कवाटस्य तेन च ,, तद्विष्कम्भस्य च लक्षितत्वात् । उद्बाटयन्ती विधट्टयन्ती - व्यामोहो- त्पादनेन दुर्गतौ प्रवेशयन्तीत्यर्थः । भवति खलु - विरक्त इति संब- न्धः । स्त्रीसङ्गिनां कुतस्सद्गतिरिति भावः ॥ उपमालङ्कारः॥ मन्दाक्रा- न्तावृत्तम् ॥

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी मायाक्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधाक्षामो जीर्णः पिठरककपालार्पितगळः
शुनी इन्वेति श्वा हतमपिच न्त्येव बदनः ॥७८

 व्या... अथद्वाभ्यां मन्मथस्य चरित्रवैचित्र्यमाह - कृश इति..-कृशः पिण्डालाभादस्थिचर्मावशिष्टदेहः। काणोऽन्धकः - यद्वा एकाक्षः। खञ्जः पादविकल: - अकार्यकरणेन लगुडप्रहाराद्भग्न- पाद इत्यर्थः । तथा श्रवणरहितः समूलं भिन्नकर्णः पुच्छेन विकल छिन्नलाङ्गूलः के येनाङ्गविकार' इति समासः। व्रणी सर्वाङ्गक्ष- तिमान् । अतः पूयेन क्लिन्नः आर्द्रः। कृमीणां व्रणोत्पन्नापादतुच्छ- जन्तूनां - कुलशतैः अनेककृमिपरम्पराभिरित्यर्थः । आवृता व्याप्ता - तनुर्यस्य स तथोक्तः। क्षुधा बुभुक्षया । क्षामः परिक्षीणः ॐ क्षायो भः' इति मत्वम्। जीर्णः जरया शिथिलावयः। पिठरककपालेन घटमुखक्लयेनार्पितगळ आसञ्जितकण्ठनालः शुनको हि घटमुखे खशिरो निक्षिप्य अन्न भक्षयति-ततस्तावतैव परिपुष्टत्वेनाक्रष्ट्र मश- क्यत्वाद्भुवि विघट्टनेनाधः कपालापाये तन्मुखकपालेनासञ्जितकण्ठो भवतीति प्रसिद्धिः - अत एवंभूत इत्यर्थः-यद्वा-चौर्येणान्नादिभक्षणे तद्दण्डनार्थ भ्राष्ट्रं मध्ये छिद्रं कृत्वा गळे आसञ्जयन्ति-तस्मादित्थंभूत इत्यर्थः । एवं जुगुप्सितोऽपि । श्वा शुनकः । शुनीं सारमेयीमन्वेत्यनु- सरति-निधुवनार्थमिति भावः। तथा हि - हतं विनष्टमपि । मदनो हन्त्येव मनोविकारोल्पादनेन पीडयत्येव - न तु हतहननमन्या- य्यमिति विचारयतीत्यर्थः । शठोऽयं मदनः कं वा कथंभूतावस्थापन्नं न करोतीति भावः। अत्र एवकारोऽत्यन्तायोगव्यवच्छेदार्थः - 'पार्थोधनुर्धरो भवत्येव' इत्युदाहृत्य क्रियागतैवकारस्य तथाभूतार्थ- कत्वानुशासनात् । शिखरिणीवृत्तम् ॥

स्त्रीमुद्रां कुसुमायुधस्य परमां सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ।। ७९

 व्या.---- स्त्रीमुद्रामिति-सर्वार्थानां संपदं करोतीति सर्वार्थ- संपत्करीम्-धर्माऽर्थ कामपुरुषार्थसमृद्धिहेतुभूतमित्यर्थः * ' कृञो हेतुताच्छील्यानुलोम्येष्विति टप्रत्ययः - टित्त्वान्ङीप्। कुसुमायु- धस्य जगज्जैत्रस्य मन्मथस्य। जयिनीम् जयावहामित्यर्थः 'जिदक्षि' इत्यादिना इनि प्रत्ययः । स्त्रीमुद्रां स्त्रीरूपचिह्नां । प्रविहाय यक्ता। ये कुधियो दुर्बुद्धयः। अत एव मूढाः कर्तव्याकर्तव्यविचा रशून्याः मिथ्याफलान्वेषिणः अभूतपरत्वादसत्यप्रायमोक्षफलकाङ्क्षि- णस्सन्तः। यान्ति प्रव्रजन्तीत्यर्थः । ते मूढास्तेन निजमुद्राहासजनि- तकोपेन । कुसुमेपुणैव । निर्दयतरं दयाहीनं यथा तथा! निहत्य नीचैः कृत्वा। केचिन्नग्नीकृताः दिगम्बरीकृताः - नि.-' नग्नोऽवा- सादिगम्बरः' इत्यमरः के अभूततद्भावे च्विः अस्य च्वौ" इति दीर्घः * ऊर्यादिच्चिडाचश्च' इति गतिसंज्ञायां * 'कुगति प्रादयः' इति समासः। केचिन्मुण्डिताः परमहंसीकृताः - न तु सौभाग्यसंपन्नीकृता इत्यर्थः । अतः कुसुमेषुमुद्रारूपाः स्त्रियो न परिहर्तव्या इति भावः : यथालोके राजानस्तीक्ष्णदण्डा निजाज्ञोल्ल- ङ्घनापराधिजनान् कांश्चित्सर्वस्वापहारेण वस्त्रहीनान कुर्वन्ति - कां- श्चित्सर्वतो मुण्डितशिरस्कान् - कांश्चिदर्धमुण्डितमुण्डान् - कांश्चि- जटाधारिणः - कांश्चिकपालभिक्षुकांश्च कुर्वन्ति - तद्वत्रापि इति ध्वनिः ॥  अत्र वैराग्यकृतनग्नत्वादेः कुसुमेषुकृतत्वोत्प्रेक्षणादुत्प्रेक्षालं.. कारः - सा च नूनमित्यादि व्यञ्जकाप्रयोगात् गम्या ॥ शार्दूल. विक्रीडितम् ॥

विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशना
स्तेऽपिस्त्रीमुखपङ्कजे सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयो दधियुतं ये भुञ्जते मानवा
स्तेषामिन्द्रयनिग्रहो यदि भवे द्विन्ध्यः प्लवेत्सागरे । ८०

