भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः १/अध्यायः ०४

द्वापरयुगभूपाख्यानवर्णनम्

।। शौनक उवाच ।। ।।
कथं यज्ञः कृतस्तेन प्रद्योतेन विचक्षण ।।
सर्वं कथय मे तात त्रिकालज्ञ महामुने ।। १ ।।
।। सूत उवाच ।। ।।
एकदा हस्तिनगरे प्रद्योतः क्षेमकात्मजः ।।
आस्थितः स कथामध्ये नारदोऽभ्यागमत्तदा ।। २ ।।
तं दृष्ट्वा हर्षितो राजा पूजयामास धर्मवित् ।।
सुखोपविष्टः स मुनिः प्रद्योतं नृपमब्रवीत् ।। ३ ।।
म्लेच्छैर्हतस्तव पिता यमलोकमतो गतः ।।
म्लेच्छयज्ञप्रभावेण स्वर्गतिर्भविता हि सः ।।४।।
तच्छ्रुत्वा क्रोधताम्राक्षो ब्राह्मणान्वेदवित्तमान् ।।
आहूय स कुरुक्षेत्रे म्लेच्छयज्ञं समारभत् ।। ५ ।।
यज्ञकुंडं चतुष्कोणं योजनान्येव षोडश ।।
रचित्वा देवता ध्यात्वा म्लेच्छांश्च जुहुयान्नृपः ।। ६ ।।
हारहूणान्बर्बरांश्च गुरुंडांश्च शकान्खसान् ।।
यवनान्पल्लवांश्चैव रोमजान्खरसंभवान् ।। ७ ।।
द्वीप स्थितान्कामरूश्च चीनान्सागरमध्यगान्।।
प्राहूय भस्मसात्कुर्वन्वेदमंत्रप्रभावतः ।। ८ ।।
ब्राह्मणान्दक्षिणां दत्त्वा अभिषेकमकारयत् ।।
क्षेमको नाम नृपतिः स्वर्गलोकं ततो गतः ।। ९ ।।
म्लेच्छहंता नाम तस्य विख्यातं भुवि सर्वतः ।।
राज्यं दशसहस्राब्दं कृतं तेन महात्मना ।। 3.1.4.१० ।।
स्वर्गलोकं गतो राजा तत्पुत्रो वेदवान्स्मृतः।।
द्विसहस्रं कृतं राज्यं तदा म्लेच्छः कलिः स्वयम् ।।
नारायणं पूजयित्वा दिव्यां स्तुतिमथाकरोत् ।। ।। ११ ।।
।। कलिरुवाच ।। ।।
नमोऽनंताय महते सर्वकालप्रवर्तिने ।। १२ ।।
चतुर्युगकृते तुभ्यं वासुदेवाय साक्षिणे ।।
दशावताराय हरे नमस्तुभ्यं नमोनमः ।।१३।।
नमः शक्त्यवताराय रामकृष्णाय ते नमः ।।
नमो मत्स्यावताराय महते गौरवासिने ।। १४ ।।
नमो भक्तावताराय कल्पक्षेत्रनिवासिने ।।
राज्ञा वेदवता नाथ मम स्थानं विनाशितम् ।।
मम प्रियस्य म्लेच्छस्य तत्पित्रा वंशनाशनम् ।। १५ ।।
।। सूत उवाच ।। ।।
इति स्तुतस्तु कलिना म्लेच्छस्य सह भार्यया ।।१६।।
प्राप्तवान्स हरिः साक्षाद्भगवान्भक्तवत्सलः ।।
कलिं प्रोवाच स हरिर्युष्मदर्थे युगोत्तमम् ।। १७ ।।
बहुरूपमहं कृत्वा तवेच्छां पूरयाम्यहम् ।।
आदमो नाम पुरुषः पत्नी हव्यवती तथा ।। १८ ।।
विष्णुकर्दमतो जातौ .म्लेच्छवंशप्रवर्धनौ ।।
हरिस्त्वन्तर्दधे तत्र कलिरानंदसंकुलः ।। १९ ।।
गिरिं नीलाचलं प्राप्य किंचित्कालमवासयत् ।।
पुत्रो वेदवतो जातः सुनंदो नाम भूपतिः ।। 3.1.4.२० ।।
