भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०७९

आदित्यमहिमवर्णनम्

सुमन्तुरुवाच
एतच्छ्रुत्वा तु कार्त्स्न्येन हृष्टो जाम्बवतीसुतः ।
जातकौतूहलो भूयः परिपप्रच्छ नारदम्१ । । १
साम्ब उवाच
अहो सूर्यस्य माहात्म्यं वर्णितं हर्षवर्धनम् ।
येन मे भक्तिरुत्पन्ना परा ह्यस्मिन्विभावसौ । । २
ततो राज्ञीं महाभागां निक्षुभां च महामुने ।
दिण्डिनं पिङ्गलादींश्च सर्वान्कथय मे मुने । । ३
नारद उवाच
प्रागुक्तेऽर्कस्य द्वे भार्ये राज्ञी निक्षुभसंज्ञिते ।
तयोर्हि राज्ञी द्यौर्ज्ञेया निक्षुभा पृथिवी स्मृता । ।४
सौम्यमासस्य२ सप्तम्यां द्यावार्कः सह युज्यते ।
माघकृष्णस्य सप्तम्यां मह्या सह भवेद्रविः । ।
भूरादित्यश्च भगवान्गच्छतः सङ्गमं तथा । । ५
ऋतुस्नाता मही तत्र गर्भं गृह्णाति भास्करात् ।
द्यौर्जलं सूयते गर्भं वर्षास्विह च भूतले । । ६
ततस्त्रैलोक्यभूत्यर्थं३ मही सस्यानि सूयते ।
सस्योपयोगसंहृष्टा जुह्वत्याहुतयो द्विजाः । । ७
स्वाहाकारस्वधाकारैर्यजन्ति पितृदेवताः । । ८
निक्षुभा सूयते यस्मादन्नौषधिसुधामृतैः ।
मर्त्यान्पितॄंश्च देवांश्च तेन भूर्निक्षुभा स्मृता । । ९
यथा राज्ञी द्विधा भूता यस्य चेयं सुता मता ।
अपत्यानि च यान्यस्यास्तानि वक्ष्याम्यशेषतः । । 1.79.१०
मरीचिर्ब्रह्मणः पुत्रो मरीचेः कश्यपः सुतः ।
तस्माद्धिरण्यकशिषुः प्रह्लादस्तस्य चात्मजः । । ११
प्रह्लादस्य सुतो नाम्ना विरोचन इति श्रुतः ।
विरोचनस्य भगिनी संज्ञाया जननी शुभा । । १२
हिरण्यकशिपोः पौत्री दितेः पुत्रस्य सा स्मृता ।
सा विश्वकर्मणः पुत्री प्राह्लादी प्रोच्यते बुधैः । । १३
अथ नाम्ना सुरूपेति मरीचेर्दुहिता शुभा ।
पुत्री ह्यङ्गिरसः सा तु जननी तु बृहस्पतेः । । १४
बृहस्पतेस्तु भगिनी विश्रुता ब्रह्मवादिनी ।
प्रभासस्य तु सा पत्नी वसूनामष्टमस्य तु । । १५
प्रसूता विश्वकर्माणं सर्वशिल्पकरं वरम् ।
स वै नाम्रा पुनस्त्वष्टा त्रिदशानां च वार्धकिः । । १६
देवाचार्यश्च तस्येयं दुहिता विश्वकर्मणः ।
सुरेणुरिति विख्याता त्रिषु लोकेषु भामिनी । । १७
राज्ञी संज्ञा च द्यौस्त्वाष्ट्री प्रभा सैव विभाव्यते ।
तस्यात्तु या तनुच्छाया निक्षुभा सा महीमयी । । १८
सा१ तु भार्या भगवतो मार्तण्डस्य महात्मनः ।
साध्वी पतिव्रता देवी रूपयौवनशालिनी । । १९
न तु तां नररूपेण सूर्यो भजति वै पुरा ।
आदित्यस्येह तद्रूपं महता स्वेन तेजसा । । 1.79.२०