 व्या.---किं बहुना महर्षयोऽपीन्द्रियनिग्रहसमर्था न जाता इत्युपसंहरति • विश्वामित्रेति.-~-वाताम्बुपर्णान्येवाशनं येषां ते तथोक्ताः शरीरयात्रामात्रोपयोगिवायूदकपरिणतपर्णाहारा एव - न त्विन्द्रियतुष्टिकरमृष्टान्नभोजना इत्यर्थः । विश्वामित्रपराशरप्रभृतयो - विश्वस्य मित्रं विश्वामित्रो गाधिनन्दनः - 'मित्रे चर्षौ' इति दीर्घः पराशरो व्यासपिता - तौ प्रभृती येषां ते तथोक्ताः - प्रभृतिशब्देन शाण्डिल्यादयोऽपि सङ्गह्यन्ते। ये महर्षयस्सन्तीति शेषः । तेऽपि। सुललितमतिसुन्दरम् - नि.- ललितं त्रिषु सुन्दरम्' इति शब्दार्णवे- . स्त्रीणां मेनका रम्भा सत्यवती धान्यमालिन्यादियोषितां । मुखपङ्कजं। दृष्ट्वैवावलोक्येव । मोहं गताः तत्परतन्त्रा जाताः - नस्विन्द्रियनिग्रह- समर्था इत्यर्थः । किंतु ये। मानवास्साधारणमर्त्याः । सघृतमाज्य- प्लुतं। तदधि पयसा क्षीरेण - दध्ना च युतं मिश्रितं शाल्यन्नं कल- माख्यब्रीह्यन्नम् - अत्यन्तवीर्यवृद्धिकरं मृष्टान्नमित्यर्थः। भुञ्जते अभ्य- वहरन्ति भुजोऽनवने' इत्यात्मनेपदम् । तेषां मानवानामिन्द्रिय- निग्रहइन्द्रियनियमस्संम्भवेद्यदि। तदा विन्ध्यः पर्वनः। सागरे। प्लवेत् उन्मज्जेत्। न तु कदाचिदपि विन्ध्यः प्लवति - ग्रावप्लवन स्याश्रुतचरत्वात् - तथाच विन्ध्यप्लवनस्य यथा असंभावितत्वं तथा इन्द्रियनिग्रहस्थापीत्यर्थः । वाताद्यशनानां ऋषीणामवैतादृशावस्थापन् नत्वम्। किमुत मृष्टान्नभोजिनां मानवानामिति भावः ।। अत्रेन्द्रियाणां निग्रह संबधेऽपि विन्ध्यप्लवनदृष्टान्तेनासंबन्धो- क्तेस्संवन्धेऽसंबन्धरूपातिशयोक्तिः ॥ शार्दूलविक्रीडितम् ॥   इति शृङ्गारशतकेविरक्तपद्धति सम्पूर्णा ॥

॥ ऋतुवर्णनम् ॥

परिमळभृतो वाताः शाखा नवाकुरकोटयो
मधुरविधुरोत्कण्ठामाजः प्रियाः पिकपक्षिणाम् ।

विरळविरळखेदोद्गारा बधूवदनेन्दवः
प्रसरति पधौ धात्रत्यां जातो न कस्य गुणोदयः ॥ ८१

 व्या.---प्रासङ्गिकं परिसमाप्य प्रस्तुतशृङ्गारोपयोगितया ऋतुवर्णनं प्रारीप्सुस्तदादौ लोकवेदयोः प्राथम्येन व्यवहाराद्वसन्तं वर्णयति - परिमळेत्यादिभिः षड्भिः परिमळे इति..-वाताः उपवनपवनाः। परिमलं बिभ्रतीति परिमळभृतोविविधकुसुम- सम्मर्द जनितगन्धविशेषबन्धुराः जाना इति शेषः - नि.--. 'विमर्दोत्थे परिमको गन्धे अनमनोहरे' इत्यमरः। शाखाः रसालादितरुस्कन्धाः । नत्राङ्कुराणि नूतनकिसलयानि - कोटि ष्वग्रेषु • यासां तास्तथोक्ताः - पल्लविता जाता इत्यर्थः। पिकप - क्षिणां पिकाख्यपक्षिविशेषाणां । पिकः कोकिलाङ्गना इत्यर्थः - नि. 'कोकिलः पिक इत्यपी' त्यमरः - मधुरा सहकाराङ्कुरकषायास्वाद- लाभात्सगुणा - विधुरा काककृतोपद्रववशाद्दिगुणा च कष्टेति यावत्- या उत्कण्ठा - कूजितौत्सुक्यं - भजन्तीति तथोक्ता - जाता। ‘भजोण्यिः' इति ण्विप्रत्यय- - नि. विधुरस्स्यात्कष्टविश्लिष्टयो - रपि' इति विश्वः। वधूनां - वदनेन्दवो वक्त्रचन्द्रा - विरळविरळाः ग्रीष्मातिरेकाभावान्मन्दप्रकाराः प्रकारे गुणवचनस्य' इति सादृ- श्यार्थे द्विर्भावः - स्वेदोद्गारः श्रमजलनिष्यन्दो - येषां ते तथोक्ता जाताः - अत्रोद्गारशब्दस्य गौणवृत्तिसमाश्रयणान्नग्राम्यकक्ष्यामध्य • पतितत्वमित्युक्तं प्राक् । तथाहि । धात्र्यां भुवि । मधौ वसन्ते । प्रसरति ब्याप्रियमाणे सति कस्य वस्तुनो गुणोदयो गुणोत्कर्षो । न जातः । सर्वस्यापि जायत एवेत्यर्थः ॐ गत्यर्थाकर्मक' इत्यादिना वर्तमाने कर्तरिक्त प्रत्ययः * · मत्तिबुद्धि पूजार्थेभ्यश्च' इति चकारात् वर्तमा- नता - नि. ' अथ पुष्परसे मधु । दैत्ये वसन्ते चैत्रे च' इति विश्व- प्रकाशः ॥ हरिणीवृत्तम् ॥

मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः ।
विरहिण : प्रहिणस्ति शरीरिणो
विपदि हन्त सुधाऽपि विषायते।। ८२

