रथसप्तमीमाहात्म्यवर्णनम्

ब्रह्मोवाच
माघे मासि तथा देव सिते पक्षे जितेन्द्रियः ।
षष्ठ्यामुपोषितो भूत्वा गन्धपुष्पोपहारतः । । १
पूजयित्वा दिनकरं रात्रौ तस्याग्रतः स्वपेत् ।
विबुद्धस्त्वथ सप्तम्यां भक्त्या भानुं समर्चयेत् । । २
ब्राह्मणान्भोजयेत्पश्चाद्वित्तशाठ्यं१ विवर्जयेत् ।
खण्डवेष्टैर्मोदकैश्च तथेक्षुगुडपूपकैः । । ३
अथ संवत्सरे पूर्णे सप्तम्यां कारयेद्बुधः ।
देवदेवस्य वै यात्रां पूर्वोक्तविधिना हर । । ४
कृष्णपक्षे तु यः कृत्वा रथमारोहितं रविम् ।
पश्येद्भक्त्या जगन्नाथं स याति परमां गतिम् । । ५
तृतीयायामैकभक्तं चतुर्थ्यां नक्तमुच्यते ।
पञ्चम्यामयाचितं स्यात्षष्ठ्यां चैवमुपोषणम् । । ६
सप्तम्यां पारणं कुर्याद्दृष्ट्वा देवं रथे स्थितम् ।
पूजयित्वा च विधिना शक्त्या भक्त्या त्रिलोचन । । ७
सौवर्णं तु रथं कृत्वा ताम्रपात्रोपरि स्थितम् ।
रथमध्ये न्यसेद्व्योम पूजितं मणिभिर्हर । । ८
पद्मरागं न्यसेन्मध्ये मौक्तिकं पूर्वतो न्यसेत् ।
इंद्रनीलमथो याम्यां वारुण्यां मरकतं हर । । ९
प्रवालमुत्तरे रुद्र सवज्रं विन्यसेद् बुधः ।
श्वेतं पीतासितं चापि रक्तं चान्धकसूदन । । 1.59.१०
एतानि तात वस्त्राणि दिक्षु सर्वासु विन्यसेत् ।
पताकाकारसंस्थानं घण्टाभरणभूषितम् । । ११
पुष्पैर्दामैरलंकृत्य रथं रुद्र समन्ततः ।
यथान्यायं पूजयित्वा भास्कराय निवेदयेत् । । १२
भोजयित्वाथ वा विप्रानाचार्याय निवेदयेत् ।
योऽधीते सप्तमीकल्पं सोपाख्यानं च भारत । । १३
आचार्यः स द्विजो ज्ञेयो वर्णानामनुपूर्वशः ।
सौराणां वैष्णवानां तु शैवानां पार्वतीप्रिय । । १४
अलाभे तु सुवर्णस्य रथं राजतमादिशेत् ।
तदलाभे ताम्रमयं रथं व्योम च कारयेत् । । १५
अभावे चापि ताम्रस्य रथः पिष्टमयः स्मृतः ।
सहिरण्यो १महादेव ताम्रभाजनमाश्रितः । । १६
२कौशेययुग्मसहितं ब्राह्मणाय निवेदयेत् ।
पूर्वोक्ताय महादेव वाचकाय महात्मने । । १७
पञ्चरत्नसमायुक्तं गुभगन्धाधिवासितम् ।
स्वशक्त्या तु विरूपाक्ष वित्तशाठ्यं विवर्जयेत् । । १८
एषा पुण्या पापहरा रथाह्वा सप्तमी हर ।
कथिता ते मया रुद्र महतीयं प्रकीर्तिता । । १९
स्नानं दानमथो होमः पूजा ग्रहपतेर्हर ।
शतसाहस्रं भवेदस्यां कृतं भूधरविद्यते । । 1.59.२०
एवमेषा पुण्यतमा माघे प्रोक्ता तु सप्तमी ।
यामुपोष्य नरो भक्त्या सूर्यस्यानुचरो भवेत् । । २१
ब्राह्मणो याति देवत्वं क्षत्रियो विप्रतां व्रजेत् ।
वैश्यः क्षत्रियतां याति शूद्रो वैश्यत्वमेति च । । २२
विद्याविनयसम्पन्नं भर्त्तारं ३ कन्यका लभेत् ।
अपुत्रा स्त्री सुतं विन्देत्सौमाग्यं च गणाधिप । । २३
विधवा चाप्युपोष्येमां सप्तमीं त्रिपुरान्तक ।
नान्यजन्मसु वैधव्यं प्राप्नुयात्पार्वतीप्रिय । । २४
बहुपुत्रा बहुधना पत्युर्वल्लभतां व्रजेत् ।
यावद्वै सप्त जन्मानि स्त्रियस्तु पुरुषास्तथा । । २५
एवंविधा सप्तमी ते कथिता वृषभध्वज ।
यां श्रुत्वा मानवो भक्त्या मुच्यते ब्रह्महत्यया । । २६

इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे रथसप्तमीमाहात्म्यवर्णनं नामैकोनषष्टितमोऽध्यायः । ५९ ।