विघ्न-विनायककथावर्णनम्

शतानीक उवाच
केनायं भीमजो विप्र प्रमथाधिपतिः कृतः ।
भर्तृत्वे चापि विघ्नानामधिकारी कथं बभौ । । १
सुमन्तुरुवाच
साधु पृष्टोऽस्मि राजेन्द्र यदयं विघ्नकारकः ।
यैर्वापि विघ्नकरणैर्निर्युक्तोऽपि विनायकः । ।
तत्ते वच्मि महाबाहो शृणुष्वैकमनाधुना । । २
आद्ये कृतयुगे वीर प्रजासर्गमवाप ह ।
दृष्ट्वा कर्माणि सिद्धानि विना विघ्नेन भारत । । ३
अगतक्लेशां प्रजां दृष्ट्वा गर्वितां कृत्स्नशो नृप ।
बहुशश्चिन्तयित्या तु इदं कर्म महीपते । । ४
विनायकः समृद्ध्यर्थं प्रजानां विनियोजितः ।
गणानां चाधिपत्ये च भीमः कञ्जजसात्त्वतैः । ।
ततोपसृष्टो यस्तस्य लक्षणानि निबोध मे । । ५
स्वप्नेवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ।
काषायवाससश्चैव क्रव्यादांश्चाधिरोहति । । ६
अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ।
व्रजमानस्तथात्मानं मन्यतेऽनुगतं परैः । । ७
विमना विफलारम्भः संसीदत्यनिमित्ततः ।
करटारूढमात्मानमम्भसोन्तरगं तथा । । ८
पत्तिभिश्चावृतं यान्तं सङ्गमनान्तिकं नृप ।
पश्यते कुरुशार्दूल स्वप्नान्ते नात्र संशयः । । ९
चित्तं च विकृताकारं करवीरविभूषितम् ।
तेनोपसृष्टो लभते न राज्यं पौर्वसंभवम् । । 1.23.१०
कुमारी न च भर्तारमपत्यं गर्भिणी तथा ।
आचार्यत्वं श्रोत्रियश्च शिष्याश्चाध्ययनं तथा । ।
वणिग्लाभं च नाप्नोति कृषिं चैव कृषीवलः । । ११
स्नपनं तस्य कर्तव्यं पुण्येऽहनि ' महीपते ।
गौरसर्षपकल्केन साज्येनोत्सादितेन तु । । १२
शुक्लपक्षे चतुर्थ्यां तु वासरे धिषणस्य च ।
तिष्ये च वीरनक्षत्रे तस्यैव पुरतो नृप । । १३
सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्ति वाच्य द्विजाञ्छुभान् । । १४
व्योमकेशं तु सम्पूज्य पार्वतीं भीमजं तथा ।
कृष्णं सपितरं तात पवमानं सितं तथा । । १५
धिषणं चेन्दुपुत्रं च कोणं केतुं च ३ भारत ।
विधुन्तुदं बाहुलेयं नन्दकस्य च धारिणम् । । १६
अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्ह्रदात् ।
मृत्तिकां रोचनां गन्धान्गुग्गुलं चाप्सु निक्षिपेत् । । १७
यदाहृतं ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ।
चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं तथा । । १८
सहस्राक्षं शतधारमृषिभिः १ पावनं कृतम् ।
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते । । १९
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः । । 1.23.२०
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद् घ्नन्तु ते सदा । । २१
स्नातस्य सार्षपं तैलं सुवेणौदुम्बरेण तु ।
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य तु । । २२
मितश्च सम्मितश्चैव तथा च शालकंटकः ।
कूष्माण्डो राजश्रेष्ठास्तेऽग्नयः स्वाहासमन्विताः । । २३
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः । । २४
कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।
मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेव तु । । २५
पुष्पं चित्रं सगन्धं च सुरां च त्रिविधामपि ।
मूलकं पूरिकाः पूपांस्तथैवोण्डेरिकास्रजम् । ।
दधिपायसमन्नं च गुडवेष्टान्समोदकान् । । २६
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।
दूर्वासर्षपपुष्पाणां दत्त्वा पुष्पाञ्जलित्रयम् । । २७
रूपं देहि यशो देहि भगं भगवति देहि मे ।
पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे । ।
अचलां बुद्धिं मे देहि धरायां ख्यातिमेव च । । २८
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
भोजयेद् ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि । । २९
एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।
कर्मणां फलमाप्नोति श्रियं प्राप्नोत्यनुत्तमाम् । । 1.23.३०
आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ।
विनायकपतेश्चैव सर्वसिद्धिमवाप्नुयात् । । ३१

इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पवर्णनं नाम त्रयोविंशोऽध्यायः । २३ ।