 व्या.---मधुरिति.-~-अयं पूर्वोक्तो मधुर्वसन्तः - सकलचरा- चरोल्लासकर इति भावः। मधुरैः श्राव्यैस्संतापहरैर्वा · शीतली. क्रियते तापो येन तन्मधुरं स्मृतम्' इति लक्षणात्। कोकिलानां पिकसुन्दरीणां - कलरवैरव्यक्त मनोहरैः स्वरविशेषैः - नि. ' काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कलः' इत्यमरः - कोकिले - त्यत्र जातिग्रहणेऽपि कोकिला जातावपि' इति न ङीप् । तथा मलयस्य वायुभिः श्रीखण्डशैलानिलैश्च-अत्यन्तसुखावहैरपीति भावः । विरहिणः शरीरिणः वियोगिजनान् । प्रहिणास्त विनाशयति । तथाहि । विपदि आपत्काले सुधा अमृतमपि विषायते विषमिवाचरति - तद्व- त्प्राणप्रयाणकारी भवतीत्यर्थः * उपमानादाचारे' इति क्यच् * 'अकृत्सार्वधातुकयोदीर्घ'ः इति दीर्घः । हन्तेति विषादे- नि: 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः' इत्यमरः॥   सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः; स च विषा यते इत्यत्रउपमया अङ्गेन सङ्कीर्यते ॥ अनुप्रासश्शाब्दः ॥ द्रुतविल - म्बितवृत्तम् ॥

आवासः किलकिंचितस्य दयिताः पार्श्वे विलासालसा:
कर्णे कोकिलकामिनीकलरवाः स्मरो लतामण्टयः ।
गोष्ठी सत्कविभिः समं कतिपयैः मुग्धाः सितांशोः कराः
केषांचित्सुखयन्त्यवेहि हृदये चैत्रे विचित्राः क्षपाः ॥ ८३

 व्या.---विरहिणामेव कृछ्रं । नत्वन्येषामित्याह - आवास इति - पार्श्वे परिसरे - किलकिञ्चितस्य रोषाश्रुहर्षभीत्यादेस्सङ्करः किलकिश्चितम्' इत्युक्तलक्षण शृङ्गारचेष्टाविशेषस्यावासो निवास - भूतः - अत्राधारमात्रविवक्षयैकवचनग्रहणमिति विवेकः । तथा विलासालसाः लीलामन्थराः - कटाक्षभुजाक्षेपादिविविधविभ्रमाचर- णतत्परा इत्यर्थः - एतेनैतासां स्मरमन्दीकृतव्रीडत्वात्प्रागल्भ्यं सूच्यते। दयिताः प्रियतमाश्च। कर्णे कर्णयोरित्यर्थः * स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण 'इति वामनसूत्रे प्रायग्रहणादेकवचन- प्रयोगः। कोकिलकामिनीनां कलकण्ठाङ्गनानां - कलरवः अव्यक्त- मधुरस्वरश्च - स्मरः ईषद्विकसितकुसुम इत्यर्थः - अत्र कुसुमधर्भ: कुसुमिते उपचर्यते * : ष्मिड् ईषद्धसने' इति धातोः * - 'नमि कम्पि' इत्यादिना रप्रत्ययः । लतामण्टपो लतागृहं च । कतिपयैः कैश्चिदेव - अन्यथा रसाभासात् । सत्कविमिस्सरसविचित्रचारूप्रब- न्धप्रणयनचतुरतरकवीश्वरैः समं । गोष्टीप्रसङ्गश्च । मुग्धा मनो - हरा स्सितांशोः कराश्चन्द्रकिरणाश्च । विचित्रा नानाविधाः । स्रजः पुष्पमालिकाश्च । अत्र अस्मिन् । चैत्रे वसन्ते । केषां चित् अन्येषामे - वेत्यर्थः । हृदयं सुखयन्ति रञ्जयन्ति - न सर्वेषामित्यर्थः । ईदृक्सौ- भाग्यसंपन्नानां विरळत्वादिति भावः || 13  अत्र खलेकपोतन्यायाद्दयितादिबहुकारणानां हृदयरञ्जनरूपैक- कार्यसाधनसमुद्योगकथनाद्द्वितीयस्समुच्चयाऽलङ्कारः - तदुक्तं विद्या नाथेन - खले कपोतन्यायेन बहूनां कार्यसाधने ।' कारणानां समुद्योगस्सद्वितीय स्समुच्चयः ॥' इति ।। शार्दूल विक्रीडितम् ॥

पान्थस्त्रीविरहानलाहुतिकलामातन्वती मञ्जरी
माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ।
अल्पास्ते नवपाटलापरिमलप्राग्भारमाटच्चरा
वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ ८४

 व्या.--पान्थस्त्रीति.-अधुनेदानीम् वसन्तसमय इत्यर्थः । पान्थस्त्रिणां प्रोषितभर्तृकाणां । विरहानलस्य वियोगाग्नेः - आहुतिकलां आहुतिकलनाम् तत्साम्यमित्यर्थः . ' कलाशिल्पे कालभेदे चन्द्रांशे कलना कला' इति वैजयन्ती । आतन्वती आदधाना तद्वदुद्दीपिके - त्यर्थः - तनोतेश्शतरि * 'उगितश्चे' ति ङीप्। माकन्देषु रसालविशेषे षु-विद्यमानेति शेषः । मञ्जरी । पुष्पमञ्जरी । पिकाङ्गनाभिः कोकि - लाभिः । सोत्कण्ठमालोक्यते सानन्दमुद्वीक्ष्यते - इष्टत्वादिति भावः। तथा पाटला फलेरुहाख्यवृक्षविशेषः - नि. पाटलि: पाटला माघा कावस्थाली फलेरुहे' त्यमरः * 'पुष्पमूलेषु बहुलम्' इति लुपि.. युक्तवद्युक्तिवचने भवतः - नवपाटलापरिमलप्राग्भारस्य नूतनपाटे कुसुमगन्धसंपत्तेः - पाटच्चरा मलिम्लुचाः तद्गन्धापहारिण इत्यर्थः । तथा क्लान्तिवितानस्य क्लान्तिसमूहस्य - तानवं तनुत्वं - कुर्वन्तीति फ्लान्तिवितानतानवकृतः ६७ करोतेः क्विप् । अल्पा मन्दाः । ते प्रसि द्धाशैल्यमान्धसौरभ्ययुक्ताः । श्रीखण्डशैलानिला मलयमारुताः वान्ति प्रसरन्ति * ' वागतिगन्धनयोः' इति धातोर्लट् । एतेन विरहिणां दुरन्तदुःखजनकत्व संयुक्तानां परमानन्दकत्वं चास्योक्त - मित्यवगन्तव्यम् ॥  अत्र वियोगाग्निरित्यत्र रूपकम् ; आहुतिकलामित्यत्रोपमया सापेक्षितत्वात्संकीर्णं सच्छाब्देनानुप्रासेन संकीर्यते।। वृत्तं पूर्ववत् ।।

प्रथितः प्रणयवतीनां तावत्पद मातनोतु हृदि मानः ।
भवति न यावच्चन्दनतरुसुरभिर्मलयपवमानः॥ ८५

