सूर्यदीक्षावर्णनम्

साम्ब उवाच
किं प्रमाणं लिखेच्चक्रं तत्र पद्मं च किं भवेत् ।
नेमिप्रध्यारनाभीनां विभागः क्रियते कथम् । । १
वासुदेव उवाच
चतुःषष्ट्यङ्गुलं चक्रं कृत्वा वृत्तं प्रमाणतः ।
अष्टाङ्गुला भवेन्नेमिः सेयं विभवतः सदा । । २
नाभिक्षेत्रं तथैव स्यात्पद्मं तत्त्रिगुणं भवेत् ।
अरक्षेत्रं च पद्मस्य कणिकाकेसराणि च । । ३
केसरस्य च पादेन शेषपत्राणि कल्पयेत् ।
पत्रसन्धिश्च पादाङ्गं क्रमात्तत्रापि भिद्यते । ।४
उन्नतं कमलं तत्तु कुर्यान्नाभ्यां न संशयः ।
आकीर्णाः संविभक्ताश्च कर्तव्याः प्रधयः क्रमात् । ।५
अङ्गुलस्थूलमूलं स्यादराग्रं त्रिगुणं ततः ।
भूमिः पीता बहिर्ज्ञेया कर्णिकाकेसराणि च । । ६
सितं नाभिस्थलं तत्र द्वाराणि परिकल्पयेत् ।
हस्तमात्रं भवेत्तस्य तन्मानं द्वारसन्निभम् । ।७
शेषं रक्तं समुद्दिष्टं संहताः पत्रसन्धयः ।
नाभिनेम्यन्तरे लेखाः सिताश्चाङ्गुलमानतः । । ८
सितरक्तसिताभिश्च समन्तादुपशोभितम् ।
कपोलं द्वारपद्मं च द्वारकोणे प्रकल्पयेत् । । ९
चतुर्द्वारं भवेदेवमैन्द्रद्वारं प्रकल्पयेत् ।
अपराह्णेऽथ पूर्वाह्णे वरुणमावाहयेत्सदा । । 1.149.१०
द्वाराण्येतानि संवर्त्य यथोक्तविधिना यजेत् ।
यथोक्ता देवताः सर्वाः स्वमन्त्रैरेव भक्तितः । । १ १
चक्रमेवं समुद्दिष्टं यजनार्थं मया तव ।
यज्ञेनानेन सम्बद्धो दीक्षितश्चार्कमण्डले । ।
इत्थं मे भानुना पूर्वमिदमुक्तं वरानन । । १२
साम्ब उवाच
के मन्त्राश्चक्रयज्ञेऽस्मिन्देवतानां प्रकीर्तिताः ।
यज्ञक्रमश्च कः प्रोक्तो रूपं किं च पृथक्पृथक् । । १३
वासुदेव उवाच
खषोल्कं हदयाध्यक्षं पूर्वोक्ते कमले यजेत् ।
कर्णिकायां दलेष्वेवमङ्गानि हृदयादि च । । १४
नाममन्त्राश्चतुर्थ्यंतास्तेषां पूर्वोक्तकोटयः ।
नमस्कारश्च सर्वत्र एष एव विधिः स्मृतः । । १५
स्वाहान्ता होमकाले च कर्मस्वन्येषु ते पुनः ।
यथा कर्मावसानाश्च प्रयोक्तव्याः समासतः । । १६
ॐ खषोल्काय विद्महे दिवाकराय धीमहि ।
तन्नः सूर्यः प्रचोदयात् । । १७
सावित्री च महाबाहो चतुर्विंशाक्षरा मता ।
सर्वतत्त्वमयी पुण्या ब्रह्मगोत्रार्कवल्लभा । । १८
एवं मन्त्राः प्रयोक्तव्याः सर्वकर्मस्वतंद्रितैः ।
अन्यथा विफलं कर्म भवेदिह परत्र च । । १९
तस्मात्सर्वप्रयत्नेन मन्त्राञ्ज्ञात्वा विधिं तथा ।
यथावत्कर्म तत्कृत्वा साधयेदीप्सितं फलम् । । 1.149.२०
साम्ब उवाच
आदित्यमण्डले दीक्षा कस्य कार्या कथं च सा ।
