भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०३०

विनायकपूजाविधिवर्णनम्

सुमन्तरुवाच
निम्बमयमङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा नित्यधूपगन्धादिभिरर्चयित्वा प्रच्छन्नं शिरसि बद्ध्वा गच्छेत् । ।
सर्वजनप्रियो भवति । श्वेतार्कमूलाङ्गुष्ठमात्रं गणपतिं कृत्वा धूपादिभिरर्चयित्वा सर्वान्वर्णान्वशमानयति ।।
श्वेतचन्दनमङ्गुष्ठमात्रं गणपतिं कृत्वा पुष्पगन्धादिभिरर्चयित्वा शुक्लचतुर्थ्यामष्टम्यां वा बलिं कुर्यादष्टसहस्रं जुहुयाद्दध्ना पायसेन राजानं वशमानयति ।
रक्तचन्दनमयं गणपतिमङ्गुष्ठमात्रं कृत्वा भौतिकं बलिं दद्याद्दधिमधुघृताहुतीनां गणपतिमष्टसहस्रं जुहुयादात्मप्रापिकां प्रजां वशमानयति । रक्तकरवीरमूलाङ्गुष्ठपर्वमात्रं गणपतिं कारयेत् । ।
रक्तपुष्पगन्धोपहारैर्बलिं दद्यात् । तिललवणघृतेनाष्टसहस्रं जुहुयात् । दशग्रामान्वशमानयति । ।
श्वेतकरवीराङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा तिलपिष्टदधिघृतक्षीरहरिद्रामिश्रेणाष्टसहस्रं
जुहुयाद्वेश्यां वशमानयति । ।
अश्वत्थमूलाङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा गन्धपुष्पधूपबलिं दत्त्वा शतं जुहुयाच्छत्रुं वशमानयति । ।
अर्कमूलाङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा गन्धपुष्पधूपबलीन् दद्यात् ।
तिन्दुकाष्टशतं जुहुयाच्छत्रुं वशमानयति । ।
बिल्वमूलमयमङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा गन्धपुष्पधूपार्चितं कृत्वा त्रिमध्वक्तानामष्टसहस्रं जुहुयाद्राजामात्यान्वशमानयति । ।
शिरसि धूपान्धृत्वा गच्छेद्राजद्वारं विग्रहे जयो भवति ।
हस्तिदन्तमृत्तिकामयमङ्गुष्ठपर्वमात्रं गणपतिं कारयेत् । ।
गन्धपुष्पधूपार्चितं कृत्वा. कृष्णचतुर्थ्यां नग्नो भूत्वाभ्यर्चयेत् ।
सप्त वाराञ्जपेन्नित्यं १ नारीणां सुभगो भवति । ।
वृषभशृङ्गमृत्तिकाङ्गुष्ठमात्रं गणपतिं कारयेत् ।
गन्धपुष्पार्चितं कृत्वा गुग्गुलुधूपं दद्याद्घोषपतिं वशमानयति । ।
अथ वा वल्मीकमृत्तिकांगुष्ठपर्वमात्रं गणपतिं कारयेत् ।
कटुकतैलेन प्रतिमां लेपयेत् । ।
उन्मत्तककाष्ठेनाग्निं प्रज्वाल्याहुतीनामष्टसहस्रं जुहुयात्तिलसर्षपमिश्रेण सर्वधूपं दद्यात्त्रिकटुकेन लेपयेत् । ।
अगरुधूपं दद्याद्राजानं वशमानयति । परेषां च वल्लभो भवति । रक्तचन्दनेनात्मानं धूपयेत्सुभगो भवति । ।
