तृतीयातिथिव्रतमाहात्म्यम्

सुमन्तरुवाच
पतिव्रता पतिप्राणा पतिशुश्रूषणे रता ।
एवंविधापि या प्रोक्ता शुचिः संशोभना सती । । १
सोपवासा तृतीयां तु लवणं परिवर्जयेत् ।
सा गृह्णाति च वै भक्त्या व्रतमामरणान्तिकम् । । २
गौरी ददाति सन्तुष्टा रूपं सौभाग्यमेव च ।
लावण्यं ललितं हृद्यं श्लाघ्यं पुंसां मनोरमम् । । ३
पुंसो मनोरमा नारी भर्त्ता नार्या मनोरमः ।
गौरीव्रतेन भवति राजँल्लवणवर्जनात् । । ४
इदं व्रतं प्रति विभो धर्मराजस्य शृण्वतः ।
उमया च पुरा प्रोक्तं यद्वाक्यं तन्निबोध मे । । ५
मया व्रतमिदं सृष्टं सौभाग्यकरणं नृणाम् ।
मर्त्ये तु नियता नारी व्रतमेतच्चरिष्यति । ।
सह भर्त्रा स मोदेत यथा भर्ता हरो मम । । ६
या च कन्या न भर्तारं विन्दते शोभना सती ।
सा त्विदं व्रतमुद्दिश्य भवेदक्षारभोजना । ।
मच्चित्ता मन्मनाः कुर्यान्मद्भक्ता मत्परिग्रहा । । ७
गौरीं संस्थाप्य सौवर्णीं गन्धालङ्कारभूषिताम् ।
वस्त्रालङ्कारसंवीतां पुष्पमण्डलमण्डिताम् । । ८
लवणं गुडं घृतं तैलं देव्यै शक्त्या निवेदयेत् । १
कटुखण्डं जीरकं च पत्रशाकं च भारत । । ९
गुडघृष्टांस्तथापूपान्खडवेष्टांस्तथा नृप ।
ब्राह्मणे व्रतसम्पन्ने प्रदद्यात्सुबहुश्रुते । । 1.21.१०
शुक्लपक्षे सदा देया यथा शक्त्या हिरण्मयी ।
धनहीने तु भक्त्या२ च मधुवृक्षमयी नृप । । ११
अर्च्या नित्यं संनिधानात्तत्र गौरी न संशयः ।
अक्षारलवणं रात्रौ भुंक्ते चैव सुवाग्यता । । १२
गौरी सन्निहिता नित्यं भूमौ प्रस्तरशायिनी३ ।
एवं नियमयुक्तस्य४ देव्या यत्समुदाहृतम् । । १३
तच्छृणुष्व महाबाहो कथ्यमानं महाफलम् ।
भर्तारं तु लभेत्कन्या यं वाच्छति मनोऽनुगम् । । १४
सुचिरं सह वै भर्त्रा क्रीडयित्वा५ इहैव सा ।
सन्ततिं च प्रतिष्ठाप्य सह तेनैव गच्छति । । १५
हेलिलोकं चन्द्रलोकं लोकं चित्रशिखण्डिनः ।
गत्वा याति सदो राजन्वामदेवस्य भारत । । १६
विधवा तु यदा राजन्देव्या व्रतपरायणा६ ।
भर्त्तारं नियता नित्यं सदार्चनपरायणा । । १७
इह चोत्सृज्य देहं स्वं दृष्ट्वा हरिपुरे प्रियम् ।
आक्षिप्य यमदूतेभ्यः सह भर्त्रा रमेद्दिवि । । १८
वर्षकोटिं दशगुणां रमित्वा सा इहागता ।
भर्त्रा सहैव पूर्वोक्तं लभते फलमीप्सितम् । । १९
इन्द्राण्यापि व्रतमिदं पुत्रार्थिन्या नराधिप ।
लब्धः पुत्रो व्रतस्यान्ते जयन्तो नाम नामतः । । 1.21.२०
अरुन्धत्या तथा चीर्णं वशिष्ठं प्रति कामतः ।
दृश्यते दिवि चाद्यापि वशिष्ठस्य समीपतः । । २१
रोहिण्या लवणत्यागात्सपन्नीगणमर्दनम् ।
लब्धं देव्याः प्रसादेन सौभाग्यमचलं दिवि । । २२
इत्येषा तिथिरित्येव तृतीया लोकपूजिता ।
सदा विशेषतः पुण्या वैशाखे मासि या भवेत् । । २३
पुण्या भाद्रपदे मासि माघेप्येवं न संशयः ।
माघे भाद्रपदे चापि स्त्रीणां धन्या१ प्रचक्षते । । २४
साधारणी तु वैशाखे सर्वलोकस्य भारत ।
माघमासे तृतीयायां गुडस्य लवणस्य च । ।
दानं श्रेयस्करं राजन्स्त्रीणां२ च पुरुषस्य च । । २५
गुडेन तुष्यते दत्तो लवणेन तु विश्वभूः ।
गुडपूपास्तु दातव्या मासि भाद्रपदे तथा । । २६
तृतीयायां तु माघस्य वामदेवस्य प्रीतये ।
वारिदानं प्रशस्तं स्यान्मोदकानां च भारत । । २७
वैशाखे मासि राजेन्द्र तृतीया चन्दनस्य च ।
वारिणा तुष्यते वेधा मोदकैर्भीम एव हि । ।
दानात्तु चन्दनस्येह कञ्जजो नात्र संशयः । । २८
यात्वेषा कुरुशार्दूल वैशाखे मासि वै तिथिः ।
तृतीया साऽक्षया लोके गीर्वाणैरभिनन्दिता । । २९
आगतेयं महाबाहो भूरि चन्द्रं वसुव्रता ।
कलधौतं तथान्नं च घृतं चापि विशेषतः । ।
यद्यद्दत्तं त्वक्षयं स्यात्तेनेयमक्षया स्मृता । । 1.21.३०
यत्किञ्चिद्दीयते दानं स्वल्पं वा यदि वा बहु ।
तत्सर्वमक्षयं स्याद्वै तेनेयमक्षया स्मृता । । ३१
योऽस्यां ददाति करकन्वारिबीजसमन्वितान् ।
स याति पुरुषो वीर लोकं वै हेममालिनः । । ३२
इत्येषा कथिता वीर तृतीया तिथिरुत्तमा ।
यामुपोष्य नरो राजन्नृद्धिं वृद्धिं श्रियं भजेत् । । ३३

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां ब्राह्मे पर्वणि तृतीयाकल्पविधिवर्णनं नामैकविंशोऽध्यायः । २१ ।