कदा केन किमर्थं च कथयेदं ममाखिलम् । । २१
वासुदेव उवाच
ब्राह्मणं क्षत्रियं वैश्यं कुलीनं शूद्रमेव च ।
पुरुषं वा स्त्रियं वापि दीक्षयेत्सूर्यमण्डले । । २२
स्वयं भक्त्योपपन्नश्च प्रणिपत्य गुरुं तथा ।
गुरुस्तं दीक्षयेद्विप्रः कल्पज्ञः सत्यवाक्छुचिः । । २३
षष्ठ्यामग्निं समाधाय पूर्वोक्तविधिना क्रमात् ।
सम्पूज्यार्कं तथा वह्नौ हुत्वा वै हविषा रविम् । । २४
शिष्यं स्नातमथाचान्तं खषोल्काकृतिविग्रहम् ।
स्वाङ्गैरालभ्य चाङ्गेषु दर्भवद्भिस्तथाक्षतैः । । २५
पुष्पैः सम्पूज्य चाङ्गानि देयः कार्यो बलिस्तथा ।
आदित्यो वरुणोऽर्कोऽग्निः साधितो हृदयेन च । । २६
भवेद् घृतगुडक्षीरैस्तन्दुलैश्च१ प्रमाणतः ।
त्रिभिरञ्जलिभिर्हुत्वा देवायाग्नौ हुतं पुनः । । २७
दत्त्वा शिष्टाय मुक्त्वैवं दत्त्वान्ते दन्तधावनम् ।
क्षीरं वृक्षोद्भवं तस्मै द्वादशाङ्गुलसन्निभम् । । २८
दन्तश्लिष्टेऽपनीते च तेन प्राच्यां क्षिपेत्ततः ।
दन्तधावनमास्यं च तदा तस्योपरि क्षिपेत् । । २९
मैत्रावारुणमीशानं वक्रं सौम्यसमाश्रितम् ।
प्रशस्तं दन्तकाष्ठस्य मुखमन्यत्र निन्दितम् । । 1.149.३०
यां दिशं दन्तकाष्ठस्य मुखं पश्यति तत्पतिम् ।
अर्चयेत्तेन शांतिः स्यादित्युक्तं भानुना स्वयम् । । ३१
पुनस्तद्वचनं श्रुत्वा अङ्गैरालभ्य च क्रमात् ।
सम्पूज्य लोचने तत्र सञ्चिंत्य परिजप्य च । । ३२
कारयित्वा च सङ्कल्पं तथा चेन्द्रियसंयमम् ।
स्थापयेत स्वयं चापि वरं श्रुत्वा समाहितः । । ३३
आचम्य कृतरक्षस्तु कृतद्रव्याधिवासनः ।
हदयेन नमेत्प्रातः स्नात्वा हुत्वा हुताशनम् । । ३४
स्वप्नं पृच्छेद्यथा दृष्टं शुभं संवादयेच्च तम् ।
हदयेनाशुभे दृष्टे शतहोमं समाचरेत् । । ३५
स्वप्ने पश्यति हर्म्याणि देवतानां हुताशनम् ।
नदीयानानि रम्याणि उद्यानोपवनानि च । । ३६
पत्रपुष्पफलाढ्यानि कमलानि च राजतम् ।
सम्पश्यति यदि स्वप्ने ब्राह्मणं वेदपारगम् । । ३७
राजानं शौर्यसम्पन्नं धनाढ्यं क्षत्रियोत्तमम् ।
शुश्रूषणपरं शूद्रं यदि तत्त्वार्थमादिशेत् । । ३८
प्रशस्तं भाषणं चैव यथासम्भवतो मतम् ।
एतैः स्पर्शनमेतेषां श्रेष्ठमारोहणं ततः । । ३९
वाहनानि प्रशस्तानि प्रासादं नावमेव च ।
पर्वतं च समारुह्य विपुलां भार्गवीं भजेत् । । 1.149.४०
पीत्वा सुरां समुद्रं च दध्याज्यं क्षीरमेव च ।
सोमं मांसं हविर्भुक्त्वा काश्यपीं लभते नरः । । ४१