 व्या.---प्रथित इति--प्रथितः प्रसिद्धः दृढतर इति यावत्। मानः प्रियतमस्यान्यस्त्रीसङ्गित्वजनितेश्याकृतेकापः -  स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये ।  श्रुते वानुमिते दृष्टे । इति दशरूपके । प्रणयवतीनां प्रियतमानां। हदि । तावत्तावत्पर्यन्तं । पदं स्थानं । आत- नोतु करोतु - तिष्ठत्वित्यर्थः ॐ सम्भावनायां लोट् - नि. 'पदं व्यव- सितत्राणस्थान लक्ष्माङ्घिवस्तुषु' इत्यमरः । कियत्पर्यन्तमित्यत आह- चन्दनतरुसुरभिः श्रीखण्डद्रमपरिशीलनसुगन्धिनः - नि. 'सुगन्धौ च मनोज्ञे च सुरभिर्याच्यलिङ्गवत्' इति विश्वः - मलयपवमानो मलयमारुतः । यावत्पर्यन्तं । न भवति न प्रसरति । तावदिति संब - न्धः - सामान्यस्य विशेषपर्यवसानात्प्रसरणार्थत्वं भुवो द्रष्टव्यम् । नि. 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' इत्यमरः' अस्यात्य न्तोपिकत्वान्मानिन्योऽतिदृढमपि निजमानं विहाय प्रियतमपरतन्त्राः स्वयमेव भवन्तीत्यर्थः ॥ आर्याभेदः ।।

सहकारकुसुमकेसरनिकरभरामोदमूर्छितदिर्गते ।
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा॥ ८६

  व्या.--सहकारेति.---सहकारकुसुमानां रसालविशेषप्रसूना नाम्- नि. आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभ' इत्यमरः - ये केसरनिकराः किञ्जल्कपुञ्जाः - तेषां ये भरास्समृद्धयः - तेषामा - मोदेन परिमळविशेषण - मूर्छिता व्याप्ता - दिगन्ता यस्मिन् तस्मिन्। मधुरेण माधुर्यगुणयुक्तेन - मधुना मकरन्देन - विधुरा विह्वला - - उन्मत्ता इति यावत् - मधुपा भृङ्गा यस्मिन् तस्मिन्नित्थमस्योक्त मुदपिकत्वमित्यर्थः । मधौ वसन्ते। कस्य जनस्य स्त्रियो वा पुरु - षस्य वेत्यर्थः । उत्कण्ठा संभोगौत्सुक्यं । न भवेन्नोत्पद्येत अतस्सर्व- स्यापि उत्पद्यत एवेत्यर्थः - अतो मानत्यागो युज्यत इति भावः ।।

अनुप्रासः शब्दालंकारः ॥ वृत्तं पूर्ववत् ॥
अच्छाच्छ चन्दनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौमुदी च।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं व विवर्धयन्ति ।। ८५

 व्या---अथ त्रिभिर्ग्रीष्मं वर्णयति- अच्छाच्छेति.--अच्छा च्छोऽति स्वच्छो - यश्चन्दनरसः पाटीरद्रवः - नि. 'गुणे रागे द्रवे रमः' इत्यमरः । तेन - आर्द्रतरा अत्यन्तार्द्रास्सन्तापशान्त्यर्थं सान्द्रचन्दनपङ्कचर्चिताङ्गा इत्यर्थः । मृगाक्ष्यः तरुण्यश्च । धारागृ - हाणि जलयन्त्रवेश्मानि । कुसुमानि -मल्लिकादीनि । कौमुदी चन्द्रिका च । सुमनसो जात्यास्संबन्धी ग्रीष्मकालेऽतिविकास सम्भवात् । तत्कुसुमपरिशीलनजनितामोदभरित इत्यर्थः - नि. 'सुमनामालती - जातिः' इत्यमरः । मन्दो मरुत् मन्थरगन्धवाहश्च । शुचिशुभ्रं - सुधालेपेनेति भावः। हर्म्यपृष्ठं सौधोपरिप्रदेशश्चेति ग्रीष्म ऋतौ मदं हर्षव्यतिकरं । मदनं च । विवर्धयन्ति उद्दीपयन्ति ।। अत्रापि द्वितीयस्समुच्चयालङ्कार उन्नेयः । वसन्ततिलका वृत्तम्।।

स्रजो हृयामोदा व्यजनपवन श्चन्द्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो
निदाघातावेतत्सुखमुपलमन्ते सुकृतिनः ॥ ८८

 व्या.-स्रज इति.---ह्रद्यामोदा मनोहरगन्धाः । स्रजः पुष्पमालिकाश्च । व्यजनपवनस्ताळवृन्तसमीरणश्व - नि. 'व्यजनं ताळकृन्तकमि' त्यमरः । चन्द्रकिरणाश्च । परागस्सुमनोरजश्च । का- सारः क्रीडासरश्च । परागस्सुमनोरजश्च । कासारः क्रीडासरश्च । मल यजरजश्चन्दनक्षोदश्च ; विशदं निर्मलं शेरते अनेनेति शीधु मद्यं च* शीडोधुक् । इत्यौणादिको धुक्प्रत्ययः । शुचिःशुभ्रः - विहा- रयोग्य इत्यर्थः । सौधोत्सङ्गः -- प्रासादोपरिप्रदेशश्च । प्रतनु पवनं सूक्ष्माम्बरं पङ्कजदृशः पद्मपलाशलोचना श्वेत्येतत्सर्वं भोगसाधनम्

  • ' नपुंसकम् - ' इत्यादिना नपुंसकैकशेषः । निदाघतौं ग्रीष्मतौं *
  • आद्गुणः' विलसति विजृम्भमाणे सति सुकृतिनः पुण्यशालिनः ।

लभन्ते प्राप्नुवन्ति । कथमसुकृतिनामीदृग्भोगसाधनलाभ इति भावः. शिखरिणी ॥

सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्वातिसुरभि ।
स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने
करोत्यन्तः क्षोभं न तु विषयसंसर्ग विमुखे ॥ ८९

  व्या.--सुधेति.---सुधया लेपनद्रव्येण शुभ्रम् । यद्वा सुधा अमृतं तद्वच्छुभ्रम् - 'सुधा - स्याल्लेपनद्रव्येऽमृते च' इति विश्वः । अतिसुरभि अत्यन्तसुगन्धि । रागिणि विषयासक्ते । विषयसंसर्गवि - मुखे विरक्ते - विरक्तस्य तेषामकिञ्चित्करत्वादिति भावः । निगदित- व्याख्यानमन्यत् ॥ वृत्तं पूर्ववत् ।।