पितुस्तुल्यं कृतं राज्यमनपत्यो मृतिं गतः ।।
आर्यदेशाः क्षीणवंतो म्लेच्छवंशा बलान्विताः ।। २१ ।।
भविष्यंति भृगुश्रेष्ठ तस्माच्च तुहिनाचलम् ।।
गत्वा विष्णुं समाराध्य गमिष्यामो हरेः पदम् ।। २२ ।।
इति श्रुत्वा द्विजाः सर्वे नैमिषारण्यवासिनः ।।
अष्टाशीतिसहस्राणि गतास्ते तुहिनाचलम् ।। २३ ।। ।।
विशालायां समासाद्य विष्णुगाथां प्रचक्षिरे ।।
इति व्यासेन कथितं वाक्यं कलिविशारदम् ।।
श्रोतारं स मनः कृत्वा भविष्यं समुदीरयत् ।। २४ ।।
।। व्यास उवाच ।। ।।
मनः शृणु ततो गाथां भावी सूतेन वर्णिताम् ।।
कलेर्युगस्य पूर्णां तां तच्छ्रुत्वा तृप्तिमावह ।। २५ ।। ।।
।। सूत उवाच ।। ।।
षोडशाब्दसहस्रे च शेषे तद्द्वापरे युगे ।।
बहुकीर्तिमती भूमिरार्यदेशस्य कीर्तिता ।।२६।।
क्वचिद्विप्राः स्मृता भूपाः क्वचिद्राजन्यवंशजाः ।।
क्वचिद्वैश्याः क्वचिच्छूद्राः कुत्रचिद्वर्णसंकराः।।२७।।
द्विशताष्टसहस्रे द्वे शेषे तु द्वापरे युगे ।।
म्लेच्छदेशस्य याभूमिर्भविता कीर्तिमालिनी ।। २८ ।।
इंद्रियाणि दमित्वा यो ह्यात्मध्यानपरायणः ।।
तस्मादादमनामासौ पत्नी हव्यवती स्मृता ।। २९ ।।
प्रदाननगरस्यैव पूर्वभागे महावनम् ।।
ईश्वरेण कृतं रम्यं चतुःक्रोशायतं स्मृतम् ।। 3.1.4.३० ।।
पापवृक्षतले गत्वा पत्नीदर्शनतत्परः ।।
कलिस्तत्रागतस्तूर्णं सर्परूपं हि तत्कृतम्।। ।। ३१ ।।
वंचिता तेन धूर्तेन विष्ण्वाज्ञा भंगतां गता ।।
खादित्वा तत्फलं रम्यं लोकमार्गप्रदं पतिः ।। ३२ ।।
उदुंबरस्य पत्रैश्च ताभ्यां वाय्वशनं कृतम् ।।
सुताः पुत्रास्ततो जाताः सर्वे म्लेच्छा बभूविरे ।। ३३ ।।
त्रिंशोत्तरं नवशतं तस्यायुः परिकीर्तितम् ।।
फलानां हवनं कुर्वन्पत्न्या सह दिवं गतः ।। ३४ ।।
तस्माज्जातः सुतः श्रेष्ठः श्वेतनामेति विश्रुतः ।।
द्वादशोत्तरवर्षं च तस्यायुः परिकीर्तितम् ।। ३५ ।।
अनुहस्तस्य तनयः शतहीनं कृतं पदम् ।।
कीनाशस्तस्य तनयः पितामहसमं पदम् ।। ३६ ।।
महल्ललस्तस्य सुतः पंचहीनं शतं नव ।।
तेन राज्यं कृतं तत्र तस्मान्मानगरं स्मृतम् ।। ३७ ।।
तस्माच्च विरदो जातो राज्यं षष्ट्युत्तरं समाः ।।
ज्ञेयं नवशतं तस्य स्वनाम्ना नगरं कृतम् ।। ३८ ।।
हनूकस्तस्य तनयो विष्णु भक्तिपरायणः ।।
फलानां हवनं कुर्वंस्तत्त्वं ह्यसि जयन्सदा।।३९।।
त्रिशतं पंचषष्टिश्च राज्यं वर्षाणि तत्स्मृतम् ।।
सदेहः स्वर्गमायातो म्लेच्छधर्मपरायणः।।3.1.4.४०।।