लब्ध्वा वस्त्राणि रत्नानि विविधाभरणानि च ।
वाहनानि महीं गाश्च धान्योपकरणानि च । । ४२
समृद्धिमाप्नुयात्किञ्चित्स्वप्नानां दर्शनं शुभम् ।
शुभकर्मानुगं यच्च तत्सर्वं शुभमुच्यते । ।४ ३
तस्मादन्यदनिष्टं स्यात्तस्माद्युक्ता प्रतिक्रिया ।
क्रमादालिख्य सप्तम्यां तत्र सम्पूज्य भास्करम् ।४४
तर्पयित्वा द्विजाञ्च्छिष्टानानम्य पूर्ववद्गुरुम् ।
सृष्टिक्रमेण भृत्यर्थं मुक्त्यर्थं नान्यथा भवेत् । ।४५
दिवाकरं समालभ्य पुरुषोऽथ यथाक्रमम् ।
सर्वग्रहेषु तत्त्वेषु यथावत्तन्नियोजयेत् । ।४६
विशुद्धेषु विशुद्धं तं ध्यात्वा चादित्यवत्क्रमात् ।
नियोजयेत्पृथिव्याश्च ततः प्रभृति सर्वशः । ।४७
आदित्यमण्डलं शुद्धं सर्वमुक्तं नियोजयेत् ।
एवं तु मनसा ध्यात्वा जुहुयाच्चैव तं शतम् ।। ४८
सर्वैर्मन्त्रैः क्रमादेवं दीक्षा प्रोक्ता वरापरा ।
कृत्वैव पुष्पपातं तु तस्मिन्नादित्यमण्डले । । ४९
बद्ध्वास्यमञ्जलौ पुष्पं कृत्वा दत्त्वा च मन्त्रितम् ।
क्षिपेद्वै कुलशुद्ध्यर्थं नामार्थं च विशेषतः । 1.149.५०
यत्र तत्पतितं पुण्यं तस्य तत्कुलमादिशेत् ।
नाम चादित्यसंयुक्तमित्युक्तं भानुना स्वयम् । । ५१
सम्पूज्य श्रावयेत्तत्र समयानर्कभाषितान् ।
प्रातः सायं मध्याह्ने रवेरभिमुखः स्थितः । । ५२
उपस्थानं सदा कुर्यादर्चनं च सदा नरः ।
अदृष्ट्वार्कं न भोक्तव्यं दिवा रात्रौ हुताशनम् । ।५ ३
दृष्ट्वा भोक्तव्यमर्काख्यं न भोक्तव्यं कदाचन ।
न च पद्या स्पृशेत्तद्वन्नासनं परिवर्जयेत् । । ५४
न लङ्घ्या प्रतिमाच्छाया न लङ्घ्यास्तिथयः क्वचित् ।
नक्षत्राणि ग्रहा योगा मासा मासाधिपाश्च ये । । ५५
अयने ऋतवः पक्षास्तथैव दिवसानि च ।
कालः संवत्सरश्चापि यः कश्चित्काल उच्यते । । ५६
अभिवन्द्यः स सर्वोऽपि नमस्यः पूज्य एव च ।
तस्मात्कालाधिपः सूर्यः स्वयं कालश्च पठ्यते । ।५७
ज्योतिर्गणस्य सर्वस्य स्थावरास्थावरस्य च ।
चेतनाचेतनस्यापि सर्वात्मा यः प्रकीर्तितः । । ५८
स्तुत्यो वन्द्यः सदा पूज्यस्त्वयायं सर्वथा नृप ।
मनसा कर्मणा वाचा देवनिन्दां परित्यजेत् । ।५ ९
प्रेषयित्वा१ च निर्माल्यं तदश्वेभ्यो निवेदयेत् ।
प्रक्षाल्य हस्तौ पादौ च नमस्कुर्याद्दिवाकरम् । । 1.149.६०
इत्येषा परमा दीक्षा तव संक्षेपतो मया ।
भुक्तिमुक्तिकरी चापि कथिता प्रविभागतः । । ६१

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यदीक्षावर्णनं नामैकोनपञ्चाशदधिकशततमोऽध्यायः । १४९ ।