गात्रेष्वप्रतिरूपेषु नातिकान्तमिवाभवत् ।
अनिष्पत्रेषु गात्रेषु गोलं दृष्ट्वा पितामहः । । २१
मार्तस्त्वं भव चाण्डस्तु मार्तण्डस्तेन स स्मृतः ।
देवानां च यतस्त्वादिस्तेनादित्य इति स्मृतः । । २२
अतः परं प्रवक्ष्यामि प्रजास्तस्य महात्मनः ।
त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः । । २३
वर्षाणां तु सहस्रं वै वसमाना पितुर्गृहे ।
भर्तुः समीपं याहीति पित्रोक्ता सा पुनःपुनः । । २४
अगच्छद्वडवा भूत्वा त्यक्त्वा रूपं यशस्विनी ।
उत्तरांश्च कुरून्गत्वा तृणान्यनुचचार ह । । २५
पितुः समीपं या भार्या संज्ञा या वचनेन सा ।
संज्ञाया धारयद्रूपं छाया सूर्यमुपस्थिता । । २६
द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् ।
आदित्यो जनयामास पुत्रौ कन्यां च रूपिणीम् । । २७
पूर्वजस्य मनोस्तुल्यौ सादृश्येन च तावुभौ ।
श्रुतश्रवाश्च धर्मज्ञः श्रुतकर्मा तथैव च । । २८
श्रुतश्रवा मनुस्ताभ्यां सावर्णिर्यो भविष्यति ।
श्रुतकर्मा तु विज्ञेयो ग्रहो यो वै शनैश्चरः । । २९
कन्या च तपती नाम रूपेणाप्रतिरूपिणी ।
संज्ञा तु पार्थिवी तेषामात्मजानां यथाकरोत् । । 1.79.३०
न स्नेहं पूर्वजानां तु तथा कृतवती तु सा ।
मनुस्तु क्षमते तस्या यमस्तस्या न चक्षमे । । ३१
बहुशो यात्यमानस्तु पितुः पत्न्या सुदुःखितः ।
स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् । । ३२
पदा सन्तर्जयामास संज्ञां वैवस्वतो यमः ।
तं शशाप ततः क्रोधात्संज्ञा सा पार्थिवी भृशम् । । ३३
पदा तर्जयसे यन्मां पितुर्भार्यां गरीयसीम् ।
तस्मात्तवैष चरणः पतिष्यति न संशयः । । ३४
यमस्तु तेन शापेन भृशं पीडितमानसः ।
मनुना सह तन्मातुः पितुः सर्वं न्यवेदयत् । । ३५
स्नेहेन तुल्यमस्मासु माता देव न वर्तते ।
निःस्नेहाञ्ज्यायसो ह्यस्मात्कनीयां सं बुभूषति । । ३६
तस्या मयोद्यतः पादो न तु देव निपातितः ।
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति । । ३७
शप्तोऽहमस्मिंल्लोकेश जनन्या तपतां वर ।
तव प्रसादाच्चरणस्त्रायतां महतो भयात् । । ३८
रविरुवाच
असंशयं महत्पुत्र भविष्यत्यत्र कारणम् ।
येन त्वामाविशत्क्रोधो धर्मज्ञं धर्मशालिनम् । । ३९
सर्वेषामेव शापानां प्रतिघातस्तु विद्यते ।
न तु मात्राभिशप्तानां क्वचिन्मोक्षो भवेदिह । । 1.79.४०
न शक्यमेतन्मिथ्या मे कर्तुं मातुर्वचस्तव ।
किञ्चित्तेऽहं विधास्यामि पितृस्नेहादनुग्रहम् । ।४ १