तरुणी वेषो दीपितकामा विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा प्रावृट् तनुते कस्य न हर्षम् ॥ ९०

 व्या.-~-अथ वर्षासमयवर्णनमारभते - तरुणीति.-उद्दीपित उत्पादितः - कामो मन्मथः सुरताऽभिलाषो वा - यया सा तथोक्ता। विकसन्ति विकस्वराणि-यानि जातिपुष्पानि तैश्शोभनो गन्धो यस्या स्सातथोक्ता-एकत्र जाती कुसुमविकाससंभवात् - अन्यत्र तत्कुसुमा- लंकृतत्वाच्चेति भावः * 'गन्धस्ये दुत्यूति सुसुरभिभ्यः' । इति गन्ध शब्दस्य इकारान्तादेशः । यद्यपि 'गन्धशब्दस्यत्वेतदेकान्तग्रह - णम्' इत्युक्तम् - तथाऽपि कवीनां निरङ्कुशत्वात्पर्यनुयोगः। उन्नत उत्तुङ्गः - पीन: पीवरश्च - पयोधरभारोऽभोधर बृन्दं च अन्यत्र स्तनभरश्च - यस्याः सा तथोक्ता। नि स्तनाम्भोदौ पयोधरौं'। इति वैजयन्ती । अत एव तरुण्या बेष इव वेषो यस्याः सा कामिनीव मोहनकारिणीत्यर्थः । प्रावृड् वर्षाः कस्य पुंसो। हर्षं संभोगौत्सुक्यं । न तनुते। सर्वस्यापि तनुत एवेत्यर्थः ॥ श्लेषानुप्राणितेयमुपमा ।।

वियदुपचितमेषं भूगयः कन्दळिन्यो
नवकुटजकदम्बामोदिनो गंधवाहाः ।
शिखिकूलकलकेकारावरम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ।। ९१

 व्या.-वियदिति.---उपचिताः परिचिता - मेघा यस्मिन् - तत्तथोक्तम् । घनाघनसंचारवदित्यर्थः । वियत् आकाशं च । कन्द - लानि अङ्कुराणि आसां सन्तीति कन्दलिन्यो । भूमयो भूप्रदेशाश्च । नवो नूतनः -कुटजानां गिरिमल्लिकानां - कदम्बानां नीपकुमुमानां च - आमोदो गन्धविशेष एषामस्तीति तथोक्ता गन्धवाहाः उद्यान- पवनाश्व नि. 'कुटजो गिरिमल्लिका' इत्यमरः । के मूर्ध्नि कायन्ति धनयन्ति केका मयूरवाण्यः- नि. 'केका बाणी मयूरस्य' इत्यमरः - शिखिकुलानां मयूरनिकराणां - या: कलकेकारावा अध्यक्तमधुरकेका स्वरास्तैरम्या मनोहरा ! वनान्ताश्च केळीवनमध्यप्रदेशाश्च । सुखिनं दुःखिनं वा। सर्वम् अशेषं जनम् । उत्कण्ठयन्ति संभोगौत्सुक्यवन्तं कुर्वन्तीत्यर्थः - उद्दीपकत्वादिति भावः । उत्कण्ठाशब्दात् के तत्क- रोति -' इति ण्यन्ताल्लट् । मालिनी ॥

उपरि घनं घनपटलं तिर्यगिरयोऽपि नर्तितमयुराः ।
क्षितिरपि कन्दळधवळा दृष्टिं पथिकः क्व पातयति ॥ ९२

 व्या.----उपरीति.--उपरि उपरिष्टाद्धनं सान्द्रं घनपटलं मेघ वृन्दम् । वर्तत इति शेषः - नि. 'घनाः कठिनसङ्घातमेधकाठिन्य - मुद्गराः' इति वैजयन्ती । तिर्यग् दिक्षु इत्यर्थः । मह्यामतिशयेन रमन्त इति मयूराः * पृषोदरादित्वात्साधुः । नर्तिता नृत्यन्तः स्वार्थ णिचि के गत्यर्थाकर्मक-' इत्यादिना वर्तमाने कर्तरिक्तः * ‘मतिबुद्धी - इति वर्तमानता - यद्वा नर्तिता मेघवृन्देन नाटिताः - मेघोदये तेषां उल्लासवेशेन नाट्यसंभवात् - तथा भूता मयूरा येषु ते तथोक्ता गिरयोऽपि । वर्तन्त इति शेषः । क्षितिरपि भूमिरपि । कन्दलैर्नानाविधाङ्कुरैर्धवला स्वच्छा। अतः पन्थानं गच्छत्तीति पथिकः पान्थः * 'पथष्कन्' इति ष्कन्प्रत्यः । दृष्टिं । क्व कुत्र। पातयति - प्रसारयति न कुत्रापीत्यर्थः - सर्वत्राप्युद्दीपनसंभवा- दिति भावः । महत्कष्टमत्र विरहिणामिति परमार्थः ।। आर्याभेदः ॥

इतो विद्युद्वल्ली विलसितामतः केतकितरोः
स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
इतः केकीक्रीडाकलकलरवैः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः॥ ९३

 व्या.---इत इति.----इतोऽस्मिन्प्रदेशे । विद्युद्वल्लीनां तडि - ल्लतानां - विलसितं - स्फुरणम् । भवतीति शेषः । इतः प्रदेशे केत कितरोः केतक्याख्यवृक्षस्य - तत्कुसुमस्येत्यर्थः * ' यापोः संज्ञा - च्छन्दसो र्बहुलम्' इति ह्रस्वः - कालिदास इतिवत् । स्फुरन्व्याप्नु वानो। गन्धश्च वर्तत इति शेषः । इतः प्रोद्यत्प्रवृद्धं ! जलदनिनदस्य मेघगर्जितस्य - स्फूर्जितं आरवं च । भवतीति शेषः । इतश्च केकिनां शिखावलानां - क्रीडासु केलिषु - यः कलकलरवः कोलाहलध्वनिः - नि. 'शिखावलः शिखी केकी 'कोलाहलः कलकल:' । इति चामरः। यद्वा कलकलरवः अत्यन्ताव्यक्तमधुरप्रकारस्वनश्च । समुज्जृम्भत इति शेषः। पक्ष्मान्यासां सन्तति पक्ष्मला: । सिध्मादित्वा ल्लच्प्रत्ययः - तथाभूता दृशो यासां तासां पारिप्लवलोचनानाम् । एते प्रसिद्धाः । संभृतरसाः संपूर्णशृङ्गाराः , उद्दीपका इत्यर्थः । विरहदिवसा वियु - तवासराः । कथं - यास्यन्ति - अतिक्रमिष्यन्ति न कथंचिदपीत्यर्थः दुरन्तत्वाद्दिनमेकं युगं भविष्यतीति भावः । शिखरिणी वृत्तम् ।।