आचारश्च विवेकश्च द्विजता देवपूजनम्।।
कृतान्येतानि तेनैव तस्मान्म्लेच्छः स्मृतो बुधैः ।।४१।।
विष्णुभक्त्यग्निपूजा च ह्यहिंसा च तपो दमः ।।
धर्माण्येतानि मुनिभिर्म्लेच्छानां हि स्मृतानि वै ।। ४२ ।।
मतोच्छिलस्तस्य सुतो हनुकस्यैव भार्गव।।
राज्यं नवशतं तस्य सप्ततिश्च स्मृताः समाः ।।४३।।
लोमकस्तस्य तनयो राज्यं सप्तशतं समाः ।।
सप्तसप्ततिरेवास्य तत्पश्चात्स्वर्गतिं गतः ।।४४।।
तस्माज्जातः सुतो न्यूहो निर्गतस्तूह एव सः ।।
तस्मान्न्यूहः स्मृतः प्राज्ञै राज्यं पंचशतं कृतम् ।। ४५ ।।
सीमः शमश्च भावश्च त्रयः पुत्रा बभूविरे ।।
न्यूहः स्मृतो विष्णुभक्तस्सोऽहं ध्यानपरायणः ।। ४६ ।।
एकदा भगवान्विष्णुस्तत्स्वप्ने तु समागतः ।। ४७ ।।
वत्स न्यूह शृणुष्वेदं प्रलयः सप्तमेऽहनि ।।
भविता त्वं जनैस्सार्धं नावमारुह्य सत्वरम् ।। ४८ ।।
जीवनं कुरु भक्तेषु सर्वश्रेष्ठो भविष्यसि ।।
तथेति मत्वा स मुनिर्नावं कृत्वा सुपुष्टिताम् ।। ४९ ।।
हस्तत्रिशतलम्बां च पंचाशद्धस्तविस्तृताम् ।।
त्रिंशद्धस्तोच्छ्रितां रम्यां सर्वजीवसमन्विताम् ।। 3.1.4.५० ।।
आरुह्य स्वकुलैस्सार्द्धं विष्णुध्यानपरोऽभवत् ।।
सांवर्तको मेघगणो महेंद्रेण समन्वितः ।। ५१ ।।
चत्वारिंशद्दिनान्येव महावृष्टिमकारयत् ।।
सर्वं तु भारतं वर्षं जलैः प्लाव्य तु सिंधवः ।। ५२ ।।
 चत्वारो मिलिताः सर्वे विशालायां न चागताः ।।
अष्टाशीतिसहस्राणि मुनयो ब्रह्मवादिनः ।। ५३ ।।
न्यूहश्च स्वकुलैस्सार्धं शेषास्सर्वे विनाशिताः ।।
तदा च मुनयस्सर्वे विष्णुमायां प्रतुष्टुवुः ।। ५४ ।।
।। मुनय ऊचुः ।। ।।
नमो देव्यै महाकाल्यै देवक्यै च नमोनमः ।।
महालक्ष्म्यै विष्णुमात्रे राधा देव्यै नमोनमः ।। ५५ ।।
रेवत्यै पुष्पवत्यै च स्वर्णवत्यै नमोनमः ।।
कामाक्षायै च मायायै नमो मात्रे नमोनमः ।। ५६ ।।
महावातप्रभावेन महा मेघरवेण च ।।
जलधाराभिरुग्राभिर्भयं जातं हि दारुणम् ।।५७।।
तस्माद्भयाद्भैरवि त्वमस्मान्संरक्ष किंकरान् ।।
तदा प्रसन्ना सा देवी जलं शांत तया कृतम् ।। ५८ ।।
अब्दांतरे मही सर्वा स्थली भूत्वा प्रदृश्यते ।।
आराच्च शिषिणा नाम हिमाद्रेस्तटभूमयः ।। ५९ ।।
न्यूहस्तत्र स्थितो नावमारुह्य स्वकुलैस्सह ।।
जलांते भूमिमागत्य तत्र वासं करोति सः ।। 3.1.4.६० ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये द्वापरनृपोपाख्यानं नाम चतुर्थोऽध्यायः ।। ४ ।।