कृमयो मांसमादाय यास्यन्ति तु महीतले ।
कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि । ।४ २
सुमन्तुरुवाच
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयावुभौ ।
तुल्येष्वभ्यधिकः स्नेह एकत्र क्रियते त्वया । । ४३
सा१ तत्पुराभवं तस्मै नाचचक्षे विवस्वते ।
आत्मानं स समाधाय वक्तुं तस्यामपश्यत् । ।४४
तां शप्तुकामो भगवानुद्यतः कुपितस्ततः ।
ततश्छाया यथावृत्तमाचचक्षे विवस्वते । । ४५
विवस्वांस्तु ततः क्रुद्धः श्रुत्वा श्वशुरमागतः ।
सा चापि तं यथान्यायमर्चयित्वा दिवाकरम् । ।
निर्दग्धुकामं रोषेण सान्त्वयामास तं शनैः ।।४६
विश्वकर्मोवाच
तवातितेजसाविष्टमिदं रूपं सुदुःसहम् ।
असहन्ती तु संज्ञा च वने चरति शाद्वले ।।४७
द्रक्ष्यते तां भवानद्य स्वां मायां शुभचारिणीम् ।
रूपार्थं भवतोरण्ये चरन्तीं सुमहत्तपः ।।४८
रूपं ते ब्रह्मणो वाक्याद्यदि वै रोचते विभो ।
प्रशातयामि देवेन्द्र श्रेयोऽर्थं जगतः प्रभो ।।४९
सन्तुष्टस्तस्य तद्वाक्यं बहु मेने महातपाः ।
ततोऽन्वजानात्त्वष्टारं रूपनिर्वर्तनाय तु ।।1.79.५०
विश्वकर्मा ह्यनुज्ञातः शाकद्वीपे विवस्वतः ।
भ्रमिमारोप्य तत्तेजः शातयामास तस्य वै ।।५ १
आजानुलिखितश्चासौ निपुणं विश्वकर्मणा ।
लेखनं नाभ्यनन्दत्तु ततस्तेन निवारितः ।।५२
तत्र तद्भासितं रूपं तेजसा प्रकृतेन तु ।
कान्तात्कान्ततरं भूत्वा अधिकं शुशुभे ततः ।।५३
ददर्श योगमास्थाय स्वां भार्यां वडवां तथा ।
अदृश्यां सर्वभूतानां तेजसा स्वेन संवृताम् ।।५४
अश्वरूपेण मार्तण्डस्तां मुखेन समासदत् ।
मैथुनाय विचेष्टन्तो परपुंसो विशङ्कया ।।५५
सा तं विवस्वतः शुक्रं नासाभ्यां समधारयत् ।
देवौ तस्यामजायेतामश्विनौ भिषजां वरौ ।।५६
नासत्यश्चैव दस्रश्च तौ स्मृतौ नामतोऽश्विनौ ।
अतः परं स्वकं रूपं दर्शयामास भास्करः ।।
तद्दृष्ट्वा चापि संज्ञा तु तुतोष च मुमोह च ।।५७
ततस्तु जनयामास संज्ञा सूर्यसुतं शुभम् ।
रूपेण चात्मनस्तुल्यं रेवतं नाम नामतः । । ५८
पिर्तुगृह्याष्टमं सोऽश्वं जातमात्रः पलायत ।
स तस्मिन्त्सकृदारूढस्तमश्वं नैव मुञ्जति । । ५९
ततोऽर्केण समादिष्टौ दण्डनायकपिङ्गलौ ।
अश्वं प्रत्यानयेथां मे मा बलाच्छिद्रतोऽस्य तु । । 1.79.६०
पार्श्वस्थौ तिष्ठतस्तस्य अश्वच्छिद्राभिकाञ्क्षिणौ ।
न च्छिद्रं तु लभेते तौ तस्याद्यापि महात्मनः । । ६१
प्लवन्गच्छत्यसौ यस्मात्संज्ञायाः शान्तिदः सुतः ।