असूचीसंचारे तमसि नभसि प्रौढजलद-
ध्वनिप्राशभन्ये पतति पृषतानां च निचये।
इदं सौदामन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथिस्वैरसुदृशाम् ॥ ९४

 व्या.--असूचीति.-तमसि अन्धकारे। न विद्यते सूचीसं चारो यस्मि स्तस्मिन्सूच्यग्रमात्रस्याप्यनवकाशप्रदे - गाढतमे सतीति यावत् । तथा । नभसि अन्तरिक्षे च प्रौढः प्रगल्भः - गम्भीर इति यावत् - यो जलदध्वनिर्मेघगर्जितं - तेन - प्राज्ञं वाचाल मात्मानं मन्यत इति प्राज्ञंमन्ये - बहुलतर मेघ निर्ह्रादवति सतीत्यर्थः आत्ममाने खश्च' इति खशि भुमागमः । तथा पृषतानां बिन्दूना च - निचये सन्दोहे पतति सति - नि, पृषन्ति बिन्दुपृषतौ'। इत्यमरः । कनककमनीयं कनकनिकषणरेखासुन्दरमिदं प्रवर्तमानं सौदामन्याविद्युतः - नि. 'तडित्सौदामनी विद्यत्' इत्मरः । विल सितं स्फुरणं (कर्तृ) स्वैरसुदृशां अभिसारिकाणां। पथि प्रियगृह . मार्गे । मुदं मार्गप्रदर्शकत्वासंतोषं। म्लानिं आत्मप्रकाशनहेतुत्वात् म्लानिं च ग्लैम्लैहर्षक्षये' इत्यस्माद्धातोः 'वीज्याज्वरिभ्यो निः' । इत्यौणादिको निप्रत्ययः । प्रथयति प्रकटयति करोतीत्यर्थः । 'कान्ता- भिसरणोद्युक्ता स्मरार्ता साभिसारिका'। इति लक्षणात्। कान्तमुद्दिश्य निगूढमभिसरणशीलानां स्त्रीणामुपयोगानुपयोगाभ्यां हर्षाहर्षहेतु- त्वादिति भावः - नि.-'कान्तार्थिनी तु या याति संकेतं साऽभि सारिका' इत्यमरः ।। वृत्तं पूर्ववत् ।।

आसारेण न हर्म्य॑तः प्रियतमैर्यातुं वहिश्शक्यते
शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्गयते ।
जाताः शीकरशीतलाश्च मरुतो रत्यन्तखेदाच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥ ९५

 व्या.-----आसारेणेति.----प्रियतमै र्वल्लभैरासारेण धारासंपा- तेन हेतुना - नि.-'धारा संपात आसारः। इत्यमरः। हर्म्यतः प्रासादात् - 'धामतः' इति पाठे गृहात् - उभयत्रापि * पञ्चम्या- स्तसिल् - अपपरिबहिरि'त्यादिना समासविधानज्ञापकात् बहि- र्योगे पञ्चमी। बहिर्यातुं। न शक्यते न समर्थ्यते - 'शकुशक्तौ'- भावे लट् - शकधृष' इत्यादिना तुमुन् प्रत्ययः। तथा आयतदृशा दीर्घदृशा तरुण्या। शीतेन - यदुत्कम्पो गात्रवेपथुस्तन्निमित्तम् - तन्निवारणार्थमित्यर्थः। गाढमतिदृढ़ं। समालिङ्गयते परिरभ्यते - पूर्ववल्लट्। तथा। शीकरैरम्बुकणैः - शीतला: शिशिरा • नि. 'शीकरोऽम्बुकणः स्मृतः' इत्यमरः। रत्यन्ते सुरतावसाने - यः खेदः अमस्तं छिन्दन्तीति तथोक्ताः सुरतसंरम्भजनितनमापहारिण इत्यर्थः- 'श्रमः । खेदाऽथ रत्यादे र्जातः खेदातिभूमिकृत्' इति लक्षणात्। मरुतश्च । जाताः प्रसृताः । अतः; धन्यानां पुण्यशालिनां। प्रिया- सङ्गमे प्रियासंभोगे सति। दुर्दिनं दुष्टदिनमपि मेघच्छन्नदिनं च - नि.- मेघच्छन्नेऽह्नि दुर्दिनम्' इत्यमरः। सुदिनतां सुदिवसत्वं याति अन्येषां तु तदेव भवतीत्यर्थः। बतेति विस्मये - नि.-' बत खेदानुकम्पामन्त्रण संतोषविस्मये' इत्यभिधानात् ।।  अत्र दुर्दिन मपि सुदिनतां यातीति स्फुरतो विरोधस्योक्त- समाधाना द्विरोधाभासोऽलङ्कारः - 'आभासत्वे विरोधस्य विरोधा- भास इप्यते' इति लक्षणात् ।। शार्दूलविक्रीडितम् ।।.

अर्धं सुप्त्वा निशायाः सरभससुरतायासखि श्लथाङ्गः
प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते।
सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः ।।

 व्या.--अथैकेन शरदं वर्णयति - अर्धमिति.निशायाः रात्रः अर्धम् - यामद्वयमित्यर्थः . नि. ' पुंस्यर्धोर्धं, समेंऽशक' इत्यमरः अत्यन्तसंयोगे द्वितीया । सुप्त्वा शयित्वा निद्रया याम- द्वयं गमयित्वेत्यर्थः । ततः मध्ये इति शेषः । सरभसं सोद्वेगं - यत्सु - रतमाभ्यन्तरसंभोगः - तेन - य - आयासः । श्रम - स्तेन - सन्नानि परिखिन्नानि अतएव - श्लथानि शिथिलानि - अङ्गान्यवयवा यस्य तथोक्तः  मध्यं नक्तमुदाहृतं शरदि च प्रत्यूषकालो हिमे'। इति भोजवचनादर्धरात्रकृतसुरतपरिश्रान्त इत्यर्थः । एतेनैतस्य - नायकस्य कामतन्त्रकुशलत्वं नायिकायाः शङ्खिनीत्वं च सूच्यते-तृती- ययामस्य तत्सुरतयोग्यकालत्वात् - तदुक्तं रतिरहस्ये -

'रमयति च तृतीये शङ्खिनी मार्द्रभावां
रमयति रमणीयां पद्मिनी तुर्ययामे' ॥ इति -
अन्यत्राऽप्युक्तम् ॥