ॐ गणपतये वक्रतुण्डाय गजदन्ताय गुलगुलेतिनिनादाय२ चतुर्भुजाय त्रिनेत्राय मुशलपाशवज्रहस्ताय सर्वभूतदमनाय सर्वलोकवशंकराय सर्वदुष्टोपघातजननाय सर्वशत्रुविमर्दनाय सर्वराज्यसमीहनाय राजानमिह वशमानय हन हन पच पच वज्राङ्कुशेन गणेश फट् स्वाहा ।
ॐ गां गीं गूं गैं गौं गः स्वाहा नमः हदयं मूलमन्त्रस्य ।
ॐ कः शिरः, ॐ खः शिखा, ॐ गः हदयम्, ॐ गुः वक्त्रं, ॐ गैं नेत्रम् । ॐ घः कवचम्, ॐ ङ आवाहनं हदयस्य आवाहनाङ्गानि भवन्ति ॐ नमः हदयं मूलमन्त्रस्य, ॐ गाः शिरः, ॐ गैः नमः शिखा ॐ गौः नमः कवचम्, ॐ गं नमः नेत्रे, ॐ गः फट् अस्त्रम् । ।
ॐ अङ्गुष्ठोल्काय स्वाहा आवाहनं हदयस्य स्वाहा विसर्जनं हदयस्य ॐ गन्धोल्काय स्वाहा । ।
गन्धमन्त्रः । । ॐ धर्मभूतोल्काय स्वाहा । । पुष्पमन्त्रः । । दुर्जयाय १ पूर्वेण । ॐ धूर्जटये दक्षिणेन ।
ॐ लम्बोदराय पश्चिमतः । ॐ गणपतये उत्तरतः । ॐ गणाधिपतये ऐशान्याम् । ॐ महागणपतये आग्नेय्याम् । ॐ कूश्माण्डाय नैर्ऋत्याम् ।
ॐ एकदन्तत्रिपुरघातिने२ त्रिनेत्राय वायव्याम् । ॐ महागणपतये विद्महे वक्रतुण्डाय धीमहि । ।
तन्नो दन्तिः प्रचोदयात् । । गायत्री । ।
पद्मदंष्ट्रामालाप्रकर्षणीपरश्वंकुशपाशपटहमुद्रा अष्टौ मुद्रा दर्शयित्वा ततः कर्माणि कारयेत् । ।
कृष्णतिलाहुतीनामष्टसहस्रं जुहुयात् । राजानं वशमानयेत् । ।
आवाहनाद्येकादशमुद्रा नैवेद्यान्तं क्रमाद्दर्शयेत् । ।
आराधयेद्येन विधिना त्रिनेत्रं शूलिनं हरम् ।
तेनैवाराधयेद्देवं विघ्नेशं गणपं नृप । । १
तदेव मण्डलं चास्य अङ्गन्यासस्तथैव च ।
ऋते मन्त्रपदानीह समानं सर्वमेव हि । । २
पूजयेद्यस्तु विघ्नेशमेकदन्तमुमासुतम् ।
नश्यन्ति तस्य विघ्नानि न चारिष्टं कदाचन । । ३
यश्चोपवासं कृत्वा तु चतुर्थ्यां पूजयेन्नरः ।
सर्वे तस्य समारम्भाः सिध्येयुर्नात्र संशयः । ।४
यस्यानुकूलो विघ्नेशः शिवयोः कुलनन्दन ।
तस्यानुकूलं सर्वं स्याज्जगद्वै सर्वकर्मसु । । ५
तस्मादाराधयेदेनं भक्तिश्रद्धासमन्वितः ।
कुङ्कुमागुरुधूपेन तथैवोण्डीरकस्रजा । ।
३पललोल्लापिकाभिश्च जातिकोन्मत्तकैस्तथा । । ६
शुक्लपक्षे चतुर्थ्यां तु विधिनानेन पूजयेत् ।
तस्य सिध्यति निर्विघ्नं सर्वकर्म न संशयः । ।७
एकदन्ते जगन्नाथे गणेशे तुष्टिमागते ।
पितृदेवमनुष्याद्याः सर्वे तुष्यन्ति भारत । । ८
तस्मादाराधयेदेनं सदा भक्तिपुरःसरम् ।
कर्णलेपैस्तुण्डिकाभिर्मोदकैश्च१ महीपते । ।
पूजयेत्सततं देवं विघ्नविनाशाय दन्तिनम् । । ९

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे विनायकपूजाविधिनिरूपणं नाम त्रिंशोऽध्यायः । ३० ।