रेवृस्तु च गतौ धातू रेवन्तस्तेन स स्मृतः । । ६२
मनुर्यमो यमी चैव सावर्णिः स शनैश्चरः ।
तपती चाश्विनौ चैव रेवन्तश्च रवेः सुताः । । ६३
एवमेषा पुरा संज्ञा द्वितीया पार्थिवी स्मृता ।
या संज्ञा सा स्मृता राज्ञी छाया या सा तु निक्षुभा । । ६४
राजृदीप्तौ स्मृतो धातू राजा राजति यत्सदा ।
अधिकः सर्वभूतेभ्यो राजते च दिवाकरः । । ६५
अधिकं राजते यस्मात्तस्माद्राजा स उच्यते ।
राज्ञः पत्नी तु सा यस्मात्तस्माद्राज्ञी प्रकीर्तिता । । ६६
क्षुभ सञ्चलने धातुर्निश्चला तेन निक्षुभा ।
भवन्तीत्यथ वा यस्मात्स्वर्गीयाः १ क्षुद्विवर्जिताः । ।
छायां तां विशते दिव्यां स्मृता सा तेन निक्षुभा । । ६७
दृष्ट्वा जनं सदा तात भृशं पीडितमानसम् ।
धर्मेण रञ्जयामास धर्मराजस्ततः स्मृतः । । ६८
शुद्धेन कर्मणा तात शुभेन परमद्युतिः ।
पितॄणामाधिपत्यं च लोकपालत्वमाप च । । ६९
साम्प्रतं वर्तते योऽयं मनुर्लोके महामते ।
यस्यान्ववाये जातस्तु शङ्खचक्रगदाधरः । । 1.79.७०
यमस्य भगिनी या तु यमी कन्या यशस्विनी ।
साभवत्सरितां श्रेष्ठा यमुना लोकपावनी । । ७१
मनुः प्रजापतिस्त्वेष सावर्णिः स महायशाः ।
भविष्यन्स मनुस्तात अष्टमः परिकीर्तितः । । ७२
मेरुपृष्ठे तपो दिव्यमद्यापि चरते प्रभुः ।
भ्राता शनैभ्ररस्तस्य ग्रहत्वं स तु लब्धवान् । । ७३
तपती नाम या नाम्ना तयोः कन्या गरीयसी ।
सा बभूव शुभा पत्नी राज्ञः संवरणस्य तु । । ७४
तापी नाम नदी चेयं विन्ध्यमूलाद्विनिःसृता ।
नित्यं पुण्यजला स्नाने पश्चिमोदधिगामिनी । । ७५
सौम्यया सङ्गता सा तु सर्वपापभयापहा ।
वैवस्वती यथा वीर सङ्गता १शिवकान्तया । । ७६
अश्विनौ देववैद्यत्वं लब्धवन्तौ यदूत्तम ।
तयोः कर्मोपजीवन्ति लोकेस्मिन्भिषजः सदा । । ७७
रेवन्तो नाम योऽर्कस्य रूपेणार्कसमः सुतः ।
२अश्वानामाधिपत्ये तु योजितः स तु भानुना । । ७८
क्षेमेण गच्छतेऽध्वानं यस्तं पूजयते पथि ।
सुखप्रसाद्यो मर्त्यानां सदा यदुकुलोद्वह । । ७९
त्वष्टापि तेजसा तेन मार्तण्डस्यैव चाज्ञया ।
भोजानुत्पादयामास पूजायै सत्य सुव्रत । । 1.79.८०
य इदं जन्म देवस्य शृणुयाद्वा पठेत वा ।
विवस्वतो हि पुत्राणां सर्वेषाममितौजसाम् । । ८१
सर्वपापविनिर्मुक्तो याति सूर्यसलोकताम् ।
इह राजा भवत्येव पुनरेत्य न संशयः । । ८२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमाहात्म्यवर्णनं नामैकोनाशीतितमोऽध्यायः । ७९ ।