· कुसुमितवनमध्ये कूचिमारस्तृतीये।
तिमिरनिबिडयामे शङ्खिनी संलभेत' ॥ इति ।

अत एवप्रोद्भूता प्रकर्षेणोत्पन्ना • अत एवासह्या स्वतः शमयितुमश - शक्या-तृष्णा पिपासा-यस्य स तथोक्तः । तथा। मधुना संभोगप्रा- कालीनमद्यपानेन - यो मदो मोहस्तेन निरतः परवशइत्यर्थः - 'मदिरादिकृतो मोहो हर्षव्यतिकरो मद' इति लक्षणात् । विविक्ते विजने - नि. विविक्तौ पूतविजनावि ' त्यमरः - अन्यथा विस्रम्भ- विहाराननुभवादिति भावः । हर्म्यपृष्ठे प्रासादोपरिप्रदेशे । कर्क • रीतः गलन्तिकाख्यसच्छिरकुण्डिकायाः * पञ्चम्यास्तसिः - नि. " कर्कर्याळुर्गळन्तिके ' त्यमरः । संभोगक्लान्तायास्सुरतायासपरिश्रा- न्तायाः - कान्तायारस्वप्रियतमाया:-शिथिलया निस्सहायया - भुजल- तया - आवर्जितं धाराकारेण दत्तमिति स्वादातिशयोक्तिः। शारदं शर कालसंबंन्धि सलिलं हंसोदकमित्यर्थः । ज्योत्स्नया चन्द्रिकया - अभिन्ना मिलिता - अतएवाच्छाधारा यस्मिन् कर्मणि तद्यथा तथा । मन्दपुण्यो भाग्यहीनो - न पिबति - भाग्यसंपन्नस्तु पिवतीत्यर्थः । हंसोदकलक्षण मुक्तं द्रव्यरत्रमालायाम् -  वह्नितप्तमहिमांशुरश्मिभि शीत मम्बु शशिरश्मिभिर्निशि।  एवमेव तदहर्निशं स्थितं तच्च हंसजलनामकं स्मृतम् ' इति- एतत्यानेन गुणसंपत्तिरपि तत्रौवोक्ता -  'प्रसादकं त्रिदोषघ्नं हा लघु च शीतलं ।  वृष्यं मनोहरं स्वादु विषघ्नं कान्तिकृत्परम् ॥ इति- शरद्येतत्पाने नियमश्चाप्युक्तोऽन्यत्र -  कर्पूरागरुजं (१) सिताद्यभिरसै र्हंसोदकं वासितं ।  साौधं चातिमनोहरं शिशिरतो मुग्धाङ्गनालिङ्गनम् ।'  स्रग्धरानृत्तम् ।।

हेमन्ते दधिदुग्धसर्पिरशना मञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपु : छिन्ना विचित्रैरतैः ।
वृत्तोरुस्तनकामिनीजनकृताश्लेषा गृहाभ्यन्तरे
ताम्बूलीदळपूगपूरितमुखा धन्याः सुखं शेरते ॥ ९७

 व्या.---अथ द्वाभ्यां हेमन्तं वर्णयति-हेमन्त इति.-हेमन्ते हेमन्तऋतौ । दधि। प्रसिद्धं-दुग्धसर्पिषी क्षीरघृते - तान्यशनं येषां ते तथोक्ता - ननु दुग्धाज्यादीनां शैत्यावसादकत्वेन सेवनं भवतु - दधिसवनस्य तदतिरेककरत्वात्तत्सेवनं कथं युक्तमिति चेन्न-तस्याप्या युष्कामस्य हेमन्ते सेवनोपयोगात् - तदुक्तं चारुचर्यायामृतुचर्याप्र:- स्ताव सर्वज्ञभोजराजेन

'त्रिषु च दधि निषेव्यं ग्रीष्मकाले वसन्ते
शरदि च परिवर्ज्यं वाञ्छता दीर्घमायुः ।
यदि खलु परिवाञ्छा सेव्यतां सर्वकालं
सहगुडमधुपात्रे शर्करामुद्गयूषैः । ॥

मञ्चिष्ठया रञ्जकद्रव्येण रक्तानि माञ्जिष्ठानि - वासांसि सुरक्तवस - नानि - बिभ्रतीति तथोक्ताः तेन रक्तं रागादि' त्यण्प्रत्ययः - यद्यपि -  'निर्वातं भवनं सुरक्तवसनं वह्नेः परं सेवनम् ॥ इति ॥ वसन्तसमययोग्यत्वेन सुरक्तवसनधारणमभिहितं - तथाऽपि मतान्तरे एव मुक्तमिति न विरोधः। काश्मीरद्रवेण कुङ्कुमपङ्केन - सान्द्रं यथा तथा - दिग्धानि रूषितानि - वपूंषि येषां ते तथोक्ताः । विचित्रै । र्बाह्याभ्यन्तरनिरूपणेन नानाविधैः रतैः - छिन्नाः श्रान्ताः । वृत्तौ वर्तुलो - उरू पीनौ च स्तनौ यासां तास्तथोक्ता याः कामिन्यस्ता एव जन-स्तेन कृताश्लेषाः विहितपरिरम्भाः - तदुक्तं -

कस्तूर्याऽगरुकुङ्कुमैरतिकृतं पानं तटाकस्थितं
शीतं नैव विदीर्यते प्रियतमैरालिङ्गनं कम्बळम् ॥ इति ।

तथा ताम्बूलीदळैनागवल्लीदळैः-पूगैः क्रमुकैश्च - पूरितानि मुखानि वक्रान्तराळानि - येषां ते तथोक्तास्ताम्बूलचर्वणरताः - तत्परा इत्यर्थः - नि.--' घोण्टातु पूगः क्रमुक' इत्यमरः । इत्यंभूता धन्या! सुकृतिनः । गृहाभ्यन्तरे मन्दिरान्तराळे सुखं यथा तथा। शेरते स्वपन्ति * शीडोरुङि 'ति रुडागमः । ताम्बूलस्य मानसोल्लासादि- बहुगुणहेतुत्वात्तचर्वणोक्तिः - तदुक्तं चारुचर्यायां

" मनसो हर्षण श्रेष्ठं रतिदं मदकारणम् ।
मुखरोगहरं हृद्यं दीपनं वस्तिशोधनं ।
मुखशोधि कृमिहरं ताम्बूलं श्रीकरंपरम् ॥” इति;

