दीपदानफलवर्णनम्

ब्रह्मोवाच
दीपं प्रयच्छति नरो भानोरायतने तु यः ।
तेजसा रविसंकाशः सर्वयज्ञफलं१ लभेत् । । १
कार्त्तिके तु विशेषेण कौमारे मासि दीपकम् ।
दत्वा फलमवाप्नोति यदन्येन न लभ्यते । । २
कृष्णकृष्णात्र ते वच्मि संवादं पापनाशनम् ।
भ्रातृभिः सह भद्रस्य ब्राह्मणस्य महात्मनः । । ३
जगत्यस्मिन्पुरी रम्या नाम्ना माहिष्मती पुरा ।
तस्यामासीद्द्विजः कृष्ण नागशर्मेति विश्रुतः । ।४
तस्य पुत्रशतं जातं प्रसादाद्भास्करस्य च ।
तेषां कनिष्ठो भद्रस्तु तत्पुत्राणां विचक्षणः । । ५
स च नित्यं जगद्धातुर्देवदेवस्य भास्वतः ।
दीपवर्तिपरस्तद्वत्तैलाद्याहरणोद्यतः । । ६
भानोरायतने तस्य सहस्रं भार्गवीप्रिय ।
प्रदीपानां तु जज्वाल दिवारात्रमनिन्दितम् । ।७
तस्य दीप्त्या पराभूतास्तस्य लावण्यधर्षिताः ।
सर्वे ते भ्रातरो भद्रं पप्रच्छुरिदमादरात् । । ८
भो भद्र वद वै भ्रातर्भद्रं तेस्तु सदा द्विज ।
कौतूहलपराः सर्वे यत्पृच्छामस्तदुच्यताम् । । ९
तेषां तद्वचनं श्रुत्वा भद्रो वचनमब्रवीत् ।
विषये सति वक्तव्यं यन्मया तदिहोच्यताम् । । 1.118.१०
नाहं मत्सरयुक्तो वै न च रागादिदूषितः ।
भवन्तो मम सर्वे वै भ्रातरो गुरवस्तथा । । ११
कथं न कथयाम्येष भवतां पुत्रसम्मितः ।
तस्माद्ब्रुवन्तु मां सर्वे भ्रातरो यद्विवक्षितम् । । १२
भ्रातर ऊचुः

