ब्राह्मणसंस्कारविवेकवर्णनम्

ब्रह्मोवाच
अपरैश्च सदाचारयोगयुक्तैर्मनीषिभिः ।
यदकारि महासत्त्वैः सुभाषितमिदं शृणु । । १
बहुवनस्पतिशङ्खपिपीलिकाभ्रमरवारणजातिमुदाहरन्।
गतिषु कर्ममितो नटवत्सदा भ्रमति जन्तुरलब्धसुदर्शनः । । २
रूपैश्वर्यज्ञानकुलैर्विभवैर्वर्मितो भूत्वा धर्मपथं चेद्विजहासि ।
न वक्ष्ये व्रजन्भुवनानि त्वमटिष्यंस्तस्मादभिभस्मीभूते मद आत्मनः । । ३
जातिकुलरूपवयोवर्णानेकश्रुतमदान्धाः क्लीबाः ।
परत्र चेह च हितमप्यर्थं न पश्यन्ति । ।४
ज्ञात्वा भवपरिवर्ते जातीनां कोटिशतसहस्रेषु ।
हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् । । ५
नैकाञ्जातिविशेषानिन्द्रियनिवृत्तिपूर्वकान्सर्वान् ।
कर्मवशाद्गच्छत्यत्र कस्यैका शाश्वती जातिः । । ६
विद्वत्सदसि योऽप्याह संस्काराद्ब्राह्मणो भवन् ।
न्यायज्ञैः१ स निराकार्यो वाक्यैर्न्यायानुसारिभिः । । ७
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।
जातकर्म नामकर्म तथान्नप्राशनं च वै । । ८
चूडोपनयनं चास्य व्रतादेशस्तथैव च ।
समावर्तनमप्यन्यत्पाणिग्रहणमेव च । । ९
इत्येवमादिसंस्कारविधानैर्येऽतिसंस्कृताः ।
त एव ब्राह्मणा येषां नैरन्तर्येण२ कामनाः । । 1.42.१०
यस्माद्वै ब्राह्मणा जाता ब्राह्मणैः कृतसंस्कृतैः ।
नायुः शक्तिर्हि कान्त्यादिविशेषो विद्यते स्फुटः । । ११
तौ वा ब्राह्मणगात्रोत्थौ संस्कृतासंस्कृतौ नरौ ।
इष्टानिष्टाप्त्यनाप्तिभ्यां न भिद्येते परस्परम् । । १२
ज्ञानाध्ययनमीमांसा नियमेन्द्रियनिग्रहैः ।
विना संस्कारयोगेऽपि पुंसः शूद्रान्न भिन्नता । । १३
संस्कारः क्रियमाणश्च न शूद्रे च प्रवर्तते ।
संस्कृताङ्गश्च१ पापेभ्यो न पश्यति निवर्तते । । १४
विलासिनीभुजंगादिजनवन्मदविह्वलाः ।
व्यामुह्यन्ति सदाचाराद्ब्राह्मणत्वात्पतन्ति३ च । । १५
संस्कृतोऽपि दुराचारो नरकं याति मानवः ।
निःसंस्कारः सदाचारो भवेद्विप्रोत्तमः सदा । । १६
मन्त्रपूतात्मसंस्कारयुक्तोऽपि प्लवते न तु ।
ब्राह्मण्यादविकल्पं स पश्चाद्दुश्चरितो नरः । । १७
सामर्थ्यात्पतनं तस्माद्ब्राह्मण्यान्मुच्यते ध्रुवम् ।
दुरनुष्ठानसक्तानां पुंसां पुरुषपुङ्गवैः । । १८
किं क्वचिद्दृष्टमेवैतत्किं वा स्पर्धाविदत्ययम् ।
तुल्यमुत्सहसे कर्तुमप्यदृष्टं तदा वद । । १९
आचारमनुष्ठिन्तो व्यासादिमुनिसत्तमाः ।
गर्भाधानादिसंस्कारकलापरहिताः स्फुटम् । । 1.42.२०
विप्रोत्तमाः श्रियं प्राप्ताः सर्वलोकनमस्कृताः ।
बहवः कथ्यमाना ये कतिचित्तान्निबोधत । । २१
जातो व्यासस्तु कैवर्त्याः श्वपाक्याश्च पराशरः ।
शुक्याः शुकः कणादाख्यस्तथोलूक्याः सुतोऽभवत् । । २२
मृगीजोथर्षशृङ्गोपि वशिष्ठो गणिकात्मजः ।
मन्दपालो४ मुनिश्रेष्ठो नाविकापत्यमुच्यते५ । । २३
माण्डव्यो मुनिराजस्तु मण्डूकीगर्भसम्भवः ।
बहवोऽन्येऽपि विप्रत्वं प्राप्ता ये पूर्ववद्द्विजाः । । २४
यच्चैतच्चारुचरितैरर्च्यमुच्चरितं वचः ।
तद्विचार्याचरन्नुच्चैराचारोपचितद्युतिः । । २५
हरिणीगर्भसम्भूत ऋष्यशृङ्गो महामुनिः ।
तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २६
श्वपाकीगर्भसम्भूतः पिता व्यासस्य पार्थिव ।
तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २७
उलूकीगर्भसम्भूतः कणादाख्यो महामुनिः ।
तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २८
गणिकागर्भसम्भूतो वशिष्ठश्च महामुनिः ।
तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २९
नाविकागर्भसम्भूतो मन्दपालो महामुनिः ।
तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । 1.42.३०
वेदतन्त्रजसंस्कारकलापनिपुणैरपि ।
विद्यातपोधनबलादुत्कृष्टं लभ्यते फलम् । ३१
लब्धसंस्कारदेहाश्च महापातकिनो नराः ।
यस्मान्निवर्तते ब्रह्म तस्मात्साङ्केतिकं विदुः । । ३२

इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे ब्राह्मणसंस्कारविवेकवर्णनं नाम द्वाचत्वारिंशोऽध्यायः । ४२ ।