तत्कालानुगुणोपचारत्वेन च वीर्यवृद्धिकरत्वेन च प्रथमं दधिक्षीराज्य- प्राज्यमृष्टान्नं भुक्त्वाऽनन्तरं कुङ्कुमकस्तूर्यादि मिश्रितचन्दनलेपनपूर्वकं विविधसुरतसंरम्भसंभोगपरिश्रान्ताः कान्तासमालिङ्गितगात्राश्च स- न्तस्ताम्बूलचर्वणरताः सुकृतशालिनस्सुखेन निवातगृहाभ्यन्तरे स्वप- न्तीति समुदायार्थः॥ शार्दूलविक्रीडितम् ॥

प्रोद्यत्प्रौढप्रियङ्गद्युतिभृतिविकसत्कुन्दमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोद्दारमन्दारधाम्नि ।
येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी
तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ।।

 व्या.--प्रोद्यदिति-प्रोद्यन्त्यः उदित्वराः - प्रौढाः प्रवृद्धाश्च याः प्रियङ्गवः फलिन्यः - ताभिर्द्युतिमुपचयजनितशोभां बिभर्तीति तथोक्ते - नि.-'प्रियङ्गुः फलिनी फली' त्यमरः । द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरशब्दः- उपचारात्तदर्थोऽपि द्विरेफ उच्यते * यथाऽऽह कैयटः - "शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते तथा भ्रमरशब्दस्य द्विरेफत्वाद्द्विरेफो भ्रमरः । विकसद्भिः कुन्दैर्माघ्यकुसुमैः- माद्यन्तो द्विरेफा यस्मिन् तस्मिन् - नि.-' माघ्यं कुन्दमि' त्यमरः * 'पुष्पमूलेषु बहुलमि ति लुक् - यद्यपि कुन्द विकसनं शिशिरर्तुलक्षणं तथाऽपि तत्सत्यासत्त्योक्तमिति न विरोधः । प्रळयादागतं प्रालेयं हिमं * 'तत आगत' इत्यण् केकयमित्र युप्रळयानां यादेरिय' इति । यशब्दस्य इयादेश:- प्रालेयवातैस्तुषारवा युभिः - प्रचलं चञ्चलम् - अत एव विलसितं प्रकाशमानमुदारं रम्यं च - मन्दाराणां संतानकतरूणां धाम स्थानं - यस्य तस्मिन् - यद्वा - मन्दाराणां पारिभद्रकतरूणां - धामेति उभयत्राप्युपचयहेतु- त्वादिति भावः - नि.-'पारिभद्रो निम्बतरूर्मन्दारः पारिजातक' इत्यमरः । एवं भूते काले हेमन्तसमये। येषां यूनां तरुणानां तुहि- नक्षोदे शीतनिवारणे - दक्षा कुचकुम्भयोरौष्ण्यसंभवेन तदालिङ्गाना- न्निवारणसमर्थेत्यर्थः। मृगाक्षी तरुणी । क्षणमल्पकालमपि * अत्यन्तसंयोगे द्वितीया। कण्ठलग्ना कण्ठावसक्ता - कण्ठालिङ्गन, तत्परेति यावत् । नो न भवतीत्यर्थः। तेषां यूनां । आयामाः अत्य- न्तदीर्घा - यामाः प्रहराः - यस्यास्सा विरहवेदनावशात्तथा प्रतीय- मानयामेत्यर्थः । यामिनी रजनी यमसदनसमा यमलोककल्पा - दुरन्तदुःखावहेत्यर्थः। याति गच्छति तदानीमङ्गनाप्लवालिङ्गनमन्त- रेण दुरन्तविरहवेदनामहानद्यास्तरितुमशक्यत्वादिति भावः - नि.- 'द्वौयामप्रहरौ समौ । इति - 'रजनी यामिनी तमी इति चाप्यमरः।। अनुप्रासोपमयोश्शब्दार्थालंकारयो स्संसृष्टिः।। स्रग्धरावृत्तम्।।

चुम्बन्तो गण्डभित्तीरलकवतिमुखे सीत्कृतान्यादधानाः .
वक्षस्सूरकञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ।
ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोऽशुकानि
. व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः॥

 व्या.----अथ द्वाभ्यां शिशिरतु वर्णयन् निगमयति - चुम्बन्त इति.-~-कान्ताजनानां - गण्डा भित्तय इव ताः - गण्डभित्तीः कपोलस्थली। चुम्बन्तः - ' स्तननयनकपोलान् चुम्बनस्थानमाहु रिति रतिरहस्योक्तेरिति भावः । अत एवालकवति विश्लेषणवशा- च्चूर्णकुन्तलालंकृते - मुखे - नि.-'अलकाश्चूर्णकुन्तला' इत्यमरः। सीत्कृतानि सीत्कारान् - सीदित्यनुकरणशब्दः। आदधानाः कुर्वा- णा: - उत्पादयन्त इत्यर्थः। वक्षस्सु उरस्स्थलीपु। उत्कञ्चुकेषु उद्थितकूर्पासकेषु सत्स्वपि। स्तनभरेषु - पुलकोद्भेदं रोमाञ्चप्रादुर्भा वमापादयन्तः - इति सात्त्विकोक्तिः। ऊरून सक्थीनि। आकम्प- यन्तः प्रचालयन्तः। पृथु विशालं • यज्जघनतटं जघनप्रदेशस्तस्मादं- । शुकानि परिधानांशुकग्रन्थीनीत्यर्थः । स्रंसयन्तः विश्लथयन्तः । अत एव - व्यक्तं स्फुटं - विटानां पल्लविकानामिव - चरितानि - कृत्यानि बिभ्रतीति तथोक्ताः। शिशिरस्यैते शैशिराः - शिशिरर्तुसंबंधिनः - 'तस्येदमि त्यण् । वाता वान्ति संचरन्ति ; विटसाधारणाविशेषण- विशिष्टत्वाद्वातानां तच्चरितभरणं युक्तमिति भावः - तदुक्तं रतिरहस्ये-

" अलकचुबुकगण्डं नासिकाग्रं च चुम्बन्
पुनरूपहितसीत्कं तालुजिह्वां च भूयः ।
भरितलिखितनाभीमूलवक्षोरुहोरु
श्लथयति धृतधैर्यः श्लाथयित्वाथ नीवीम् ॥” इति ॥

 अत्र विटचरितभृत, इत्यत्र उपमालंकारस्स च व्यक्तमित्य- नेनाभिव्यञ्जित्तोत्प्रेक्षयाङ्गेन संकीर्यत इति संक्षेपः ।। वृत्तं पूर्ववत् ॥ 1+