न तथा पुष्पधूपेषु न तथा द्विजपूजने ।
सुप्रयत्नं तु पश्यामो भानोरायतने परम् । । १३
यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि ।
तव दीपप्रदानाय यथा भद्र सदोद्यमम् । । १४
तत्त्वं तत्कथयास्माकं हंत कौतूहलं परम् ।
यन्नाम दीपदानस्य भवता विदितं फलम् । । १५
तदेतत्कथयास्माकं सविशेषं महाबल ।
एवमुक्तस्ततस्तैस्तु भ्रातृभिश्चोदितो मुदा । । १६
व्याजहार स भ्रातॄणां न किञ्चिदपि सुव्रत ।
पुनः पुनरसौ तैस्तु भ्रातृभिश्चोदितो मुदा । । १७
दाक्षिण्यसारो भद्रस्तु कथयामास कृत्स्नशः ।
भवतां कौतुकं चैतदतीवाल्पेऽपि वस्तुनि । । १८
तदेष कथयाम्यद्य यद्व्रतं मम सुव्रत ।
इक्ष्वाकुराज्ञस्तु पुरा वशिष्ठोऽभूत्पुरोहितः । । १९
तेन चायतनं भानोः कारितं सरयूतटे ।
अहन्यहनि शुश्रूषां पुष्पधूपानुलेपनैः । । 1.118.२०
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः ।
कार्तिके दीपको भक्त्या प्रदत्तस्तेन वै सदा । । २१
आसीन्निर्वाण एवासौ देवार्चापुरतो निशि ।
देवतायतने चाहमवसं व्यथितो भृशम् । । २२
पूयशोणितनिष्पन्दं प्रावहन्कायतः सदा ।
शीर्ण घ्राणो ह्यर्वरवो दुर्गंधपतितस्तथा । । २३
दुष्टबुद्ध्या सदा युक्तः सप्ताश्वं प्रति सुव्रत ।
यदृच्छ्या दीपदानं वर्त्यादीनां विभावसौ । ।२४
तत्तद्भुक्त्वा सदा तुष्टिं व्रजामि द्विजसत्तमाः ।
एकदा तु ततस्तस्मिन्भानोरायतने गतः । । २५
रात्रौ दृष्टा मया तत्र भक्ता जागरणागताः ।
प्रतिश्रयं प्रार्थिताश्च तैश्च दत्तो दयान्वितः । । २६
व्याधितोऽयं सुदीनश्च इति कृत्वा मतिं शुभाम् ।
ततोऽहमग्निमाश्रित्य स्थितस्तेषां समीपतः । । २७
दुष्टां बुद्धिं समाश्रित्य हर्तुकामो विवस्वतः ।
दिव्यमाभरणं भानोश्छिद्रान्वेषी द्विजोत्तमाः । । २८
स्थितोऽहं भोजका ह्यत्र यदि निद्रां व्रजन्ति ते ।
येनास्य वैरिवद्भानोर्हराम्याभरणं शुभम् । । २९
अथ सुप्ता भोजकास्ते निद्रया मोहितास्तदा ।
निर्वाणाश्चापि दीपास्तु ततोऽहमुत्थितस्त्वरन् । । 1.118.३०
मुदा परमया युक्तो गतो वैश्वानरं प्रति ।
प्रज्वाल्यं पावकं यत्नाद्दीपवर्तिन्ततो मया । । ३१
योजयित्वा तु वै दीपे धृतो दीपोऽग्रतो रवेः ।
हर्तुकामेनाभरणं भानोर्देवस्य सुव्रत । । ३२
अथ ते भोजकाः सर्वे वृद्धा देवस्य पुत्रकाः ।
तैस्तु दृष्टो ह्यहं तत्र दीपहस्तो विभावसोः । । ३३
पुरः स्थितो द्विजश्रेष्ठा गृहीतश्चापि तैरिह ।
ततोऽहं तेजसा मूढो भास्करस्य महात्मनः । । ३४
विलपन्करुणं तेषां पादयोरवनिं गतः ।
तैश्चापि करुणां कृत्वा मुक्तोऽहं भोजकैस्तदा । । ३५
गृहीतो राजपुरुषैः पृष्टश्चापि समन्ततः ।
किमिदं भवतारब्धं देवदेवस्य मंदिरे । । ३६
दीपं प्रज्वाल्य दुष्टात्मन्कथ्यतां मा चिरं कुरु ।
इत्युक्त्वा तु ततस्तैस्तु शस्त्रहस्तैः समावृतः । । ३७
ततोऽहं व्याधिना क्लिष्टो भयेन च द्विजोत्तमाः ।
हित्वा प्राणान्गतो यत्र स्वयं देवो विभावसुः । । ३८
स्थित्वा कल्पं ततस्तत्र युष्माकं भ्रातृतां गतः ।
एष प्रभावो दीपस्य कार्तिके मासि सुव्रताः । । ३९
दत्तस्यार्कस्य भवने यस्येयं व्युष्टिरुत्तमा ।
दुष्टबुद्ध्या कृतं यत्तु मया दीपप्रवर्तनम् । । 1.118.४०
भगायतनदीपस्य तस्येदं भुज्यते फलम् ।
क्षुधाभिभूतेन मया देवदेवस्य भूषणम् । । ४१
दीपश्च देवपुरतो ज्वालितो भास्करस्य तु ।
ततो जातिस्मृतिर्जन्म प्रान्तं ब्राह्मणवेश्मनि । । ४२
कुष्ठिना चापि शूद्रेण प्राप्तं ब्राह्मण्यमुत्तमम् ।
नानाविधानि शास्त्राणि सांगं वेदं समाप्तवान् । । ४३
दुष्टबुद्ध्या धृताद्दीपात्फलमेतन्महाद्भुतम् ।
प्राप्तं मया द्विजश्रेष्ठाः किं पुनर्दीपदायिनाम् । । ४४
एतस्मात्कारणाद्दीपानहमेवमहर्निशम् ।
प्रयच्छामि रवेर्धाम्नि ज्ञातमस्य हि यत्फलम् । ।४५
युष्माकमिदमुक्तं वै स्नेहात्सत्यं न संशयः ।
एष प्रभावो दीपस्य कार्तिके मासि सुव्रताः । ।४ ६
अर्कायतनदीपस्य भद्रोवोचद्यथा पुरा ।
दिनेदिने जपन्नाम भास्करस्य समाहितः । ।४७
ददाति कार्तिके यस्तु भगायतनदीपकम् ।
जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्वजन्तुषु । । ४८
अव्याहतेन्द्रियत्वं च समाप्नोति न संशयः ।
सर्वकालं च चक्षुष्मान्मेधावी दीपदो नरः । ।४ ९
जायते नरकं चापि तमः संज्ञं न पश्यति ।
षष्ठीं वा सप्तमीं वापि प्रतिपक्षं च यो नरः । । 1.118.५०
दीपं ददाति यत्नाद्यत्फलं तस्य निबोध मे ।
काञ्चनं मणियुक्तं च मनोज्ञमतिशोभनम् । । ५१
दीपमालाकुलं दिव्यं विमानमधिरोहति ।
तस्मादायतने भानोर्दीपान्दद्यात्सदाच्युत । । ५२
तांश्च दत्त्वा न हिंस्याच्च न च तैलवियोजितान् ।
कुर्वीत दीपहर्ता तु मूषकोन्धश्च जायते । । ५३
तस्माद्दद्यान्नाहरेद्वै श्रेयोऽर्थी दीपकं नरः । । ५४

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भद्रोपाख्यान आदित्यायतनदीपदानफलवर्णनं नामाष्टादशाधिकशततमोऽध्यायः । ११८ ।